भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 99

99.1

विद्याराजसमाधयः ॥
क्रोधो ऽग्रयः सत्वविनये सौम्यत्वं मारणं ध्रुवम् ।
दण्डात् समो न निर्घातो मिथ्यादृष्टिर्भयंकरः ॥ इति ॥
वज्रक्रोधसमाधयः ॥
मदात्तुल्यो न धैर्यास्ति मालातुल्यन्न बन्धनम् ।
स्त्रियो हि रागो जगद्वशंकरः धैर्यमात्रा पराजिता ॥ इति ॥
गणसमाधयः ॥
प्रहारो निग्रहाग्रयो हि स्पर्शानां तु समीरणः ।
तेजसां हुतभुग् ज्येष्ठः भोजनानां तु लोहितम् ॥ इति ॥
दूतसमाधयः ॥
दंष्ट्रा शुद्धः प्रविष्टस्तु मृत्युः सर्व पदे स्थितः ।
भयात्तुल्यो न विघ्नास्ति जलात्तुल्यो न वै रस ॥ इति ॥
चेटसमाधयः ॥
सर्वतथागतवज्रसमयान् महाकल्पराजात् सर्ववज्रकुलधर्मसमयमण्डलविधिविस्तरः समाप्तः ॥
छप्तेर् 14 सर्व-वज्र-कुल-कर्म-मन्दल-विधि-विस्तर
अथ भगवान् पुनरपि सर्वतथागतकर्मसमयोद्भववज्राधिष्ठानन्नाम समाधिं समापद्येमां स्ववि[द्योत्तमामभाषत् । ओं वज्र] कर्मप्रवर्तनि समये हूं ॥
अथ वज्रपाणिः पुनरपि स्वकर्मोत्तममभाषत् [ओं वज्रविलासे पूजय हूं ॥]
अथ वजगर्भः स्वकर्मोत्तममभाषत् ओं वज्राभिषेके ऽभिषिञ्चे हूं ॥
अथ वज्रनेत्रः स्वकर्मोत्तममभाष[त् ओं वज्रगीते गाहि हूं ॥]
अथ वज्रविश्वो बोधिसत्वः स्वकर्मविद्योत्तममभाषत् ओं वज्रनृत्ये नृत्य हूं ॥
अथ वज्रविद्योत्तम [इमां स्वकर्मसमयामभाषत्] ओं वज्रविद्योत्तम नृत्य नृत्य विकुर्व विकुर्व हुं फट् ॥
अथ वज्रक्रोधवज्राग्नि महादेवीमां स्वकर्मसम[यामभाषत् ओं वज्रक्रोध] वज्राग्ने ज्वालय त्रिशूलं भिन्द हृदयं वज्रेण हूं फट् ॥
अथ वज्रहेमा महादेवीमां स्वकर्मसंमयामभाषत् [ओं वज्रहेमे च्छिन्द चक्रेण] वज्रिणि हूं फट् ॥
अथ वज्रकौमारीमां स्वकर्मसमयामभाषत् ओं वज्रकौमारी शीघ्रमावेशय घण्[टाशब्देन] वज्रपाणिप्रिये वज्रसमयमनुस्मर रण रण हूं फट् ॥
अथ वज्रशान्तिर्महादेवीमां स्वकर्मसमयामभाषत् ओं वज्रशा[न्त जप ज]पाक्षमालया सर्वान् मारय शान्त दृष्ट्या हूं फट् ।
अथ वज्रमुष्टिर्महादेवीमां स्वकर्मसमयामभाषत् ओं वज्रमुष्टि [हन हन] वज्रेण भिन्द भिन्द पीडय पीडय सर्वदुष्टहृदयानि ओं सुंभ निसुंभ हूं फट् ॥
विद्याराजनिकाः ॥
अथ [वज्रामृतक्रोधा इमां स्वकर्मसमयामभाषत् ओं वज्रामृते सर्वदुष्टान् गृह्ण बन्ध हन पच विध्वंसय विनाशय भिन्द च्छिन्द भस्मीकुरु मूर्धन्तानुय [वज्रेण ये केतुमममुकस्य] विध्नविनायकास्तान् दामय दीप्तक्रोधवज्रिणि हूं फट् ॥
अथ वज्रकान्तिः स्वकर्मसमयामभाषत् ओं वज्रकान्ति मा[रय सौम्यरूपे प्र]दीप्तरागेण शीघ्रं स्फोटय हृदयं वज्रधरसत्येन महाज्योत्स्नाकराले शीतरश्मिवज्रिणि हूं फट् ॥
अथ वज्रदण्डाग्रा स्वकर्मस[मयामभाषत्] ओं वज्रदण्डाग्रे घातय हुं फट् ॥
अथ वज्रमेखला महाक्रोधा इमां स्वकर्मसमयामभाषत् ओं वज्रमेखले ख[न खन शब्देन वशीकु]रु दुष्ट्या मारय भीषणि हूं फट् ॥
क्रोधविद्याः ॥
अथवज्रविलया स्वकर्मसमयामभाषत् ओं वज्रवि[लये च्छिन्द सिन भिन्द व]ज्रिणी मादयोन्मादय पिव पिव हूं फट् ॥
अथ वज्राशना स्वकर्मसमयामभाषत् ओं वज्राशने भ[क्षय सर्वदुष्टान् वज्रदशनि शक्तिधारि]णि मानुषमांसाहारे नररुचिराशुभप्रिये मज्जवसानुलेपनविलिप्तगात्रे आनय सर्वधनधान्यहिरण्यसुव[र्णादीनि संक्रामय बलदेवरक्षि]णि हूं फट् ॥
अथ वज्रवसना स्वकर्मसमयमभाषत् ओं वज्रवसने आनय सर्ववस्त्रान्नपानाद्यु प[करणानि शीघ्रं वशीकुरु एनं] मे प्रयच्छाविशाविश सत्यं कथय वज्रकोशधारिणि हूं फट् ।
अथ वज्रवशी स्वकर्मसमयामभाषत् ओं [वज्रवशी आनय वशीकुरु सर्वस्त्रिय] सर्वपुरुषान् दासीकुरु ऋद्धान् प्रसादय व्यवहारेभ्यो ऽप्युत्तारय विजयकरि वज्रपताकाधारिणि हुं [फट् ॥
वज्रगणिकाः ॥
अथ वज्र] दूतीमां स्वकर्मसमयामभाषत् ओं वज्रदूति आनय सर्वान् मण्डलं प्रवेशयावेशय बन्धय सर्वकर्मा[णि मे कुरु शीघ्रं शीघ्रं लघु लघु] त्रासय मारय रावेण वज्रखङ्गधारिणि हुं फट् ॥
अथ वेगवज्रिणि स्वकर्मसमयामभाषत् ओं वेगवज्रिणी घु घु] घु घु शब्देन मारय विकिर विध्वंसय वज्रपटधारिणि हुं फट् ॥
अथ वज्रज्वाला स्वकर्मसमयामभाषत् ओं वज्रज्वालय स]र्वं वज्र ज्वालय दह दह भस्मीकुरु हुं फट् ॥
अथ वज्रविकटा स्वकर्मसमयामभाषत् ओं वज्रविकटे प्रविकट[दंष्ट्राकरालभीषण]वक्ते शीघ्रं गृह्णावेशय भक्षय रुधिरं पिव महायक्षिणि वज्रपाशधारिणि हुं फट् ॥
वज्रदूत्य ॥
अथ वज्रमु[खी वज्रचेटी स्व]कर्मसमयामभाषात् ओं वज्रमुखि आनय वज्रदंष्ट्रि भयानिके पातालनिवासिनि खन खन खाहि खाहि सर्व मुखे [प्रवेशय स्फोट]य मर्माणि सर्वदुष्टानां वज्रनिशितासिधारिणि हुं फट् ॥
अथ वज्रकाली स्वकर्मसमयामभाषत् ओं वज्रकालि [महाप्रेत]रूपिणि मानुषमांसरुधिरप्रिये एह्येहि गृह्ण गृह्ण भक्षय वज्रडाकिनि वज्रशङ्कले सर्वदेवगणमातृभूते हर हर [प्राणानमुकस्य] कपालमालालंङ्कृतसर्वकाये किं चिरायसि वज्रखट्वाङ्गधारिणि प्रेतमानुषशरीरे शीघ्रमावेशय प्रवेशय बन्ध[य वशीकुरु मारय वज्रराक्षसि हूं हूं हूं हूं फट् ॥]
अथ वज्रपूतना स्वकर्मसमयामभाषत् अथ वज्रपूतने मानुषमांसवसारुधिरमूत्रपुरीषश्लेष्मसिंघाणकरे[तो गर्भकरिण्य याहि] शीघ्रमिदमस्य कुरु वज्रशोधनिकाधारिणि सर्वकर्माणि मे कुरु हुं फट् ॥
अथ वज्रमकरीमां स्वकर्मसमयामभाषत् [ओं वज्रमकरि ग्र]स ग्रस शीघ्रं शीघ्रं प्रवेशय पातालं भक्षय वज्रमकरधारिणि हुं फट् ॥
वज्रचेट्यः ॥
देलिनेअतिओन् ओf थे मन्दल
अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलकर्ममण्डल[मभाषत् ॥
अ]थातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमम् ।
वज्रमण्डलयोगेन सूत्रयेत् सर्वमण्डलम्

99.2

मण्डलाग्राणि सर्वाणि बुद्धमध्यस्थितानि [वै ।
अनुपूर्वेण प]ङ्क् त्या वै महासत्वान्निवेशयेत्

99.3

तस्य मध्ये सपत्नीकं वज्रविद्योत्तमं स्वयम् ।
वज्रलास्यदिभिर्गुह्यनृत्यपूजाभिरर्चयेत्

99.4

[तत्र देवी यथाक्रमं] चक्रमण्डलयोगतः ।
स्वमुद्राप्रतिमुद्राभिर्नृत्यमानास्तु संलिखेत्

99.5

पूजार्थ बुद्धवज्रिभ्यां वज्रनृत्यप्रयोगतः ।
[चतुरश्रद्वारेषु वै यथाक्रमं धू]पादिकम् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc