सर्वतथागततत्त्वसंग्रह · अध्याय 11
इति ॥
सर्वतथागताभिसंबोधिमुद्रा ॥
अथ वज्रसत्त्वसाधनमहामुद्राबन्धो भवति ।
सगर्वं वज्रमुल्लास्य वज्रगर्वां समुद्वहन् ।
कायवाक्चित्तवज्रैस्तु वज्रसत्त्वः स्वयं भवेत
अन्या सर्वगामी सर्वकामपतिः सुखी ।
ऋद्ध्यायुर्बलरूपाग्र्यो वज्रसत्त्वसमो भवेद् ॥ इति
कायवाक्चित्तवज्रैस्तु यथा लेख्यानुसारतः ।
चिन्हमुद्रान् समोपेतान्महासत्वांस्तु साधयेत्
अथात्र सर्वकल्पानां साधनं सिद्धिरेव च ।
सिद्धानां च महत्कर्म प्रवक्ष्याम्यनुपूर्वशः
प्रत्यहं प्राग्यथाकालं स्वाधिष्ठानादिकन्तथा ।
कृत्वा तु साधयेत्सर्वं ततः पश्चाद् यथासुखम्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0