भाषा

ENहिગુ
ग्रंथ पाठ

शार्दूलकर्णावदान · भाग 4160

उ3.5च्द्।.यदा सवर्ण^पिटको मूर्ध्नि राजा महान् स्मृतः।
उ3.6अब्।.शीर्षे तु धन^धान्याभ्यां कान्तये सुभगाय च।
उ3.6च्द्।.उपघातं भ्रूवोर् विद्यात् स्त्री^लाभो भ्रूवसङ्गमे॥
उ3.7अब्।.अक्षिस्थाने तु पिटकःकरोति प्रिय^दर्शनं।
उ3.7च्द्।.अक्षिभ्रूभागे शोकाय गण्डे पुत्रवधो ध्रुवं॥
उ3.8अब्।.अश्रूपातः ध्रुवं शोकः श्रवणे गोषु नाशकः।
उ3.8च्द्।.कर्ण^पीठे विभूषाय नासावंशे तु जातये॥
उ3.9अब्।.नासागण्डे पुत्र^लाभं वस्त्र^लाभं ध्रुवं वदेत्।
उ3.9च्द्।.नास^अग्रे जातेनाप्नोति गन्ध^भोगान् अभीप्सितान्॥
उ3.10अब्।.उत्तरोष्ठे तथाधरे च^अन्न^पानं शुभ^अशुभं।(प्.152)
उ3.10च्द्।.चिबुके हनुदेशे च धनं गावः सतां श्रियः॥
उ3.11अब्।.गले तु दानम् आप्नोति पानम् आभरणानि च।
उ3.11च्द्।.शिरः^सन्धौ च ग्रीवायां शिरश्छेदनम् आदिशेत्॥
उ3.12अब्।.जातो +अयं शिरसो मूले हनुनि च धन^क्षयः।
उ3.12च्द्।.भैक्षचर्या भवेत् सन्धौ हृदये प्रिय^सङ्गमः॥
उ3.13अब्।.पृष्ठे तु दुःखशय्यायै; अन्न^पानक्षयाय च।
उ3.13च्द्।.पार्श्वे तु सुख^शय्यायै स्तने तु सुतजन्यता॥
उ3.14अब्।.जातेन शिवम् आप्नोति न च^अप्रिय^समागमः।
उ3.14च्द्।.बाह्वोः शत्रु^विनाशाय युक्तं स्त्री^लाभ; एव च॥
उ3.15अब्।.ददात्य् आभरणं जातः प्रबाह्वोः कुर्परे क्षुधा।
उ3.15च्द्।.मणिबन्धे नियमनमंसाभ्यां हर्ष; एव च॥
उ3.16अब्।.सौभगं धन^लाभंच जातः पाणौ ददाति च।
उ3.16च्द्।.पुष्पितो ह्य् एकदेशे तु दशनेषु नखेषु च॥
उ3.17अब्।.जातेन हृदि जानीयाद् भ्रातृपुत्रसमागमं।
उ3.17च्द्।.जठरे सोम^दानाय नाभ्यां स्त्री^लाभम् आदिशेत्॥
उ3.18अब्।.जघने व्यसनं विद्यान् नार्य दौःशील्यम् एव च।
उ3.18च्द्।.पुत्रोत्पत्तिस् तु वृषणे लिङ्गे भार्या तु शोभना॥
उ3.19अब्।.पृष्ठान्ते सुख^भागित्वं स्फिचि च^अपि धन^क्षयः।
उ3.19च्द्।.ऊरुजाताश् च पिटका धन^सौभाग्यदायकाः॥
उ3.20अब्।.जानौ शत्रु^भयं विद्यात् तथा^एव च धन^क्षयं।
उ3.20च्द्।.जानु^संधौ विजानीयान् मेढ्रके ह्य् अथ जातकैः।
उ3.20एf।.विजयं ज्ञान^लाभं च पुत्र^जन्म विनिर्दिशेत्॥
उ3.21अब्।.स्त्री^लाभं वक्षसि च^एव भवेद् अन्यो निरर्थकः।
उ3.21च्द्।.जङ्घायां परसेवा तु परदेशात् तु भुज्यते॥
उ3.22अब्।.मणिबन्धे तु पिटको बन्धनं निर्दिशेद् ध्रुवं।(प्.153)
उ3.22च्द्।.परिवाधं स लभते बन्धनं च न संशयः।
उ3.22एf।.पार्श्वे गुल्फे च जानीयाच् छस्त्रेण मरणं ध्रुवं॥
उ3.23अब्।.अङ्गुलीषु ध्रुवं शोको व्याधिश् च^अङ्गुलिपर्वसु।
उ3.23च्द्।.प्रवासं प्रवसेन् नित्यं तथा^एव^उत्तरपादके॥
उ3.24अब्।.यस्य पाद^तले जातस् तथा हस्त^तले +अपि च।

उ3.24च्द्।.धनं धान्यं सुता गावः स्त्रियो यानानि च^अप्नुयात्॥
उ3.25अब्।.स्निग्धं स्निग्धेषु विज्ञेयं चलेषु च चलं फलं।
उ3.25च्द्।.स्थान^स्थे विपुलं दद्यात् फलं नृणां शुभोदयं॥
उ3.26अब्।.विवर्णो विपरीतश् च फलं सर्वं प्रयच्छति।
उ3.26च्द्।.पुंसां मध्ये ये स्निग्धाश् च देशे दक्षिणतश् च ये।
उ3.26एf।.तथा च^अभ्यन्तरे च^एव स्थाने तु प्रतिपूजिताः॥
उ3.27अब्।.स्त्रीणां मृदुषु देशेषु वक्त्रान् तेषु च पर्वतः।
उ3.27च्द्।.तत्त्वं विज्ञाय पिन्यानं स्थानं वर्णं च जन्म च॥
उ3.28अब्।.स्थान^अस्थानं च मतिमान् विकारं गतिम् एव च।
उ3.28च्द्।.आदिशेत् तु नरः पश्चाद् यथ^एवं समुदाहृतं॥
उ3.29अब्।.वामभागे तु नारीणां विज्ञेएयाः पिटकाः शुभाः।
उ3.29च्द्।.दक्षिणे तु मनुष्याणां भवन्ति ह्य् अर्थ^साधकाः॥
उ3.30अब्।.विपरीतास् तु पिटका मोघास् तु बहवः स्मृताः।
उ3.30च्द्।.यथोक्तानं च सन्धिस्थाः सर्वे विफलदाः स्मृताः॥
उ3.31अब्।.सिद्धाः ध्रुवा व्रणा भिद्यास् तथा सद्यः^कृताश् च ये।
उ3.31च्द्।.धर्म^कीलसमाश् च^एव सर्वे ते पिटकाः स्मृताः॥
उ3.32अब्।.गुणदोषाश् च सर्वेषां तथा^अप्य्^अन्ये प्रकीर्त्तिताः।
उ3.32च्द्।.इत्य् आह भगवांस् त्रिशङ्कुः शिष्येभ्यो नित्य^दर्शनं॥
उ3.33अब्।.न नखेन न शस्त्रेण न^आयसेन कथंचन।(प्.154)
उ3.33च्द्।.काञ्चनेन सुवर्णेन दहेद् विप्रांश् च भोजयेद्॥
उ3.34।.अयं भोः पुष्करसारिन् पिटकाध्याय^नाम^अध्यायः।
उ3.35।.अथ खलु भोः पुष्करसारिन् स्वप्न^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान्।
उ4 स्वप्न^अध्यायः
उ4.1अब्।.शुभ^अशुभं च स्वप्नानां यत् फलं समुदाहृतं।
उ4.1च्द्।.देवता^ब्राह्मणौ गावौ बह्निं प्रज्वलितं तथा।
उ4.1एf।.यस् तु पश्यति स्वप्न^अन्ते कुटुम्बं तस्य वर्धते॥
उ4.2अब्।.यस् तु पश्यति स्वप्न^अन्ते राजान्नं कुञ्जरं हयं।
उ4.2च्द्।.सुवर्णं वृषभं च^एव कुटुम्बं तस्य वर्धते।
उ4.3अब्।.सारसांश् च शुकान् हंसान् क्रौञ्चान् श्वेतांश् च पक्षिणः।
उ4.3च्द्।.यस् तु पश्यति स्वप्ने वै कुटुम्बं तस्य वर्धते।
उ4.4अब्।.समृद्धानि च शस्यानि नवानि सुरभीणि च।
उ4.4च्द्।.पद्मिनीं पुष्पितां च^अपि पुर्ण^कुम्भांस् तथा^एव च॥
उ4.5अब्।.प्रसन्नम् उदकं च^एव पुष्पाणि विविधानि च।
उ4.5च्द्।.यस् तु पश्यति स्वप्न^अन्ते कुटुम्बं तस्य वर्धते॥
उ4.6अब्।.पाणौ पादे +अथ वा जानौ शस्तेर्ण धनुषा^अपि वा।
उ4.6च्द्।.प्रहारा यस्य दीयन्ते तस्य^अम्बरो +अभिवर्धते॥
उ4.7अब्।.तारा^चन्द्रमसौ सूर्यं नक्षत्राणि ग्रहांस् तथा।
उ4.7च्द्।.यस् तु पश्यति स्वप्न^अन्ते कुटुम्बं तस्य वर्धते॥
उ4.8अब्।.अश्व^पृष्ठं गज^स्कन्धं यानानि शयनानि च।
उ4.8च्द्।.यो +अभिरोहति स्वप्न^अन्ते महद्^ऐश्वर्यम् आप्नुयात्॥

उ4.9अब्।.पतितश् च^अरुहेद् भूयस् तत्रस्थश् च विबुध्यते।(प्.155)
उ4.9च्द्।.ऐश्वर्य^धन^लाभाय नष्ट^लाभाय निर्दिशेत्॥
उ4.10अब्।.गोयुतं च रथं स्वप्ने हयं वा यो +अभिरोहति।
उ4.10च्द्।.तत्रस्थश् च विबुध्येत; ऐश्वर्यम् अधिगच्छति॥
उ4.11अब्।.प्रपातं पर्वतं च^एव यो +अभिरोहति मानवः।
उ4.11च्द्।.तत्रस्थश् च विबुध्येत; ऐश्वर्यम् अधिगच्छति॥
उ4.12अब्।.आसने शयने यने शरीरे +अथ गृहे क्षयः।
उ4.12च्द्।.येषाम् आरोहणं शस्तं तेषाम् आरोहणात् क्षयः।
उ4.12एf।.येषाम् आरोहणाद् दोषास् तेषाम् आरोहणाद् गुणाः॥
उ4.13अब्।.त्रि^साहस्रं भवेत् कण्ठे दश शीर्षस्य छेदने।
उ4.13च्द्।.राज्यं शत^सहस्रं वा लभते शीर्ष^भक्षणे॥
उ4.14अब्।.शुष्कां नदीं ह्रदं वा^अपि शून्य^आगार^प्रवेशनं।
उ4.14च्द्।.शुष्क^उदपान^ं तु लभते स्वप्ने दृष्ट्वा ध्रुवं भयं॥
उ4.15अब्।.शृगालं मानुषं नग्नं गोधा^वृश्चिक^सूकरं।
उ4.15च्द्।.अजां वा पश्यतः स्वप्ने व्याधि^क्लेशं विनिर्दिशेत्॥
उ4.16अब्।.काकं श्येनम् उलूकं वा गृध्रं वा^अप्य् अथ वर्तकं।
उ4.16च्द्।.मयूरं पश्यतः स्वप्ने तस्य व्यसनम् आदिशेत्॥
उ4.17अब्।.नग्नं पश्यति ह्य् आत्मानं पांशुना ध्वस्तम् एव वा।
उ4.17च्द्।.कर्दमेन^उपलिप्तं वा व्याधि^क्लेशम् अवाप्नुयात्॥
उ4.18अब्।.कुण्ड्थाः स्त्रियो +अथ संलोक्य चौरान् द्यूत^करांस् तथा।
उ4.18च्द्।.कुशीलांश् चारणान् धूर्तान् स्वप्ने दृष्ट्वा ध्रुवं भयं॥
उ4.19अब्।.वमि^मूत्र^पुरीषाणि विरेकं वसानो जनः।
उ4.19च्द्।.उद्वर्तनं वा कुर्वाणः स्वप्न^अन्ते रोगम् अर्च्छति॥
उ4.20अब्।.ध्वजं छत्रं वितानं वा स्वप्न^अन्ते यस्य धार्यते।
उ4.20च्द्।.तत्रस्थो +अपि विबुध्येत महद्^ऐश्वर्यम् आदिशेत्॥
उ4.21अच्द्।.अन्त्रैस् तु यस्य नगरं समन्तात् परिवार्यते।(प्.156)
उ4.21च्द्।.ग्रसते चन्द्र^सूर्यौ तु महद्^ऐश्वर्यम् आदिशेत्॥
उ4.22अब्।.मनुष्यं भूमि^भागं वा स्वप्न^अन्ते ग्रसते यदि।
उ4.22च्द्।.ह्रदश् च वा समुद्रो +अयं महद्^ऐश्वर्यम् आप्नुयात्॥
उ4.23अब्।.धनुः प्रहरणं शस्त्रं रक्तम् आभरणं ध्वजं।
उ4.23च्द्।.कवचं वा लभेत् स्वप्ने धन^लाभं विनिर्दिशेत्॥
उ4.24अब्।.प्रपातं पर्वतं तालं वृषभं कुञ्जरं हयं।
उ4.24च्द्।.तोरणं नगरं द्वारं चन्द्र^आदित्यौ सतारकौ।
उ4.24एf।.स्वप्ने प्रपतितौ दृष्ट्वा राज्ञां व्यसनम् आदिशेत्॥
उ4.25अब्।.उदयं चन्द्र^सूर्याणं स्वप्ने दृष्टं प्रशस्यते।
उ4.25च्द्।.तयोर् अस्तं गतं दृष्ट्वा राज्ञो व्यसनम् आदिशेत्॥
उ4.26अब्।.श्मशान^वृक्ष^यूपं वा नरो यद्य् अभिरोहति।
उ4.26च्द्।.वल्मीकं भस्म^राशिं वा स्वप्ने व्यसनम् आदिशेत्॥
उ4.27अब्।.कृष्ण^वस्त्रा तु या नारी काली कामयते नरं।
उ4.27च्द्।.करवीर^स्रजा स्वप्ने तदन्तं तस्य जीवितं॥

उ4.28अब्।.तमसि प्रविशेत् स्वप्ने शम्भोर् वा च^अमरं तथा।
उ4.28च्द्।.वृक्षाद् वा प्रपतेत् स्वप्ने मरणं तस्य निर्दिशेत्॥
उ4.29अब्।.वृक्षां काष्ठं तृणं वा^अपि विरुचं यस् तु पश्यति।
उ4.29च्द्।.स्वप्ने शीर्षं शरीरं वा मरणं तस्य निर्दिशेत्॥
उ4.30अब्।.देवो वा वर्षते यत्र यत्र च^एव^अशनिः पतेत्।
उ4.30च्द्।.भूमिर् वा कम्पते यत्र स्वप्ने व्यसनम् आदिशेत्॥
उ4.31अब्।.चन्द्र^आदित्यौ यदि स्वप्ने खण्डौ भिन्नौ च पश्यति।
उ4.31च्द्।.पतितौ पतमानौ वा चक्षुस् तस्य विनश्यति॥
उ4.32अब्।.काषाय^प्रावृतां मुण्डां नारीं मलिन^वाससं।
उ4.32च्द्।.नील^रक्त^अम्बरां दृष्ट्वा; आयासम् अधिगच्छति॥
उ4.33अब्।.त्रपु^सीसे; अयस्ताम्रलोहरजतम् अञ्जनं।(प्.157)
उ4.33च्द्।.लब्ध्वा तु पुरुषः स्वप्ने धन^नाशं समर्च्छति॥
उ4.34अब्।.गायन्ती वा हसन्ती वा नृत्यन्ती वा विबुध्यते।
उ4.34च्द्।.वादित्रवाद्यमानैर् वा; आयासं तत्र निर्दिशेत्॥
उ4.35अब्।.कर्दमे यदि वा पङ्के सिकतास्ववसीदति।
उ4.35च्द्।.तत्रस्थो वा विबुध्येत व्याधिं समधिगच्छति॥
उ4.36अब्।.अष्टापदैर् अथान्यैर् वा क्रीडेज् जय^पराजये।
उ4.36च्द्।.क्रीडेद् अकुशलाङ्कैर् वा स्वप्ने दृष्ट्वा ध्रुवं कलिः॥
उ4.37अब्।.आसने शयने यने वास्त्रे साभरणे गृहे।
उ4.37च्द्।.नष्टे भ्रष्टे विशीर्णे वा; आयासम् अधिगच्छति॥
उ4.38अब्।.सुरामैरेयपानानि शार्करम् आसवं मधु।
उ4.38च्द्।.पिवते पुरुषः स्वप्ने; आयासम् अधिगच्छति॥
उ4.39अब्।.प्रसन्ने +अम्भसि च^आदर्शे छायां पश्यति नात्मनः।
उ4.39च्द्।.उत्पद्यते ध्रुवं तस्य स्कन्ध^न्यासो न संशयः॥
उ4.40अब्।.अभीक्ष्णं वर्षते देवो जलं पांशुम् अथ^अपि वा।
उ4.40च्द्।.अङ्गारं वा^अपि वर्षेत मरणं तत्र निर्दिशेत्॥
उ4.41अब्।.जन^घातं विजानीयात् तत्र देशे महा^भयं।
उ4.41च्द्।.रज्जु जालेन वा स्वप्ने पर^चक्राद् विनिर्दिशेत्॥
उ4.42अब्।.उदकेन समन्ताद् वै नगरं परिवार्यते।
उ4.42च्द्।.जालेनान्येन वा स्वप्ने पर^चक्र^उद्गमो भवेत्॥
उ4.43अब्।.तैल^कर्दम^लिप्त^अङ्गो रक्त^कण्ठ^गुणो नरः।
उ4.43च्द्।.गायते हसते च^एव प्रहारं तस्य निर्दिशेत्॥
उ4.44अब्।.यं कृष्ण^वसना नारी; आर्द्रा वा मलिनाथ वा।
उ4.44च्द्।.परिष्वजेत् नरं स्वप्ने बन्धनं तस्य निर्दिशेत्॥
उ4.45अब्।.कृष्ण^सर्पो यदि स्वप्ने ह्य् अभिरोहति यं नरं।
उ4.45च्द्।.गात्राणि वेष्टयेद् वा^अपि बन्धनं तस्य निर्दिशेत्॥
उ4.46अब्।.लताभिः स्थाणु^वृन्दैर् वा यन्त्रै वा परिवार्यते।(प्.158)
उ4.46च्द्।.स्वप्न^अन्ते पुरुषो यस् तु बन्धनं तस्य निर्दिशेत्॥
उ4.47अब्।.यन्त्राणि यदि सर्वाणि वागुराबन्धनानि वा।
उ4.47च्द्।.यस्य छिद्येरन् स्वप्न^अन्ते बन्धनात् स विमुच्यते॥

उ4.48अब्।.विषमाणि च निम्नानि पर्वतान् नगराणि च।
उ4.48च्द्।.यस् तु पश्यति स्वप्न^अन्ते क्षिप्रं क्लेशाद् विमुच्यते॥
उ4.49अब्।.पूतना वा पिशाचा वा दुश्चला मलिना^अथ वा।
उ4.49च्द्।.एवंरूपाणि रूपाणि दृष्ट्वा स्वप्ने ध्रुवं कलिः॥
उ4.50अब्।.सुस्नातं च सुवेशं च सुगन्धं शुक्ल^वाससं।
उ4.50च्द्।.पुरुषं वा^अथ नारीं वा दृष्ट्वा स्वप्ने महत्^सुखं॥
उ4.51अब्।.तृणं वृक्षम अथो काष्ठं विरूढं यत्र दृश्यते।
उ4.51च्द्।.गृहे वा यदि वा क्षेत्रे क्षिप्रं द्रव्य^क्षयो भवेत्॥
उ4.52अब्।.भद्रासने वा^श्भ्यासीनो शयने वा सुसंस्कृते।
उ4.52च्द्।.नरो वा लभते नारीं नारी वा लभते नरं॥
उ4.53अब्।.नरः शुक्लम् अथो वस्त्रं शुक्ल^गन्ध^अनुलेपितं।
उ4.53च्द्।.स्वप्न^अन्ते यस् तु पश्येत स्त्री^लाभं तस्य निर्दिशेत्॥
उ4.54अब्।.यस् तु ह्य् अन्नानि पश्येत भूषणं निगडैस् तथा।
उ4.54च्द्।.नरस् तु लभते भार्यां नारी वा लभते पतिं॥
उ4.55अब्।.मेखलां कर्णिकां मालां स्त्रीणाम् आभरणानि च।
उ4.55च्द्।.लब्ध्वा नरो लभेद् भार्यां नारी च लभते पतिं॥
उ4.56अब्।.कुञ्जरं वृषभं नागं चन्द्र^आदित्यौ सतारकौ।
उ4.56च्द्।.अभिवदेत या नारी पतिं सा लभते +अचिरात्॥
उ4.57अब्।.एषाम् अन्यतमः कुषौ प्रविशेच् च यदि स्त्रियाः।
उ4.57च्द्।.सा काले सर्व^पूर्ण^अङ्गं श्रीमत्^पुत्रं प्रसूयते॥
उ4.58अब्।.फलानि च समग्राणि वनानि हरितानि च॥
उ4.58च्द्।.स्वप्न^अन्ते लभते नारी श्रीमत्^पुत्रं प्रसूयते॥
उ4.59अब्।.उत्पलं कुमुदं पद्मं पुण्डरीकं सकुड्मलं।(प्.159)
उ4.59च्द्।.लब्धा नारी तु स्वप्न^अन्ते श्रीमत्^पुत्रं प्रसूयते॥
उ4.60अब्।.उपायन^सूत्रयोर् अन्तः सज्जं तत्र तु पिण्डकं।
उ4.60च्द्।.स्वप्ने या लभते नारी सा^अपि पुत्रं प्रसूयते।
उ4.60एf।.यमं तु भाजनं च^अपि यमं तु सा प्रसूयते॥
उ4.61अब्।.म्लायन्तीम् अथ ग्रीष्मान् ते तरुणीम् आत्मिकाम् अपि।
उ4.61च्द्।.शुष्कां दृष्ट्वा तथा स्वप्ने स्वपक्ष^मरणं भवेत्॥
उ4.62अब्।.बाहवो यस्य वर्धन्ते चक्षुर् अङ्गुलयो +अपि वा।
उ4.62च्द्।.ज्ञातयो तस्य वर्धन्ते शत्रुणां मरणं भवेत्॥
उ4.63अब्।.बध्यन्ते बाहवो यस्य चक्षुश् च व्याकुलं भवेत्।
उ4.63च्द्।.बाहुर् वा प्रपतेद् यस्य स्व^पक्ष^मरनं भवेत्॥
उ4.64अब्।.देवो वा यदि वा प्रेतो नार्या वस्त्रं फलानि वा।
उ4.64च्द्।.स्वप्ने प्रयच्छते यस्याः पुत्रस् तस्याः प्रजायते॥
उ4.65अब्।.अपकृष्टो रुदन्यो वा नग्नो +अथ मलिनः कृशः।
उ4.65च्द्।.क्रोधं व (लचुन) विनिर्दिशेत्॥
उ4.66अब्।.चर्म यन्त्रं गणितं वा कीलं वा^अथ किलाटकं।
उ4.66च्द्।.स्वप्ने लब्ध्वा च प्राप्नु[जानी]याद् ध्रुवं वस्त्र^आगमो भवेत्॥
उ4.67अब्।.अमानुषो +अथ राजा वा देवः प्रेतो +अथ ब्राह्मणः।

उ4.67च्द्।.स्वप्ने यथा ते जल्प^न्ति स तथा^अर्थो भविष्यति॥
उ4.68अब्।.(लचुन) पूर्वविचिन्तितं।
उ4.68च्द्।.यच् च^अनुस्मरते दृष्ट्वा यच् च^अपि बहु पश्यति॥
उ4.69अब्।.अभ्युत्थितो यथा मार्गे स्वप्न^अन्ते प्रतिबुध्यते।
उ4.69च्द्।.विषमं वा तथा^अध्वानं छिद्रं वा प्रतिपद्यते॥
उ4.70अब्।.अग्निं प्रज्वलितं तप्तं शमित्वा तु प्रशस्यते।(प्.160)
उ4.70च्द्।.गृहाणां करणं शस्तं भेदनं न प्रशस्यते॥
उ4.71अब्।.निर्मलं गगनं शस्तं समेघं न प्रशस्यते॥
उ4.71च्द्।.प्रसन्नम् उदकं शस्तं कलुषं न प्रशस्यते।
उ4.72अब्।.अध्वानं गमनं शस्तं न क्वचित् संनिवर्तनं।
उ4.72च्द्।.सुवर्ण^दर्शनं शस्तं धारणं न प्रशस्यते॥
उ4.73अब्।.मांसस्य दर्शनं साधु भक्षणं न प्रशस्यते।
उ4.73च्द्।.मद्यस्य दर्शनं शस्तं पानं तु न प्रशस्यते॥
उ4.74अब्।.पृथिवी हरिता शस्ता विवर्णा न प्रशस्यते।
उ4.74च्द्।.यानस्य^आरोहणं शस्तं पतनं न प्रशस्यते॥
उ4.75अब्।.स्वप्नेषु रुदितं शस्तं हसितं न प्रशस्यते।
उ4.75च्द्।.प्रच्छन्न^दर्शनं शस्तं नग्नं नैव प्रशस्यते॥
उ4.76अब्।.माल्यस्य दर्शनं शस्तं धारणं न प्रशस्यते।
उ4.76च्द्।.गात्रं विकर्तितं साधु प्रोक्षितं न प्रशस्यते॥
उ4.77अब्।.मृदुः प्रशस्यते वातो न^अतिवातः प्रशस्यते।
उ4.77च्द्।.व्याधितो मलिनः शस्तो भूषितो न प्रशस्यते।
उ4.77एf।.पर्वत^आरोहणं शस्तं न तु तत्र^अवतारणं॥
उ4.78अब्।.धूम्रा घना दुन्दुभि^शङ्ख^शब्दो वातो +अभ्र^वृष्टिश् च तथा समन्तात्।
उ4.78च्द्।.सर्व^स्थिराणां च चलश् च यः स्याद् ये च^अन्तरे दोष^कृता विकाराः॥
उ4.79अब्।.पूर्वेषु रूपेषु यथावद् इष्टा राज^र्षयो देव^गणाश् च सर्वे।
उ4.79च्द्।.यद् ब्राह्मण^गात्र^विकर्तनं च; एतानि सर्वाण्य् अपि शोभनानि॥
उ4.80अब्।.यत् पूर्व^रूपेषु भवेत् प्रशस्तं दुःस्वप्नम् एतानि शमं नयन्ति।
उ4.80च्द्।.गावः प्रदानं द्विज^पूजनं च दुःस्वप्नम् एतेन परिजितं स्यात्॥
उ4.81अब्।.देवं च यं भक्तिगतो मनुष्यस् तं तु परांश् च^अर्चयितुं यतेत।(प्.161)
उ4.81च्द्।.स्वप्नं तु दृष्ट्वा प्रथमे प्रदोषे संवत्सर^अन्ते +अस्य विपाकम् आहुः॥
उ4.82अब्।.षण्^मासिकं यच् च भवेद् द्वितीये षट्पाक्षिकं यत् तु भवेत् तृतीये।
उ4.82च्द्।.अध्यर्ध^मासे तरम् एव यत् स्यात् फलेच् चतुर्थे रजनी^प्रभाते॥
उ4.83अब्।.द्विजोत्तमे वा तिल^पात्र^दानं शान्ति^क्रियाः स्वस्त्ययन^प्रयोगाः।
उ4.83च्द्।.पूजा गुरूणां परिमिष्टम् अन्नं दुःस्वप्नम् एतानि विनाशयन्ति॥
उ4.84अब्।.अयं भोः पुष्करसारिन् स्वप्न^अध्याय^नाम^अध्यायः। अथ खलु भोः पुष्करसारिन्न् अपरम् अपि स्वप्न^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।
उ5 अपरः स्वप्न^अध्यायः
उ5.1अब्।.शुभ^अशुभानां स्वप्नानां यत् फलं समुदाहृतं।
उ5.1च्द्।.निमित्तं यादृशं यस्य शृणु वक्ष्यामि तत्वतः॥
उ5.2अब्।.जाग्रतो यदि वा त्रस्तो दिवा स्वप्नानि पश्यति।
उ5.2च्द्।.न तु भयं भवेत् तस्य जानीयाद् एव बुद्धिमान्॥

उ5.3अब्।.यस्य तु यो भवेच् छत्रुर् यस्य विधेयम् इच्छति।
उ5.3च्द्।.स्वप्ने तु कलहं दृष्ट्वा क्षिप्रं प्रीतिर् भविष्यति॥
उ5.4अब्।.रजन्यां पुरिमे यामे यो +अद्राक्षीत् सुख^दुःखदं।
उ5.4च्द्।.अध्वानं चिर^कालेन तथा ह्य् एष निवर्तते॥
उ5.5अब्।.मध्यमे भवते नैव क्षिप्रं भवति पश्चिमे।
उ5.5च्द्।.वैवार्गं त्वरितं दृष्ट्वा स्त्री^लाभम् अभिनिर्दिशेत्॥
उ5.6अब्।.दृष्ट्वा जलचरान् मत्स्यान् एवं जानीत बुद्धिमान्।
उ5.6च्द्।.यत् किञ्चिद् आरभिष्यामि क्षिप्रम् एव भविष्यति॥
उ5.7अब्।.चम्पायां धृषणं हस्ते धृषेत् स्वप्न^अन्तरेषु वा।
उ5.7च्द्।.प्रतिबुद्धो विजानीयाद् वर्णम् एवं भविष्यति॥
उ5.8अब्।.सर्वाणि खलु पानानि मधुराणि सुखानि च।
उ5.8च्द्।.यस् तु पिबति स्वप्न^अन्ते स च लाभैः प्रयुज्यते॥
उ5.9अब्।.श्व^शृगालैर् भक्ष्यते +अत्र स्वप्ने संपरिवार्यते।(प्.162)
उ5.9च्द्।.प्रतिबुद्धस् तु जानीयात् शत्रुर् एव प्रमूर्च्छति॥
उ5.10अब्।.उपरि काका गृध्राश् च धावन्त्य् उपरि यान्ति च।
उ5.10च्द्।.प्रतिबद्धो विजानीयाच् छत्रुर् मा वधयिष्यति॥
उ5.11अब्।.यस्य पर^गृह^श्वानो द्वारे मूत्रं प्रकुर्वते।
उ5.11च्द्।.प्रतिबुद्धो विजानीयाद् भार्या मे जारम् इच्छति॥
उ5.12अब्।.एकश् च धरणौ पादो द्वितीयः शिरसि स्थितः।
उ5.12च्द्।.प्रतिबुद्धो विजानीयाद् राज्य^लाभो भविष्यति॥
उ5.13अब्।.समुद्रं यदि पश्येद् वा पातुम् इच्छति तज्जलं।
उ5.13च्द्।.प्रतिबुद्धो विजानीयाद् राज्य^लाभो भविष्यति॥
उ5.14अब्।.वृक्षं पर्वतम् आरुह्य नागं च तुरगं तथा।
उ5.14च्द्।.प्रतिबुद्धो विजानीयाद् राज्य^लाभो भविष्यति॥
उ5.15अब्।.यस् तु स्वप्न^अन्तरे पश्येत् पितॄन् यान् इह च^अन्यथा।
उ5.15च्द्।.तथा माता पिता च^एव तस्य जीवन्ति ते चिरं॥
उ5.16अब्।.यस् तु स्वप्न^अन्तरे पश्येत् केश^श्मश्रू^विकर्तितं।
उ5.16च्द्।.प्रतिबुद्धो विजानीयाद् अर्थ^सिद्धिर् भविष्यति॥
उ5.17अब्।.आननं च^उदके दृष्ट्वा मध्ये +अग्नौ च विधावितं।
उ5.17च्द्।.प्रतिबुद्धो विजानीयाद् कुल^वृद्धिर् भविष्यति॥
उ5.18अब्।.धावनं लङ्घनं च^एव ग्रामाणां परिवर्तनं।
उ5.18च्द्।.प्रतिबुद्धो विजानीयाद् आत्मानं शातितम् इति॥
उ5.19अब्।.चौराणाम् अपि सामग्रीं स्वप्न^अन्ते यस् तु पश्यति।
उ5.19च्द्।.प्रतिबुद्धो विजानीयाद् आत्मानं शातितम् इति॥
उ5.20अब्।.कृष्ण^सर्प^गृहीतं तु स्वप्न^अन्ते यस् तु पश्यति।
उ5.20च्द्।.प्रतिबुद्धो विजानीयाच् छत्रुपीडा भविष्यति॥
उ5.21अब्।.कटकान् कर्णिकाश् च^एव हंस^केयूर^कुण्डलं।(प्.163)
उ5.21च्द्।.यस् तु च^आभरणं पश्येद् बन्धु^वर्गो भविष्यति॥
उ5.22अब्।.कुड्ये च गृह^प्राकारे धावतीह परस्परं।
उ5.22च्द्।.नाविके धन^संयोगे; अंगते क्षणयं खजः॥

उ5.23अब्।.यस् तु स्वप्न^अन्तरे पश्येच् च^आत्मानम् अग्नितापितं।
उ5.23च्द्।.प्रतिबुद्धो विजानीयाज् ज्वरं क्षिप्रं भविष्यति॥
उ5.24अब्।.राजानं कुपितं दृष्ट्वा; आत्मानं मलिनीकृतं।
उ5.24च्द्।.प्रतिबुद्धो विजानीयात् कुटुम्बं तस्य नश्यति॥
उ5.25अब्।.काष्ठभारं तृणं च^एव बहु^भारम् अभीक्ष्णशः।
उ5.25च्द्।.आत्मनः शिरसो दृष्ट्वा गुरु^व्याधिर् भविष्यति॥
उ5.26अब्।.यस्तु बानर^युक्तेन गच्छते पुर् इमां दिशं।
उ5.26च्द्।.प्रतिबुद्धो विजानीयाद् रात्रिर् एषा ह्य् अपश्चिमा॥
उ5.27अब्।.चन्द्र^सूर्यौ च संगृह्य पाणिना परिमार्जति॥
उ5.27च्द्।.प्रतिबुद्धो विजानीयाद् आर्य^धर्मागमो हि सः॥
उ5.28अब्।.सुमनां वार्षिकं [कीं] च^एव कुमुदान्य् उत्पलानि च।
उ5.28च्द्।.यस्तु पश्यति स्वप्न^अन्ते दक्षिणीयसमागमः॥
उ5.29अब्।.ब्राह्मणं श्रमणं दृष्ट्वा क्षपणं सुरनायकं।
उ5.29च्द्।.प्रतिबुद्धो विजानीयाद् यक्षा मे ह्य् अनुकम्पकाः॥
उ5.30अब्।.रुधिरेण विल्लिप्तस्य स्नात्वा चैव^आत्म^लोहितैः।
उ5.30च्द्।.प्रतिबुद्धो विजानीयाद् ऐश्वर्याधिसमागमः॥
उ5.31अब्।.मुद्गमाषयवांश् च^एव धान्यं ज्वलनदर्शनं।
उ5.31च्द्।.यस् तु स्वप्न^अन्तरे पश्येत् सुभिक्षं तत्र निर्दिशेत्॥
उ5.32अब्।.सुवर्णं च तथा रूप्यं मुक्ताहारं तथाइव च।
उ5.32च्द्।.यस् तु स्वप्न^अन्तरे पश्यन् निधिं तत्र विनिर्दिशेत्॥
उ5.33अब्।.बन्धनं बहु दृष्ट्वा तु छेदनं कुट्टनं तथा।
उ5.33च्द्।.प्रतिबुद्धो विजानीयाद् अर्थ^सिद्धिर् भविष्यति॥
उ5.34।.अयं भोः पुष्करसारिन्न् अपरः स्वप्न^अध्यायः।
उ5.35।.अथ खलु भोः पुष्करसारिन् मास^परीक्षा^नाम^अध्यायं व्याख्यास्यामि। तच् छूयतां। कथयतु भगवांस् त्रिशङ्कुः॥(ए)35
उ6 मास^परीक्षा (प्.164)
उ6.1।.यदि फाल्गुने मासे निर्घोष उपरि भवेत् मनुष्याणां मरणं चोदयति। नवचन्द्रो लोहित^आभासो दृश्यते। सर्व^सस्य^अनुत्पत्तिं चोदयति। यदि देवो गर्जति प्रथमं महा^सस्यानि भवन्ति। पश्चिमसस्यं न भवेत्। कलहं चोदयति।
उ6.2।.यदि चैत्रे मासे देवो गर्जति तदा सर्व^सस्य^समुत्पत्तिं चोदयति। यदि चन्द्र^ग्रहो भवति महान् सन्निपातो भवति। शून्यानि ग्राम^क्षेत्राणि भविष्यन्ति। यदि नीहारं भूमिं छादयति सुभिक्षं चोदयति।
उ6.3।.यदि वैशाखे मासे देवो गर्जति सुभिक्षं चोदयति। यदि पूर्वे पश्चिमे शङ्खे चन्द्र^ग्रहो भवति क्षेमं चोदयति। यदि च^उल्का^पातो भवति यस्मिंश् च जनपदे निपतति तत्र देशे प्रधान^पुरुषस्य विनाशो भवति। यदि भूमि^चालो भवति सुभिक्षं चोदयति।
उ6.4।.यदि जेय्ष्ठे मासे देवो गर्जति रोगं चोदयति। यदि सूर्य^ग्रहो भवति मनुष्याणां विनाशं चोदयति। पूर्वे पश्चिमे वा शङ्खे यदि चन्द्रस्य सूर्यस्य किञ्चिन् निमित्तं लक्ष्यते तदा क्षेमं चोदयति। यदि मध्य^रात्रौ चन्द्र^ग्रहो भवति मनुष्याणाम् अन्योन्य^घातं चोदयति। यदि च^उपरि निर्घोषो भवति अध्यक्ष^पुरुषस्य पीडां चोदयति। पर^चक्रागमं
चेति।
उ6.5।.आषाढे मासे यदि सूर्य^ग्रहो रुचिर^आभासो भवति सुभिक्षं चोदयति। यदि चन्द्र^ग्रहो भवति रोगं चोदयति। यदि विद्युन् निश्चरति कल्पाणं चोदयति। यदि नीहारं भूमिं छादयति।
उ6.6।.श्रावण^मासे यदि सूर्य^ग्रहो भवति राज्यं परिवर्तते। यदि चन्द्र^ग्रहो भवति प्रथमे मासे दुर्भिक्षं चोदयति। शरभैः शोभन^शस्यनाशो भविष्यति। यदि (प्.165) तारका यत्र देशे पतन्ति तत्र युद्धं चोदयति। यदि च^अतिशयं भूमि^चालो भवति रोगं चोदयति। यदि निर्घोषो भवति तत्र गृहे यो गृह^स्वामी भवति तस्य विनाशं चोदयति।
अत्र च मासे +अभिनवं प्रावरणं न प्रावरितव्यं। आवाहो विवाहो न कर्तव्यः। परिभूतो भवति।
उ6.7।.यद्य् अश्वयुजे मासे देवो गर्जति मनुष्याणां विनाशनं चोदयति। यदि सूर्य^उपरागो भवति महा^पुरुष^विनाशं चोदयति। यदि पूर्वे यामे चन्द्रस्य निमित्तं दृश्यते सुभिक्षं चोदयति। यदि भूमि^चालो भवति आकुलं चोदयति। परराजा देशं हनिष्यति। तत्र च मनुष्या अन्योन्यं वधयिष्यन्ति^इति चोदयति।
उ6.8।.यदि कार्त्तिके मासे देवो वर्षति महद्^आकुलं चोदयति। प्राणकाश् च धान्यं खादिष्यन्ति। यद्य् एक^अन्तरूपं वातो वाति तत्र च मनुष्या जलेन विभ्रमिष्यन्ति। महा^आत्मनः पुरुषस्य विनाशं चोदयति। यदि पूर्वे यामे उत्पातो भवति महा^वर्षं भवति। महा^पुरुषस्य च मरणं भवति। यदि निर्घोषो भवति रोगं चोदयति।
उ6.9।.यदि मार्गशीर्षे मासि देवो गर्जति शस्य^विनाशो भवति। अन्यश् च तत्र स्वामी भवति। यदि च^आकाशे निर्घोषो भवति यत् पूर्व^भागीया मनुष्यास् तेषाम् आमयं चोदयति। यदि भूमि^चालो भवति यस् तत्र जनपदे प्रधान^पुरुषो स वधान् मोक्ष्यति।
उ6.10।.यदि पौषे मासे देवो गर्जति प्रथमे यामे जनपद^नाशो भवति। द्वितीये महा^आत्मनः पुरुषस्य बन्धनं चोदयति। प्रथमे यामे च यदि चन्द्र^उपरागो भवति लोहित^वर्णश् च दृश्यते उदक^आगमं चोदयति। महा^आत्ममनुष्यं चोदयति। यदि सूर्य^ग्रहो भवति शुद्धपुरुषणां रणं। यदि तारकाः पतन्त्यो विदृश्यन्ते तत्र जनपदे आकुलं चोदयति।
यत्य् आकाशे निर्घोषो भवति मनुष्याणां मरणं चोदयति। यदि द्वितीये निर्घोषो भवति अम्नुष्याश् चौरैर् हन्यन्ते। यद्य् अत्रैव मासे तारका उत्सृष्टा न चन्द्रो दृस्यते सस्यं संचोदयति। यदि भूमि^चालो भवति महामनुष्यस्य मरणं भवति। अत्रैव मासे देव^स्थानं कर्तव्यं। वृक्षा रोपयितव्याः। सूलवास्तु प्रतिष्ठापयितव्यं।
उ6.11।.अयं भोः पुष्करसारिन् मास^परीक्षा^नाम^अध्यायः।(प्.166)
उ6.12।.अथ खलु भोः पुष्करसारिन् खञ्जरीटक^ज्ञानं^नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः॥म्छेच्केद्

उ7 खञ्जरीटक^ज्ञानं
उ7.1अब्।.खञ्जरीटक^शास्त्रं वै पर्वते गन्ध^मादने।
उ7.1च्द्।.कुचरैर् दृश्यते सौम्य^कुचरस्य महा^भयं॥
उ7.2अब्।.यानि तानि निमित्तानि दर्शयेत् खञ्जरीटकः।
उ7.2च्द्।.प्रचरतो भवेद् दृष्ट्वा पञ्च^उत्तरपदो द्विजः॥
उ7.3अब्।.तत्र सर्वे प्रवर्तेयुर् यत्र येषु भवेद् भवेत्।
उ7.3च्द्।.शाद्वले बहु^चेलत्वं गोमयेषु प्रबन्धता॥
उ7.4अब्।.कञ्चारे बहु^चेलत्वं कर्दमे बहु^भक्षता।
उ7.4च्द्।.कृकरे स्वल्प^चेलत्वं पुरीषे तु दृशं श्रवः॥
उ7.5अब्।.भस्मे विवादम् अफलं वालुकायां तु संभ्रमः।
उ7.5च्द्।.देव^द्वारे तु सम्मानं पद्मेषु बहु^वित्तता।
उ7.5एf।.फले +अर्थ^अनुगुणं प्रोक्तं पुष्पेषु प्रिय^संअमः॥
उ7.6अब्।.भयं प्राकार^शृङ्गेषु कटकेष्व् अरिदर्शनं।
उ7.6च्द्।.पक्षया चरते व्याधिः पतितो मृत्युम् आदिशेत्॥
उ7.7अब्।.सुगन्ध^तैल^भूतानि मेथुने निधि^दर्शनं।
उ7.7च्द्।.वृक्ष^अग्रे विद्यते पानं गृहेष्व् अथ ... लसः॥
उ7.8अब्।.देश^भङ्गः प्रवादे च बन्धनं विग्रहीकृते।
उ7.8च्द्।.अमृतं च स्थितं दृष्ट्वा; ओदनं न^अत्र संशयः॥
उ7.9अब्।.गवां पृष्ठे ध्रुवं सिद्धिर् अश्वपृष्ठे ध्रुवं जयः।
उ7.9च्द्।.अविकानाम् अजानां च पृष्ठे सर्वत्र शस्यते॥
उ7.10अब्।.उष्ट्रपृष्ठे घ्रुवं क्लेशः श्वानपृष्ठे च विद्रवः।(प्.167)
उ7.10च्द्।.पृष्ठे च गर्दभस्य^इह मरणं न^अत्र संशयः॥
उ7.11अब्।.कीले तु मरणं विद्याद् यूप^अग्रे च न संशयः।
उ7.11च्द्।.कुम्भ^स्थाने श्मशाने वा मृतो वा यत्र दृश्यते॥
उ7.12अब्।.अन्तरीक्षे प्रडीनं तु; अफलं तु विनिर्दिशेत्।
उ7.12च्द्।.दृष्ट्वा समागतं वासं प्रहृष्टं खञ्जरीटकं।
उ7.12एf।.यथा^स्थानंअं यथावर्णं मनुष्याणां विनिर्दिशेत्॥
उ7.13अब्।.विषमे स्वल्प^कक्षेषु प्रसक्तः कलहो भवेत्।
उ7.13च्द्।.समेषु समके क्षेत्रे समान् वर्णान् विनिर्दिशेत्।
उ7.13एf।.नद्यां तु शैल^वाहिन्यां प्रवासम् अभिनिर्दिशेत्॥
उ7.14अब्।.काष्ठेषु नातिका चिन्ता तथा^अस्थिषु धन^क्षयः।
उ7.14च्द्।.यां दिशं समुदागच्छत् पञ्च^उत्तरपदः खगः।
उ7.14एf।.तां दिशं गमनं विद्याद् यथा तस्य तथा पुनः॥
उ7.15अब्।.कीटा वा^अथ पतङ्गा वा भयं यद् इह दृश्यते।
उ7.15च्द्।.प्रचुरा^अपि यदा ज्ञेया नरस्य^अस्थीनि निर्दिशेत्॥
उ7.16अब्।.अपां समीपे गजमस्तके वा सूर्य^उदये ब्राह्मण^सन्निधौ वा।
उ7.16च्द्।.मुख्य प्रकाशे +अप्य् अहिमस्तके वा यः पश्यते खञ्जनकं स धन्यः॥
उ7.17अब्।.मातङ्ग^राजो मतिमांस् त्रिशङ्कुः प्रोवाच तत्त्वं कञ्जनं च शास्त्रं।
उ7.17च्द्।.स्निग्धे सरुक्षे विषमे समे च आदेश यद् दोष^गुणैर् यथोक्तैः।
उ7.17एf।.तमादिशेत् तत्र समीक्ष्य विद्वान् शुभ^अशुभं तत्फलम् आदिशेच् च॥

उ7.18।.अयं भोः पुष्करसारिन् खञ्जरीटक^ज्ञानं नाम^अध्यायः।
उ7.19।.अथ खलु भोः पुष्करसारिन् शिवा^रुतं नाम^अध्यायंव्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः।
उ8.शिवा^रुतं (प्.168)
उ8.1।.नमः सर्वेषाम् आर्याणां। नमः सर्वेषां सत्यवादिनां। तेषां सर्वेषां तपसा वीर्येण च इमं शिवा^रुतं नाम^अध्यायं व्याखामि।
उ8.2।.इत्य् आह भगवांस् त्रिशङ्कुः। शाण्डिल्यम् इदम् अब्रवीत्। यादृशं च यथा वाशेत् तेषां सर्वेषां वाशान् शृणोथ मे। पूर्वस्यां दिशि यदि वाशेत् शिवा पूर्व^मुखं स्थित्वा त्रीन् वारान् वाशेद् वृद्धिं निवेदयति। चतुरो वारान् यदि वाशेद् अत्र मङ्गलं निवेदयति। पञ्च वारान् वाशेद् वर्षां निवेदयति। षड्वारान् वाशेत् पर^चक्र^भयं निवेदयति। सप्तवारान् वाशेद् बन्धनं
निवेदयति। अष्ट वारान् वाशेत् प्रिय^समागमं निवेदयति। अभीक्ष्णं वाशेत् पर^चक्र^भयं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
उ8.3।.दक्षिणायां दक्षिण^मुखं स्थित्वा त्रिवारान् वाशेद् `अतृ अतृऽ कुरुते मरणं तत्र निवेदयति। चतुरो वारान् वाशति दक्षिण^मुखं स्थित्वा दक्षिणाया एव दिशायाः प्रिय^समागमं निवेदयति। अर्थ^लाभं च निवेदयति। पञ्च^वारान् वाशेद् अर्थं निवेदयति। षड्वारान् वाशेत् सिद्धिं निवेदयति। सप्तवारान् वाशेद् विवाद^कलहं निवेदयति। अष्टवारान् वाशेद् भयं
निवेदयति। अभीक्ष्णं वाशेद् आकुलं निवेदयति। एत्य् आह भगवांस् त्रिशङ्कुः।
उ8.4।.पश्चिमायां पश्चिम^अभिमुखं स्थित्वा शिवा त्रिवारान् वाशति मरणं निवेदयति। चतुर्वारान् वाशति बन्धनं निवेदयति। पञ्च^वारान् वाशति वर्षं निवेदयति। षड्वारान् वाशति अन्न^पानं निवेदयति। सप्तवारान् वाशति मैथुनं निवेदयति। अष्टवारान् वाशति अर्थ^सिद्धिं निवेदयति। अभीक्ष्णं वाशति महा^मेघं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
उ8.5।.उत्तरस्यां दिशि उत्तर^अभिमुखं स्थित्वा त्रिवारान् वाशति पुरुषस्य प्रस्थितस्य निरर्थकं गमनं भवति। चतुर्वारान् वाशति राज^प्रतिभयं निवेदयति। पञ्च^वारान् शाशति विवादं निवेदयति। षड्वारान् वाशति कुशलं निवेदयति। सप्तवारान् वाशति वर्षां निवेदयति। अष्टवारान् वाशति राज^कुल^दण्डं निवेदयति। (प्.169)अभीक्ष्णं वाशति
यक्ष^राक्षस^पिशाच^कुम्भाण्ड^भयं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
उ8.6।.दिशि विदिशि च^एव गिरि^प्राग्भारेषु शिखरेषु निर्देशं तं च शृणोथ मे। ``अमूं तुष्येत् पिपासार्ता विद्यासिद्ध्यै तथा^एव चऽऽ।
उ8.7अब्।.विद्यालम्भं धन^लम्भं निर्दिशेच् च विचक्षणः।
उ8.7च्द्।.तीर्थ^आकार^वृक्ष^मूले वाशती यदि दृश्यते॥
उ8.8।.सर्वत्र सिद्धिं निर्दिशेत्। न च शृगाल^भये शिवा (वा) मे समेति अप्रमत्तेन स्मृतिमता पूजयितव्या शिवा नित्यं। गन्ध^पुष्प^उपहारेण शुश्रूषा कर्तव्या। एवम् अर्चायमाना (?) सर्व^सिद्धिं निवेदयिष्यति। एवं ``सर्वे +अर्थास् तस्य सिध्यन्ति त्रिशङ्कोर् वचनं यथाऽऽ । क्रौष्ट्रिको यदि वाशति अर्थ^लम्भं निवेदयति। अधोमुखो यदि वाशति निधानं तत्र
निवेदयति। ऊर्ध्व^मुखो यदि वाशति वर्षां तत्र निवेदयति। द्विपथे यदि वाशति पूर्व^मुखं स्थित्वा अर्थ^लाभं निवेदयति। दक्षिण^अभिमुखो यदि वाशति यथा प्रिय^समागमनं निवेदयति। द्विपथे पश्चिम^अभिमुखो यदि वाशति कलहं विवादं विग्रहं मरणं च निवेदयति। कूपकण्ठके यदि वाशति अर्थं तत्र निवेदयति। शाद्वले यदि वाशति अर्थ^सिद्धिं
निवेदयति। अतिमृदुकं यदि वाशति व्याधिकं तत्र निवेदयति। गीतहारेण यदि वाशति अर्थम् अनर्थं च निवेदयति। त्रिभिर् वारैर् अर्थं चतुर्भिर् अनर्थं पञ्चभिः प्रिय^समागमं षड्भिर् भोजनं सप्तभिर् भयम् अष्टभिर् विग्रहं विवादं च। इत्य् आह भगवांस् त्रिसङ्कुः।
उ8.9।.``अथ भूयः प्रवक्ष्यामि अनुपूर्वं शृणोथ मेऽऽ । नाना^आहारे यदि वाशति मार्गे संस्थितस्य^अपि सर्वं वक्ष्यामि तं शृणोथ मे। संप्रस्थितस्य पुरुषस्य शिवा वाशति वा या पूर्व^मुखं स्थित्वा क्षिप्र^गमनम् अर्थ^सिद्धिं निवेदयति। अथ दक्षिण^मुखं वाशति या अर्थ^सिद्धिं निवेदयति। पञ्चान् मुखं वाशति भयं निवेदयति। अथ^उत्तरमुखं
वाशति अर्थ^लाभं निवेदयति। अथ संप्रस्थितस्य वाशति या पुरतः स्थित्वा उपक्लेशं निवेदयति। अथ दक्षिणे वाशति यदि दक्षिण^मुखा एव दिशः (प्.170) कर्म^सिद्धिं च निवेदयति। पश्चिमतो यदि वाशति चौरतो +अहितम् अस्य दुःख^दौर्मनस्यं निवेदयति। अथ मार्गे व्रजतो दक्षिणतो वाशति महा^व्याधिम् अनर्थं चौरा मुषन्ति तन् निवेदयति। ग्लानस्य
यदि वाशति दक्षिण^मुखं, ``न स चिकित्सितुं शक्यो मृत्यु^दूतेन चोदितःऽऽ। ग्लानस्य यदि वाशति उत्तर^मुखं स्थित्वा आरोग्यधन^लाभं च निवेदयति। अथ मूर्ध्ना वाशति या उपक्रेशं निवेदयति। अथ पश्चिममुखं स्थित्वा या अन्योन्यं व्याहरते यम^शासनं [निवेदयति]। नाना^आहारे यदि वाशति, या संक्षोभं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
उ8.10।.शिवा पुरतः पुरुषस्य मार्ग^प्रयातस्य यदि वाशति, या अग्रतः क्षेम^मार्गं विज्ञापयति। अर्थ^सिद्धिं निवेदयति। मार्गं व्रजतो +अस्य शिवा वामेन^आगत्य गच्छते दक्षिण^मुखं क्षेम^मार्गं विजानीयाद् अर्थ^सिद्धिं च निवेदयति। मार्गे व्रजतः पुरुषस्य शिवा वामेन^आगत्य पुरता वाशति या तथा सभयं मार्गं विज्ञापयति। निवर्तेत विचक्षणः।
दक्षिणां दिशं वामं गत्वा वामतः परिवर्तेत ``न तन् मार्गेण गन्तव्यं त्रिशङ्कु^वचनं यथाऽऽ । पुरतः शिवा गत्वा अग्रतश् च निषीदति सभयं मार्गं विजानीयात्। निवर्तेत विचक्षणः। शिवा पुरत आगत्य वामेन परिवर्तते भयम् एतीह+अ तेन^अपि भयं जानीयाद् विचक्षणः। सेनायाम् आवाहितायां शिवा वशति पश्चिमं निवर्तनं निवेदयति। यदि गच्छेत् पराजयः।
सेना न गच्छेत्। सेनायां व्रज^मानायां शिवा आगच्छेद् अग्रतः सेनाजयं निवेदयति। पर^चक्र^पराजयं च निवेदयति। सार्थस्य व्रजमानस्य शिवा गच्छत्य् अग्रतः क्षेममार्गं निवेदयति। अर्थ^सिद्धिं तथा^एव च। पुरुषस्य पथि व्रजतो वामतो वाशति मार्गं निवेदयति। ``तन्मार्गेण [हि} गन्तव्यं त्रिशङ्कु^वचनं यथाऽऽ।
उ8.11।.``ग्रामस्य नगरस्य^अपि चैत्यस्थाने तथा^एव चऽऽ। पूर्वेण^उत्तरेण^अपि शिवा वाशति क्षेमं तत्र निवेदयति। दक्षिणे पश्चिमे यदि वाशति या भयं तत्र निवेदयति।
उ8.12अब्।.वामतो न प्रशंसन्ति तथा^एव विदिशासु च।
उ8.12च्द्।.अतिदीर्घातिरूक्षा वा काले मासान्तिके तथा।
उ8.13अब्।.अधरां तु भयं वक्ष्ये त्रिशङ्कु^वचनं यथा॥
उ8.13च्द्।.मधु^स्वरांशिवां ज्ञात्वा काले वेले उपस्थिते।(प्.171)
उ8.14अब्।.क्षेमं चैव^अर्थसिद्धिश् च चिन्तितव्यं विचक्षणैः॥

उ8.15।.व्याधिर् उपद्रवाश् च, ``सव तु प्रशमं यान्ति त्रिशङ्कु^वचनं यथाऽऽ । शिवा^रुतस्य^उपचारो दिग्^विदिशासु निमित्ता ग्रहीतव्याः। यः शिवाया दिवसो भवति स दिवसो ज्ञातव्यः। पुष्प^गन्ध^माल्य^उपहारस् तद्दिवसे उपपादयितव्यः। नित्यं देवता^गुरुकेण भवितव्यं। दैव्यागुरुकेण भवितव्यं। देव्यै शुश्रूषा कर्तव्या। सर्वार्थान् सम्पादयिष्यति। सर्व^कार्याणि
निवेदयति।
उ8.16।.यत् किञ्चित् कार्यम् आरभिष्यति तत्सर्वं निवेदयति। देव्यै सर्ज्जरसो गुग्गुलु च धूपयितव्यं। पुष्प^बलिश् च यथा^काले दापयितव्यः। इत्य् आह भगवांस् त्रिशङ्कुः।
उ8.17।.शिवा^रुत^कथाने +अत्र विद्यां वक्ष्यामि यथासत्यं भविष्यति।
उ8.18।.नम आरण्यायै। चीरिण्यै स्वाहा सर्ज्ज^रस^धूपं।
उ8.19।.अयं भोः पुष्करसारिन् शिवा^रुत^नाम^अध्यायः।
उ8.20।.अथातः पुष्करसारिन् पाणि^लेखा^नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं कथयतु भगवांस् त्रिशङ्कुः।
उ9 पाणिलेखा (प्.172)
उ9.1अब्।.अथातः संप्रवक्ष्यामि नराणां कर^संस्थितं।
उ9.1च्द्।.लक्षणं सुख^दुःखानां जीवितं मरणं तथा॥
उ9.2अब्।.अङ्गुष्ठमूलम् आश्रित्य ऊर्ध्व^रेखा प्रवर्तते।

उ9.2च्द्।.तत्र जातं सुखतरं द्वितीया ज्ञानम् अन्तरे॥
उ9.3अब्।.तृतीया सा लेखा यत्र प्रदेशिन्या प्रवर्तते।
उ9.3च्द्।.तत्रोक्ता हेतवः शास्त्रे समासेन चतुर्^विधाः॥
उ9.4अब्।.अपर्वसु च पर्वाणि नक्ष्त्राणाम् उपद्रवः।
उ9.4च्द्।.द्विनिःसृतो विशुद्ध^आत्मा जीवेद् वर्षशतं हि सः॥
उ9.5अब्।.त्रिंशत् त्रिभागेन जायीयाद् अर्धे पञ्चाशद् आयुषः।
उ9.5च्द्।.सप्ततिस् त्र्यंशभागेषु अत्यन्तानुगते शतं॥
उ9.6अब्।.आउइर्;एल्जा प्रदृश्य^एवं व्यन्तरायः प्रकाश्यते।
उ9.6च्द्।.नक्षत्र^संज्ञया ज्ञेया मनुजैर् अर्थशस् तथा॥
उ9.7अब्।.अङ्गुष्ठ^उदरमार्गे तु यावत्यो यस्य राजयः।
उ9.7च्द्।.तस्यापत्यानि जानीयात् तावन्ति न^अत्र संशयः॥
उ9.8अब्।.दीर्घायुषं विजानीयाद् दीर्घलेखा तु या भवेत्।
उ9.8च्द्।.ह्रस्वायुषं विजानीयाद् ध्रस्वलेखा तु या भवेत्॥
उ9.9अब्।.अङ्गुष्ठमूले यवको रात्रौ जन्माभिनिर्दिशेद्।
उ9.9च्द्।.दिवा तु जन्म निर्दिष्टम् अङ्गुष्ठ^यवके ध्रवं॥
उ9.10अब्।.अव्यक्तो यवको यत्र तत्र लग्नं विनिर्दिशेत्।
उ9.10च्द्।.लग्नं पुंसंज्ञको ज्ञेयो +अहो^रात्रं विनिर्दिशेत्॥
उ9.11अब्।.दिवसं जन्म निर्दिशेद् रात्रौ स्त्री^संज्ञको भवेत्।(प्.173)
उ9.11च्द्।.रात्रिः सन्ध्या समाख्याता भागैर् अन्यैर् न संशयः।
उ9.11एf।.पुंसंज्ञाद् उदयं तेषाम् अहोरात्रान्तिकं वदेत्॥
उ9.12अब्।.अङ्गुष्ठमूले यवके शले सौख्यं विधीयते।
उ9.12च्द्।.अश्वाद् भद्रं विजानीयाद् अङ्गुष्ठ^यवकेष्व् इह॥
उ9.13अब्।.यवमाला च मत्स्यः स्याद् अङ्गुष्ठ^यवको रतौ।
उ9.13च्द्।.बालयौवनमध्यान्ते सुखं तस्याभिनिर्दिशेत्॥
उ9.14अब्।.यस्य स्याद् यवकश् च^अपि च^अपो वा स्वस्तिकस् तथा।
उ9.14च्द्।.तलेषु येषु दृश्यन्ते धन्यास् ते पुरुषा ह्य् अमी॥
उ9.15अब्।.मत्स्यो धान्यं भवेद् भोगायामिषादौ यवे धनं।
उ9.15च्द्।.भोग^सौभाग्यं जानीयान् मीनादौ न^अत्र संशयः॥
उ9.16अब्।.पताकाभिर् ध्वजैर् वा^अपि शक्तिभिस् तोमरैस् तथा।
उ9.16च्द्।.तलस्थाइर् अङ्कुशैश् च^अपि विज्ञेयः पृथिवीपतिः।
उ9.16एf।.राज^वंशप्रसूतं च राज^मात्रं विनिर्दिशेत्॥
उ9.17अब्।.प्रेक्ष्यन्ते शाख्या पञ्च हस्ते चत्वार एव च।
उ9.17च्द्।.क्षत्रियो वा भवेद् भोगी राजभिश् च^अपि सत्कृतः॥
उ9.18अब्।.वैश्यो +अथ क्षत्रियो वाग्मी धन^धान्यं न संशयः।
उ9.18च्द्।.शूद्रो विपुलभागी स्यात् पर्वशीलो +अथ नैष्ठिकः॥
उ9.19अब्।.सततम् अभिपूज्यः स्यात् सर्वेषां च प्रियंवदः।
उ9.19च्द्।.विशीलः शीलकुञ्चो वा बहुभिर् न बहुस् तथा॥
उ9.20अब्।.श्यामवर्णा +अथ भिन्ना वा सा लेखा दुःखभागिनी।
उ9.20च्द्।.क्तिलेखा यस्य दृश्यन्ते यस्य पूर्णाः करथिताः।
उ9.20एf।.महा^भोगो महा^विद्वान् जीवेद् वर्षशतं च सः॥

उ9.21अब्।.अजपदं राज^छत्रं शङ्खचक्र^पुरस्कृतं।(प्.174)
उ9.21च्द्।.तलेषु यस्य दृश्यन्ते तं विद्यात् पृथिवीपतिं॥
उ9.22अब्।.भगस् तु भाग्याय ध्वजैः पताकैर् हस्त्यश्वमालाङ्कुशतश् च राजा।
उ9.22च्द्।.मत्स्यो नु पानाय यवो धनाय वेदिस् तु यज्ञाय गवां च गोष्ठः॥
उ9.23अब्।.अनामिकापर्व अतिक्रमेद् यदि कनिष्ठिका वर्षशतं स जीवति।
उ9.23च्द्।.समेत्वशीतिर् वर्षाणि सप्तभिर् यथा नदीनां भरिताय निर्दिशेद्॥
उ9.24अब्।.शरीरवर्ण^प्रभवां तु लेखां सवैशिखां वर्ण^विहीनकां च।
उ9.24च्द्।.समीक्ष्य नीचोत्तममध्यमानां दारिद्य्र्मध्ये चरतां विजानतां॥
उ9.25अब्।.अभ्यञ्जनोद्वर्तन सत्करी[षैर]ध्यक्ष चूर्णैश् च विमृज्य पाणिं।
उ9.25च्द्।.प्रक्षाल्य चैक^अन्तरघृष्ट^लेखाम् एकाग्रचित्तस् तु करं परीक्षेत्॥
उ9.26अब्।.वलयसमनराधिपं भजन्त्यः समनुगता मणिबन्धने तु तिस्रः।
उ9.26च्द्।.द्विर् अपि च [स] भव^अन्तरे महा^आत्मा विप्पुलधन^श्रिय आह वस्त्र^लाभः॥
उ9.27अब्।.ददति सततम् उन्नतस् तु पाणिर् भवति चिराय तु दीर्घपीनपाणिः।
उ9.27च्द्।.परिपतति शिराविरुद्धपाणिर् धनम् अधिगच्छति मांस^गूढपाणिः॥
उ9.28अब्।.सुदृश[कर^तलैश् च]साधवस्ते कुटिलकृतैर् विनिमीलितैश् च धूर्ताः।
उ9.28च्द्।.भवति रुधिरसन्निभः सुरक्तश् चिरम् इह पिण्डितपाणिरीश्वरः स्यात्॥
उ9.29अब्।.धृतरुचिरमनाः शिलारविन्दैर् ज्वलनकषाय सुवर्ण^पाणिरा[जि]+।
उ9.29च्द्।.भवति बहु^धनो निगूढपाणिश् चिरम् इह जीवति पान^भोग^भोगी॥
उ9.30अब्।.सुभग इह तथोष्णदीर्घपाणिर् ध्रुवम् इह शीतलपाणिकस् तु शण्ठः।
उ9.30च्द्।.इह हि बहु^धनो बलेन युक्तः सुतनु सुसञ्चितपाणिरेखको यः॥
उ9.31अब्।.धनम् उपनयतीह पाणिलेखा कृत^जनिता जलवच् च या सुदीर्घा।(प्.175)
उ9.31च्द्।.जलवदनुगता सुवर्ण^वर्णा धनम् अधिगच्छति निम्नशोन्नता या॥
उ9.32अब्।.धनम् उपलभते सुरक्त^पाणिर् विपुलमथो च निरन्तराङ्गुलिः स्यात्।
उ9.32च्द्।.बलि^पुरुषम् अपि त्यजेद्धि वित्तं दितविवशा च विशीर्णवर्ण^लेखा॥
उ9.33अब्।.अपगतघृत^वर्ण^पाणिलेखो भवति नरो धनवान् बलेन युक्तः।
उ9.33च्द्।.असुभृति सदृशा भवेत् तथा भूषण^वृत[रूपवती शुभा]एक^भार्या॥
उ9.34अब्।.भवति बहु^धनो धनैर् विहीनः श्रुतम् अधिगम्य विशालपाणिलेखः।
उ9.34च्द्।.[सु]ऋजुभिर् अहिनील^निर्मला[भिः] कर^तल^राजि[भिरीश्वरः स धन्य]ः॥
उ9.35।.अयं भोः पुष्करसारिन् कर^तल^लेखानाम् आध्यायः।
उ9.36।.अथ खलु भोः पुष्करसारिन् वायस^रुतं नाम^अध्यायं व्याखास्यामि तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः। नमो +अर्हतां। तेषां नमस्कृत्वा।
उ10 वायस^रुतं
उ10.1अब्।.इदं शास्त्रं प्रवक्ष्यामि वायसानां शुभ^अशुभं।
उ10.1च्द्।.जयम् पराजयं च^एव लाभ^अलाभं तथा^एव च॥
उ10.2अब्।.सुखदुःखं प्रियाप्रियं जीवितं मरणं तथा।
उ10.2च्द्।.वायसानां वचःसिद्धिं प्रवक्ष्यामि यथाविधि॥
उ10.3अब्।.देवाः प्रवदन्ति श्रेष्ठा वायसानां नमा नमः।
उ10.3च्द्।.आगता मानुषं लोकं वायसा बलि^भोजनाः॥
उ10.4अब्।.प्रस्थितस्य यदा +अध्वानम् अग्रतो वायसो भवेत्।
उ10.4च्द्।.व्याहरन् क्षीरवृक्ष^स्थो निर्दिशेद् अर्थ^सिद्धितां॥
उ10.5अब्।.स्वरेण परितुष्टेन फलवृक्ष^समाश्रितः।

उ10.5च्द्।.पुनर् आगमनं च^एव सिद्धर् अर्थ^निवेदितं॥
उ10.6अब्।.विवृद्धवृक्ष^पत्राणि मधुरं च^अनुवासति।(प्.176)
उ10.6च्द्।.असूपं निर्दिशेद् भोज्यं गुडमिश्रं तु गोरसं॥
उ10.7अब्।.दृष्टस् तु तुण्डपादेन आत्मनः परिमार्जति।
उ10.7च्द्।.पायसं सर्पिषा मिश्रं तत्र विद्यान्नसंशयः॥
उ10.8अब्।.रूक्षं निर्घर्षते तुण्डं शिरश् च परिमार्जति।
उ10.8च्द्।.सफलं वृक्षम् आस्थाय ध्रुवं मांसेन भोजनं॥
उ10.9अब्।.लोचयति व्याहरति फलवृक्ष^समाश्रितः।
उ10.9च्द्।.व्याधेन च हतं मांसं निवेदयति भोजनं॥
उ10.10अब्।.घोरं व्याहरते कार्यं वायसो वृक्ष^माश्रितः।
उ10.10च्द्।.कलहं संग्राम^भयं तत्र विद्यान्न संशयः॥
उ10.11अब्।.शुष्कवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत्।
उ10.11च्द्।.कलहं सुमहत् कृत्वा न च^अर्थं तत्र सिध्यति॥
उ10.12अब्।.क्षीरवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत्।
उ10.12च्द्।.क्रमेण युगमात्रेण न च्चार्थं तत्र सिध्यति॥
उ10.13अब्।.शुष्कवृक्षे निषीदित्वा कामुकाकं प्रवाशति।
उ10.13च्द्।.तत्क्षणं सन्निवेदेति तत्र चौर^भयं भवेत्॥
उ10.14अब्।.शुष्कवृक्षे निषीदित्वा कामुकाकं प्रवाशति।
उ10.14च्द्।.पृष्ठेन दर्शयेद् भारं क्षुधापीडां च निर्दिशेत्॥
उ10.15अब्।.पक्षं विधूयमानो यः पश्यन् पथस्य वाशति।
उ10.15च्द्।.न तत्र गमनं कुर्याच् चौरैः पथम् उपद्रुतं॥
उ10.16अब्।.रज्जुं वा फलकं वा^अपि यदि कर्षति वायसः।
उ10.16च्द्।.न तत्र गमनं श्रेयश् चौरैः पथम् उपद्रुतं॥
उ10.17अब्।.गोमये शुष्ककाष्ठे वा यदि वाशति वायसः।
उ10.17च्द्।.कलहः कुवचो व्याधिर् न च^अर्थं तत्र सिध्यति॥
उ10.18अब्।.तृणं वा यदि वा काष्ठं दर्शयेच् च यदा खगः।(प्.177)
उ10.18च्द्।.पुरतः शुष्कपाणिस् तु तत्र चौर^भयं भवेत्॥
उ10.19अब्।.सार्थोपरि निषीदित्वा क्षामं दीनं च व्याहरेत्।
उ10.19च्द्।.निपतेत् सार्थमध्ये +अस्मिन् चौर^सैन्यं न संशयः॥
उ10.20अब्।.यदा प्रदक्षिणं त्रस्तं वाशन्ति विविधं खगाः।
उ10.20च्द्।.शुष्कवृक्षे निषीदित्वा तत्र विद्यान् महा^भयं॥
उ10.21अब्।.भीतस् त्रस्तः परीतश् च यस् तु व्याहरते खगः।
उ10.21च्द्।.परिबाधन् दिशः सर्वास् तत्र भयम् उपस्थितं॥
उ10.22अब्।.गच्छन्तं समनुगच्छेत् पुरः स्थित्वा तु व्याहरेत्।
उ10.22च्द्।.न तत्र गमनं क्कुर्यान् मार्गम् अत्र प्रशातनं॥
उ10.23अब्।.वास्तुमध्ये प्रतिस्थाने क्षामं दीनं च व्याहरेत्।
उ10.23च्द्।.व्याधिं तत्र विजानीयाद् वासे वा गृह^स्वामिनां॥
उ10.24अब्।.शकटस्य यथा शब्दं विश्रब्धं वाशति वायसः।
उ10.24च्द्।.दूराद् अभ्यागतं ज्ञात्वा प्रसिद्धिं च^अभिनिर्दिशेत्॥
उ10.25अब्।.गर्गरे घटके च^एव स्थालिकपिठरेषु वा।

उ10.25च्द्।.निषण्णो वाशते काकः प्रसिद्धं गमनं ध्रुवं॥
उ10.26अब्।.आसने शयने वा^अपि स्थितो वाशति वायसः।
उ10.26च्द्।.प्रसिद्धं गमनं ब्रूयात् प्रोषितेन समागमः॥
उ10.27अब्।.ब्रह्म^स्थाने निषीदित्वा ध्रुवं वाशति वायसः।
उ10.27च्द्।.अर्थ^लाभं विजानीयाद् धन^लाभं च आकरेत्॥
उ10.28अब्।.ब्रह्म^स्थाने निषीदित्वा क्षामं दीनं च वाशति।
उ10.28च्द्।.सन्धिस्थाने हरेच् चौरस् तत्र वै नास्ति संशयः॥
उ10.29अब्।.देवता^देवतानां च देवस्य^उपवनानि च।
उ10.29च्द्।.यस्य वाचं वदेत् तस्य^अर्थ^लाभं विनिर्दिशेत्॥
उ10.30अब्।.लाक्षाहरिद्रामञ्जिष्ठाहरितालमनःशिलाः।
उ10.30च्द्।.यस्याहरेत् पुरस्तस्य स्वर्ण^लाभं विनिर्दिशेत्॥
उ10.31अब्।.पात्रं च पात्रकं च^एव मृत्तिकावरभाजनं।(प्.178)
उ10.31च्द्।.यस्य यस्य हरेत् तस्य द्रव्य^लाभं विनिर्दिशेत्॥
उ10.32अब्।.सङ्घीभूत्वा युगमात्रं शुभं तिष्ठति वायसः।
उ10.32च्द्।.काष्ठं वा वायसा यत्र गृहम् आरोपयन्ति च।
उ10.32एf।.निगदन्त्य् अत्र विजानीयाद् याचकात् तु महा^भयं॥
उ10.33अब्।.नीलं पीतं लोहितं च प्रतिसंहरणानि च।
उ10.33च्द्।.निगृह्णन्ति यत्र काका व्याधिं तत्र विनिर्दिशेत्॥
उ10.34अब्।.ग्रामन्ते भयम् आख्याति काको वा वाशति ध्रुवं।
उ10.34च्द्।.प्रत्येकतो वा वाशन्ति विद्यात् तत्र महा^भयं॥
उ10.35अब्।.वायसो +अस्थि गृहीत्वा वै प्रगच्छेद् अनुदक्षिणं।
उ10.35च्द्।.निषीदन् सफले वृक्षे स वदेन् मांस^भोजनं॥
उ10.36अब्।.यस्य शीर्षे निषीदित्वा कर्णं कर्षति वायसः।
उ10.36च्द्।.अभ्यन्तरे सप्त^रात्रान् मरणं तस्य निर्दिशेत्॥
उ10.37अब्।.करके च^उदके च^एव स्निग्धदेशेषु वाशति।
उ10.37च्द्।.ऊर्ध्व^मुखं निरीक्षन्तु जगद्वृष्टिं विनिर्दिशेत्॥
उ10.38अब्।.स्वरेण परितुष्टेन तीर्थवृक्षेषु वाशति।
उ10.38च्द्।.ऊर्ध्व^मुखं तथा वक्ति वात^वृष्टिं विनिर्दिशेत्॥
उ10.39अब्।.कायं किलकिलायन्तु स्निग्धदेशेषु वाशति।
उ10.39च्द्।.वक्षो विध्न्वन्वायसः सद्यो वृष्टिं विनिर्दिशेत्॥
उ10.40अब्।.स्वरेण परितुष्टेन स्निग्धं मधुरं वाशति।
उ10.40च्द्।.सक्षर^सद्रवं भागं वाशति भोजनं भवेत्॥
उ10.41अब्।.प्रकारे तोरण^अग्रे वा यदि वाशति वायसः।
उ10.41च्द्।.अभीक्ष्णं घर्षते तुण्डं संग्रामं तत्र निर्दिशेत्॥
उ10.42अब्।.मण्डलानि वावर्तानि बहिर् वा नगरस्य च।
उ10.42च्द्।.वैरं च विग्रहं घोरं तत्र च^एव विनिर्दिशेत्॥
उ10.43अब्।.ग्रामे वा नगरे वा^अपि कुर्वते यत्र मण्डलं।(प्.179)
उ10.43च्द्।.ऊर्ध्व^मुखं वाशन्तो वै विषण्णत्वं समुत्थितं॥
उ10.44अब्।.पूर्वेण च^एव ग्रामस्य यदा सूयति वायसी।
उ10.44च्द्।.अल्पोदकेनोत्प्लवन्ति वनानि नगराणि च॥

उ10.45अब्।.पुरस्ताद् दक्षिणे पार्श्वे यदि सूयति वायसी।
उ10.45च्द्।.वर्षति प्रथमे मासे पश्चाद् देवो न वर्षति।
उ10.45एf।.कृष्ण^धान्यानि वर्धन्ते माषधान्यं विनश्यति॥
उ10.46अब्।.दक्षिणे वृक्ष^शिकह्रे यदा सूयति वायसी।
उ10.46च्द्।.मण्डूककीटकम् अक्षा चौरश् च बहुलीभवेत्॥
उ10.47अब्।.पश्चिम^उत्तरपार्श्वे तु यदा सूयति वायसी।
उ10.47च्द्।.मध्यमं च भवेद् वर्षं मध्य^शस्यं च जायते॥
उ10.48अब्।.पश्चिम^उत्तरपार्श्वे तु यदा सूयति वायसी।
उ10.48च्द्।.अशनिर् निपतेत् तत्र भयं च मृगपक्षीणां॥
उ10.49अब्।.उत्तरे वृक्ष^शिखरे यदा सूयति वायसी।
उ10.49च्द्।.पूर्वम् उप्तं विजानीयाच् छस्यं समुपजायते॥
उ10.50अब्।.उपरि वृक्ष^शिखरे यदा सूयति वायसी।
उ10.50च्द्।.अल्प^उदकं विजानीयात् स्थले बीजानि रोपयेत्॥
उ10.51अब्।.यदा तु मध्ये वृक्षस्य निलयं करोति वायसी।
उ10.51च्द्।.मध्यमं वर्षते वर्षं मध्य^शस्यं प्रजायते॥
उ10.52अब्।.स्कन्ध^मूले तु वृक्षस्य यदा सूयति वायसी।
उ10.52च्द्।.अनावृष्टिर् भवेद् घोरा दुर्भिक्षं तत्र निर्दिशेत्॥
उ10.53अब्।.चतुरः पञ्च वा पोतान् यदा सूयति वायसी।
उ10.53च्द्।.सुभिक्षं च भवेत् तत्र फलानाम् उदितं भवेत्॥
उ10.54।.अयं भोः पुष्करसारिन् वायस^रुतं नाम^अध्यायः।
उ10.55।.अथ खलु भोः पुष्करसारिन् द्वार^लक्षणं नाम^अध्यायं व्याख्यास्यामि तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।
उ11 द्वार^लक्षणं (प्.180)
उ11.1अब्।.माहेन्द्रम् अथ दिव्यं च माङ्गल्यं पूर्वतः स्मृतः।
उ11.1च्द्।.दक्षिणे तु दिशो भागे पूषा च पित्र्यम् एव च॥
उ11.2अब्।.सुग्रीवं पुष्प^दन्तं च पश्चिमेनात्र निर्दिशेत्।
उ11.2च्द्।.भल्लातकं राज^यक्ष्मं विद्याद् उत्तरतः शुभं॥
उ11.3अब्।.जन्म^संपद्विपत्क्षेत्रक्षेमप्रत्यरिसाधनं।
उ11.3च्द्।.अथ वै धन्मित्रं च परमं मैत्रम् एव च॥
उ11.4अब्।.उवाच विधिवत् प्राज्ञो विश्व^कर्मा महा^मतिः।
उ11.4च्द्।.वास्तूनां गुणदौषौ च प्रवक्ष्याम्य् अनुपूर्वशः॥
उ11.5अब्।.समं स्याच् चतुरस्रं च विस्तीर्णा च^एव मृत्तिका।
उ11.5च्द्।.क्षीरवृक्षाकुलं धन्यं ब्राह्मणस्य प्रशस्यते॥
उ11.6अब्।.पूर्वायतनतया वास्तु रथचक्राकृति च यत्।
उ11.6च्द्।.रक्त^पांशुर् भवेद् यत्र राज्ञां तत् तु प्रशस्यते॥
उ11.7अब्।.त्रिकोणं कुशसंस्तीर्णम् उत्तानं मधुरं च यत्।
उ11.7च्द्।.व्यायाम् अतो जलं च^एव वास्तु तस्य धनौषधी॥
उ11.8अब्।.अङ्गाराकार^संस्थानं गोमुखं शकटाकृति।
उ11.8च्द्।.अनावास्यं च तत् प्रोक्तं यच् च पुत्रक्षयावहं॥
उ11.9अब्।.यत् तु कञ्जलकक्षैस् तत् त्यक्तं वर्षोदकेन च।(प्.181)
उ11.9च्द्।.अपसव्य^उदकं च^एव दूरतः परिवर्जयेत्॥

उ11.10अब्।.विप्रस्य चतुरस्रं तु क्षात्रियं परिमण्डलं।
उ11.10च्द्।.दश द्वादशकं वैश्ये शूद्रस्य तत्र लेखनं॥
उ11.11अब्।.वास्तुपूर्व^उत्तरे देशे गोकुलं तत्र् कारयेत्।
उ11.11च्द्।.तथा^एव च^अग्निशालां तु पूर्व^दक्षिणतो दिशे॥
उ11.12अब्।.वर्षवृष्यायुधागारान् दक्षीणेन निवेशयेत्।
उ11.12च्द्।.पश्चिम^उत्तरतश् च^अत्र वणिग्भाण्डं निवेशयेत्॥
उ11.13अब्।.उत्तरायां तु कर्तव्यं वर्चः स्थानाम् अनुत्तरं।
उ11.13च्द्।.ऐशान्याम् एव सर्वाणि प्रासादश् च पुरोमुखः॥
उ11.14अब्।.अविधिपरिवर्तेन तत्र वैरं वधो भवेत्।
उ11.14च्द्।.रचितसर्व^द्वाराणाम् आयामो द्विगुणो मतः॥
उ11.15अब्।.कुर्यात् सुरभवनानां यथेष्टं द्वारकाण्य् अपि।
उ11.15च्द्।.तद्द्वार^बाहुपर्यन्ते स्त्रियो दृष्टा दोषावहाः॥
उ11.16अब्।.विद्विषस्य सलोकस्य द्वारे स्यान् नु करग्रहः।
उ11.16च्द्।.महेन्द्रे पुरे वा राज्यं सूर्ये सूरप्रभावता॥
उ11.17अब्।.सत्ये मृदुर् मृगे सूरो +अन्तरीक्षे धन^क्षयः।
उ11.17च्द्।.वायव्ये तु बहु^व्याधिर् भगे भाग्यविपर्ययः॥
उ11.18अब्।.पुष्पे तु सुभगो नित्यं वितथे +अप्य् अशुभो भवेत्।
उ11.18च्द्।.शोके भूत^विकारः स्यात् सोषे तस्य विषण्णता॥
उ11.19अब्।.बल्लातके गृहे वासो राज^यक्ष्मे समावृतिः।(प्.182)
उ11.19च्द्।.ह्रदे रेणु परिश्राव आदित्ये तु कलिर् ध्रुवं॥
उ11.20अब्।.नाग^राजे नाग^भयं महश्चेएद् दीर्घम् आयुषं।
उ11.20च्द्।.भवेद् अस्य च यद् द्वारं तत्र^अग्नि^भयम् आदिशेत्॥
उ11.21अब्।.क्षयं विद्यात् तस्य तस्य धनस्य च कुलस्य च।
उ11.21च्द्।.यमे मृत्युं विजानीयात् कुले श्रेष्ठ^उत्तमस्य च।
उ11.21एf।.भृङ्गिराजे त् मतिमान् गन्धर्वे गन्धमाल्यता॥
उ11.22अब्।.भृङ्गे क्रोधः कलिश् च^एव पितरि भोग^सम्पदः।
उ11.22च्द्।.दौवारिके स्वल्प^धनं सुग्रीवे राज^पूजितः॥
उ11.23अब्।.पुष्प^दन्ते धनावाप्तिर् वरुणे जलचित्रता।
उ11.23च्द्।.असुररे मरणं घोरं रोगे तु बहु^दोषता॥
उ11.24अब्।.बलींश् च उपहारांश् च प्रवक्ष्यांइ यथागृहं।
उ11.24च्द्।.चिचित्रैर् विदिशैर् गन्धैः प्रैपूज्य बलिं हरेत्॥
उ11.25अब्।.कलत्रे हेतुबीजानि मध्यमे +अर्जितम् एव तु।
उ11.25च्द्।.महेन्द्रे मुक्त^पुष्पाणि पावके च पयो दधि॥
उ11.26अब्।.आदित्ये परिदेयं तु भक्तं च^एव प्रियङ्गवः।
उ11.26च्द्।.अन्तरीक्षे जलं दिव्यं पुष्पाणि जलजानि च॥
उ11.27अब्।.नन्दा प्रतिपादा ज्ञेया षष्ठी त्रयोदशी जया।
उ11.27च्द्।.तासु तासु ध्रुवं कुर्यात् प्राज्ञो ह्य् एवं विचक्षणः॥
उ11.28।.अयं भोः पुष्करसारिन् द्वार^लक्षणं नाम^अध्यायः।
उ11.29।.अथ खलु भोः पुष्करसारिन् द्वादश^राशिकं नाम^अध्यायं व्याखास्यामि। तच् छ्रूयतां। अथ किं । कथायतु भगवान् त्रिशङ्कुः।
उ12 द्वादश^रीशिकः (प्.183)

उ12.1अब्।.अतः परं प्रवक्ष्यामि चित्तविज्ञान^काण्डकं।
उ12.1च्द्।.यथा दृष्टान्तेनैवैनं नराणां समुदाहृतं॥
उ12.2अब्।.तद् अहं संप्रवक्ष्यामि चित्तविज्ञानम् उत्तमं।
उ12.2च्द्।.द्वादशैव तु चित्तास् ते ये लोके प्रचरन्ति वै॥
उ12.3अब्।.तान् अहं संप्रवक्ष्यामि शृणु तत्त्वेन मे ततः।
उ12.3च्द्।.द्वादश^एव तु कुर्याच् च मण्डलानि विचक्षणः।.
उ12.4अब्।.प्रथमं मेषो नाम स्याद् द्वितीयं तु वृषः स्मृतः।
उ12.4च्द्।.तृतीयं मिथुनं नाम चतुर्थं च^अपि कर्कटः॥
उ12.5अब्।.पञ्चमं च^अपि सिंहस् तु षष्ठं कन्या इति स्मृतं।
उ12.5च्द्।.तुला तु सप्तमं ज्ञेया वृश्चिकस् तु तह्ताष्टमं॥
उ12.6अब्।.द्नवी तु नवमं ज्ञेया दशमं मकरः स्मृतः।
उ12.6च्द्।.कुम्भश् चैकादशं ज्ञेयो द्वादशं मीन उच्यते॥
उ12.7अब्।.होरा शरीरं जातस्य द्वितीये चिन्तितं धनं।
उ12.7च्द्।.तृतीये भ्रातुर च^एव चतुर्थे स्वजनस् तथा॥
उ12.8अब्।.चिन्त्यते पञ्चमे पुत्रः षष्ठे मण्डले शत्रुता।
उ12.8च्द्।.सप्तमे दारसंयोगो ह्य् अष्टमे नैधनं स्मृतं॥
उ12.9अब्।.नवमे चिन्त्यते धर्मो दशमे दर्मजं फलं।
उ12.9च्द्।.एकादशे च^अर्थ^लाभो द्वादशे व्यर्थ^संभवः॥
उ12.10अब्।.एते द्वादश^चित्तास् तु यथा दृष्टा महर्षिभिः।
उ12.10च्द्।.सर्व^भूतात्मभूताश् च यथाज्ञेयास्त देहिनां॥
उ12.11अब्।.आगस्त्य पृच्छते कश्चित् प्रथमं मण्डलं स्पृशेत्।(प्.184)
उ12.11च्द्।.शिरस् तु स्पृशते यश् च शब्दश् च उपलक्ष्यते॥
उ12.12अब्।.व्याधितं च^एव ह्य् आत्मानम् आग्नेयाश् च विनष्टयः।
उ12.12च्द्।.यदि ब्रूयात् तदा तस्य आत्मार्थं चिन्तितं भवेत्॥
उ12.13अब्।.काञ्चनं रजतं ताम्रं लौहं च^एव भृशं हवेत्।
उ12.13च्द्।.स च सर्व^गतश् च^एव अग्निर् अश्नाति निश्चितं॥
उ12.14अब्।.एतादृशं दृष्ट्वोत्पातम् आग्नेयं तस्य निर्दिशेत्।
उ12.14च्द्।.यादृशश् च भवेच् छब्दस् तादृशं तेन चिन्तितं॥
उ12.15अब्।.पुरुषः कश्चिद् आगत्य द्वितीयं मण्डलं स्पृशेत्।
उ12.15च्द्।.ग्रीवां वा परिमार्जयेद् गलं च चिबुकं पुनः॥
उ12.16अब्।.यदि शब्दश् च श्रूयेत दृष्टा गावस् तथा^एव च।
उ12.16च्द्।.ईदृशं च दृxट्वोत्पातं गोशब्दं तत्र निर्दिशेत्।
उ12.16एf।.अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितम्॥
उ12.17अब्।.पुरुषः कश्चिद् आगत्य तृतीयं मण्डलं स्पृशेत्।
उ12.17च्द्।.मार्जयेन् मुखदेशं तु स्त्री^चित्तं तस्य निर्दिशेत्॥
उ12.18अब्।.अथ शब्दो भवेत् तत्र श्रूयन्तां तादृशास् तु ते।
उ12.18च्द्।.जातं प्रजातम् उपजातं तथा जातो भविष्यति॥
उ12.19अब्।.एतादृशं दृzट्वोत्पातं गर्भं तस्य विनिर्दिशेत्।
उ12.19च्द्।.अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितं॥
उ12.20अब्।.पुरुषः कश्चिद् आगत्य चतुर्थं मण्डलं स्पृशेत्।

उ12.20च्द्।.कच्छपं स्पृशते यस् तु कलहं तत्र निर्दिशेत्।
उ12.20एf।.स्वजनं व्यवहारस् तु सति कलहे न संशयः॥
उ12.21अब्।.आकट्टा कट्टेति शब्दा भवन्ति च निरन्तरं।(प्.185)
उ12.21च्द्।.एतादृशं दृष्ट्वा^उत्पातं कलहं तत्र न्रिदिशेत्॥
उ12.22अब्।.पुरुषः कश्चिद् आगत्य पञ्चमं मण्डलं स्पृशेत्।
उ12.22च्द्।.हृदयं स्पृशते यस् तु अपत्यं तत्र चिन्तितं॥
उ12.23अब्।.प्रवासकश् च विज्ञेयः परग्राम^गतो मृतः।
उ12.23च्द्।.शस्त्र^द्रव्यं च यत् तस्य ब्राह्मणानं कुले स्थितं॥
उ12.24अब्।.अथ शब्दो भवेत् तत्र यं दृष्ट्वा तु महर्षिभिः।
उ12.24च्द्।.पुत्रपुत्रेति यच्छब्दो यद् गतं गतम् एव च।
उ12.24एf।.एतादृशं दृष्ट्वा^उत्पातं मरणं तत्र निर्दिशेत्॥
उ12.25अब्।.पुरुषः कश् चिद् आगत्य षष्ठं तु मण्डलं स्पृशेत्।
उ12.25च्द्।.स्पृशते च^अपि पार्श्वानि गात्रचिन्ता तु चिन्तिता॥
उ12.26अब्।.विग्रहस् तु महा^घोरः शत्रुश् च^अपि प्रवध्यते।
उ12.26च्द्।.अथ वा तत्र ये शब्दाः श्रोतव्यास् ते न संशयः॥
उ12.27अब्।.अयं तु प्रक्षरश् च^एव हतश् च विहतस् तथा।
उ12.27च्द्।.एतादृशं दृzट्वा^उत्पातम् अरिविग्रहम् आदिशेत्।
उ12.27एf।.अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितं॥
उ12.28अब्।.पुरुषः कश्चिद् आगताय् सप्तमं मण्डलं स्पृशेत्।
उ12.28च्द्।.हस्तेन मर्दयेद् हस्तं तथा नाडीं च मर्दयेद्॥
उ12.29अब्।.निवेशचिन्ता विज्ञेया अन्यग्राम^गता भवेत्।
उ12.29च्द्।.तत्रेमे भवन्ति शब्दाः श्रोतव्या भूमिम् इच्छता॥
उ12.30अब्।.स्थितं निविष्टं वर्तञ् च कृतं हस्त^गतं तथा।
उ12.30च्द्।.एतादृशं दृष्ट्वा^उत्पातं निवेशं तस्य निर्दिशेत्।
उ12.30एf।.यादृशो वा श्रुतः शब्दस् तादृशं तेन चिन्तितं॥
उ12.31अब्।.पुरुषः कश्चिद् आगत्य अष्टमं मण्डलं स्पृशेत्।(प्.186)
उ12.31च्द्।.उदरं च^एव फिचकं द्वे इमे परिमार्जयेत्॥
उ12.32अब्।.निधनं दृश्यते तस्य मरणं च^अपि दृश्यते।
उ12.32च्द्।.यदि भवेद् भवेन् मृत्युर् यश् च^अन्य^प्रिय^सङ्गमः॥
उ12.33अब्।.तत्रेमे शब्दाः श्रोतव्या मृत एव भविष्यति।
उ12.33च्द्।.एतादृशं दृष्ट्वा^उत्पातं व्यापत्तिं तस्य निर्दिशेत्॥
उ12.34अब्।.पुरुषः कश् चिद् आगत्य नवमं मण्डलं स्पृशेत्।
उ12.34च्द्।.ऊरुं च स्पृशते भूया धर्म^चिन्ता च चिन्तिता॥
उ12.35अब्।.तत्र शब्दाश् च श्रोतव्या भवन्ति हि न संशयः॥
उ12.35च्द्।.यज हि याजकश् च^एव यजमानस् तथाइव च।
उ12.35एf।.शब्दानेवंविधान् श्रूत्वा यज्ञ^चिन्तां तु निर्दिशेत्॥
उ12.36अब्।.पुरुषः कश्चिद् आगत्य दशमं मण्डलं स्पृशेत्।
उ12.36च्द्।.कर्मचिन्ता विचिन्त्येति गृह^कर्म न संशयः॥
उ12.37अब्।.स्पृशते जानुनी च^एव कर्म^चिन्तां तु निर्दिशेत्।
उ12.37च्द्।.तत्र शब्दा अह्ब्वन्तीमे श्रोतव्याश् च न संशयः॥

उ12.38अब्।.भूमिकर्म च क्षेत्रं च क्षेत्रकर्म तथाइव च।
उ12.38च्द्।.एतादृशं दृzट्वा^उत्पातं कर्म^चिन्तां विनिर्दिसेत्॥
उ12.39अब्।.पुरुषः कश्चिद् आगत्य एकादशं तु संस्पृशेत्।
उ12.39च्द्।.जङ्घे तु स्पृशते भूयो ह्य् अर्थ^लाभं विनिर्दिशेत्॥
उ12.40अब्।.तत्रेमे शब्दाः श्रोतव्या भवन्तीह न संशयः।
उ12.40च्द्।.पणसुवर्ण^चेलानि धान्यं समणिकुण्डलं॥
उ12.41अब्।.एतादृशं रवं श्रूत्वा हिरण्यं तस्य निर्दिशेत्।
उ12.41च्द्।.अथ वा यादृशः शब्दस् तादृशं फलम् आदिशेत्॥
उ12.42अब्।.पुरुषः कश्चिद् आगत्य द्वादशं मण्डलं स्पृशेत्।(प्.187)
उ12.42च्द्।.पादौ च स्पृशते पृच्छन् चित्तं वा^अप्य् अनर्थिकं॥
उ12.43अब्।.यस् तु तच् चिन्तितो ह्य् अर्थ^आशा आगन्तुका च या।
उ12.43च्द्।.अथ वा शब्दाः श्रोतव्या निमित्त^ज्ञान^पारगैः॥
उ12.44अब्।.निराशश् च^एव घोषश् च निराशं तस्य निर्दिशेत्।
उ12.44च्द्।.अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितं॥
उ12.45।.अयं भोः पुष्करसारिन् द्वादश^राशिको नाम^अध्यायः।
उ12.46।.अथ खलु भोः पुष्करसारिन् कन्या^लक्षणं नाम^अध्यायं व्याखास्यामि। तच् छ्रूयतां । अथ किं। कथयतु भग्वांस् त्रिशङ्कुः॥
उ13 कन्या^लक्षणं
उ13.1अब्।.तत्वं विज्ञायते येन येन शुभम् उपस्थितं।
उ13.1च्द्।.निन्दितं च प्रशस्तं च स्त्रीणां वक्ष्यामि लक्षणं॥
उ13.2अब्।.पितरं मातरम् च^एव मातुलं भ्रातरं तथा।
उ13.2च्द्।.विम्बाद् विम्बं परीक्षेत त्रिशङ्कु^वचनं यथा॥
उ13.3अब्।.मुहूर्ते तिथि^सम्पन्ने नक्षत्रे च^अपि पूजिते।
उ13.3च्द्।.तद् विज्ञैः सह सङ्गम्य कन्यां पश्येत शास्त्र^वित्॥
उ13.4अब्।.हस्तौ पादौ निरीक्षेत नखानि ह्य् अङ्गुलीस् तथा।
उ13.4च्द्।.पाणिलेखाश् च जञ्घए च कटिनाभ्यूरुम् एव च॥
उ13.5अब्।.ओष्ठौ जिह्वां च दन्तांश् च कपोलौ नासिकां तथा।
उ13.5च्द्।.अक्षिभ्रवौ ललाटं च कर्णौ केशांस् तथा^एव च॥
उ13.6अब्।.रोमराजीं सवरं वर्णं मन्त्रितं गतिम् एव च।(प्.188)
उ13.6च्द्।.मतिं सत्त्वं समीक्षेत कन्यानां शास्त्र^कोविदः।
उ13.6एf।.तत्र पूर्वं परीक्षेत स्वयम् एव विचक्षणः॥
उ13.7अब्।.कंसस्वरा मेघवर्णा नारी मधुर^लोचना।
उ13.7च्द्।.अष्टौ पुत्रान् प्रसूयेत दासीदासैः समावृता॥
उ13.8अब्।.अव्यावर्ताश् चत्वारो यस्याः सर्वे च^एव प्रदक्षिणाः।
उ13.8च्द्।.समगात्रविभक्ताङ्गी पुत्रानष्टौ प्रसूयते॥
उ13.9अब्।.मण्डूककुक्षिर् या नारी सैश्वर्यम् अधिगच्छति।
उ13.9च्द्।.धन्यान् सा जनयेत् पुत्रांस् तेषां प्रीतिं च भुञ्जते॥
उ13.10अब्।.यस्याः पाणितले व्यक्तः कच्छपः स्वस्तिको धवजः।
उ13.10च्द्।.अङ्कुशं कुण्डलं माला दृश्यन्ते सुप्रतिष्ठिताः।
उ13.10एf।.एकं सा जनयेत् पुत्रं तं च राजानम् आदिशेत्॥
उ13.11अब्।.यस्याः पाणौ प्रकृश्येत कोष्ठ^आगारं सतोरणं।

उ13.11च्द्।.अपि दासकुले जाता राज^पत्नी भविष्यति॥
उ13.12अब्।.द्वात्रिंशद् दशना यस्याः सर्वे गोक्षीरपाण्डराः।
उ13.12च्द्।.समशिखरि स्निग्धाभा राजानं सा प्रसूयते॥
उ13.13अब्।.स्निग्धा कारण्डवप्रेक्षा हरिणाक्षी तनुत्वचा।
उ13.13च्द्।.रक्त^उष्ठजिह्वा सुमुखी राजानम् उपतिष्ठति॥
उ13.14अब्।.सूक्ष्मा च तुङ्गनासा च मुक्तम् आरक्तिमोदरी।
उ13.14च्द्।.सुभ्रूः सुवरकेशान्ता सा तु कन्या बहु^प्रजा॥
उ13.15अब्।.अङ्गुल्यः संहिताः कान्ता नखाः कमलसन्निभाः।
उ13.15च्द्।.सुऋजुरक्त^चरणा सा कन्या सुख^मेधते॥
उ13.16अब्।.यस्यावर्तौ समौ स्निघ्दौ उभौ पार्श्वौ सुसंस्थितौ।
उ13.16च्द्।......................राज^पत्नी तु सा भवेत्॥
उ13.17अब्।.प्रदक्षिणं प्रक्रमेत प्रेक्षते च प्रदक्षिणं।(प्.189)
उ13.17च्द्।.प्रदक्षिण^समाचारां कन्यां भार्या^अर्थम् आवहेत्॥
उ13.18अब्।.ऊरू जङ्घे च पार्श्वे च तथा विक्रमः संस्थितः।
उ13.18च्द्।.रक्त^अन्ते विपुले नेत्रे सा कन्या सुखमेधते॥
उ13.19अब्।.मृग^अक्षी मृग^जङ्घा च मृग^ग्रीवा मृग^उदरी।
उ13.19च्द्।.युक्त^नामा तु या नारी राजानम् उपतिष्ठिते॥
उ13.20अब्।.यस्य^अग्र^ललिताः केशा मुखं च परिमण्डलं।
उ13.20च्द्।.नाभिः प्रदक्षिण^आवर्ता सा कन्या कुल^वर्धिनी॥
उ13.21अब्।.न^अतिदीर्घा न^अतिह्रस्वा सुप्रतिष्ठ^तनु^त्वचा।
उ13.21च्द्।.सुख^संस्पर्श^केश^अग्रा सौभाग्यं न^अतिवर्तते॥
उ13.22अब्।.कान्त^जिह्वा तु या नारी रक्त^उष्ठी प्रिय^भाषिणी।
उ13.22च्द्।.तादृशीं वरयेत् प्राज्ञो गृह^अर्थं सुखमेधिनीं॥
उ13.23अब्।.नील^उत्पल^सुवर्ण^आभा दीर्घ^अङ्गुलि तला तु या।
उ13.23च्द्।.सहस्राणां बहूनां तु स्वामिनी सा भविष्यति॥
उ13.24अब्।.धन^धान्यैः समायुक्तां आयुषा यशसा श्रिया।
उ13.24च्द्।.कन्यां लक्षण^सम्पन्नां प्राप्य वर्धति मानवः॥
उ13.25अब्।.कीर्तितास् तु मया धन्या मङ्गल्य^लक्षणाः स्त्रियः।
उ13.25च्द्।.अप्रशस्तं प्रवक्ष्यामि यथा^उद्देशेन लक्षणं॥
उ13.26अब्।.ऊर्ध्व^प्रेक्षी अधःप्रेक्षी या च तिर्यक् च प्रेक्षिणी।
उ13.26च्द्।.उद्भ्रान्ता विपुलाक्षी च वर्जनीया विचक्षणैः॥
उ13.27अब्।.भिन्न^अग्रशतिका रूक्षाः केशआ यस्याः प्रलम्भिकाः॥
उ13.27च्द्।.चित्र^अवली चित्र^गात्रा भवति काम^चारिणी॥
उ13.28अब्।.कामुका पिङ्गला च^एव गौरी चैव^अतिकालिका।
उ13.28च्द्।.अतिदीर्घा अतिह्रस्वा वर्जनीय विचक्षणैः॥
उ13.29अब्।.यस्य^अस्त्रीणि प्रलम्बन्ति ललाटम् उदरं स्फिचौ।(प्.190)
उ13.29च्द्।.त्रींश् च सा पुरुषान् हन्ति देवरं श्वशुरं पतिं॥
उ13.30अब्।.पार्श्वतो रोम^राजी तु विनता च कटिर् भवेत्।
उ13.30च्द्।.दीर्घम् आयुर् अवाप्नोति दीर्घ^कालं च दुःखिता॥
उ13.31अब्।.काक^जङ्घा च या नारी रक्त^अक्षी वर्धस्वरा।

मूल पाठ: Śārdūlakarṇāvadāna [= Avadāna 33 of the Divyāvadāna] · Edition: Mukhopadhyaya, Sujitkumar: The Sardulakarnavadana, Calcutta : The Visvabharati Publishing Department 1954 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc