भाषा

ENहिગુ
ग्रंथ पाठ

शार्दूलकर्णावदान · भाग 6169

उ13.31च्द्।.निःसुखा च निराशा च वर्जिता नष्ट^बान्धवा॥
उ13.32अब्।.अतिस्थूल^उदरं यस्याः प्रलम्बो निम्र^सन्निभः।
उ13.32च्द्।.अत्यन्तम् अवशा नारी बहु^पुत्रा सुदुःखिता॥
उ13.33अब्।.या तु सर्व^समाचारा मृद्^वङ्गी समतां गता।
उ13.33च्द्।.सर्वैः समैर् गुणैर् युक्ता विज्ञेया काम^चारिणी॥
उ13.34अब्।.यस्या रोम^चिते जङ्घे मुखं च परिमण्डलं।
उ13.34च्द्।.पुत्रं वा भ्रातरं वा^अपि जारम् इच्छति तादृशी॥
उ13.35अब्।.यस्या बाहु^प्रकोष्ठौ द्वौ रोम^राजी^समावृतौ।
उ13.35च्द्।.उत्तरोष्ठे च रोमाणि सा तु भक्षयते पतिं॥
उ13.36अब्।.यस्य हस्तौ च पादाउ च छिद्रौ दन्त^अन्तराणि च।
उ13.36च्द्।.पतिना^उपार्जितं द्रव्यं न तस्या रमते गृहे॥
उ13.37अब्।.तस्यास् तु व्रजमानायाः स्फुटन्ते पर्व^सन्धयः।
उ13.37च्द्।.सा ज्ञेया दुःख^बहुला सुखं नैव^अधिगच्छति॥
उ13.38अब्।.यस्याः कनिष्ठिका पादे भूमिं न स्पृशते +अङ्गुलिः।
उ13.38च्द्।.कौमारं सा पतिं स्यक्त्वा आत्मनः कुरुते प्रियं॥
उ13.39अब्।.अनामाङ्गुलिः पादस्य महीं न स्पृशते +अङ्गुलिः।
उ13.39च्द्।.न सा रमति कौमारं बन्धकीत्वेन जीवति॥
उ13.40अब्।.यस्याः प्रदेशिनी पादे +अङ्गुल्ष्ठं समतिक्रमेत्।
उ13.40च्द्।.कुमारी कुरुते जारं यौवनस्था विशेषतः॥
उ13.41अब्।.आवर्तः पृष्ठतो यस्या नाभी सा च^अनुबन्धति।(प्.191)
उ13.41च्द्।.न सा रमति कौमारं द्वितीयं लभते पतिं॥
उ13.42अब्।.विकृता स्थिरजाला च रूक्ष^गण्ड^शिरोरुहा।
उ13.42च्द्।.अपि राज^कुले जाता दासीत्वम् अधिगच्छति॥
उ13.43अब्।.यस्यास् तु हसमानाया गण्डे जायति कूपकं।
उ13.43च्द्।.अग्निकार्ये +अपि सा गत्वा क्षिप्रं दोषं करिष्यति॥
उ13.44अब्।.सम^असम^गता सुभ्रूर् गण्ड^आवर्ता च य भवेत्।
उ13.44च्द्।.प्रलम्भोष्ठी तु या नारी नैकत्र रमते चिरं॥
उ13.45अब्।.लम्ब^उदरी स्थूलशिरा रक्त^अक्षी पिङ्गल^आनना।
उ13.45च्द्।.अष्टौ भक्षयते वीरान् नवमे तिष्ठते चिरं॥
उ13.46अब्।.न देविका न नदिका न च दैवत^नामिका।
उ13.46च्द्।.वृक्ष^गुल्म^सनामा च वर्जयीया विचक्षणैः॥
उ13.47अब्।.नक्षत्र^नामा या नारी या च गोत्र^सनामिका।
उ13.47च्द्।.सुगुप्ता रक्षिता वा^अपि मनसा पापाम् आचरेत्॥
उ13.48अब्।.दारान् विवर्जयेद् एतान् या मया परिकीर्तिताः।
उ13.48च्द्।.प्रशस्ता यास् तु पूर्वोक्तास् तादृशीयान् नरः सदा॥
उ13.49अब्।.पद्म^अङ्कुश^स्वस्तिक^वर्धमानैश् चक्र^ध्वजाभ्यां कलशेन पाणौ॥
उ13.49च्द्।.शङ्ख^आतपत्र^उत्तम^लक्षणैश् च सम्पत्तये साधु भवन्ति कन्याः॥
उ13.50।.अयं भोः पुष्करसारिन् कन्या^लक्षणं नाम^अध्यायः।
उ13.51।.अथ खलु भोः पुष्करसारिन् वस्त्र^अध्यायं व्याखास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः॥
उ14 वस्त्र^अध्यायः (प्.192)

उ14.1अब्।.कृत्तिकासु दहत्य् अग्निर् अर्थ^लाभाय रोहिणी।
उ14.1च्द्।.मृगशिरा मूषीदंशा आर्द्रा प्राण^विनाशिनी॥
उ14.2अब्।.पुनर्वसुश् च धन्या स्यात् पुष्ये वै वस्त्रवान् भवेत्।
उ14.2च्द्।.अश्लेषासु भवेन् मोषः श्मशानं मघया व्रजेत्॥
उ14.3अब्।.फाल्गुनीसु भवेद् विद्या उत्तरासु च वस्त्रवान्।
उ14.3च्द्।.हस्तासु हस्त^कर्माणि चित्रायां गमनं ध्रुवं॥
उ14.4अब्।.स्वात्यां च शोभनं वस्त्रं विशाखा प्रिय^दर्शनं।
उ14.4च्द्।.बहु^वस्त्रा च^अनुराधा ज्येष्ठा वस्त्र^विनाश्नी॥
उ14.5अब्।.मूलेन क्लेदयेद् वास आषाढा रोग^सम्भवा।
उ14.5च्द्।.उत्तरा मृष्ट^भोजी स्याच् छ्रवणे चक्षुषो रुजं॥
उ14.6अब्।.धनिष्ठा धान्य^बहुला विद्याच् छतभिषे भयं।
उ14.6च्द्।.पूर्वभाद्रपदे तोयं पुत्र^लाभाय च^उत्तरा॥
उ14.7अब्।.रेवती धन^लाभाय अश्विनी वस्त्र^लाभदा।
उ14.7च्द्।.भरणी च भय^आकीर्णा चौर^गम्या च सा भवेत्॥
उ14.8।.अयं भोः पुष्करसारिन् वस्त्र^अध्यायः।
उ14.8।.अथ खलु भोः पुष्करसारिन् लुङ्गाध्यायं प्रवक्ष्यामि। तच् छ्रूयतां। अथ किं।कथयतु भगवान् त्रिशङ्कुः॥
उ15 लुङ्गाध्यायः (प्.193)
उ15.1अब्।.कुत्र^उत्पन्ना इमे बीजाः (?) शस्यानां च यवादयः।
उ15.1च्द्।.यैर् इदं ध्रियते विश्वं कृत्स्नं स्थावर^जङ्गमं॥
उ15.2अब्।.वापयेत् तु कथं बीजं लाङ्गलं योजयेत् कथं।
उ15.2च्द्।.केषु नक्षत्र^योगेषु तिथि^योगेषु केषु च॥
उ15.3अब्।.शारदं वा^अथ ग्रैष्मं तु कस्मिन् मासे तु वापयेत्।
उ15.3च्द्।.निमित्तं कति शस्यन्ते कानि वा परिवर्जयेत्।
उ15.3एf।.कस्य वा दापयेद् धूपं केन मन्त्रेण दापयेत्॥
उ15.4अब्।.प्रदक्षिण^समावृत्ता यदि लुङ्गा प्रजायते।
उ15.4च्द्।.तदा नाग^मुखी लुङ्गा दहति चित्र^मुख्य् अपि॥
उ15.5अब्।.दर्भ^सूची^मुखी वा^अपि कारणं तत्र को भवेत्।
उ15.5च्द्।.कति सौभिक्षिका लुङ्गः कति दौर्भिक्षिकाः स्मृताः।
उ15.5एf।.कति वर्णाः समाख्याताः कति वर्णा निदर्शिताः॥
उ15.6अब्।.नष्ट^अपनष्ट^बीजस्य वर्षति यदि वासवः।
उ15.6च्द्।.निर्घातो वा भवेत् तीव्रो +अथवा^अपि मेदिनी चलेत्॥
उ15.7अब्।.शस्यं फलस्य किं तत्र निमित्तम् उपलक्षयेत्।
उ15.7च्द्।.सर्वम् एतत् समासेन श्रोतुम् इच्छामि तत्त्वतः॥
उ15.8अब्।.पुष्करसारिणो ब्राह्मणस्य वचनं श्रूत्वा त्रिशङ्कु^मातङ्ग^अधिपतिर् इदं वचनम् अब्रवीत्।
उ15.9अब्।.पुरा देव^असुरर् नागैर् यक्ष^राक्षस^किन्नरैः।
उ15.9च्द्।.सागराद् अमृतं दृष्टं मन्थिते तु समुद्भवं॥
उ15.10अब्।.अमृते भक्ष्यमाणे तु भागं प्रार्थितवान् द्विजः।(प्.194)
उ15.10च्द्।.ततो दत्ताः सुरैर् भागा अमृताद् दशविन्दवः॥
उ15.11अब्।.तत उत्पन्ना इमे बीजा भुवि लोक^सुख^आवहाः।
उ15.11च्द्।.यव^ब्रीहि^तिलाश् च^एव गोधूमा मुद्ग^माषकाः॥

उ15.12अब्।.श्यामकं सप्तमं विद्याद् इक्षुश् च^अष्टमकः स्मृतः।
उ15.12च्द्।.शेषास् तु सङ्गता जाता बहवः शस्य^जातयः॥
उ15.13अब्।.हरितकेषु सर्वेषु ये च^अन्ये सत्त्व^जातयः।
उ15.13च्द्।.परितो नवमो विन्दुः सर्व^देहे +अमृतो +अभवत्।
उ15.13एf।.मूलेषु च^एव सर्वेषु विन्दुर् एकः प्रपातितः॥
उ15.14अब्।.आषाढे शुक्ल^पक्षे +अस्य व्रीहि^धान्यानि वापयेत्।
उ15.14च्द्।.शारद^आदीनि सर्वाणि मासे भाद्रपदे तथा॥
उ15.15अब्।.कार्त्तिके मार्गशीर्षे वा ग्रीआम धान्यानि वापयेत्।
उ15.15च्द्।.पञ्चभ्यां शुक्ल^सप्तम्यां षष्ठ्याम् एकादशीषु च॥
उ15.16अब्।.त्रयोदश्यां द्वितीयायां तथा हि नवमीषु च।
उ15.16च्द्।.विशेषतस् तु निम्नेषु सर्व^बीजानि ह्य् उत्सृजेत्॥
उ15.17अब्।.भरणी पुष्य^मूलेषु हस्त^अशिवनी^मघासु च।
उ15.17च्द्।.कृत्तिकासु विशाखासु विशेषेण तु शारदं॥
उ15.18अब्।.सौम्ये मैत्रे +अनुराधे च धनिष्ठा^श्रवणासु च।
उ15.18च्द्।.उत्सर्गः सर्व^बीजानाम् उत्तरेषु प्रशस्यते।
उ15.18एf।.वर्जयेज् जन्म^नक्षत्रं संग्रहं च विवर्हयेत्॥
उ15.19अब्।.ग्राम^क्षेत्रे च यद् बीजं गृहे च गृह^देवता।
उ15.19च्द्।.निमित्तम् उपलक्षेत मङ्गलानि शुभानि च॥
उ15.20अब्।.ब्राह्मणं क्षत्रियं कन्याम् अर्चिष्मन्तं च पावकं।(प्.195)
उ15.20च्द्।.वारण^इन्द्रं वृषं च^एव हयं वा स्वभ्यलंकृतं॥
उ15.21अब्।.पूर्ण^कुम्भं ध्वजं छत्रम् आमामांसं सुरां तथा।
उ15.21च्द्।.उद्धृतां धारणीं च^एव बद्धम् एक^पशुं दधि॥
उ15.22अब्।.चक्र^आरूढं च शकटं काक^आरूढां च सूकरीं।
उ15.22च्द्।.परस्य^आरोपणं दृष्ट्वा सस्य^सम्पत्तिम् आदिशेत्॥
उ15.23अब्।.सर्वे दक्षिणतो धन्याः पुरश् च मृग^पक्षिणः।
उ15.23च्द्।.दशनं शुख^पुष्पाणां फलानं च^एव शस्यते॥
उ15.24अब्।.अजो वा वामतः शस्यो जम्बुकश् च प्रशस्यते।
उ15.24च्द्।.विकृतं कुब्ज^कुष्ठिं च मुखं श्मश्रुधरं तथा॥
उ15.25अब्।.नरं निर्भर्त्सितं दीनं शोकार्तं व्याधि^पीडितं।
उ15.25च्द्।.वराह^वृन्दं सर्पं च गर्दभं भार^हीनकं।
उ15.25एf।.दृष्ट्वा निवर्तयेद् बीजं पुनर् ग्रामं प्रवेशयेत्॥
उ15.26अब्।.तिलस्य बहु(?) पूर्णस्य भाण्डे स्याद् वपनम् तथा।
उ15.26च्द्।.श्रूत्वा ह्य् एतानि व्रजतां सस्य^सम्पत्तिम् आदिशेत्॥
उ15.27अब्।.राशिस्थं ग्रथितं धौतं स्वस्थमं कुरितं तथा।
उ15.27च्द्।.श्रूत्वा संमार्जितं च^एव इत्य् आशुकृतिनं विदुः॥
उ15.28अब्।.श्रूत्वा म्लानं च शुष्कं च मन्द^वृष्टिं च निर्दिशेत्।
उ15.28च्द्।.श्रूत्वा निवर्तयेद् बीजं पुनर् ग्रामं प्रवेशयेत्॥
उ15.29अब्।.नीयमानं च यद् बीजं वर्षते यदि वासवः।
उ15.29च्द्।.स्वयम् एव तु तच् छस्यं कामं कालेन भुज्यते॥
उ15.30अब्।.नीयमानं च यद् बीजं कम्पते यदि मेदिनी।

उ15.30च्द्।.भ्रम्यते कर्षकः स्थानान् न तच् छक्यं तु वापितुं॥
उ15.31अब्।.नीयमानस्य बीजस्य निर्घातो दारुणो भवेत्।(प्.196)
उ15.31च्द्।.स्वामिनो मरणं क्षिप्रं शस्य^पालस्य निर्दिशेत्॥
उ15.32अब्।.अथ वा व्याकुलं कुर्याद् राज^दण्ड^निकृन्तति।
उ15.32च्द्।.दृष्ट्वा निवर्तयेद् बीजं पुनर् ग्रामं निवेशयेत्॥
उ15.33अब्।.ब्राह्मणेभ्यो यथा^शक्ति दत्वा तु संप्रयोजयेत्।
उ15.33च्द्।.कृत्वा सुविपुलां वेदीं दर्भान् आस्तीर्य सर्वतः।
उ15.34अब्।.समिद्भिर् अग्निं प्रज्वाल्य जुहुयाद् घृत^सर्षपं।
उ15.34च्द्।.वेद^शान्तिं जपेत् पूर्वं शस्याशान्तिम् अतः प्रं।
उ15.35अब्।.जयेत् पाराशरं पूर्वं प्रियतं वाचयेद् द्विजैः।
उ15.35च्द्।.प्रथमं प्राङ्मुखं बीजं प्रक्षिपेद् उत्तरे +अथ वा॥
उ15.36अब्।.पिपीलिका यदा क्षेत्रे बीजं कुर्वन्ति सङ्चयं।
उ15.36च्द्।.सुवृष्टिं च सुभिक्षं च सर्व^सस्येषु सम्पदा।
उ15.37अब्।.हरन्ति चेत् तृणाद् बीजं तृणे शस्य^अपहा अपि।
उ15.37च्द्।.प्रस्परं च हिंसन्ति धान्यं च निधनं व्रजेत्॥
उ15.38अब्।.स्थलेषु सञ्चयं दृष्ट्वा महा^वृष्टिं विनिर्दिशेत्।
उ15.38च्द्।.दृष्ट्वा तु सञ्चयं निम्ने +अनावृष्टिं च निर्दिशेत्॥
उ15.39अब्।.यदा तु प्रोषितं बीजं सप्त^रात्रेण जायते।
उ15.39च्द्।.सुवृष्टिं च सुभिक्षं च सर्व^शस्येषु सम्पदा॥
उ15.40अब्।.यदा तु प्रोषितं बीजम् अर्ध^मासेन जायते।
उ15.40च्द्।.अल्पं निष्पद्यते शस्यं दुर्भिक्षं च^अत्र जायते॥
उ15.41अब्।.त्रि^रात्राच् चतूरात्राद् वा यदि लुङ्गः प्रजायते।
उ15.41च्द्।.अतिवृष्टिर् भवेत् तत्र पर^चक्र^भयं विदुः॥
उ15.42अब्।.लुङ्गस्य तु ये पादाः पञ्च सप्त नवा तथा।
उ15.42च्द्।.सुवृष्टिं च सुभिक्षं च सर्व^सस्येषु सम्पदा॥
उ15.43अब्।.स्याल् लुङ्गस्य तु ये पादाश् चत्वारोष्टपदा^अथ वा।(प्.197)
उ15.43च्द्।.अल्पं निष्पद्यते शस्यं दुर्भिक्षं च^अत्र निर्दिशेत्॥
उ15.44अब्।.लुङ्गस्य यदि पादास् तु दृश्यन्ते द्वादश क्वचित्।
उ15.44च्द्।.क्वचिन् निष्पद्यते शस्यं द्रुभिक्षं क्वचिद् आदिशेत्।
उ15.44एf।.वाम^आवर्ताः प्रदृश्यन्ते दुर्भिक्षं तत्र निर्दिशेत्॥
उ15.45अब्।.यदा पूर्व^मूखी लुङ्गा क्षेमं वृष्टिं च निर्दिशेत्।
उ15.45च्द्।.यदा पश्चान् मुखी लुङ्गा अतिवृष्टिं च निर्देशेत्॥
उ15.46अब्।.क्षेमं सुभिक्षं चैव^अत्र यदा लुङ्ग^उत्तरामुखी
उ15.46च्द्।.हरिताल^सुवर्ण^आभा भद्र^शोचिर् इव^उत्थिता॥
उ15.47अब्।.दर्भ^सूची^मुखी च^अपि दृश्यते यत्र कुत्रचित्।
उ15.47च्द्।.क्वचिन् निष्पद्यते शस्यं दुर्भिक्षं तत्र निर्दिशेत्॥
उ15.48अब्।.यदा नाग^मुखी लुङ्गा दृश्यते यत्र वा कव्चित्।
उ15.48च्द्।.क्वचिन् निश्यद्यते शस्यं दुर्भिक्षं च^अत्र निर्दिशेत्।
उ15.48एf।.तत्र^अशनि^भयं च^अपि भयं मेघान् न संशयः॥
उ15.49अब्।.कृषि^मूलम् इदं सर्वं त्रैलोक्यं सचराचरं।

उ15.49च्द्।.न^अस्ति कृषि^समावृत्तिः स्वयम् उक्तं स्वयम्भुवा॥
उ15.50अब्।.नाकृषेर् धर्मम् आप्नोति नाकृषेः सुखम् आप्नुयात्।
उ15.50च्द्।.धर्मम् अर्थं तथा कामं सर्वं प्राप्नोति कर्षकः॥
उ15.51अब्।.इति लुङ्गाध्यायः॥
उ15.52अब्।.पुनर् अपि पुष्करसारी ब्राह्मणस् त्रिशङ्कुं मातङ्ग^अधिपतिम् एतद् अवोचत्।
उ15.53अब्।.कथं पृथिव्यां नागाश् च केन वा विनिवारिताः।(प्.198)
उ15.53च्द्।.कुतो मूल^समुत्थानं निर्घातः कुत्र जायते॥
उ15.54अब्।.कुतश् च^अभ्राणि जायन्ते नाना^वर्णा दिशो दश।
उ15.54च्द्।.कस्य^एष महतः शब्दः श्रूयते दुन्दुभिस् वरः॥
उ15.55अब्।.को हि सृजति दुर्भिक्षं सुभिक्षं च^एव प्राणिनां।
उ15.55च्द्।.कस् तत्र स मुनि^श्रेष्ठो नाम गोत्रं ब्रवीहि मे॥
उ15.56अब्।.दैवतानि च मे ब्रूहि विधानानि स्वयम्भुवः।
उ15.56च्द्।.यज्ञं च यज्ञ^भागं च होतव्यश् च यथा बलिः॥
उ15.57अब्।.पृथिव्यां दैवतं ब्रूहि आश्रमे दैवतं ब्रूहि।
उ15.57च्द्।.देवे तु दैवतं ब्रूहि केन देवो सा कल्पिता॥
उ15.58अब्।.पात्रस्य दैवतं ब्रूहि पूर्ण^कुम्भस्य दैवतं।
उ15.58च्द्।.करके दैवतं ब्रूहि तथा स्थाल्यां च दैवतं॥
उ15.59अब्।.शस्यस्य दैवतं ब्रूहि शस्य^पालस्य दैवतं।
उ15.59च्द्।.वायु^स्कन्धैश् च कतिभिः शुक्रो वेगं प्रमुञ्चति॥
उ15.60अब्।.अथ त्रिशङ्कुर् मातङ्ग^अधिपतिर् ब्राह्मणं पुष्करसारिणम् एतद् अवोचत्।
उ15.61अब्।.पृथिवी वा वायुर् आकाशम् अपो ज्योतिश् च पञ्चमं।
उ15.61च्द्।.तत्र संवर्तते पिण्डं ततो मेघः प्रवर्तते॥
उ15.62अब्।.एष व्याप्नोति च^आकाशं वायुना जन्यते घनः।
उ15.62च्द्।.आदित्य^रश्मयो वारि समुद्रस्य नभस्^तले॥
उ15.63अब्।.तज्जलं नाग^संक्षिप्तं ततो वरुण^संक्षयः।
उ15.63च्द्।.वायुर् नभो गर्जयते अग्निर् विद्योतते दिशः॥
उ15.64अब्।.मरुता क्षिप्यते पिण्डं सन्निपातश् च गर्जते।(प्.199)
उ15.64च्द्।.विरोधनं तु वायोश् च अग्नश् च अनिलस्य च॥
उ15.65अब्।.आकाशे वर्तते पिण्डं पश्चात् पतति मेदिनीं।
उ15.65च्द्।.यद् ग्रहाणाम् अधिपतिर् नक्षत्र^ज्योतिषाम् अपि।
उ15.65एf।.ततो मारुत^संसर्गात् पर्जन्यम् अपि वर्षति॥
उ15.66अब्।.वर्षते शैल^शिखरे यत्र संप्रस्थितो जनः।
उ15.66च्द्।.यत्र सत्यं च धर्मश् च हविर्मेघश् च वर्तते॥
उ15.67अब्।.तत्र बीजानि रोहन्ति अन्न^पानं समृध्यति।
उ15.67च्द्।.एवं पिण्डाशनिराद्या ततो वाताशनी स्मृता।
उ15.67एf।.दन्ताशनी तृतीया तु अशनिस् तु चतुर्थिका॥
उ15.68अब्।.पञ्चमी क्रिमयः प्रोक्ताः षष्ठी तु शलभास् तथा।
उ15.68च्द्।.सप्तमी स्याद् अनावृष्टिर् अतिवृष्ठिस् तथाष्टमी॥
उ15.69।.नवमी सम्बरः प्रोक्ता इत्य् आह भगवाम्स् त्रिशङ्कुः।
उ15.70अब्।.एतास्त्व् अशन्यो व्याख्यातास् तासां वै देवताः शृणु।

उ15.70च्द्।.पिण्डाशनी ब्रह्मसृष्टा एषा ज्येष्ठाद्यदेवता॥
उ15.71अब्।.दन्ताशनी तु सैन्यानां ग्रहा वाताशनी स्मृता।
उ15.71च्द्।.अदेश ................... देवताः॥
उ15.72अब्।.शलभाः केतुदैवत्या आदित्या दितिदेवताः।
उ15.72च्द्।.संसकाम् अतिवर्षस्य अनावृष्टेस् तु ज्योति[षः}।
उ15.73अब्।.[सम्ब]रस्य तु पर्जन्यम् आख्याताः नव देवताः।
उ15.73च्द्।.अशन्या देवताः प्रोक्ता आकाश^गमन^अर्थं बोधत॥
उ15.74अब्।.पूर्वम् अधीन्द्र^दैवत्यं दक्षिणो यम^दैवतं।
उ15.74च्द्।.वरुणं पश्चिमे विद्याद् उत्तरे धनदः स्मृतः।(प्.200)
उ15.74एf।..... त्या दैवतं विzणुर् आश्रमं विश्व^दैवतं॥
उ15.75अब्।.समिहा^दैवता देवास् तेभ्यो देवी प्रकल्पिता।
उ15.75च्द्।.समिधा^दैवता ..........तो ऽग्नि^हुताशनं॥
उ15.76अब्।.वेद्यां तु दैवतं ......... कारादित्य^दैवतं।
उ15.76च्द्।.पात्रस्य देवता धर्मः पूर्ण^कुम्भे जनार्दनः॥
उ15.77अब्।.चरुं चेति ...........धूप^स्थानस्य ज्योतिषः।
उ15.77च्द्।.शस्य ....... शस्य^पालो महा^मतिः।
उ15.77एf।.वायु^स्कन्धैश् चतुर्भिस् तु शुक्रो वेगं प्रमुञ्चति॥
उ15.78अब्।.अत्र मध्ये पृथिव्याय आश्रमो विश्व^दैवतः।
उ15.78च्द्।.तस्मिन् देशे ...... यस्मिन् प्रीतो वृष^ध्वजः॥
उ15.79अब्।.अत्य् आह भगवांस् त्रिशङ्कुः। पुनर् अपि पुष्करसारी ब्राह्मणस् त्रिशङ्कुम् एवम् आह।
उ15.80अब्।.किम् अर्थम् आश्रमे नित्यं हूयते हव्य^वाहनः।
उ15.80च्द्।.तृण^काष्ठानि संहृत्य मेघं दृष्ट्वा समुत्थितं॥
उ15.81अब्।.अति .......... न्यते अग्निं सुदारुणं।
उ15.81च्द्।.सर्व^लोक^हित^अर्थाय ध्यात्वा दिव्येन चक्षुषा।
उ15.81एf।.प्रशमेच् च समासेन तद् भव^अर्थं तु ..... ॥
उ15.82।.एवम् उक्ते त्रिशङ्कुर् मातङ्ग^अधिपतिर् ब्राह्मणं पुष्करसारिणम् एतद् अवोचत्।
उ16 धूमिकाध्यायः (प्.201)
उ16.1अब्।.पुरा हि खाण्डव^द्वीपम् अर्जुनेन महा^आत्मना।
उ16.1च्द्।................ ज्वलितं जात^वेदसा॥
उ16.2अब्।................ प्रसन्न^मानान् निधि^गतं।
उ16.2च्द्।.तत्र दग्धा अनेका हि नागाः कोटी^सहस्रशः॥
उ16.3अब्।.पुरा महा^उरगगणा यक्ष^राक्षस^पन्नगाः।
उ16.3च्द्।.पाद^हीनाः कृताः केचिद् वाहु^हीनाः कृतापरे॥
उ16.4अब्।.वैकल्यं कर्ण^नासाभ्यां कृतं चैव^अक्षिपातनं।
उ16.4च्द्।.तदा^प्रभृति भूतानां दृष्टं वै त्रासितं मनः॥
उ16.5अब्।.अग्निना तापिताः केचिद् वाणैर् अन्ये च सूदिताः।
उ16.5च्द्।.वाचाटकेन^अपि पुरा काद्रवेयाः प्रपातिताः॥
उ16.6अब्।.आचषा हवि^गन्धेन मुह्यमाना नभोन्तरे।
उ16.6च्द्।.तद्विहीनाः पतन्त्य् अन्ये गुह्यका धरणी^तले॥
उ16.7अब्।.सहाम्पतिस् तु नाम्ना स शस्य^काले तदाश्रमे।

उ16.7च्द्।.शस्य^पालैस् तु सततम् होतव्यो हव्य^वाहनः॥
उ16.8अब्।.गृह^मेधी ज्वालयेद् अग्निं निर्मले +अपि नभोन्तरे।
उ16.8च्द्।.दिग्^भागेषु च भूतानां तेषाम् अर्थं दिने दिने॥
उ16.9अब्।.जाग्रतम् सततं वह्निम् आश्रमस्थो +अपि धारयेत्।
उ16.9च्द्।.मेघं दृष्ट्वा विशेषेण ज्वालितव्यो हुताशनः॥
उ16.10अब्।.सधूम्लं ज्वलितं दृष्ट्वा दीप्यमानं तु पावकं।
उ16.10च्द्।.भयम् आपतते तेषां नाग^सैन्यं विमुह्यते॥
उ16.11अब्।.अग्निं परिचरतो +अस्य शस्य^पालस्य च^आश्रमे।
उ16.11च्द्।.अग्निना हूयमानेन सिध्यते सर्व^कर्म च॥
उ16.12।.अयं भोः पुष्करसारिन् धूमिकाध्यायः।
उ16.13।.अथ खलु भोः पुष्करसारिन् तिथि^कर्म^निर्देशं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।
उ17 तिथि^कर्म^निर्देशः (प्.202)
उ17.1अब्।.नन्दां प्रतिपदाम् आहुः प्रशस्तां सर्व^क्रमसु।
उ17.1च्द्।.विज्ञानस्य समारम्भे प्रवासे च विगर्हिता॥
उ17.2अब्।.द्वितीया कथिता भद्रा शस्ता भूषण^कर्मसु।
उ17.2च्द्।.जया तृतीया व्याख्याता प्रशस्ता जय^कर्मसु॥
उ17.3अब्।.चतुर्थी कथिता रिक्ता ग्राम^सैन्य^वधे हिता।
उ17.3च्द्।.चौर्य^अभिचार^कूट^अग्निदाह^गोरस^साधने॥
उ17.4अब्।.पूर्णा तु पञ्चमी ज्ञेया चिकित्सा^गमन^अध्वसु।
उ17.4च्द्।.दान^अध्ययन^शिल्पेषु व्यायामे च प्रशस्यते॥
उ17.5अब्।.ज्येति संज्ञिता षष्ठी गर्हिता +अध्वसु शस्यते।
उ17.5च्द्।.गृहे क्षेत्रे विवाहे वा +अवाह^कर्मसु मित्र^इति॥
उ17.6अब्।.भद्रा च सप्तमी ख्याता श्रेष्ठा सा सौकृते +अध्वनि।
उ17.6च्द्।.नृपाणां शासने छत्रे शय्यानां करणेषु च॥
उ17.7अब्।.महा^बल^अष्टमी सा च प्रयोज्या परिरक्षणे।
उ17.7च्द्।.भय^मन्दर^बद्धेषु योगेषु हरणेषु च॥
उ17.8अब्।.अग्रसेना तु नवमी तस्यां कुर्याद् रिपु^क्षयं।
उ17.8च्द्।.तथा विषघ्न^अवस्कन्द^विद्या^बन्ध^वध^क्रियाः॥
उ17.9अब्।.सुधर्मा दशमी शस्ता शास्त्र^आरम्भे धनोद्यते।
उ17.9च्द्।.शान्ति^स्वस्त्ययन^आरम्भे दान^यज्ञ^उद्यतेषु च॥
उ17.10अब्।.एकादशी पुनर्मान्या स्त्रीषु च मांस^मद्ययोः।
उ17.10च्द्।.कारयेन् नगरं गुप्तं विवाहं शास्त्र^कर्म च॥
उ17.11अब्।.यशेति द्वादशीम्म् आहुर् वैरे +अध्वनि च गर्हिता।
उ17.11च्द्।.विवाहे च गिरौ क्षेत्रे गृह^क्रमसु पूजिता॥
उ17.12अब्।.जया त्रयोदशी साध्वी मण्डलेषु च योषितां।(प्.203)
उ17.12च्द्।.कन्या^वरण^वाणिज्य^विवाह^आदिषु च^इष्यते॥
उ17.13अब्।.उग्रा चतुर्दशी तु स्यात् कारयेद् अभिचारकं।
उ17.13च्द्।.वध^बन्ध^प्रयोगांश् च पूर्वं च प्रहरेद् अपि॥
उ17.14अब्।.सिद्धा पञ्चदशी साध्वी देवता^अग्नि^विधौ हिता।
उ17.14च्द्।.गो^संग्रह^वृष^उत्सर्ग^बलि^जप्य^व्रतेषु च॥

उ17.15अब्।.नन्द^आदीनां क्रिया पूर्वे षष्ठ्य्^आदीनां तु मध्यमे।
उ17.15च्द्।.सुनन्दायाश् च संध्याभिर् दिनरात्र्योः प्रसिध्यते॥
उ17.16।.अयं भोः पुष्करसारिन् तिथि^कर्म^निर्देशो नाम^अध्यायः।
उ17.17।.अपि च महा^ब्राह्मण इदं पूर्व^निवास^अनुस्मृति^ज्ञान^साक्षात् क्रियायां विद्यायां चित्तम् अभिनिर्णयामि निवर्तयामि। अनेक^विध^पूर्व^निवासं समनुस्मरमि।
उ17.18।.स्यात् ते ब्राह्मण काक्षा वा विमतिर् वा अन्यः स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरो +अभूत्। न ह्य् एवं द्रष्टव्यं। अहम् एव स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरो +अभूवं। सो +अहं ततश् च्युतः समान इन्द्रः कौशिको +अभूवं। ततश् च्युतः समानो +अरणेमिर् गौतमो +अभूवं। ततश् च्युतः समानः श्वेतकेतुर् नाम महर्षिर् अभूवं।
ततश् च्युतः समानः शुक^पण्डितो +अभूवं। मया ते तदा ब्राह्मण चत्वारो वेदा विभक्ताः।
उ17.19।.(प्.204)तद् यथा पुष्यो बहवृचानां पंक्तिश् छन्दोगानां। एक^विंशति^चरणा अध्वर्यवः। क्रतुर् अर्थ^वणिकानां। स्यात् तव ब्राह्मण काङ्क्षा वा विमतिर् वा अन्यः स तेन कालेन तेन समयेन वसुर् नाम महर्षिर् अभूत्। न ह्य् एवं द्रष्टव्यं। अहम् एव स तेन कालेन तेन समयेन वसुर् नाम महर्षिर् अभूवं। मया सा तक्षकवधूकायाः कपिला नाम माणिविका
दुहिता +असादिता भार्या^अर्थाय। सो +अहं तत्र संरक्त^चित्त ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः परिहीनः। सो +अहम् आत्मानं जुगुप्समानस् तस्यां वेलायाम् इमां गाथां बभाषे। ओं भुभुवः स्वः। तत्सवितुर् वरेण्यं भर्गा देवस्य धीमहि। धियो यो नः प्रचोदयात्।
उ17.20।.सो +अहं ब्राह्मण त्वां ब्रवीमि सामान्य^संज्ञा मात्रकम् इदं लोकस्य ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् एव^इदं सर्वं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् अनुप्रयच्छ भार्या^अर्थाय। यावतकं कुल^शुल्कं मन्यसे तावतकम् अनुप्रदास्यामि। इदं च वचनं पुनः श्रूत्वा त्रिशङ्कोर् मातङ्ग^राजस्य
ब्राह्मणः पुष्क्रसारी इदम् अवोचत्।
उ17.21अब्।.भगवान् श्रोत्रियः श्रेष्ठस् त्वत्तो भूयान् न विद्यते।
उ17.21च्द्।.स^देवकेषु लोकेषु महा^ब्रह्मासमो भवान्॥
उ17.22अब्।.पुत्राय ते भोः प्रकृतिं ददामि (प्.205) शीलेन रूपेण गुणैर् उपेतः।
उ17.22च्द्।.शार्दूलकर्णः प्रकृतिस् तु भद्रा उभौ रमेतां रुचितं मम^इदं।
उ17.23।.तत्र तानि पञ्च^मात्राणि माणवक^शतानि उच्चैः शब्दानि प्रोचुर् महा^शब्दानि। मा त्वं भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं सम्बन्धं रोचय। न^अर्हसि भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं सम्बन्धं कर्तुम्।
उ17.24।.अथ ब्राह्मणः पुष्करसारी तेषां निदानं निदाय शब्दं संस्थाप्य निपत्य श्लोकेन^एतान् अर्थान् अभाषत।
उ17.25अब्।.एवम् एतद् यथा ह्य् एष त्रिशङ्कुर् भाषते गिरं।
उ17.25च्द्।.तत्वं ह्य् अवितथं भूतं सत्यम् नित्यं तथा ध्रुवं॥
उ17.26।.अथ ब्राह्मणः पुष्करसारी तेषां माणवकानां तं महान्तं शब्दं संस्थाप्य (प्.206) त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्। अयं भोस् त्रिशङ्को ब्रह्मणा सहापतिना चातुर्महा^भौतिको महा^पुरुषः प्रज्ञप्तः। यस्य।
उ17.27अब्।.शिरः सतारं गगनम् आकाशम् उदरं तथा।
उ17.27च्द्।.पर्वताश् च^अप्य् उभाव् ऊरू पादौ च धरणी^तलं॥
उ17.28अब्।.सूर्या^चन्द्रमसौ नेत्रे रोम तृण^वनस्पती।
उ17.28च्द्।.सागराश् च^अप्य् अमेध्यं वै नद्यो सूत्र^स्रवो +अस्य तु॥
उ17.29अब्।.अश्रूणि वर्षणं चारस्य एष ब्रह्मा सहापतिः।
उ17.29च्द्।.भवांस् तु परम^ज्ञो +असि तन् मे ब्रूहि यथा तथा॥
उ17.30।.इह भोस् त्रिशङ्को किम् आह स्वलक्षणं ब्रह्मणः प्रत्यवेक्षस्व। पित्रा च मात्रा च कृतानि कर्माणि भवन्ति। अश्वस्तना स्तेन वञ्चिताः।
उ17.31अब्।.गच्छन्ति सत्त्वा बहु^गर्भ^योनिं न च^एव कश्चिन् मनुजो ह्य् अयोनिः।
उ17.31च्द्।.समस्त जातौ प्रचरन्ति सत्त्वा न मारुताज् जायते कश्चिद् एव॥
उ17.32अब्।.स्वभाव^भाव्यं ह्य् अवगच्छ लोके के ब्राह्मण^क्षत्रिय^वैश्य^शूद्राः।
उ17.32च्द्।.सर्वत्र काणाः कुणिनश् च खञ्जाः कुष्ठी किलासी ह्य् अपस्मारिणो ऽपि॥
उ17.33अब्।.कृष्णाश् च गौराश् च तथा^एव श्यामाः सत्त्वाः प्रजा ह्य् अन्यतमे विशिष्टाः।(प्.207)
उ17.33च्द्।.सह^अस्थि^चर्माः सनखाः समांसा दुःखी सुखी मूत्र^पुरीष^युक्ताः।
उ17.33एf।.न च^इन्द्रियाणां प्रविविक्तिर् अस्ति तस्मान् न वर्णाश् चतुरो भवन्ति॥
उ17.34अब्।.मन्त्रैर् हि यदि लभ्येत स्वर्गं तु गमनं द्विजः।
उ17.34च्द्।.कृष्ण^शुक्लानि कर्माणि भवेयुर् निष्फलानि हि।
उ17.34एf।.यस्मात् कृष्णानि शुक्लानि कर्माणि सफलानि हि।
उ17.34घ्।.पच्यमानानि दृश्यन्ते गतिष्व् एतानि पञ्च^सु॥
उ17.35।.मानवक^शतेषु स तत्र विनिहतो महा^यशसा त्रिशङ्कुना पुष्करसारी ब्राह्मणो +अब्रवीत्। ब्राह्मणो +असौ मातङ्ग^राजो हि त्रिशङ्कुर् नाम। भवान् हि ब्रह्मा इन्द्रश् च कौशिकः। त्वम् अरणेमिश् च गौतमः। त्वं श्वेतकेतुश् च शुक^पण्डितः। वेदः समाख्यातस् त्वया चतुर्धा। भगवान् वसूराज^र्षिर् महा^यशा भगवान्।
उ17.36अब्।.ज्ञानेन हि त्वं परमेण युक्तः स्वषु शास्त्रेषु भवान् कृतार्थः।
उ17.36च्द्।.श्रेष्ठो विशिष्टो परमो +असि लोके भवान् हि विद्या^चरणेन युक्तः॥

उ17.37अब्।.ददामि ते +अहं प्रकृतिं ममामलां शीलेन रूपेण गुणैर् उपेतः।
उ17.37च्द्।.शार्दूलकर्णः प्रकृतिश् च भद्रा उभौ रमेतं रुचितं मम^इदं॥
उ17.38अब्।.प्रगृह्य भृङ्गारम् उदक^प्रपूर्णम् आवर्जितो ब्राह्मणो हृष्ट^चित्तः।(प्.208)
उ17.38च्द्।.अनुप्रदासीद् उदकेन कन्यकां शार्दूलकर्णस्य इयम् अस्तु भार्या॥
उ17.39।.उदग्रचित्त आसीन् मातङ्ग^राजः।
उ17.40अब्।.कृत्वा निवेशं स तदात्मजस्य गत्वा^आश्रमे +असौ नगरं यशस्वी।
उ17.40च्द्।.धर्मेण वै कारयति स्वराज्यं क्षेमं सुभिक्षं च सदा^उत्सव^आद्यं ॥ इति।
उ17.41।.स्याद् भिक्षवो युष्माकं काङ्क्षा वा विमतिर् वा विचिकित्सा वा। अन्यः स तेन कालेन तेन समयेन त्रिशङ्कुर् नाम मातङ्ग^राजो +अभूवं। स्याद् एवं च भिक्षवो युस्माकम् अन्यः स तेन कालेन तेन समयेन शार्दूलकर्णा नाम मातङ्ग^राज^कुमारो +अभूत्। नैव द्रष्टव्यं। एष स आनन्दो भिक्षुः स तेन कालेन तेन समयेन शार्दूलकर्णा नाम मातङ्ग^राज^कुमारो
+अभूत्। स्याद् एवं युष्माकम् अन्यः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणो +अभूत्। नैव द्रष्टव्यं। एष शारद्वतीपुत्रो भिक्षुः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणो +अभूत्। न^अन्या सा तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता^अभूत्। न^एवं द्रष्टव्यं। एषा सा प्रकृतिर् भिक्षुणी तेन कालेन
तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता^अभूत्। सा एतर्हि (प्.209) तेन^एव स्नेहेन तेन^एव प्रेम्णा +अनन्दं भिक्षुं गच्छन्तम् अनुगच्छति तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशति तत्र तत्र^एव द्वारे तूष्णीं भूता +अस्थात्।
उ17.42।.अथ खलु भगवान् एतस्मिन् निदाने एतस्मिन् प्रकरणे तस्यां वेलायाम् इमां गाथाम् अभाषत।
उ17.43अब्।.पूर्वकेण निवासेन प्रत्युत्पन्नेन तेन च।
उ17.43च्द्।.एतेन जायते प्रेम चन्द्रस्य कुमुदे यथा॥
उ17.44।.तस्मात् तर्हि भिक्षवो +अनभिसमितानां चतुर्णाम् आर्य^सत्यानाम् अभिसमयाय, अधिमात्रं वीर्यं तीव्र^च्छन्दो वीर्यं शब्दापयामि। उत्साह उन्नतिर् अप्रतिवाणिः स्मृत्या संप्रजन्येन अप्रमादतो योगः चरणीयः। द्रुतम् एषां चतुर्णा दुःखस्य^आर्य^सत्यस्य दुःख^समुदयन्य निरोधस्य निरोध^गामिन्याः प्रतिपद आर्य^सत्यस्य अमीषां चतुर्णाम् आर्य^सत्यानाम्
अनभिसमितानाम् अभिसमयाय^अधिमात्रं तीव्र^च्छन्दो वीर्यं व्यायाम उत्साह उन्नतिर् अप्रतिवाणिः स्मृत्या संप्रजन्येन^अप्रमादतो योगः करणीयः।
उ17.45।.(प्.210) अस्मिंश् च खलु पुनर् धर्म^पर्याये भाष्यमाणे भिक्षूणां षष्टि^मात्राणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि। संबहुलानां श्रावकाणां ब्रह्मणां गृहपतीनं च विरजस्कं विगत^मलं धर्म^चक्षुर् उदपादि विशुद्धं।
उ17.46।.इदम् अवोचद् भगवान्। आत्त^मनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्। इति श्रीदिव्यावदाने शार्दूलकर्णावदानं।
एन्द्

मूल पाठ: Śārdūlakarṇāvadāna [= Avadāna 33 of the Divyāvadāna] · Edition: Mukhopadhyaya, Sujitkumar: The Sardulakarnavadana, Calcutta : The Visvabharati Publishing Department 1954 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc