शार्दूलकर्णावदान · भाग 2140
प्.99.9।.इति वक्तव्यं । अर्ध^रात्रिकाणि षट्। तद् यथा। आर्द्रा अश्लेषा स्वाती ज्येष्ठा (100)शतभिषा भरणी चेति। नवंशाः षड्ग्रासा द्विक्षेत्राणि। रोहिणी पुनर्वसुर् विशाखा च। त्रीणी उत्तराणि चेति। उभयतो विभागानि। पञ्च^दशक्षेत्राणि। कृत्तिका च मघा मूला ग्रीणि पूर्वाणि। इमानि षट् पूर्वभागिनानि। मृगशिरा पुष्या हस्ता चित्रा अनुराधा श्रवणा धनिष्ठा रेवती
अश्विनो चेति। इमानि नव नक्षत्राणि पश्चाद् भागीयानि त्रिंशन्^मुहूर्त^योगानि क्षेत्राणि च।
प्.100.1।.अपि च ब्राह्मण शुभाश् च मुहूर्ता भवन्ति। अशुभाश् च मुहूर्ता भवन्ति। शुभ^अशुभाश् च मुहूर्ता भवन्ति। संप्रयुक्तनक्षत्रेषु सर्वेषु यदा शुभ^मुहूर्त^समापत्तयो भवन्ति तदा शोभना भवन्ति। यदा +अशुभ^मुहूर्तसमापत्तयो भवन्ति तदा न शोभना भवन्ति। यदा तु पुनः शुभाश् च^अशुभाश् च समापत्तयो भवन्ति तदा साधारना भवन्ति।
%रात्रिदिवसयोर् ह्रासवृद्धी
प्.100.2।.अथात्र कथं रात्रिदिवसानां ह्रासो वृद्धिर् वा भवति^इति तद् उच्यते। वर्षाणां प्रथमे मासे पुष्य^नक्षत्रम् अमावास्यां भवति। श्रवणा पूर्णमास्यां। अष्टादश^मुहूर्तो दिवसो भवति। द्वादश^मुहूर्ता रात्रिः। षोडशाङ्गुल^काष्ठस्य मध्याह्ने +अर्धाङ्गुलायां छायायाम् आदित्यः परिवर्तते। आषाढा रात्रिं नयति। मृगशिरसि आदित्यो गतो भवति। वर्षाणां
द्वितीये मासे मघा +अमावास्यां भवति भाद्रपदा पूर्णमास्यां। सप्तदश मुहूर्तो दिवसो भवति। त्रयोदश^मुहूर्ता रात्रिः। (101) द्वि^अङ्गुलायां छायायाम् आदित्यः परिवर्तते। श्रवणा रात्रिं नयति। पुष्य आदित्यो गतो भवति। वर्षाणां तृतीये मासे फल्गुन्यम् अमावास्यायां भवति। अश्विनी पूर्णमास्यां। षोडश^मुहूर्तो दिवसो भवति। चतुर्^दश^मुहूर्ता रात्रिः। चतुर्^अङ्गुलायां
छायायाम् आदित्यः परिवर्तते। पूर्वभाद्रपदा रात्रिं नयति। मघा^आदित्यो गतो भवति। वर्षाणां चतुर्थे मासे चित्राम् अमावास्यायां भवति कृत्तिका पूर्णमास्यां। पञ्च^दश^मुहूर्तो भवति दिवसः। पञ्च^दश^मुहूर्ता रात्रिः। षडङ्गुलायां छायायाम् आदित्यः परिवर्तते। अश्विनो रात्रिं नयति। फलुगुन्याम् आदित्यो गतो भवति।
प्.101.1।.हेमन्तानां प्रथमे मासे +अनुराधा +अमावास्यं भवति। मृगशिरा पूर्णमास्यां। चतुर्^दश^मुहूर्तो दिवसो भवति। षोडश^मुहूर्ता रात्रिः। अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते। कृत्तिका रात्रिं नयति। चित्रायाम् आदित्यो गतो भवति। हेमन्तानां द्वितीये मासे +अमावास्यां ज्येष्ठा भवति। पुष्यः पूर्णमास्यां। त्रयोदश^मुहूर्तो दिवसो भवति। सप्तदश^मुहूर्ता
रात्रिः। दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। मृगशिरा रात्रिं नयति। विशाखायाम् आदित्यो गतो भवति। (102) हेमन्तानां तृतीये मासे पूर्वाषाढाम् अवास्यां भवति। मघा पूर्णमास्यं। द्वादश^मुहूर्तो दिवसो भवति। अष्टादश^मुहूर्ता रात्रिः। द्वादशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। पुष्यो रात्रिं नयति। ज्येष्ठायाम् आदित्यो गतो भवति। हेमन्तानां चतुर्थे
मासे श्रवणाम् आवास्यं भवति। फल्गुनी पूर्णमास्यां। त्रयोदश मुहूर्तो दिवसो भवति। सप्तदश^मुहूर्ता रात्रिः। दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। मघा रात्रिं नयति। आषाढायाम् आदित्यो गतो भवति।
प्.102.1।.ग्रीष्माणां प्रथमे मासे उत्तरभाद्रपदाम् आवास्ययं भवति। चित्रा पूर्णमास्यां चतुर्^दश^मुहूर्तो दिवसो भवति। षोडश^मुहूर्ता रात्रिः। (103) अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते। फल्गुनी रात्रिं नयति। श्रवणायाम् आदित्यो गतो भवति। ग्रीष्माणां द्वितीये मासे +अश्विनी अमावास्यायां भवति। विशाखा पूर्णमास्यां। पञ्च^दश^मुहूर्तो दिवसो भवति।
पञ्च^दश^मुहूर्ता रात्रिः। षडङ्गुलायां छायायाम् आदित्यः परिवर्तते। चित्रा रात्रिं नयति। उत्तरायां भाद्रपदायाम् आदित्यो गतो भवति। ग्रीष्मानां तृतीये मासे कृत्तिकाम् अमावास्यायां भवति। ज्येष्ठा पूर्णमास्यां। षोडश^मुहूर्तो दिवसो भवति। चतुर्दश^मुहूर्ता रात्रिः। चतुर्^अङ्गुलायां छायायाम् आदित्याः परिवर्तते। विशाखा रात्रिं नयति। कृत्तिकायाम् आदित्यो गतो
भवति। ग्रीष्माणां चतुर्थे मासे मृगशिरा अमावास्यायां भवति। उत्तराषाढा पूर्णमास्यां। सप्तदश^मुहूर्तो दिवसो भवति। त्रयोदश^मुहूर्ता रात्रिः। मध्याह्ने द्वि^अङ्गुलायां छायायाम् आदित्यः परिवर्तते। ज्येष्ठा रात्रिं नयति। पुष्य आदित्यो गतो भवति।
प्.103.1।.संवत्सरम् अन्वेषणतो मुहूर्तविशेषणैः सर्वाणि च^एतानि (नक्षताणि) भागानुभगेन^अमावास्ययं पूर्णमास्यं च युज्यन्ते। ऊनरात्रस्य पूर्णरात्रस्य च ग्रहीतव्यं। तत्र तृतीये वर्षे +अधिको मासो युज्यते। षण्णां मासानाम् अहोरात्राणि समानि भवन्ति। अतः षण्^मासाद् दिवसो वधते। षण्^मासाद् रात्रिर् (104) वर्धते। षण्^मासाद् दिवसो मासे मासे समम् एव
हीयते। षण्^मासाद् रात्रिर् मासे मासे परिहीयते।
प्.104.1।.षण्^मासाद् आदित्यः परिवर्तते। उत्तरां दिशं संचरति। षण्^मासाद् दक्षिणां दिशं। षण्^मासात् समुद्(र्)ए उदकपरिमाणस्य ह्रासो वृद्धिश् च भवति। सूर्य^गत्या चन्द्र^गत्या च समुद्र^उदक^वेला^अभिवृद्धिर् भवति। अत्र गणनाप्रतिजागरणास्मरम् इत्य् एवम् एष संवत्सरो व्याख्यातो भवति।
%ग्रहः
प्.104.2।.चन्द्र आदित्यः शुक्रो बृहस्पतिः शनैश्चरो +अङ्गारको बुधश् च। इमे ग्रहाः। एषां ग्रहाणां बृहस्पतिः संवत्सरस्थायो। एवं शनैश्चरो बुधो +अङ्गारकः शुक्रश् च^इमे मण्डल^चारिणः।
%नक्षत्रमण्डलं
प्.104.3।.भरणी कृत्तिका रोहिणी मृगशिरा एतत् साधारणं प्रथमं मण्डलं। आर्द्रा पुनर्वसुः पुष्यो +अश्लेषा एतत् साधारनं द्वितीयं मण्डलं। मघा अथ फल्गुनद्वयं हस्तो चित्रा एतत् साधारणं तृतीयं मण्डलं। स्वाती विशाखा अनुराधा एतत् साधारणं चतुर्थं मण्डलं। ज्येष्ठा मूलाषाढाद्वयम् (105) अत्र सर्वाणि महा^भायानि भवन्ति। इदं पञ्चमं मण्डलं।
अभिजिच् छ्रवणा धनिष्ठा शतबिषा उभे भाद्रपदे चैतत् साधारणं षष्ठं मण्डलं। रेवती अविनी चैतत् साधारणं सप्तमं मण्डलं। संवत्सरम् एतेषु यद् यन् नक्षत्र^मण्डलं पीडयति तस्य तस्य जनपदस्य सत्त्वस्य वा पीडा निर्देष्टव्या।
प्.105.1।.द्वादश^मुहूर्तानि दिवसे ध्रुवाणि द्वादश रात्रौ। षण्^मुहूर्ताः सञ्चारिणः। कतमे षट्। नैरृतो वरुणो वायवो भर्गो देवो रौद्रो विचारी च। इतीमे सञ्चारिणः षट्।
प्.105.2।.अथात्र श्रावणे मासे पूर्णे +अष्टादश^मुहूर्ते दिवसे सूर्य^उदये च चतुरोजा नाम मुहूर्तो भवति। रोहितस्य च मुहूर्तस्य बलस्य च^अन्तरे मध्याह्नो भवति। सूर्यावतारे तु विचारी नाम मुहूर्तो भवति। द्वादश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये षष्ठे मुहूर्ते नयमनो नाम मुहूर्तो भवति। आतापाग्निर् एवं नाम मुहूर्तो रात्र्यवसाने भवति। भाद्रपदे
मासे पूर्णे सप्तदश^मुहूर्ते दिवसे सूर्य^उदये च चतुरोजा एवं नाम मुहूर्ता भवति। मध्याह्ने +अभिजितो नाम मुहूर्तो भवति। (106) सूर्यावतारे रौद्रो नाम मुहूर्तो भवति। त्रयोदश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये विचारी नाम मुहूर्तो भवति। अर्ध^रात्रे महा^भयो वायावो नाम मुहूर्तो भवति।
प्.106.1।.रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति। अश्वयुजे मासे पूर्णे षोडश^मुहूर्तो दिवसो भवति। सूर्य^उदये चतुरोजा नाम मुहूर्तो भवति। समुद्गतस्य च मुहूर्तस्य अभिजितस्य च^अन्तरे मध्याह्नो भवति। सूर्यावतारे भर्गो देवो नाम मुहूर्तो भवति।
प्.106.2।.चतुर्^दश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये रौद्रो नाम मुहूर्तो भवति। अभिजितस्य च मुहूर्तस्य भीषमाणस्य च मुहूर्तस्य अन्तरेण^अर्ध^रात्रं भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
प्.106.3।.कार्त्तिके मासे पूर्णे दिवसः समरात्रिर् भवति। पञ्च^दश^मुहूर्तो दिवसो भवति पञ्च^दश^मुहूर्तो रात्रिः। समाने +अहोरात्रे सूर्य^उदये चतुरोजा एवं नाम मुहूर्तो भवति। संमुखो नाम मुहूर्तो भवति मध्याह्ने। सन्ततो नाम मुहूर्तः (107) सूर्यावतारे। रात्राव् अवतीर्णमात्र सूर्ये भ्र्गो देवो नाम मुहूर्तो भवति। अर्ध^रात्रे +अभिजिन् मुहूर्तो भवति।
रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
प्.107.1।.मार्गशीर्षे मासे च पूर्णे चतुर्^दश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा एवं नाम मुहूर्तो भवति। विरतस्य संमुखस्य च मुहूर्तस्य^अन्तरे मध्याह्नो भवति। सूर्य^अवतारे वरुणो नाम मुहूर्तो भवति। षोडश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये संतापनः संयमो नाम मुहूर्तो भवति। राक्षसस्याभिजितस्य च मुहूर्तस्य^अन्तरे +अर्ध^रात्रं
भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
प्.107.2।.पौषमासे पूर्णे त्रयोदश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा एवं नम मुहूर्तो भवति। मध्याह्ने विरतो नाम मुहूर्तो भवति। सूर्यावतारे नैरृतो नाम मुहूर्तो भवति। सप्तदश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये वरुणो नाम मुहूर्तो भवति। अर्ध^रात्रे राक्षसो नाम मुहूर्तो भव्ति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
प्.107.3।.माघ^मासे पूर्णे द्वादश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा नाम मुहूर्तो भवति। सावित्रस्य च विरतस्य च मुहूर्तस्य^अन्तरेण मध्याह्नो भवति। सूर्यावतारे विजयो नाम मुहूर्तो भवति। अष्टादश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये नैरृतो नाम मुहूर्तो भवति। गर्दभस्य मुहूर्तस्य च राक्षसस्य च^अन्तरम् अर्ध^रात्रं भवति। रात्र्यवसान
आतपाग्निर् एवं नाम मुहूर्तो भवति।
प्.108.1।.यथा श्रावणे तथा माघे। यथा भाद्रपदे तथा फाल्गुने। यथा +अस्वयुजे तथा चैत्र। यथा कार्त्तिके तथा वैशाखे। यथा मार्गशीर्षे तथा ज्यैष्ठे। यथा पौषे तथा +अषाढे। एवम् एतेषां नक्षत्राणां मुहूर्तानां चरितं विचरितं च ज्ञातव्यं। नक्षत्र^विचरणं नाम प्रथमो +अध्यायाः।
प्.108.2।.यथामध्यं नक्षत्राणां रात्रिवशेन दिवसवशेन च^उत्कर्षापकर्षौ कर्तव्यौ। हीयमाने वर्धमाने वा दिवसे वा मासे वा पूर्णे +अर्ध^मासे वा। द्वितीया षष्ठी नवमी द्वादशी चतुर्दशी अत्र^अन्तरे दिवसे कला वर्धते रात्रौ कला हीयते।
% भूमि^कम्प^निर्देशः
प्.108.3अब्।.चत्वारो महा^राजानो ध्रियते यैर् वसुन्धरा।
प्.108.3च्द्।.अतिवृद्धिर् विशुद्धश् च वर्धमानः पृथक्श्रवाः॥
प्.108.4अब्।.महा^भूतानि चत्वारि कम्पयन्ति वसुन्धरां।
प्.108.4च्द्।.आपो इन्द्रश् च वायुश् च तथाग्निर् भगवान् अपि॥
प्.108.5अब्।.त्रयस् तु ते यत्र भवन्ति पक्षे षडेक^मासे तु भवन्ति वेगाः।
प्.108.5च्द्।.परस्य चक्रस्य निदर्शनं स्यात् प्रकम्पते यत्र मही त्व् अभीक्ष्णं॥
प्.109.1अब्।.विशाखा दश^रात्री अयाज् ज्येष्ठा द्वादश^रात्रिका।
प्.109.1च्द्।.पञ्च^विंशतिर् आषाढा श्रवणा पञ्च^सप्ततिः॥
प्.109.2अब्।.रात्रिशतं भाद्रपदे क्रतुर् अश्वयुजे स्मृतः।
प्.109.2च्द्।.अध्यर्धं तु पञ्च^पञ्चाशन् माघे रात्रिशतं स्मृतं।
प्.109.3अब्।.अर्ध्यर्धं फाल्गुने मासे चैत्रे त्रिंशत् तु रात्रयः।
प्.109.3च्द्।.विपाको भूमि^वेगानाम् अतः कम्पः प्रवर्तते॥
प्.109.4अब्।.यदा सर्वेषु मासेषु सततं कम्पते मही।
प्.109.4च्द्।.वृक्षास् तथा चलन्ति स्म जलं वा यदि कम्पते।
प्.109.4एf।.पर्वतः पर्णवत् कम्पेद् भयम् अत्र विनिर्दिशेत्॥
प्.110.1अब्।.नगराण्य् अथ वा ग्रामा घोषा ये च^अत्र संश्रिताः।
प्.110.1च्द्।.शीघ्रं भवन्ति विजनारण्यभूता मृगाश्रयाः॥
प्.110.2अब्।.अटव्यः संप्रवर्तन्ते दश वर्षाणि पञ्च च।
प्.110.2च्द्।.अनावासा दिशो विद्याद् भूमि^चालविचालिताः॥
प्.110.3अब्।.कृत्तिकासु चलेद् भूमिर् ग्रामेषु नगरेषु वा।
प्.110.3च्द्।.अभीक्ष्णं मुच्यते ह्य् अग्निर् दहते सतृनालयान्॥
प्.110.4अब्।.कृष्णाग्निर् अशनेः पातः, कर्मारा; आहिताश्रयाः।
प्.110.4च्द्।.आगाराश् च निवर्तन्ते संवर्तेनेव धातवः॥
प्.110.5अब्।.ये जाता ये च संवृद्धा ये च तं ग्रामम् आश्रिताः।
प्.110.5च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.110.6अब्।.रोहिण्यां चलिता भूमिः सर्व^बीज^विनाशनं।
प्.110.6च्द्।.प्रोप्तं शस्यं न रोहेत भवेत् फलस्य कृच्छ्रता॥
प्.111.1अब्।.गुर्विणीनां च नारीणां गर्भो निपीड्यते भृशं।
प्.111.1च्द्।.दुर्भिक्ष^व्यसनाक्रान्ता त्रिभागे तिष्ठति प्रजा॥
प्.111.2अब्।.महा^आत्मानश् च राजानः श्रीमन्तश् च नरोत्तमाः।
प्.111.2च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.111.3अब्।.मृगशीर्षे चलेद् भूमिर् ओषधीनां विनाशनं।
प्.111.3च्द्।.चिकित्सकाः श्रोत्रियाश् च घटकाः सोम^याजकाः॥
प्.111.4अब्।.सोम^पीताश् च ये विप्रा वानप्रस्थाश् च तापसाः।
प्.111.4च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.111.5अब्।.आर्द्रायां चलिता भूमिर् वृक्षा नश्यन्ति क्षीरिणः।
प्.111.5च्द्।.अन्न^पानानि नश्यन्ति पथिका दंष्ट्रिपालिकाः॥
प्.111.6अब्।.कूपखाः परिखाखाश् च पापका ये च तस्कराः।
प्.111.6च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.111.7अब्।.पुनर्वसौ चलेद् भूमिर् मण्डलं कुण्डिका^अपि च।
प्.111.7च्द्।.वागुरिकाः कारण्डवाश् चक्रिणः शुक^सारिकाः॥
प्.111.8अब्।.अर्भका भ्रमकाराश् च मांसिकाः शङ्खवाणिजाः।
प्.111.8च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.112.1अब्।.पुष्येण च चलेद् भूमिर् ब्राह्मणा नायकास् तथा।
प्.112.1च्द्।.दुरङ्गमा वाणिजकाः सार्थवाहाश् च ये नराः॥
प्.112.2अब्।.पार्थिवाः पार्वतीयाश् च ये च तद् भक्तिगोचराः।
प्.112.2च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः।
प्.112.2एf।.शिलावर्षं प्रवर्षन्ति शस्यानामनयो महान्॥
प्.112.3अब्।.अश्लेषायां चलेद् भूमिर् नागाः सर्वे सरीसृपाः।
प्.112.3च्द्।.कीटाः पिपीलिकाः श्वाना; एक^खुराश् च ये मृगाः॥
प्.112.4अब्।.वैद्या विसकराश् च^अपि ये च सत्वा दरीश्रयाः।
प्.112.4च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.112.5अब्।.मघासु चलिता भूमिर् महा^राजो +अत्र तप्यते।
प्.112.5च्द्।.ये च श्राद्धा निवर्तन्ते समाजा; उत्सवास् तथा।
प्.112.5एf।.यज्ञाश् च देव^कृत्यं च सर्वम् अत्र निवर्तते॥
प्.112.6अब्।.ये जाता ये च संवृद्धा ये च^अन्ये +अप्य् अग्रपण्डिताः।
प्.112.6च्द्।.गन्धर्वाश् च विनश्यन्ति नरा ये च महा^कुलाः।
प्.112.6एf।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.112.7अब्।.फल्गुन्यां चलिता भूमिर् ऋतुर् व्यावर्तते तदा।
प्.112.7च्द्।.त्रियग्वातश् च^एव वाति कृतं नश्यति शाश्वतं।
प्.112.7एf।.पथिकाश् च^उपतप्यन्ति माषयाच्योपजीविकाः॥
प्.113.1अब्।.धर्मे रता; आसनिका ये च शुल्कोपजीविनः।
प्.113.1च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.113.2अब्।.चलत्य् उत्तरफल्गुन्यां वणिजा द्वीपयात्रिकाः।
प्.113.2च्द्।.सार्थवाहा; आसनिका ये च शिल्पोपजीविनः॥
प्.113.3अब्।.अङ्गाविदेहमगधा नैरृताः स्त्री^परिग्रहाः।
प्.113.3च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.113.4अब्।.हस्तेन चलिता भूमिः कुम्भ^कार चिकित्सकाः।
प्.113.4च्द्।.गणमुख्या महा^मात्राः सेनाध्यक्षाश् च ये नराः॥
प्.113.5अब्।.तारमका (?) नारपटा (?) विप्सरः (?) कौटिका; अपि।
प्.113.5च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.113.6अब्।.चित्रायां चलिता भूमिः कारुका; उपकल्पकाः।
प्.113.6च्द्।.कुमार्यः सर्व^रत्नं च सस्यानां बीज^कैः सह॥
प्.113.7अब्।.वङ्गा दशार्णकुरवश् चेदिमाहिषकास् तथा।
प्.113.7च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.113.8अब्।.स्वातौ प्रचलिता भूमिश् चौरा ये च कुशीलकाः।
प्.113.8च्द्।.हिंसका ये च तत् कर्म^रता +अभ्यर्थितमूषकाः॥
प्.113.9अब्।.हिमवत; उत्तरेण वायुभक्षास् तपस्विनः।
प्.113.9च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.114.1अब्।.विशाखायां चलेद् भूमिर् महा^शैल^क्षयो भवेत्।
प्.114.1च्द्।.उग्रा वाताः प्रवान्त्य् अत्र; अश्मकैरकुशलिनः॥
प्.114.2अब्।.अनुराधे चलेद् भूमिर् दस्यूनाम् अनयो महान्।
प्.114.2च्द्।.विटा द्यूत^कराश् च^एव ग्रन्थिभेदाश् च ये नराः॥
प्.114.3अब्।.अन्ध्राः पुण्ड्राः पुलिन्दाश् च भये तिष्ठन्त्य् अनाश्रिताः॥
प्.114.3च्द्।.मित्रभेदश् च बलवान् तदा जगति जायते॥
प्.114.4अब्।.ज्येष्ठायां चलिता भूमिर् महा^राजः प्रतप्यते।
प्.114.4च्द्।.वायसा वृषभा व्याडास् तथा चण्डमृगाश् च ये॥
प्.114.5अब्।.कुरवः शूरसेनाश् च मल्ला बाह्लीकनिग्रहाः।
प्.114.5च्द्।.प्रत्यर्थिकेन शीघ्रेण ये च तद् भक्तिभाजनाः।
प्.114.5एf।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.114.6अब्।.मूलेन चलिता भूमिश् चतुष्पद्द्विपदास् तथा।
प्.114.6च्द्।.ग्रहाश्रयाः पिशाचाश् च ये च सत्त्वा दरीश्रयाः।
प्.114.6एf।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.115.1अब्।.दुर्भिक्षं च करोत्य् आशु धान्यम् अल्प^उदकं भवेत्।
प्.115.1च्द्।.दरीपर्वतमूलानि गच्छन्ति च तदा भुवि॥
प्.115.2अब्।.पूर्वाषाढे चलेद् भूमिर् जलजा मत्स्य^शुक्तिकाः।
प्.115.2च्द्।.शिशुमारा; उद्रकाश् च नक्रा मकर^कच्छपाः॥
प्.115.3अब्।.जातिगोत्र^प्रधानाश् च धनिनो +अथ विचक्षणाः।
प्.115.3च्द्।.द्वितीयाभिजाताश् च महा^विद्याकराश् च ये।
प्.115.3एf।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.115.4अब्।.उत्तरस्यां चलेद् भूमिः शिल्पिनाम् अनयो महान्।
प्.115.4च्द्।.अयस्काराः स्थापतयस् त्रपु^काराश् च तक्षकाः॥
प्.115.5अब्।.दरिद्रा धनिनश् च^अपि शिल्पिनो विविधा; अपि।
प्.115.5च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः।
प्.115.5एf।.ग्राम^कुटानि च घ्नन्ति सचलस्थावराणि च॥
प्.115.6अब्।.वैष्णवे चलिता भूमिस् तदेति यद् अनीप्सितं।
प्.116.1अब्।.अध्यापकाः शास्त्र^विदः कवयो मन्त्र^पारगाः।
प्.116.1च्द्।.युगन्धराः शूरसेना; अभिराजाः पटच्चराः॥
प्.116.2अब्।.कुशण्डाः शरदण्डाश् च ये नरा राज^पूजिताः।
प्.116.2च्द्।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.116.3अब्।.धनिष्ठायां चलेद् भूमिर् धनिना मनयो महान्।
प्.116.3च्द्।.महेश्वरास् तथा महा^नागराः श्रेष्ठिनस् तथा॥
प्.116.4अब्।.प्रचण्डाः स्वस्तिमन्तश् च भद्रकारा युगन्धराः।
प्.116.4च्द्।.पारिकूलाश् च भोज्याश् च ह्य् अन्ये सन्नागरा; अपि।
प्.116.4एf।.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
प्.116.5अब्।.वारुण्ये चलिता भूमिर् औदकेष्व् अनयो महान्।
प्.116.5च्द्।.हस्तिनो +अश्वखरोष्ट्राश् च स्पर्शम् अर्च्छन्ति दारुणं॥
प्.116.6अब्।.तदासौ वीरकान् मद्रान् बाह्लीकान् केकयान् अपि।
प्.116.6च्द्।.अनाश्रयांश् चक्रवाकाञ् जनस्थान् अपि पीडयेत्॥
प्.117.1अब्।.साजेन चलिता भूमी राक्षसान् घातकांस् तथा।
प्.117.1च्द्।.औरभ्रिकान् सौकरिकान् सौवीरांश् च निपातयेत्॥
प्.117.2अब्।.वणिज्यजीविनो वैश्यान् शूद्रांश् च करीतीन् अपि।
प्.117.2च्द्।.यवनान् मालवाद्यांश् च ग्रन्थिभेदांश् च नाशयेत्॥
प्.117.3अब्।.अहिर्बुध्न्ये चलेद् भूमिर् वणिजाम् अनयो महान्।
प्.117.3च्द्।.धर्मे रताश् च ये सिद्धा ये च शौक्तिककर्मिणः॥
प्.117.4अब्।.शिबीन् वत्सान् तथा वात्स्यान् क्षत्रियान् आर्जुनायनान्।
प्.117.4च्द्।.सिन्धुराज^धनुष्पानीन् सर्वान् अर्दयते +अचिरात्॥
प्.117.5अब्।.रेवत्यां चलिता भूमिः संग्रामः स्यात् सुदारुणः।
प्.117.5च्द्।.ग्राम^घाताश् च वर्तन्ते ग्रामो ग्रामं च हिंसति॥
प्.117.6अब्।.नौचरान् उदकाजीवान् रमठान् भरुकच्छकान्।
प्.117.6च्द्।.सुधन्वान् अभिसारांश् च सर्व^सेनांश् च निर्दहेत्॥
प्.118.1अब्।.अश्विन्यां चलिता भूमिर् अश्वानाम् अनयो महान्।
प्.118.1च्द्।.ग्राम^घाताश् च वर्तन्ते भ्राता भ्रातॄन् जिघांसति॥
प्.118.2अब्।.या च^अत्र गभम् आधत्ते ये च जाताश् च तान् इह।
प्.118.2च्द्।.त्रीणि वर्षाण्य् अतो दुःखम् उपैति च निरन्तरं॥
प्.118.3अब्।.सहिताश् चित्र^गर्भाश् च ये ह्य् अन्ये च^अङ्गनाजनाः।
प्.118.3च्द्।.आर्जुनायना राजन्याः सुष्ठु त्रींश् च^अपि हिंसति॥
प्.118.4अब्।.भरण्यां चलिता भूमिश् चौराणाम् अनयो महान्।
प्.118.4च्द्।.विटा द्यूत^कराश् च^एव ग्रन्थिभेदाश् च ये नराः॥
प्.118.5अब्।.आदर्शचक्राटाधूर्तास् तथा बन्धन^रक्षकाः।
प्.118.5च्द्।.अन्तावशायिनः पापाश् चरन्ति ये तु दुर्जनाः।
प्.118.5एf।.ते +अपि तत्र विपद्यन्ते भूमि^चालविचालिताः॥
प्.118.6अब्।.वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
प्.118.6च्द्।.सप्ताहाभ्यन्तरात् तत्र मेघो भवति प्रार्थितः॥
प्.119.1अब्।.स्निग्धो ह्य् अङ्जन^संकाशो महा^पर्वतसन्निभः।
प्.119.1च्द्।.इन्द्रश् न वर्षते तत्र महर्षेर् वचनं यथा॥
प्.119.1एf।.[एवं निगदितं नार्थैर् इन्द्रश् च^अत्र प्रवर्षति॥]
प्.119.2अब्।.स्वस्तिका कार^संकाशा; इन्द्रवज्रध्वयोपमाः।
प्.119.2च्द्।.दृश्यन्ते +अभ्रा हि सन्ध्यायां ग्रस्त्वा चन्द्र^दिवा^करौ॥
प्.119.3अब्।.तदा नभसि जायन्ते मेघा डाडिम्बसन्निभाः।
प्.119.3च्द्।.लक्षणं तादृशं दृष्ट्वा विद्यात् तान्न् इन्द्रकम्पितान्।
प्.119.3एf।.स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा॥
प्.119.4अब्।.अतीव तत्र विश्वस्तः सर्व^बीजानि वापयेत्।
प्.119.4च्द्।.व्यवहारांश् च कुर्वीरन् निर्भयास् तत्र वाणिजाः।
प्.119.4एf।.सर्वेषां भूमि^कम्पानां प्रशस्ता; इन्द्रकंपिताः॥
प्.119.5अब्।.वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
प्.119.5च्द्।.सप्ताहाभ्यन्तरे तत्र मेघः संच्छादयेन् नभः॥
प्.120.1अब्।.ततो +अनुबद्धा जायन्ते; अभ्राः कौशेयसन्निभाः।
प्.120.1च्द्।.अनुलोमं च संयान्ति चरन्तः पश्चिमां दिशं॥
प्.120.2अब्।.शिशुमार^उद्रकाणां मत्स्य^मकर^सन्निभाः।
प्.120.2च्द्।.दृश्यन्ते +अभ्राश् च सन्ध्यायां ग्रस्त्वा चन्द्र^दिवा^करौ॥
प्.120.3अब्।.लक्षणं तादृशं दृष्ट्वा विद्यात् ताञ् जलकम्पितान्।
प्.120.3च्द्।.स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा॥
प्.120.4अब्।.स्थालेषु गिरि^कूटेषु क्षेत्रेषूपवनेषु च।
प्.120.4च्द्।.स्थाप्यन्ते तत्र बीजानि निम्ने नश्यन्ति वै तदा॥
प्.120.5अब्।.पञ्केण^अपि जलेन^अपि नश्येयू रजसा^अपि वा।
प्.120.5च्द्।.एतेषां भूमि^कम्पानां प्रशस्ता जलकम्पिताः॥
प्.120.6अब्।.वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
प्.120.6च्द्।.सप्ताहाभ्यन्तरे तत्र वाता वान्ति सुदारुणाः॥
प्.120.7अब्।.दृश्यते कपिला सन्ध्या चन्द्र^सूर्यौ तु लोहिताउ।
प्.120.7च्द्।.लक्षणं तादृशं दृष्ट्वा जानीयाद् वायुकम्पितान्॥
प्.121.1अब्।.ततो भवति निर्देशो महर्षेर् वचनं यथा।
प्.121.1च्द्।.न तत्र प्रवसेत् प्राज्ञ; आत्मानं च^अत्र गोपयेत्॥
प्.121.2अब्।.गुह्यम् आवरणं कुर्यात् प्राकारपरिखां खनेत्।
प्.121.2च्द्।.प्रातिसीमा विरुध्यन्ते नराणां जायते भयं॥
प्.121.3अब्।.एतेषां भूमि^कम्पनं सर्वेषां कीर्तिता गुणाः।
प्.121.3च्द्।.विशेषेण मनुष्याणां निर्मिता वायुकम्पिताः॥
प्.121.4अब्।.कम्पितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
प्.121.4च्द्।.सप्ताहाभ्यन्तरात् तत्र; उल्का^पाताः सुदारुणाः॥
प्.121.5अब्।.सन्ध्या च लोहिता भाति चन्द्र^सूर्यौ तु लोहितौ।
प्.121.5च्द्।.लक्षणं तादृशं दृष्ट्वा विज्ञेया; अग्निकम्पिताः॥
प्.121.6अब्।.अग्निर् दहति काष्ठानि रक्षितानि धनानि च।
प्.121.6च्द्।.दृश्यन्ते धूमशिखराः शस्त्रं च स्विद्यते भृशं॥
प्.121.7अब्।.वीणाश् च दिवि दृश्यन्ते नवमासान् न वर्षति।
प्.121.7च्द्।.एतेषां भूमि^कम्पानां जघन्या; अग्निकम्पिताः॥
प्.121.8अ।.जयति; अहनि पूर्वे क्षत्रियान् पार्थिवांश् च।
प्.121.8ब्।.हय^गज^रथ^मुख्यान् मन्त्रिणो मध्यम^अह्ने।
प्.122.1अब्।.व्यथयति; आपर^अह्णे गोपशून् वैश्य^शूद्रान्।
प्.122.1च्द्।.प्रदहति निशि^सन्ध्या तस्कर^अनन्त^वासान्॥
प्.122.2अ।.रजनिम् इह प्रदोषे हिंसते म्लेच्छ^संघान्।
प्.122.2ब्।.स्त्रियम् अपि च नपुंसश् च^अर्ध^रात्रेष्व् अनन्तान्।
प्.122.2च्।.कृषि^वणिग् उपजीव्यान् हन्ति यामे तृतीये।
प्.122.2द्।.व्यथयति सुरपक्षं रौद्र^कर्म^अन्तकृष्णे॥
प्.122.3अ।.प्रदहति शशिपक्षे याज्ञिकं ब्रह्म^क्षत्रं।
प्.122.3ब्।.श्रपयति शुचि^वृत्ताम् एव धर्मे प्रधानान्।
प्.122.3च्।.विदुषि च मृदु^भावं विन्दते यो ह्य् अधीते।
प्.122.3द्।.स भवति नृप^पूज्यो बाह्मणो देव^दर्शी॥
प्.123.1अब्।.बृहस्पतेश् च चत्वारि समानि शुभ^कर्मणा।
प्.123.1च्द्।.चत्वारि सूर्य^कर्माणि तुल्यानि शुक्र^कर्मणा।
प्.123.1एf।.सोम^कर्माणि चत्वारि ब्रह्म^कर्म च तत्समं॥
प्.123.2।.अयं भोः पुष्करसारिन् भूमि^कम्प^निर्देशो नाम^अध्यायः।
% व्याधि^समुत्थानं
प्.123.3।.अथ भोः पुष्करसारिन् अमीषाम् अष्टाविंशतीनां नक्षत्राणां रोग^उत्पत्तिं नाम^अध्यायं व्याख्यामि। तच् छ्रूयतां। कथयतु भगवान्।
प्.123.4अब्।.कृत्तिकासु^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.123.4च्द्।.चतूरात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.123.5अब्।.अग्निर् हि देवता तत्र दध्ना ह्य् अस्य बलिं हरेत्।
प्.123.5च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.123.6अब्।.रोहिण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.123.6च्द्।.पञ्च^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.123.7अब्।.देवः प्रजापतिस् तत्र शुद्धमाल्यैर् बलिं हरेत्।
प्.123.7च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.123.8अब्।.व्याधिर् मृगशिरोभुतः स्त्रियो वा पुरुषस्य वा।
प्.123.8च्द्।.अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.123.9अब्।.सोमो हि देवता तत्र मण्डेन तु बलिं हरेत्।
प्.123.9च्द्।.अनेन बलि^दानेन तस्माद् रोगाद् विमुच्यते॥
प्.124.1अब्।.(124) आद्रायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.124.1च्द्।.दश^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.124.2अब्।.रुद्रो हि देवता तत्र पायसेन बलिं हरेत्।
प्.124.2च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.124.3अब्।.पुनर्वसौ भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.124.3च्द्।.अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.124.4अब्।.आदित्यो देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
प्.124.4च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.124.5अब्।.पुष्ये समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.124.5च्द्।.स्तोककालं भवेत् तस्य पञ्च^रात्राद् विमुच्यते॥
प्.124.6अब्।.देवो बृहस्पतिस् तत्र गन्ध^माल्यैर् बलिं हरेत्।
प्.124.6च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.124.7अब्।.अश्लेषायां भवेद् व्याधिः स्त्रियो वा पुरुषस्य वा।
प्.124.7च्द्।.न तं वैद्याश् चिकित्सन्तु सर्पस् तत्र तु दैवतः॥
प्.124.8अब्।.मघा^समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.124.8च्द्।.अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.124.9अब्।.पितरो देवतास् तत्र कृसरेण बलिं हरेत्।
प्.124.9च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.124.10अब्।.पूर्वफाल्गुनीजा व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.124.10च्द्।.सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.125.1अब्।.(125) अर्यमा देवता तत्र गन्ध^माल्यैर् बलिं हरेत्। %भग
प्.125.1च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.125.2अब्।.उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.125.2च्द्।.न तं वैद्याश् चिकित्सन्तु भगो प्य् अत्र तु देवता॥%अर्यमन्
प्.125.3अब्।.हस्तेनाप्य् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.125.3च्द्।.पञ्च^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.125.4अब्।.रविर् हि देवता तत्र गन्ध^पुष्पैर् बलिं हरेत्।
प्.125.4च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.125.5अब्।.चित्रायाम् उत्त्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.125.5च्द्।.अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.125.6अब्।.त्वष्टा हि देवता तत्र घृतम् उद्गैर् बलिं हरेत्।
प्.125.6च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.125.7अब्।.स्वात्यां समुत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा।
प्.125.7च्द्।.क्लेशितो हि भवेद् व्याधिः पञ्च^विंशति^रात्रिकः॥
प्.125.8अब्।.देवता^अत्र भवेद् वायुश् चित्र^माल्यैर् बलिं हरेत्।
प्.125.8च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.125.9अब्।.विशाखायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.125.9च्द्।.गुरुको +असौ भवेद् व्याधिर् अहान्य् एकोनविंशतिः॥
प्.126.1अब्।.(126) इन्द्राग्नी^देवते तत्र गन्ध^माल्यैर् बलिं हरेत्।
प्.126.1च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.126.2अब्।.अनुराधा^उत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा।
प्.126.2च्द्।.अर्ध^मासं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.126.3अब्।.मित्रो हि देवता तत्र घृत^पात्रं बलिं हरेत्।
प्.126.3च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.126.4अब्।.ज्येष्ठायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.126.4च्द्।.क्लेशिको हि भवेद् व्याधिर् अहोरात्र^त्रयोदश॥
प्.126.5अब्।.इन्द्रो हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
प्.126.5च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.126.6अब्।.मूले समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.126.6च्द्।.मासिको हि भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.126.7अब्।.नैरृतिर् देवता तत्र मद्य^मांसैर् बलिं हरेत्।
प्.126.7च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.126.8अब्।.पूर्वाषाढे भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.126.8च्द्।.सांक्लेशिको भवेद् व्याधिर् अष्टौ मासान् न संशयः॥
प्.126.9अब्।.आपो हि देवतास् तत्र कृसरेण बलिं हरेत्।
प्.126.9च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.126.10अब्।.उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.126.10च्द्।.सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.126.11अब्।.विश्वो हि देवता तत्र पायसेन बलिं हरेत्।
प्.126.11च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.127.1अब्।.(127) अभिजिद् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.127.1च्द्।.षण्^मासान् संभवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.127.2अब्।.विष्णुश् च देवता तत्र दधि^मण्डं बलिं हरेत्।
प्.127.2च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.127.3अब्।.श्रवणेन^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.127.3च्द्।.गुरुको हि भवेद् व्याधिः पूर्णं द्वादश^मासिकं॥
प्.127.4अब्।.विष्णुर् हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
प्.127.4च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.127.5अब्।.धनिष्ठायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.127.5च्द्।.गुरुको हे भवेद् व्याधिः पूर्णमासान् त्रयोदश॥
प्.127.6अब्।.वसवो देवतास् तत्र घृत^माल्यैर् बलिं हरेत्।
प्.127.6च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.127.7अब्।.शतभिषा^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.127.7च्द्।.त्रयोदश^दिवस् तत्र ततश् च^ऊर्ध्वं विमुच्यते॥
प्.127.8अब्।.वरुणो देवता तत्र पायसेन बलिं हरेत्।
प्.127.8च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.127.9अब्।.पूर्वभद्र^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.127.9च्द्।.न तं वैद्याश् चिकित्सन्तु अहिर्बुध्न्यो +अत्र दैवतः॥
प्.127.10अब्।.उत्तरभाद्रजो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.127.10च्द्।.सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
प्.128.1अब्।.(128) अर्यमा देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
प्.128.1च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.128.2अब्।.रेवत्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.128.2च्द्।.मृदुको हि भवेद् व्याधिर् अष्टाविंशति^रात्रिकः॥
प्.128.3अब्।.पूषा हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
प्.128.3च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.128.4अब्।.अश्विन्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.128.4च्द्।.सांक्लेशिको भवेद् व्याधिः पञ्च^विंशति^रात्रिकः॥
प्.128.5अब्।.गन्धर्वो देवता तत्र यावकेन बलिं हरेत्। %गन्धर्व!
प्.128.5च्द्।.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
प्.128.6अब्।.भरण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
प्.128.6च्द्।.न तं वैद्याश् चिकित्सन्तु यमस् तत्र तु दैवतः।
प्.128.7अब्।.शीलं रक्षतु मेधावी ततः स्वर्गं गमिष्यति॥
प्.128.7च्द्।.अयं भोः पुष्करसारिन् व्याधि^समुत्थानो नाम^अध्यायः।
% बन्धन^निर्मोक्षः
प्.128.8।.अथ खलु भोः पुष्करसारिन् बन्धन^निर्मोक्षं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भगवान्॥
प्.129.1।.कृत्तिकासु भोः पुष्करसारिन् बद्धो वा रुद्धो वा त्रि^रात्रेण मोक्ष्यति^इति वक्तव्यः। रोहिण्यां बद्धो वा रुद्धो वा त्रि^रात्रेण मोक्ष्यति^इति। मृगशिरसि बद्धो वा रुद्धो वा एक^विंशति रात्रेण मोक्ष्यति^इति। आर्द्रायां बद्धो वा रुद्धो वा +अर्ध^मासेन मोक्ष्यति^इति। पुनर्वसौ रुद्धो वा बद्धो वा सप्त^रात्रेन। पुष्ये त्रि^रात्रेण। अश्लेषायां त्रिंशद्^रात्रेण।
मघासु षोडश^रात्रेण। चित्रायां सप्त^रात्रेण। स्वात्यां दश^रात्रेण। विशाखायां षड्विंशद्^रात्रेण। अनुराधायाम् एक^त्रिंशद् रात्रेण। ज्येष्ठायाम् अष्टादश^रात्रेण। मूले षट्त्रिंशद् रात्रेण। पूर्वाषाढायां चतुर्^दश^रात्रेण। उत्तराषाढायां चतुर्^दश^रात्रेण। अभिजिति षड्^रात्रेण। श्रवणे धनिष्ठायां शतभिषायां पूर्वभद्रपदे उत्तरभाद्रपदे रेवत्यां
चतुर्^दश^रात्रेण। अश्विन्यां त्रि^रात्रेण। भरण्यां बद्धो वा रुद्धो वा परिक्लेशम् अवाप्स्यति^इति वक्तव्यः।
प्.129.2।.अयं भोः पुष्करसारिन् बन्धन^निर्मोक्षो नाम^अध्याय।
% तिलक^अध्यायः
प्.129.3।.अथ बोः पुस्करसारिन् तिलक^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भगवान्॥
प्.129.4।.मूर्ध्नि तु यस्यास् तिलको +अस्ति सूक्ष्मः स्निग्धो भवेत् पद्म^समान^वर्णः।
प्.129.5।.राजा तु तस्या भवति^इह भर्ता स्तन^उपरिष्टात् प्रतिबिम्बम् आहुः॥
प्.130.1अब्।.शीर्षे तु यस्यास् तिलक^अलकः स्यात् सूक्ष्मो भवेद् अञ्जन^चूर्ण^वर्णः।
प्.130.1च्द्।.सेनापतिस् तस्या भवेद् धि भर्ता स्तन^अन्तरे +अस्याः प्रतिबिम्बकं स्यात्॥
प्.130.2अब्।.भ्रूवोन्तरे +अस्यास् तिलक^अलकः स्याद् दुष्चारिणीं तां प्रमदां वदन्ति।
प्.130.2च्द्।.पञ्च^एव तस्याः पतयो भवन्ति बह्व्^अन्न^पानं लभते च नारी॥
प्.131.1अब्।.गण्डस्य नासादिकम् अध्यदेशे भवेच् च बिम्बं तिलकस्य यस्याः।
प्.131.1च्द्।.तां शोक^भाजं प्रमदां वदन्ति रोमप्रदेशे प्रतिबिम्बम् आहुः॥
प्.131.2अब्।.कर्णे तु यस्यास् तिलक^अलकः स्याद् बहु^श्रुतां तां प्रमदां वदन्ति।
प्.131.2च्द्।.बहु^श्रूतां तां श्रुतिधारिणीं च त्रिके तु यस्याः प्रतिबिम्बकं स्यात्॥
प्.131.3अब्।.यस्य^उत्तरोष्ठे तिलक^अलकः स्यात् तां भिन्न^सत्यां प्रमदां वदन्ति।
प्.131.3च्द्।.कृच्छ्रेण सा वै लभते हि वृत्तिम् ऊरौ तु तस्यास् तिल^बिम्बम् आहुः॥
प्.132.1अब्।.यस्या +अधरोष्ठे तिलक^अलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति।
प्.132.1च्द्।.मिष्ट^अन्न^पानं बहु ऋच्छते सा तथा हि गुह्ये प्रतिबिम्बकं स्यात्॥
प्.132.2अब्।.चिबुके तु यस्यास् तिलक^अलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति।
प्.132.2च्द्।.मिष्ट^अन्न^पानं बहु सा लभेत गुह्ये द्वितीयं प्रतिबिम्बकं स्यात्॥
प्.132.3।.अयं भोः पुष्करसारिंस् तिलक^अध्यायो नाम^अध्यायः।
प्.132.4।.अथ खलु भोः पुष्करसारिन् नक्षत्र^जन्म^गुणं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भवान् त्रिशङ्क्को।
प्.132.5अ।.कृत्तिकासु नरो जातस् तेजस्वी प्रिय^साहसः।
प्.132.5ब्।.भवेच् छूरस् तथा चण्डः प्रिय^वादी च मानवः॥
प्.132.6अ।.रोहिण्यां पुरुषो जातो धनवान् धर्मिकस् तथा।
प्.132.6ब्।.व्यवसायी स्थिरः शूरो ध्रुवं च^अस्य सदा मुखं॥
प्.133.1अब्।.जातो मृगशिरे यस् तु मृदुः सौम्यस् तु मानवः।
प्.133.1च्द्।.दर्शनीयो भवेच् च^असौ स्त्री^कान्तस् तु विशेषतः॥
प्.133.2अब्।.आर्द्रा^जातस् तु हिंसात्मा चण्डः परम^जल्पकः।
प्.133.2च्द्।.रोद्रकर्मा भवेच् च^असाव् ईश्चरश् च शतैर् महान्॥
प्.133.3अब्।.जातः पुनर्वसौ यस् तु ह्य् अलोलो बुद्धिमान् नरः।
प्.133.3च्द्।.धर्म^शीलो भवेच् च^असौ जात^क्रोधश् च मानवः॥
प्.133.4अब्।.पुष्येण पुरुषो जातस् तेजस्वी ब्राह्मणो भवेत्।
प्.133.4च्द्।.क्षत्रियश् च भवेद् राजा वैश्य^सूद्रौ च पूजितौ॥
प्.133.5अब्।.श्वसनः क्रोधनः क्रूरो ह्य् अश्लेषा^सम्भवो नरः।
प्.133.5च्द्।.दुर्मनुष्यश् च चण्डश् च; इति सर्वम् इहादिशेत्॥
प्.133.6अब्।.बहु^प्रज्ञः श्राद्ध^करो बहु^भाग्यस् तथा^एव च।
प्.133.6च्द्।.धनवान् धान्यवान् भोगी मघासु पुरुषो भवेत्॥
प्.133.7अब्।.पूर्वफाल्गुनी^जातस् तु यः कश्चित् पुरुषो भवेत्।
प्.133.7च्द्।.अर्धम् अबुच्छिशीलश् च गुरु^दारा^अभिमर्दकः॥
प्.133.8अब्।.उत्तरायां तु फाल्गुन्यां जातो भवति भोगवान्।
प्.133.8च्द्।.दिव्यज्ञानश् च विज्ञाने पुरुषः सुभगो भवेत्॥
प्.133.9अब्।.हस्ते जातश् च शुद्ध^आत्मा विक्रान्तो मृदु^भोजनः।
प्.133.9च्द्।.सेनापत्यम् च कुरुते +अस्तेय^कर्मा भवेद् असौ॥
प्.133.10अब्।.चित्रासु जातश् चित्रा^अक्षस् तथा चित्र^कथा^करः।
प्.133.10च्द्।.दर्शनीयो बहु^स्त्रीकश् चित्र^शीलो भवेन् नरः॥
प्.134.1अब्।.स्वात्यां च पुरुषो जातो बन्धुश् लाघी चिचक्षणः।
प्.134.1च्द्।.मृदुकः पान^शौण्डश् च मित्र^कारी विचारवान्॥
प्.134.2अब्।.विशाखासु नरो जातस् तेजस्वी द्रव्यवान् महान्।
प्.134.2च्द्।.शूरो विक्रमवान् दक्षः सुभगश् च भवेद् असौ॥
प्.134.3अब्।.अनुराधा^उद्भवो मर्त्यो मित्रवान् संग्रही नरः।
प्.134.3च्द्।.शुचिश् च^एव कृत^ज्ञश् च धर्म^आत्मा च भवेच् च सः॥
प्.134.4अब्।.ज्येष्ठासु पुरुषो जातो मित्रवान् अभिजायते।
प्.134.4च्द्।.धनुर्वेद^अभिरामश् च नारीषु कुरुते मनः॥
प्.134.5अब्।.मूलेषु पुरुषो जातो +अकृतज्ञः स्याद् अधर्मिकः।
प्.134.5च्द्।.दृढो वीरो भवेच् च^असौ किल्विषी च स मानवः॥
प्.134.6अब्।.आषाढासु च पूर्वासु मत्सरी चलित^इन्द्रियः।
प्.134.6च्द्।.मत्स्य^मांस^प्रियश् च^अपि घातकः स्यात् स मानवः॥
प्.134.7अब्।.स^अनुक्रोशश् च दाता च विद्यानिष्ठः सुहृज्जनः।
प्.134.7च्द्।.विश्वदैवे नरो जातो भवेद् अपि च निश्चितः॥
प्.134.8अब्।.आचार्यः शास्त्र^कर्ता च विश्वासी च क्रियापरः।
प्.134.8च्द्।.श्रवणे जत; आयुष्मान् श्रीमांश् च पुरुषो भवेत्॥
प्.134.9अब्।.अनवस्थित^चित्तश् च च्चित्र^द्रव्यश् च मानवः।
प्.134.9च्द्।.धनिष्ठासु भवेज् जातः पुरुषः सर्व^शाङ्कितः॥
प्.135.1अब्।.वारुणे यदि नक्षत्रे जातो भवति मानवः।
प्.135.1च्द्।.परुषो क्वेषशीलश् च परिवादी च सर्वशः॥
प्.135.2अब्।.जातो भाद्रपदायां तु पूर्वस्याम् इह मानवः।
प्.135.2च्द्।.चारित्र^गुण^युक्तश् च कृत^ज्ञो मुखरस् तथा॥
प्.135.3अब्।.उत्तरस्यां नरो जातो भविष्यति विचक्षणः।
प्.135.3च्द्।.मेधावी बह्व् अपत्यश् च धर्म^शीलो महा^धनः॥
प्.135.4अब्।.रेवत्यां पुरुषो जातो धर्म^आत्मा ज्ञाति^सेवकः।
प्.135.4च्द्।.दरिद्रो +अल्प^धनो नित्यं दायको न^अनुसूयकः॥
प्.135.5अब्।.अश्विन्यां पुरुषो जातो भवय् अतिविचक्षणः।
प्.135.5च्द्।.महा^जन^प्रियश् च^अपि शूरश् च सुभगश् च सः॥
प्.135.6अब्।.भरण्यां पुरुषो जातः पापा^चारो +अविचक्षणः।
प्.135.6च्द्।.कन्दर्पे दातुकामश् च परतश् च^उपजीवकः॥
प्.135.7।.अयं भोः पुष्करसारिन्न् नक्षत्र^जन्म^गुणो नाम^अध्यायः।
प्.135.8।.पठ भोस् त्रिशङ्को उत्पात^चक्रं नाम^अध्यायं। कथयति च।
उ1 उत्पात^चक्र^निर्देशः (प्.136)
उ1.1अब्।.अष्टाविंशति^पर्यन्त^कृत्स्ने नक्षत्र^मण्डले।
उ1.1च्द्।.दिव्या विकारा दृश्यन्ते सूर्य^चन्द्र^ग्रहादिषु॥
उ1.2अब्।.माघस्य प्रथमे पक्षे शैलो वा पार्थिवा यदि।
उ1.2च्द्।.धूमवृष्टिर् हि; आदित्ये; उदयति प्रदृश्यते।
उ1.2एf।.विद्युतो वा^अथ दृश्यन्ते तदा विद्याज् जन^क्षयं॥
उ1.3अब्।.अश्विन्याम् अर्कतो धूमो निर्गच्छन्न् अपि छादयेत्।
उ1.3च्द्।.अनावृष्टिं तदा विद्यात् पूर्णवर्षाणि द्वादश॥
उ1.4अब्।.भरण्यां माघ^मासे तु पीतसूर्यो +अथ दृश्यते।
उ1.4च्द्।.समन्ताद् वध्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्॥
उ1.5अब्।.फाल्गुने कृत्तिकायां तु; आदित्ये परिखो यदि।
उ1.5च्द्।.नश्यन्ति कर्वटास् तत्र यदि देवो न वर्षति॥
उ1.6अब्।.चैत्र^मासे यदा पुष्ये सूर्ये कृष्णां प्रदृश्यते।
उ1.6च्द्।.अचिरोदयकाले तु क्षिति^पालो +अवरुध्यते॥
उ1.7अब्।.वैशाखमासे च^अर्द्रायाम् आदित्यः प्रतिसूर्यकः।
उ1.7च्द्।.संग्रामं तत्र जानीयाद् उभौ घात्येते पार्थिवौ॥
उ1.8अब्।.गृह्येतां चन्द्र^सूर्यौ वा ज्यैष्ठे भरणि^ज्येष्ठयोः।
उ1.8च्द्।.स^अमात्यो वध्यते राजा राष्ट्रे दुर्भिक्षम् आदिशेत्॥
उ1.9अब्।.आषाढे च यदा^आदित्ये पूर्वभाद्रपदे स्थिते।
उ1.9च्द्।.सायाह्ने दृश्यते +अत्यर्थं लोहितो मण्डले ब्रणः॥
उ1.10अब्।.पर^चक्रेण तद्^राष्ट्रं षण्^मासान् पीड्यते तदा।
उ1.10च्द्।.क्षिति^पालश् च स^अमात्यः पुत्रदारेण वध्यते॥
उ1.11अब्।.पूर्वायां च^उत्तराषाढायाम् आषाढे गृह्यते शशी।
उ1.11च्द्।.विद्याद् दुर्भिक्ष^कलह रोगांश् च^अत्र विनिर्दिशेत्॥
उ1.12अब्।.मासे +अथ श्रावणे मूले चन्द्र^सूर्यौ न भासतः।
उ1.12च्द्।.स्फुलिङ्गाश् च^अत्र दृश्यन्ते विद्याद् रोग^भयं महत्॥
उ1.13अब्।.मासे +अश्वयुजि गृह्येतां एक^पक्षेन्दुभास्करो।(प्.137)
उ1.13च्द्।.राज^पुत्र^सहस्राणां तदा जायेत संक्षयः॥
उ1.14अब्।.अलक्षणो निःप्रकाशः पूर्णमास्यां तु कार्त्तिके।
उ1.14च्द्।.चन्द्र^सूर्याव् अग्निवर्णौ रक्त^वर्णे नभस्^तले॥
उ1.15अब्।.रविवद् भाति तद्^राष्ट्रं विनश्येत पुनः पुनः।
उ1.15च्द्।.राज्ञां विद्याद् धतानां वै भूमिः पास्त्यति शोणितं॥
उ1.16अब्।.भरण्यां माघ^मासे तु कृष्णो वायुः समुत्थितः।
उ1.16च्द्।.छादयेच् चन्द्र^सूर्यौ तु शीघ्रं राष्ट्रं विनश्यति॥
उ1.17अब्।.मासे तु फाल्गुने वायुः पांशुवर्षं सविद्युतं।
उ1.17च्द्।.वध्यन्ते पूर्वराजानः प्रतिष्ठन्ते तथा^अपरे॥
उ1.18अब्।.सह^आदित्येन चन्द्रे +अथ यदा कश्चिद् ग्रहश् चरेत्।
उ1.18च्द्।.वायुर् वा विषमो वातिइ विद्याद् राज^वधं तदा॥
उ1.19अब्।.अशन्युल्के तु वैशाखे; आदित्येन सह^उत्थिते।
उ1.19च्द्।.षण्^मास^अभ्यन्तरेण^अथ राष्ट्रे व्यसनम् आदिशेत्॥
उ1.20अब्।.ज्येष्ठ^मासे यदा^आदित्यो ग्रहतो निर्गतो भवेत्।
उ1.20च्द्।.आदित्यस्य^उपघातेन ग्रहाः सर्वे +अथ पीडिताः॥
उ1.21अब्।.ज्येष्ठे च पांशुर् वर्षेत; आदित्यः परिविष्यते।
उ1.21च्द्।.क्षिति^पाल^सहस्राणां एक; एकस् तु वध्यते॥
उ1.22अब्।.आषाढे वायवो वान्ति गच्छन्तो भरणी^स्थिताः।
उ1.22च्द्।.उदपानानि शुष्यन्ते सर्व^शस्यं च शुष्यति॥
उ1.23अब्।.श्रावणे वायवः पीताः सदा कृष्णं नभस्^तलं।
उ1.23च्द्।.भयं तत्र विजानीयात् समन्तात् समुपस्थितं॥
उ1.24अब्।.श्रावणे वर्षते ह्य् अग्निः पूर्वभाद्रपदे दिवा।
उ1.24च्द्।.मेघाः शब्दम् उत्कुर्वन्ति रोग^दुर्भिक्षम् आदिशेत्॥
उ1.25अब्।.यदा भाद्रपदे मासे नभः स्याच् छन्न^गर्जितं।(प्.138)
उ1.25च्द्।.पर^चक्रं तदा राष्ट्रे हरते धन^सञ्चयं॥
उ1.26अब्।.अश्वयुजि वात^वृष्टिः स्याद् आगत्य^उत्तरां दिशं।
उ1.26च्द्।.पातयेच् च^एवम् आघातं कृत्स्नं राष्ट्रं विनश्यति॥
उ1.27अब्।.कार्त्तिके शुक्ल^त्रयोदश्यां यदा चन्द्रे धनुर् भवेत्।
उ1.27च्द्।.समन्तान् नश्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्॥
उ1.28अब्।.उल्का^पाता ह्य् अशनयो माघ^मासे भवन्ति वा।
उ1.28च्द्।.अश्विन्यां विषये तत्र प्रजा +अश्वासेन वध्यते॥
उ1.29अब्।.मासे तु फाल्गुने यत्र; आग्निवर्षं नभस्^तलात्।
उ1.29च्द्।.भवेच् छब्दस् तदाकाशे तद्^राष्ट्रं नश्यते लघु॥
उ1.30अब्।.स्वात्यां चैत्रे यदा वर्षं निरुद्धं वात^वर्षितं।
उ1.30च्द्।.दृश्यत^इन्द्रधनुः क्षिप्रं नगरं तद् विनश्यते॥
उ1.31अब्।.भरण्यां ज्येष्ठ^मासे तु शब्द; उत्तरतो भवेत्।
उ1.31च्द्।.पीतवर्णं तदाकाशं पर^चक्र^भयं भवेत्॥
उ1.32अब्।.आषाढे मासि पुष्ये +अथ दृश्यन्ते व्योग्नि विद्युतः।
उ1.32च्द्।.सतृण^उदकवृष्टिभिस् त्रिभागं मुच्यते प्रजा॥
उ1.33अब्।.श्रावणे तु यदा मूले बहु देवः प्रवर्षति।
उ1.33च्द्।.दृश्यत^इन्द्रधनुस् तत्र क्षत्रियाणां महद्^भयं॥
उ1.34अब्।.मासे भाद्रपदे यत्र निर्घातः पतति क्षितौ।
उ1.34च्द्।.सुकृच्छ्रा वायवो वान्ति महद्^रोग^भयं तदा॥
उ1.35अब्।.मासे भाद्रपदे पुष्ये विदिग्भ्यो निश्चरेद् ध्वनिः।
उ1.35च्द्।.क्षत्रियः कुप्यते क्षिप्रं विपक्षा तु दता प्रजा॥
उ1.36अब्।.भरण्याम् अश्वयुजे शब्द उपरिष्टाद् भवेद् यदि।
उ1.36च्द्।.सतृणं च^उत्सृजेत् पांशुं तापसानां महद्^भयं॥
उ1.37अब्।.कार्त्तिके तु यदा^आर्द्रायां शब्दः श्रयेत भैरवः।
उ1.37च्द्।.चतुष्पदः कार्षकाणां मृत्युं तत्र विनिर्दिशेत्॥
उ1.38अब्।.मार्गशीर्षे धनिष्ठायां तूर्यशब्दो +अम्बरे भवेत्।(प्.139)
उ1.38च्द्।.वातातुरस् तदा राष्ट्रे व्याधिर् भवति दारुणः॥
उ1.39अब्।.पौष^मासे यदा स्वात्यां शब्दो भवति भैरवः।
उ1.39च्द्।.अभीक्ष्णं विद्युद् आकाशे पण्डितानां महद्^भयं॥
उ1.40अब्।.माघे शुक्ले तु निर्घातो नित्यं शाम्येद् वसुन्धरां।
उ1.40च्द्।.जानीयात् तृतीये वर्षे सकलं राष्ट्रविभ्रमं॥
उ1.41अब्।.ज्येष्ठायां फाल्गुने मासे कृष्ण^वायुः समाकुलः।
उ1.41च्द्।.अभीक्ष्णं कम्पते भूमिर् ब्रह्म^चारि^भयं तदा॥
उ1.42अब्।.पूर्वभाद्रपदायां तु चैत्रे कम्पेत् क्षितिर् दिवा।
उ1.42च्द्।.तस्मिन् वर्षे च तद्राष्ट्रे परसैन्यान् महद्^भयं॥
उ1.43अब्।.पूर्वायां चेद् आषाढायां रात्रौ चैत्रे च निश्चलेत्।
उ1.43च्द्।.असिभिर् हन्यते राजा हन्यते च महा^जनः॥
उ1.44अब्।.वैशाखे कम्पिता भूमिः कृष्ण^पक्षे ह्य् अभीक्ष्णशः।
उ1.44च्द्।.अनावृष्ट्या तु दुर्भिक्षं मासान् षट् तत्र निर्दिशेत्॥
उ1.45अब्।.ज्येष्ठे मासे भरण्यां तु दिवा कम्पेद् वसुन्धरा।
उ1.45च्द्।.विद्याद् योध^सहस्राणां मही पास्यति शोणितं॥
उ1.46अब्।.ज्येष्ठे मासे यदा मूले रात्रौ भूमिः प्रकम्पते।
उ1.46च्द्।.प्रत्यन्तो वध्यते राजा राष्ट्रे बलिं समादिशेत्॥
उ1.47अब्।.आषाढे कम्पते भूमिः पुष्य^नक्षत्र^संस्थिते।
उ1.47च्द्।.शस्यं विनश्यते तत्र कलिकर्म च जायते॥
उ1.48अब्।.प्रकम्पन्ते यदा चैत्या; आद्रायां वा मघासु वा।
उ1.48च्द्।.ज्वलेयुः प्रपतेयुर् वा नश्येद् राष्ट्रं तदा लघु॥
उ1.49अब्।.चैत्या यत्र प्रकम्पन्ते हसन्ति च नमन्ति च।
उ1.49च्द्।.सराष्ट्रः क्षितिपस् तत्र न चिरान् नाशम् अर्च्छति॥
उ1.50अब्।.श्रावणे कम्पते भूमिः पूर्वभाद्रपदा^स्थिते।(प्.140)
उ1.50च्द्।.सदा पराजितो राजा चौर^राष्ट्रे च वध्यते॥
उ1.51अब्।.कार्त्तिके क्षिति^कम्पेन यदा चैत्यं विशीर्यते।
उ1.51च्द्।.द्वारं वा नगरस्य^अथ भूयिष्ठं नश्यते प्रजा॥
उ1.52अब्।.वामे वा कषीणे चन्द्रोः शृङ्गे तिष्ठेद् बृहस्पतिः।
उ1.52च्द्।.महा^भोगा विनश्येयुः प्रकाशाः पृथिवीश्वराः॥
उ1.53अब्।.सूर्याचन्द्रमसोः सृङ्गे लोहित^अङ्गो यदा +अरुहेत्।
उ1.53च्द्।.क्रूर^अक्षमन्त्रिकात् पीडां प्रत्यन्तानां विनिर्दिशेत्॥
उ1.54अब्।.शनैश्चरो यदा शृङ्गे सोमस्य^अभिरुहेत् तदा।
उ1.54च्द्।.ज्ञेयं रोग^भयं घोरं दुर्भिक्षं च^अत्र निर्दिशेत्॥
उ1.55अब्।.राहुणा निगृहीतस् तु च^उल्ल्कया हन्यते शशी।
उ1.55च्द्।.षण्^मास^अभ्यन्तरात् तत्र राज्ञो व्यसनम् आदिशेत्॥
उ1.56अब्।.यस्य चैव^अथ नक्षत्रे शशी सूर्यो विगृह्यते।
उ1.56च्द्।.राहुणा क्षितियो राज्यैः सह पीडाम् अवाप्नुयात्॥
उ1.57अब्।.राज्ञो वै च^अथ नक्षत्रे चन्द्रं केतुर् यदा विशेत्।
उ1.57च्द्।.प्रत्यन्त^राजभिः सार्धं शस्त्राम् ऊर्च्छां विनिर्दिशेत्॥
उ1.58अब्।.चन्द्र^मध्य^गतः शुक्रः फाल्गुन्याथ मघा यदा।
उ1.58च्द्।.सर्व^धान्यानि शुष्येयुस् तदा रोगं विनिर्दिशेत्॥
उ1.59अब्।.बृहस्पतिश् च शुक्रश् च लोहित^अङ्गः शनैश्चरः।
उ1.59च्द्।.लिख्यन्ति सोम^शृङ्गस्य तदा विद्यान् महद्^भयं॥
उ1.60अब्।.धूमकेतुर् महा^भागः पुष्यम् आरुह्य तिष्ठति।
उ1.60च्द्।.चतुर्^दिशं तदा विंच्यात् पर^चक्रैः पराभवं॥
उ1.61अब्।.मघायां लोहित^अङ्गो वा श्रवणे वा बृहस्पतिः।
उ1.61च्द्।.तिष्ठेत् संवत्सर^त्रीणि भयं विद्यात् समागरं॥
उ1.62अब्।.तिष्ठेच् छुक्रो +अथ रोहिण्यां ज्येष्ठे मासे कथंचन।
उ1.62च्द्।.व्याकुर्यान् नियतम् अत्र क्षत्रियाणां महद्^भयं॥
उ1.63अब्।.विशाखायां समीपस्थौ बृहस्पति^शनैश्चरौ।(प्.141)
उ1.63च्द्।.सोमो वा रविणा सार्धं पर^चक्र^भयं तदा॥
उ1.64अब्।.काकाः श्येनाश् च बृध्राश् च वसेयुः सहिता मुदा।
उ1.64च्द्।.मैथुनं वारितं वेयुः परैः सह रणस् तदा॥
उ1.65अब्।.श्येनो हस्तिनिवासे वा; अभिरोहेत् पुनः पुनः।
उ1.65च्द्।.पर^चक्रेण युद्धं तु भवेच् च^अपि पुनः पुनः।.
उ1.66अब्।.कन्या प्रसूयते यत्र चतुर्^हस्ता चतुस्तनी।
उ1.66च्द्।.स्त्रीणाम् एव भवेत् तत्र मरणं ह्य् अतिदारुणं॥
उ1.67अब्।.गर्भ^स्था दारका यत्र हसन्ति च वदन्ति च।
उ1.67च्द्।.तस्य देशस्य जानीयाद् विनाशं समुपस्थितं॥
उ1.68अब्।.एक^पादां स्त्रिपादांश् च चतुर्^अङ्गांस् तथा^एव च।
उ1.68च्द्।.नार्यो यत्र प्रसूयन्ते राज्ञो व्यसनम् आदिशेत्॥
उ1.69अब्।.सूयन्ते विकृतान् गर्भान् सन्तानान् भय^व्यञ्जनान्।
उ1.69च्द्।.प्रमदा यत्र देशे तु राजा तत्र विनश्यति॥
उ1.70अब्।.लघु^हस्त^शीर्ष^मुखान् मानुषं कायम् अश्रितान्।
उ1.70च्द्।.प्रमदा यत्र सूयन्ते राष्ट्रं तत्र विनश्यति॥
उ1.71अब्।.खराश् च महिषाश् च^अपि पशवो +अथ तथाविधाः।
उ1.71च्द्।.द्वि^त्रि^शीर्षाः प्रसूयन्ते देशे यत्र स नश्यति॥
उ1.72अब्।.शृगाल^श्वान^मकर^हयरूपाश् च मानवाः।
उ1.72च्द्।.जायन्ते यत्र देशे तु स देशो लघु नश्यति॥
उ1.73अब्।.पादाव् उभौ यदा वैश्या गुर्विणी संप्रसूयते।
उ1.73च्द्।.देशस्य विलयं ब्रूयात् पर^चक्रेण दारुणं॥
उ1.74अब्।.पूर्वार्धः पक्षिनरयोर् गर्भो यत्र प्रसूयते।
उ1.74च्द्।.राजा वा राजामात्यो वा सह देशेन नश्यति॥
उ1.75अब्।.कुम्भाण्डो जायते यत्र द्विसुखो +अथ चतुर्^मुखः।(प्.142)
उ1.75च्द्।.त्रिनेत्रस् त्रिमुखो वा^अपि विद्यात् तत्र महद्^भयं॥
उ1.76अब्।.सौकरेण तु वक्रेण शरीरं मानुषं यदि।
उ1.76च्द्।.सूतं चतुर्^दिशं राष्ट्रं हन्यात् तत्र न संशयः॥
उ1.77अब्।.आदित्यस्य तु रूपेण मानुषो यत्र जायते।
उ1.77च्द्।.विभ्रमात् सकलं राष्ट्रं विनाशम् उपगच्छति॥
उ1.78अब्।.उत्तानशायी बालस् तु देशं यत्र द्विजोत्तमः।
उ1.78च्द्।.दृष्टः प्रव्याहरन् वेदान् क्षिप्रं देशो विनश्यतेइ॥
उ1.79अब्।.कुक्षिं भित्वा यदा बालो गर्भान् निष्क्रमते स्वयं।
उ1.79च्द्।.अत्राणां मातरं कृत्वा स देशो नश्यते लघु॥
उ1.80अब्।.गर्भ^स्थाः सूकरा; उष्ट्राः सर्पाश् च शकुनिस् तथा।
उ1.80च्द्।.स्त्रीणां गर्भात् प्रसूयन्ते देशे तु भयम् आदिशेत्॥
उ1.81अब्।.पौरुषं गार्दभं च^अथ सौकरं च^अर्ध^विग्रहं।
उ1.81च्द्।.गावो यत्र प्रसूयन्ते निर्दिशेद् भयम् आगतं॥
उ1.82अब्।.नारी गृह्णाति गर्भं वा; अदृष्ट^स्तन^रूपिणी।
उ1.82च्द्।.विनाशं तस्य देशस्य सनृपस्य विनिर्दिशेत्॥
उ1.83अब्।.जटी दीर्घनखो यत्र सुकृष्णः परुष^च्छविः।
उ1.83च्द्।.सजनो जायते यत्र राष्ट्रं साधिपतिं दहेत्॥
उ1.84अब्।.अग्रीवा दन्त^सहिता जायन्ते यत्र बालकाः।
उ1.84च्द्।.शुष्येत सकलं शस्यं जनश् च विलयं व्रजेत्।
उ1.85अब्।.एक^बाहुर^शीर्षो +अथ गर्भो यत्र प्रसूयते।
उ1.85च्द्।.स्वयं क्षुभ्येत तद्^राष्ट्रं विनश्येत न संशयः॥
उ1.86अब्।.फले फलं यदा पश्येत् पुष्पे वा पुष्पम् आश्रितं।
उ1.86च्द्।.गर्भाः स्रवेयुर् नारीणां युवराजश् च वध्यते॥
उ1.87अब्।.अकाले पादपा यत्र पुष्प्यन्ति च फलन्ति च।(प्.143)
उ1.87च्द्।.लता गुल्मो +अथ वल्ली वा देशे तत्र भयं भवेत्॥
उ1.88अब्।.वृक्ष^उपरिष्टात् पश्येद् वा स्रवन्तम् आत्म^शोणितम्।
उ1.88च्द्।.कूजमानं पतङ्गं वा तदा विद्यान् महद्^भयं॥
उ1.89अब्।.वृक्षाणां मण्डपानां वा छाया न परिवर्तते।
उ1.89च्द्।.चतुर्^वर्ण^भयं तत्र कलिकर्म च जायते॥
उ1.90अब्।.पुष्प्येग्रुः पादपा यत्र विविधाः पुष्प^जातयः।
उ1.90च्द्।.कल्प^वृक्ष^प्रकृतयस् ततो विद्यान् महद्^भयं॥
उ1.91अब्।.अनावर्तं यदा पुष्पं फलं च^अपि प्रदृश्यते।
उ1.91च्द्।.विनाशं तस्य देशस्य दुर्भिक्षं कलहं वदेत्॥
उ1.92अब्।.स्थानास्थानं गता वृक्षा दृश्येयुर् यत्र कुत्रचित्।
उ1.92च्द्।.पूर्वप्रतिष्ठिता राजा न चिरेण विचाल्यते॥
उ1.93अब्।.दैव^असुरं च संग्रामं पश्येद् अद्भुत^दर्शनं।
उ1.93च्द्।.शस्त्रं मूर्च्छयते तत्र तस्करैश् च^अपि पूर्ववत्॥
उ1.94अब्।.कम्पते रुदते शास्ता गच्छन् वा यत्र दृश्यते।
उ1.94च्द्।.पर^चक्रात् तदा विद्याद् अत्यर्थं तत्प्रराजयं॥
उ1.95अब्।.देवता यत्र देशे तु नृत्यन्ति च हसन्ति च।
उ1.95च्द्।.अश्रूणि पातयेयुर् वा तदा विद्यान् महद्^भयं॥
उ1.96अब्।.देवता यत्र क्रीडन्ति ज्वलन्ति निमिषन्ति वा।
उ1.96च्द्।.चलेयुर् अथवा यत्र क्षिति^पो +अन्यो भवेत् तदा॥
उ1.97अब्।.शिवलिङं यदा कम्पेद् गगने वा^अथ दृश्यते।
उ1.97च्द्।.निमज्जते धरण्यां वा ध्रुवं राज^वधो भवेत्॥
उ1.98अब्।.प्रतिमाः परिवर्तन्ते धूमायन्ते रुदन्ति च।
उ1.98च्द्।.प्रस्विद्येयुः प्रधावेयुर् अन्यो राजा भविष्यति॥
उ1.99अब्।.अचलो वा चलेत् स्थानाच् चलं वा^अप्य् अचलं भवेत्।
उ1.99च्द्।.अमात्यो हन्ति राजानं कलहं च^अत्र निर्दिशेत्॥
उ1.100अब्।.वमन्ति रुधिरं कन्या नमन्ते वा दिशो दश।(प्.144)
उ1.100च्द्।.अयुक्ता वा प्रवर्तन्ते क्षत्रियाणां महद्^भयं॥
उ1.101अब्।.वर्षते कुसुमं यत्र रक्त^विन्दुम् अथ^अपि वा।
उ1.101च्द्।.प्राणिनो विविधान् वा^अपि विद्याच् चौर^भयं तदा॥
उ1.102अब्।.यूपाः पुराणा निगमा देव^आगाराणि चैतियाः।
उ1.102च्द्।.नगराण्य् अथ धूम्यन्ते क्षिप्रं राजा विनश्यति॥
उ1.103अब्।.इन्दुर् वा दीप^वृक्सो वा दीपो यत्र न दीप्यते।
उ1.103च्द्।.राज्यकामः कुमारो वा क्षुभ्येद् विटपको +अपि वा॥
उ1.104अब्।.अन्तःपुरे यदा नीडां कुर्वते मधु^मक्षिकाः।
उ1.104च्द्।.अस्त्रं वा^अपि गृहं दह्याद् राज्ञो व्यसनम् आदिशेत्॥
उ1.105अब्।.पतेद् अन्तःपुरे विद्युद् वृक्षे वा^अप्य् आश्रमे तथा।
उ1.105च्द्।.पुरि चैत्यच्छायायां वा राजार्थे पतिता हि सा॥
उ1.106अब्।.प्राकारे वा +अयुधागारे गोपुरास्थानकेषु वा।
उ1.106च्द्।.वायसः कुरुते नीडं स^अमात्यो ध्वंसते नृपः॥
उ1.107अब्।.अनाहतेभ्यस् तूर्येह्भ्यः स्वयं शब्दो विनिश्चरेत्।
उ1.107च्द्।.स्वचक्र^क्षोभदोषेण सर्वं राष्ट्रं विलुप्यते॥
उ1.108अब्।.मांस^शोणित^वर्षं वा पत्र^पुष्प^फलानि वा।
उ1.108च्द्।.यदाभिवर्षेत् तद्वर्षं चक्रै राष्ट्रं विलुप्यते॥
उ1.109अब्।.मधु^फाणित^पुष्पाणि गन्ध^वर्षाण्य् अथ^अपि वा।
उ1.109च्द्।.दिशो दाहाश् च दृश्येयुर् मार^दुर्भिक्ष^लक्षणं॥
उ1.110अब्।.मेघः समन्ततो गर्जेद् उपवर्षेत् सचातकं।
उ1.110च्द्।.शोणितं सकरकं स्यात् तदा विद्यात् पराद् भयं॥
उ1.111अब्।.विद्युच् च पतते घोरा करकाणां च वर्षणं।
उ1.111च्द्।.गन्धर्व^नगरं च^अथ दृष्ट्वा विद्यान् महद्^भयं॥
उ1.112अब्।.शशी शोणित^संकाशो मध्ये कृष्णो विवर्णवान्।(प्.145)
उ1.112च्द्।.सामन्तकेन पीड्यते विद्याद् राष्ट्रे महद्^भयं॥
उ1.113अब्।.प्रदीपित^अग्नि^संकाशो यदा दृश्येत चन्द्रमाः।
उ1.113च्द्।.गगनं दह्यते तत्र लोक^पीडा ज्वरेण च॥
उ1.114अब्।.यदा गैरिक^संकाशः क्षिप्रम् एव^उपशाम्यति।
उ1.114च्द्।.वर्षणस्य^आगमो विद्याद् यदि वायुः प्रवायते॥
उ1.115अब्।.सन्ध्यायां धूम्र^वर्णायां दृश्येतेन्दुश् च भास्करः।
उ1.115च्द्।.विच्छिन्नो ब्रह्म^रूपेण वर्षं तत्र विनिर्दिशेद्॥
उ1.116अब्।.नाप्सु मज्जति न^अप्य् अग्नौ पूर्ववच् च न दृश्यते।
उ1.116च्द्।.अग्निर् उत्पत्स्यते तत्र कोष्ठ^आगारं दहेत सः॥
उ1.117अब्।.ध्वज^अग्रे वायसो यत्र लम्ब^पक्षो विधावते।
उ1.117च्द्।.उदकं संहरेत् क्षिप्रम् अग्नितः सुमहद्^भयं॥
उ1.118अब्।.जलं जाज्वल्यमानं तु मत्स्यो निर्दहति स्वयं।
उ1.118च्द्।.अनावृष्टिं तदा ब्रूयाद् दुर्भिक्षं च महद्^भयं॥
उ1.119अब्।.पुरद्वारे यदा^आगच्छेत् स्वयम् आरण्यको मृगः।
उ1.119च्द्।.चक्र^द्वये +अपि दुर्भिक्षं राष्ट्रे रोगं च निर्दिशेत्॥
उ1.120अब्।.त्रिशीर्षः पञ्च^शीर्षो वा यदा सर्पो +अथ दृश्यते।
उ1.120च्द्।.अनावृष्ट्या तदा विद्यात् सर्व^शस्यं विनश्यति॥
उ1.121अब्।.कुशूलो यत्र दृश्येत कम्पयन् तु वसुन्धरां।
उ1.121च्द्।.कोष्ठ^आगाराणि नश्येयुर् ये च^अन्ये धन^सञ्चयाः।
उ1.122अब्।.सर्प; उद्यत^शीर्षस् तु युध्यते पुरुषैः सह।
उ1.122च्द्।.चक्र^द्वयाद् रोगतश् च विद्यात् तत्र महद्^भयं॥
उ1.123अब्।.बिल; एकत्र बहवः सर्पाः सुपरिवेष्टिताः।
उ1.123च्द्।.शस्त्र^मृत्युं तदा विद्यात् क्षत्रियाणां महद्^भयं॥
उ1.124अब्।.निश्चरन्त्य् अवधानेन खड्गाः प्रज्वलिता यदा।
उ1.124च्द्।.ततस् तं न चिरात् पश्येत् संग्रामं प्रत्युपस्थितं॥
उ1.125अब्।.काकः श्येनश् च गृध्रो वा यस्य नीयेत मूर्धनि।(146)
उ1.125च्द्।.षण्^मास^अभ्यन्तरे राजा म्रियते सपुरोहितः॥
उ1.126अब्।.प्रासादाश् च प्रकम्पन्ते शरणानि गृहाणि च।
उ1.126च्द्।.महा^बलं च वध्येत राष्ट्रस्य राज^पालकः॥
उ1.127अब्।.वज्र^उद्धृता दिशः सर्वाः कृष्ण^पक्षे चतुर्^दिशं।
उ1.127च्द्।.वर्षेयुः शोणितं यत्र क्षिति^पालो +अत्र वध्यते॥
उ1.128अब्।.सूर्यस्य^उदय^काले तु महोल्का निपतेद् यदा।
उ1.128च्द्।.राज^पुत्र^सहस्राणां भूमिः पास्याति शोणितं॥
उ1.129अब्।.वृक्षाः सर्पाः प्रकम्पेयुर् मुच्येयुस् त्वचो वा तथा।
उ1.129च्द्।.सर्वस्मिन् एव राष्ट्रे तु विद्याच् छत्रु^भयं महत्॥
उ1.130अब्।.दिने ह्य् उल्का^प्रयुक्तिर् वा ज्वलन्ती यदि दृश्यते।
उ1.130च्द्।.रक्त^उत्पादं तदा विद्यात् संग्रामं भीम^दर्शनं॥
उ1.131अब्।.असिं प्रज्वलितं पश्येत् तोमरं चक्रम् एव च।
उ1.131च्द्।.विद्यात् पश्यन्ति शस्त्राणि संग्रामं भीम^दर्शनं॥
उ1.132अब्।.दीर्घम् उच्छ्वसते वा +अश्वः अश्रूणि च निपातयेत्।
उ1.132च्द्।.पादेन कर्षते शीघ्रं युद्धे राज^वधो ध्रुवं॥
उ1.133अब्।.काकश् चेद् गृहम् आरुह्य हा पुत्र; इति वाशति।
उ1.133च्द्।.सर्वः प्रणश्यते देशो नगर^ग्राम^कर्वटः॥
उ1.134अब्।.अनग्नौ जायते धूमः स्थले पद्मानि वा यदा।
उ1.134च्द्।.विनाशं तस्य देशस्य नियमाच् छीघ्रम् आदिशेत्॥
उ1.135अब्।.आरवन्ति यदा घोरं मेघा वृकमृगास् तथा।
उ1.135च्द्।.विनाशं तस्य देशस्य विद्याच् छीघ्रम् उपस्थितं॥
उ1.136अब्।.छिन्नस्रोता भवेन् नद्यश् चिरकारवहा; अपि।
उ1.136च्द्।.गृहाः शून्योदकेन^अपि शुष्कास् तत्र भयं भवेत्॥
उ1.137अब्।.प्रतिस्रोता यदा नद्यो वहन्त्य् अप्रतिवारिताः।
उ1.137च्द्।.नित्योद्विग्ना जनपदा निर्दिशेच् च जन^क्षयं॥
उ1.138अब्।.धनूंष्य् आकृzयमाणानि धूमायन्ति ज्वलन्ति च।(प्.147)
उ1.138च्द्।.अन्यद् वा^अपि प्रहरणं परेभ्यो जायते भयं॥
उ1.139अब्।.मयूर^ग्रीव^संकाशः परिवेशो निशाकरे।
उ1.139च्द्।.विद्याद् राज^सहस्राणां मही पास्यति शोणितं॥
उ1.140अब्।.नराणां प्रमदानां च रति^हर्षो न जायते।
उ1.140च्द्।.सर्वत्र शोक^चिन्ता वा महत् तत्र भयं भवेत्॥
उ1.141अब्।.निर्ग्रन्था; ऋषयः सन्तो देशान् प्रक्रमेयुर् यतः।
उ1.141च्द्।.नदीं भित्वा निकुञ्जान्वा स देशो नश्यते +अचिरात्॥
उ1.142अब्।.यत्रौषध्यश् च विरसा जलं च परिहीयते।
उ1.142च्द्।.विद्याद् देशं तम् उत्सृष्टं देवता^ऋषिसाधुभिः॥
उ1.143अब्।.मत्स्याः कूर्माश् च सर्पाश् च म्रियन्ते यत्र जाङ्गलाः।
उ1.143च्द्।.धन^स्कन्धः स्त्रियास् तत्र सपत्नैर् विप्रलोप्स्यते॥
उ1.144अब्।.अपूर्वाः पक्षिणो यत्र स्थले वारिणि; एव वा।
उ1.144च्द्।.दृश्येयुः पर^चक्रेण धन^स्कन्धो विलोप्स्यते॥
उ1.145अब्।.महा^पथो यदा कक्षैः प्रसृतैर् अपथो भवेत्।
उ1.145च्द्।.सग्राम^कर्वटं राष्ट्रं पुत्रेण सह नश्यते॥
उ1.146।.नानोत्पातचक्र^निर्देशो नाम^अध्यायः।
उ1.147।.पठ भोस् त्रिशङ्को पुरुष^पिन्याध्यायं। अथ किं। कथयतु भगवान्।
उ1.148।.अथ खलु भोः पुष्करसारिन् पुरुष^पिन्याध्यायं व्याखामि तच् छ्रूयतां। कथयतु भगवान्।
उ1.149।.अष्टाविंशतिः पुष्करसारिन् नक्षत्राणि प्रकीर्तितानि। यानि चन्द्र^सूर्य^निःसृतान्य् अनुवहन्ति। तत्र सुकुगृष्ट्या अष्टाङ्गुल^प्रमाणया द्वादशाक्षगृष्टयः स्वशरीरं (प्.148) दैर्घ्येण ज्ञातव्यं। एकाक्षगृष्टिः शीर्ष^मूर्ध्नि एक^पाद^तलं भवेत्। चतुर्^दश गृष्टयो नक्षत्राणां पदं यत्र संदृश्यते। तद् अन्यथा न भवति। नक्षत्रे यत्र यो जातस् तत्र
तत्र संकृश्यते।
उ2 पुरुष^पिन्यः
उ2.1अब्।.कृत्तिकायां हि जातस्य मुखे वै चतुर्^अङ्गुलः।
उ2.1च्द्।.पिन्यो दक्षिणतो यस्य लोमशः कृष्ण^लोहितः॥
उ2.2अब्।.भोगवान् यशसा युक्तः पण्डितो ज्वलति श्रिया।
उ2.2च्द्।.कृत्तिकास्व् अथ जातस्य भवत्य् एतद् धि लक्षणं॥
उ2.3अब्।.दृश्यते व्रण; एवायं यस्य वै चतुर्^अङ्गुलः।
उ2.3च्द्।.रोहिण्यां जातकः सो +अपि विद्वान् धर्म^रतः सदा॥
उ2.4अब्।.मण्डितो भोग^सम्पन्नो ह्री^युक्तश् च^अपि सर्वतः।
उ2.4च्द्।.शूरो विजय^सम्पन्नो नित्यं शत्रु^प्रमर्दकः॥
उ2.5अब्।.ग्रीवायाम् अर्ध^गृष्ट्या तु दाहो यस्य प्रदृश्यते।
उ2.5च्द्।.मृगशीर्षे ह्य् असौ जातः शूरो भोग^समर्पितः॥
उ2.6अब्।.अर्ध^द्वितीय^गृष्ट्या तु पिन्यो वामे हि यस्य तु।
उ2.6च्द्।.आर्द्रायां क्रोधनो जातो मूर्खो गोपतिकश् च सः॥
उ2.7अब्।.वामे कक्षे व्रणो यस्य कृष्णश् च^एव पुनर्वसौ।
उ2.7च्द्।.धन^धान्य^समृद्धो हि जायते स्वल्प^मेधसः॥
उ2.8अब्।.तथा^एव पुष्ये जातो +असौ दृश्यते वर^लक्षणः।
उ2.8च्द्।.चक्र^मध्ये च हस्ते च सूर्यश् चन्द्रो विराजते॥
उ2.9अब्।.अर्ध^प्रदक्षिणावर्ताः केशाः सर्वे हि संस्थिताः।(प्.149)
उ2.9च्द्।.परिमण्डलश् च कायेन जितक्लेशो +अपि नायकः॥
उ2.10अब्।.हृदये यस्य दाहः स्याद् श्लेषायां कलि^प्रियः।
उ2.10च्द्।.दुःशीलो दुःखसंवासो मैथुनाभिर् अतश् च सः॥
उ2.11अब्।.अध; उरसि पृष्ठे वा यस्य व्रणः प्रदृश्यते।
उ2.11च्द्।.मघायां धनवान् जातो महा^आत्म धार्मिको नरः॥
उ2.12अब्।.नाभ्यां दक्षिण^वामाभ्यां व्रणो यस्य प्रदृश्यते।
उ2.12च्द्।.पूर्वफाल्गुनीजातो +असौ मत्सरी च^अल्प^जीवितः॥
उ2.13अब्।.चतुर्^अङ्गुलतो नाभ्या यस्य पिन्यः प्रदृश्यते।
उ2.13च्द्।.उत्तरफाल्गुनीजातो भोग^शीलः श्रुतोद्यतः॥
उ2.14अब्।.श्रोण्यामलोहितः पिन्यो हस्ते जातस्य दृश्यते।
उ2.14च्द्।.चौरः शठश् च मायावी मन्दपुण्यो +अल्प^मेधसः॥
उ2.15अब्।.व्यंजने यस्य पिन्यस् तु दृश्यते नियमेनहि।
उ2.15च्द्।.चित्रा^जातः स चेद् रोगी नृत्यगीतरतस् तथा॥
उ2.16अब्।.व्यञ्जने +अपि च; ऊर्ध्वे वा पीतः पिन्यःप्रदृश्यते।
उ2.16च्द्।.जातः स्वात्याम् असौ लुब्धो गुणद्विष्टो ह्य् अपण्डितः॥
उ2.17अब्।.कुगृष्ट्या यस्य; ऊरूभ्यां पिन्यो लोहित; एव हि।
उ2.17च्द्।.आकीर्णो नरनारीभिर् विशाखायां भटो +अग्रणीः॥
उ2.18अब्।.विद्वान् शूरो जितमित्रो नित्यं सौख्यपरायणः।
उ2.18च्द्।.श्रिया धृत्या च सम्पन्नो +अच्युतः स्वरुपपद्यते॥
उ2.19अब्।.द्वितीयगृष्ट्याम् ऊरुभ्याम् अङ्गे यस्य प्रदृश्यते।
उ2.19च्द्।.शीलवान् अनुराधायां धर्म^भोग^समन्वितः॥
उ2.20अब्।.अधो यस्य^इह च^ऊरुभ्यां पिन्यो ज्येष्ठे स जायते।
उ2.20च्द्।.अल्प^अयुर् अप्रियो दुःखी दुःशीलः कृपणस् तथा॥
उ2.21अब्।.जानुभ्याम् ऊर्ध्वतः सूक्ष्मो व्रणो यस्य^इह दृश्यते।(प्.150)
उ2.21च्द्।.मूलेन भाग्यवान् जातः स्वगृहं नाशयेल् लघु॥
उ2.22अब्।.पूर्वाषाढासु जातस्य पिन्यः स्याज् जानु^मण्डले।
उ2.22च्द्।.दायको धर्म; आसङ्ग्य^च्युतः स्वर्गपरायणः॥
उ2.23अब्।.उत्तरायाम् आषाढायां जातस्य तिलकस् त्रिके।
उ2.23च्द्।.यदि दृश्येत् स मेधावी भोगवान् स्याज् जन^प्रियः॥
उ2.24अब्।.द्वितीयः पिन्यो दृश्येत धनवान् भोगवान् सदा।
उ2.24च्द्।.सत्य^प्रियस् तथारोगो +अच्युतः स्वर्गं च गच्छति॥
उ2.25अब्।.धनिष्ठायां च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।
उ2.25च्द्।.क्रोधनो मन्दरागश् च प्राज्ञो भोग^विवर्जितः॥
उ2.26अब्।.द्विकुगृष्ट्या च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।
उ2.26च्द्।.मूर्खः शतभिषायां तु म्रियते ह्य् अदकेन सः॥
उ2.27अब्।.अधो जङ्घां कुगृष्ट्या तु पूर्वभाद्रपदे व्रणः।
उ2.27च्द्।.परोपतापको मूर्खो दरिद्रश् चौर; इत्य् अपि॥
उ2.28अब्।.कुगुष्ट्या यस्य पिन्यः स्याज् जातो भाद्रपद^उत्तरे।
उ2.28च्द्।.दानशीलः स्मृतिप्राप्तो दयापन्नो विशारदः॥
उ2.29अब्।.उभयोः पादयोः सूक्ष्मः पिन्यो यस्य प्रदृश्यते।
उ2.29च्द्।.रेवत्यां जायते नीचो नापितः स हवत्य् अपि॥
उ2.30अब्।.अङ्गुष्ठविवरे पिन्यो नीलो यस्य प्रदृश्यते।
उ2.30च्द्।.अरोगो बलवान् नित्यम् अश्विन्यां जात; एव सः॥
उ2.31अब्।.अथ पाणितले पिन्यो भरण्याम् अक्षयः स्मृतः।
उ2.31च्द्।.वध्यघातश् च दुःशीलः स्यान् नरकपरायणः॥
उ2.32अब्।.नक्षत्राणां पदं ह्य् एतद् येन चर्या प्रजायते।
उ2.32च्द्।.एतद् धि लोक^प्रज्ञानं लोको यत्र समाश्रितः॥इति पिन्याध्यायाः॥
उ2.33।.अथ खलु भोः पुष्करसारिन् पिटकाध्यायं नाम^अध्यायं व्याखास्यामि। तच् छ्रूयतां। कथयतु भगवान् त्रिसङ्कुः।(प्.151)
उ3 पिटकाध्यायः
उ3.1अब्।.अतः ऊर्ध्वं प्रवक्ष्यामि सर्व^स्थान^गतं पुनः।
उ3.1च्द्।.स्त्रीणां च पुरुषाणां च पिटकं सर्व^कर्मकं॥
उ3.2अब्।.लाभ^अलाभं सुखं दुःखं जीवितं मरणं तथा।
उ3.2च्द्।.प्राज्ञा येनाभिजानन्ति तं च सर्वं निबोधतां॥
उ3.3अब्।.तत्राभिघातदग्धा वा तिलास् तद् रूपका; अपि।
उ3.3च्द्।.विस्फोटवर्नभेदाश् च पिटकाभिहिताः स्मृताः॥
उ3.4अब्।.श्वेतवर्णेन पिटको विप्राणां पूजितो भवेत्।
उ3.4च्द्।.क्षतोपमः क्षत्रियाणां वैश्यानां पीतकः स्मृतः॥
उ3.5अब्।.शूद्राणाम् असितः श्रेष्ठो विवर्णो म्लेच्छ^जातिषु।
मूल पाठ: Śārdūlakarṇāvadāna [= Avadāna 33 of the Divyāvadāna] · Edition: Mukhopadhyaya, Sujitkumar: The Sardulakarnavadana, Calcutta : The Visvabharati Publishing Department 1954 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0