शार्दूलकर्णावदान · भाग 120
ओं नमो रत्नत्रयाय
प्.1.1।.एवं मया श्रुतम्। एकसिन् समये भगवान् श्रावस्त्यां विहरति स्म। जेतवने +अनाथपिण्डदस्य^आरामे।
प्.1.2।.अथ^आयुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्र^चीवरम् आदाय श्रावस्तीं महा^नगरीं पिण्डाय प्राविक्षत्। अथ^आयुष्मान् आनन्दः श्रावस्तीं पिण्डाय चरित्वा कृत^भक्त^कृत्यो येनान्यतमम् उदपानं तेन^उपसंक्रान्तः।
प्.1.3।.तेन खलु समयेन तस्मिन्न् उदपाने प्रकृतिर् नाम मातङ्ग^दारिका उदकम् उद्धरते स्म। अथ^आयुष्मान् आनन्दः प्रकृतिं मातङ्ग^दारिकाम् एतद् अवोचत्। देहि मे भगिनि पानीयं पास्यामि।
प्.1.4।.एवं किते प्रकृतिर् मातङ्ग^दारिकायुष्मन्तम् आनन्दम् इदम् अवोचत्। मातङ्ग^दारिकाहम् अस्मि भदन्तानन्द। न^अहं ते भगिनि कुलं वा जातिं वा पृच्छामि। अपि तु सचेत्ते परित्यक्तं पानीयं देहि पास्यामि।
प्.1.5।.अथ प्रकृतिर् मातङ्ग^दारिकायुष्मन्तम् आनन्दाय पानीयम् अदात्। अथ^आयुष्मान् आनन्दः पानीयं पीत्वा प्रक्रान्तः।
प्.1.6।.अथ प्रकृतिर् मातङ्ग^दारिकायुष्मन्त आनन्द्स्य शरीरे मुखे स्वरे साधु च सुष्ठु च निमित्तम् उद्गृहीत्वा योनिशो मनसिकारेणाविष्टा संरागचित्तम् उत्पादयति (1) स्म। आर्यो मे आनन्दः स्वामी अयाद् इति। माता च मे महा^विद्याधरी सा शक्ष्यत्य् आर्यम् आनन्दम् आनयितुम्।
प्.2.1।.अथ प्रकृतिर् मातङ्ग^दारिका पानीयघटम् आदाय येन चण्डाल^गृहं तेन^उपसंक्रम्य पानीय^घटम् एकान्ते निक्षिप्य स्वां जननीम् इदम् अवोचत्।
प्.2.2।.यत् खल्व् एवम् अम्ब जानीया आनन्दो नाम श्रमणो महाश्रमण^गौतमस्य श्रावक उपस्थायकस् तम् अहं स्वामिनम् इच्छामि। शक्ष्यसि तम् अम्ब आनयितुम्।
प्.2.3।.सा ताम् अवोचत्। शक्ता +अहं पुत्रि आनन्दम् आनयितुं। स्थापयित्वा यो मृतः स्याद् यो वा वीत^रागः। अपि च राजा प्रसेनजित् कौशलः श्रमण^गौतमम् अतीव सेवते भजते पर्युपासते। यदि जानीयात् सो +अयं चण्डाल^कुलस्यानर्थाय प्रतिपद्येत। श्रमणश् च गौतमो वीत^रागः श्रूयते। वीत^रागस्य [मन्त्राः] पुनः सर्व^मन्त्रान् अभिभवन्ति।
प्.2.4।.एवम् उक्ता प्रकृतिर् मातङ्ग^दारिका मातरम् इदम् अवोचत्। स चेद् अम्ब श्रमणो गौतमा वीत^रागस्तस्य^अन्तिकाच् छ्रमणम् आनन्दं न प्रतिलप्स्ये जीवितं परित्यजेयं स चेत् प्रतिलिप्स्ये जीवामि।
प्.2.5।.मा ते पुत्रि जीवितं परित्यजसि आनयामि श्रमणम् आनन्दम्।
प्.2.6।.अथ प्रकृतेर् मातङ्ग^दारिकाया माता मध्ये गृहाङ्गनस्य गोमयेनोपलेपनं कृत्वा वेदीम् आलिप्य दर्भान् संस्तीर्य^अग्निं प्रज्वाल्य^अष्टशतम् अर्क^पुष्पाणां गृहीत्वा मन्त्रान् आवर्तयमाना एकैकम् अर्क^पुष्पं परिजप्य अग्नौ प्रतिक्षिपति स्म। तत्र^इयं विद्या भवतिः
प्.3.1।.अमले विमले कुङ्कुमे सुमने। येन बद्धा +असि विद्युत्। इच्छया देवो वर्षति विद्योतति गजेति विस्मयं महा^राजस्य समभिवर्धायितुं देवेभ्यो मनुष्येभ्यो गन्धर्वेभ्योः शिखि^ग्रहा देवा विशिखि^ग्र(@)हा देवा आनन्दस्य^आगमनाय संगमनाय क्रमणाय ग्रहणाय जुहोमि स्वाहा।
प्.3.2।.अथ^आयुष्मत आनन्दस्य चित्तम् आक्षिप्तं। स विहारान् निष्क्रम्य येन चण्डाल^गृहं तेन^उपसंक्रामति स्म।
प्.3.3।.अद्राक्षीच् चण्डाली आयुष्मन्तम् आनन्दं दूराद् एव^आगच्छन्तं। दृष्ट्वा च पुनः प्रकृतिं दुहितरम् इदम् अवोचत्। अयम् असौ पुत्रि श्रमण आनन्द आगच्छति शयनं प्रज्ञपय।
प्.3.4।.अथ प्रकृतिर् मातङ्ग^दारिका हृष्ट^तुष्टा प्रमुदित^मना आयुष्मत आनन्दस्य शय्यां प्रज्ञपयति स्म।
प्.3.5।.अथ^आयुष्मान् आनन्दो येन चण्डाल^गृहं तेन^उपसंक्रान्तः। उपसंक्रम्य वेदीम् उपनिश्रित्या +अस्थात्। एकान्त^स्थितः स पुनर् आयुष्मान् आनन्दः प्रारोदीद्। अश्रूणि प्रवर्तयमान एवम् आह। व्यसन^प्राप्तो +अहम् अस्मि न च मे भगवान् समन्वाहरति।
प्.3.6।.अथ भगवान् आयुष्मन्तम् आनन्दं समन्वाहरति स्म। समन्वाहृत्य संबुद्ध^मन्त्रैश् चण्डाल^मन्त्रान् प्रतिहन्ति स्म। तत्र^इयं विद्याः।
प्.3.7.।.स्थितिर् अच्युतिः सुनीतिः। स्वस्ति सर्व^प्राणिभ्यः।
प्.4.1अब्।.सरः प्रसन्नं निर्दोषं प्रशान्तं सर्वतो +अभयं।
प्.4.1च्द्।.ईतयो यत्र शाम्यन्ति भयानि चलितानि च।
प्.4.2अब्।.तद् वै देवा नम्स्यन्ति सर्व^सिद्धाश् च योगिनः।
प्.4.2च्द्।.एतेन सत्य^वाक्येन स्वस्त्या^आनन्दाय भिक्षवे॥
प्.4.3।.अथ^आयुष्मान् आनन्दः प्रतिहत^चण्डाल^मन्त्रश् चण्डाल^गृहान् निष्क्रम्य येन स्वको विहारस् तेन^उपसंक्रमितुम् आरब्धः।
प्.4.4।.अद्राक्षीत् प्रकृतिर् मातङ्ग^दारिका। आनन्दम् आयुष्मन्तं प्रतिगच्छन्तं दृष्ट्वा च पुनः स्वां जननीम् इदम् अवोचत्। अयम् असौ मातः श्रमण आनन्दः प्रतिगच्छति। ताम् आह माता। नियतं पुत्रि श्रमणेन गौतमेन समन्वाहृतो भविष्यति। तेन मम मन्त्राः प्रतिहता भविष्यन्ति। प्रकृतिर् आह। किं पुनर् अम्ब बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा न^अस्माकं।
ताम् आह माता। बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा न^अस्माकं। ये पुत्रि मन्ताः सर्व^लोकस्य प्रभवन्ति तान् मन्त्रान् श्रमणो गौतम आकाङ्क्षमाणः प्रतिहन्ति। न पुनर् लोकः प्रभवति श्रमणस्य गौतमस्य मन्त्रान् प्रतिहन्तुं। एवं बलवत्तराः अवमणस्य गौतमस्य मन्त्राः।
प्.4.5।.अथ^आयुष्मान् आनन्दो येन भगवांस् तेन^उपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा^एकान्ते +अस्थात्।
प्.4.6।.एकान्त^स्थितम् आयुष्मन्तम् आनन्दं भगवान् इदम् अवोचत्। उद्गृह्ण त्वम् आनन्द इमां षडक्षरीविद्यां धारय वाचय पर्यवाप्नुहि। आत्मनो हिताय सुखाय भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपसिकानां हिताय सुखाय। इयम् आनन्द षड्क्षरीविद्या षड्भिः सम्यक् संबुद्धैर् भाषिता चतुर्भिश् च महा^राजैः शक्रेण देवानाम् इन्द्रेण ब्रह्मणा च सहापतिना। मया च^एतर्हि
शाक्यमुनिना सम्यक्^संबुद्धेन भाषिता। त्वम् अप्य् एतर्ह्य् आनन्द तां धारय वाचय पर्यवाप्नुहि। यद् उत तद् यथा:
प्.5.1।.अण्डरे पाण्डरे कारण्डे केयूरे +अर्चि^हस्ते खर^ग्रीवे बन्धु^मति चीर^मति धरविध चिलिमिले विलोडय विषाणि लोके। विष चल चल। गोल^मति गण्डविले चिलिमिले स^अतिनिम्ने यथा संविभक्त^गोल^मति गण्ड^विलायै स्वाहा।
प्.5.2।.यः कश् चिद् आनन्द^षडक्षर्या विद्यया परित्राणं स्वस्त्ययनं कुर्यात् स यदि वध^अर्हो भवेत् दण्डेन मुच्यते। दण्ड^अर्हः प्रहारेण प्रहार^अर्हः परिभाषणया परिभाषण^अर्हो रोमहर्षणेन रोमहर्षण^अर्हः पुनर् एव मुच्यते।
प्.5.3।.न^अहम् आनन्द तं समनुपश्यामि स^देव^लोके समार^लोके सब्रह्म^लोके सश्रमण^ब्राह्मणिकायां प्रजायां स^देव^मानुषिकायां स^असुरायां यस् त्व् अनया षडक्षयं विद्यया रक्षायां कृतायां रक्षा^सूत्रे बाहौ बद्धे स्वस्त्ययने कृते +अभिभवितुं शक्रोति वर्जयित्वा पौराणं कर्म^विपाकम्।
प्.6.1।.अथ प्रकृतिर् मातङ्ग^दारिका तस्या एव रात्र्या अत्ययात् शिरः^स्नाता +अनाहत दूष्य^प्रावृता मुक्ता^माल्य^आभरणा येन श्रावस्तो नगरी तेन^उपसंक्रम्य नगर^द्वारे कपाट^मूले निश्रित्या +अस्थात्। आयुष्मन्तम् आनन्दम् आगमयमाना। नियतम् अनेन मार्गेण^आनन्दो भिक्षुरागम् इष्यति^इति।
प्.6.2।.अथ^आयुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्र^चीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्। ददर्श प्रकृतिर् मातङ्ग^दारिक^आयुष्मन्तम् आनन्दं। दूरत एव दृष्ट्वा च पुनर् आयुष्मन्तम् आनन्दं पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्तम् अनुगच्छति तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशति तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति आयुष्मन्तम्
आनन्दम् आमन्त्रयमाणा।
प्.6.3.।.ददर्शायुष्मानानन्दः प्रकृतिं मातङ्ग^दारिकां। पृष्ठतः पृष्ठतः समनुबद्धां दृष्ट्वा च पुनर् जेह्रीय्माणरूपो +अप्रगल्भायमानरूपो दुःखी दुर्मनाः शीघ्रं शीघ्रं श्रावस्त्या विनिर्गम्य येन जेतवनं तनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वेकान्ते +अस्थाद्। एकान्त^स्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्। इयं मे भगवन्
प्रकृतिर् मातङ्ग^दारिका पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्तम् अनुगच्छति, तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशामि तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति। त्राहि मे भगवन् त्राहि मे सुगत।
प्.6.4।.एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् इदम् अवोचत्। मा भेर् मा भेर् इति। अथ भगवान् प्रकृतिं मातङ्ग^दारिकाम् इदम् अवोचत्। हिं ते प्रकृते मातङ्ग^दारिके आनन्देन भिक्षुणा। प्रकृतिर् आह। स्वामिनं भदन्तम् आनन्दम् इच्छामि। भगवान् आह। (7) अनुज्ञातासि प्रकृते मातापितृभ्याम् आनन्दाय। अनुज्ञातास्मि भगवन्न् अनुज्ञातास्मि सुगत। भगवान् आह। तेन हि
सम्मुखं ममानुज्ञापय्य त्वम्।
प्.7.1।.अथ प्रकृतिर् मातङ्ग^दारिका भगवतः प्रतिश्रुत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतो +अन्तिकात् प्रक्रान्ता। येन स्वकौ मातापितरौ तेन^उपसंक्रान्ता। उपसंक्रम्य मातापित्रोः पादान् शिरसा वन्दित्वा^एकान्ते +अस्थाद्। एकान्त^स्थिता स्वकौ माता पितराव् इदम् अवोचत्। सम्मुखं मे +अम्ब तात श्रमणस्य गौतमस्यानन्दायोत्सृजतम्।
प्.7.2।.अथ प्रकृतेर् मातङ्ग^दारिकाया मातापितरौ प्रकृतिम् आदाय यन भगवाम्स् तेन^उपसंक्रान्तौ। उअप्संक्रम्य भगवतः पादौ शिरसा वन्दित्वा^एकान्ते न्यषीदतां। अथ प्रकृतिर् मातङ्ग^दारिका भगवतः पादौ शिरसा बन्दित्वा एकान्ते +अस्थाद्। एकान्त^स्थिता भगवन्तम् एतद् अवोचत्। इमौ तौ भगवन् मातापितराव् आगतौ।
प्.7.3।.अथ भगवान् प्रकृतेर् मातङ्ग^दारिकाया मातापितराव् इदम् अवोच्त्। अनुज्ञाता युवाभ्यां प्रकृतिर् मातङ्ग^दारिकानन्दायेति। ताव् आहुतुः। अनुज्ञाता भगवन्न् अनुज्ञाता सुगत। तेन हि यूयं प्रकृतिम् अपहाय गच्छत स्वगृहम्।
प्.7.4।.अथ प्रकृतेर् मातङ्ग^दारिकाया मातापितरौ भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतो +अन्तिकात् प्रक्रान्तौ।
प्.7.5।.अथ प्रकृतेर् मातङ्ग^दारिकाया मातापितराव् अचिरप्रक्रान्तौ विदित्वा भगवान् प्रकृतिं मातङ्ग^दारिकाम् इद्म् अवोचत्। अर्थिकासि प्रकृते आनन्देन भिक्षुणा। प्रकृतिर् आह। अर्थिकास्मि भगवन्न् अर्थिकास्मि सुगत। तेन हि प्रकृते य आनन्दस्य वेशः स त्वया धारयितव्यः। सा आह। धारयामि भगवन् धारयामि सुगत। प्रव्राजयतु मां सुगत प्रव्राजयतु मां
भगवान्।
प्.8.1।.अथ भगवान् प्रकृतिं मातङ्ग^दारिकाम् इदम् अवोचत्। एहि त्वं भिक्षुणि चर ब्रह्म^चर्यम्।
प्.8.2।.एवम् उक्ते प्रकृतिर् मातङ्ग^दारिका भगवता मुण्डा काषाय^प्रावृता। अथ भगवान् प्रकृतिं मातङ्ग^दारिकाम् एहि भिक्षुणीवादेन प्रव्राजयित्वा धर्म्यया कथया संदर्शयति स्म, समादापयति स्म, समुत्तेजयति स्म, संप्रहर्षयति स्म। येयं कथा दीर्घ^रात्रं संसारसमापन्नानां प्रतिकूला श्रवणीया।तद् यथा। दानकथा शीलकथा स्वर्गकथा कामेष्व्
आदीनवं निःसरणं भयं संक्लेशव्यवदानं बोधिपक्षांस् तान् धर्मान् भग्वान् प्रकृत्यै भिक्षुण्यै संप्रकाशयति स्म।
प्.8.3।.अथ प्रकृतिर् भिक्षुणी भगवता धर्म्यय कथया संदर्शिता समादापिता समुत्तेजिता संप्रहर्षिता हृष्ट^चित्ता कल्याणचित्ता मुदितचित्ता विनीवरणचित्ता ऋजुचित्ता +अखिलचित्ता भव्या धर्म^देशितम् आज्ञातुम्।
प्.9.1।.यदा च भगवान् ज्ञातः प्रकृतिं भिक्षुणीं हृष्ट^चित्तां कल्याणचित्तां मुदितचित्तां विनिवरणचित्तां भव्यां प्रतिबलां सामुत्कर्पिकीं धर्म^देशनाम् आज्ञातुं तदा येयं भगवतां बुद्धानां चतुरार्य^सत्यप्रतिवेधिकी सामुत्कर्षिकी धर्म^देशना, यद् उत दुःखं समुदयो निरोधो मार्गः, तां भगवान् प्रकृतेर् भिक्षुण्या विस्तरेण संप्रकाशयति स्म।
प्.9.2।.अथ प्रकृतिभिक्षुणी तस्मिन्न् एवासने निषण्णा चतुरार्य^सत्यान्यभिज्ञातासित्। दुःखं सुमुदयं निरोधं मार्गं॥ तद् यथा वस्ताम् अपगतकालकं रजनोपगतं रङ्ग^उदके प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णीयाद् एवम् एव प्रकृतिर् भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरार्य^सत्यानि अभिसमयति स्म, तद् यथा दुःखं सुमुदयं निरोधं मार्गम्।
प्.9.3।.अथ प्रकृतिर् भिक्षुणी कृष्ट^धर्मा प्राप्त^धर्मा विदित^धर्मा अकोप्य^धर्मा पर्यवसित^धर्म^अधिगत^अर्थ^लाभ^संवृत्ता तीर्ण^काङ्क्षा^विचिकित्सा विगत^कथंकथा वैशारद्य^प्राप्ता +अपर^प्रत्यया +अनन्यनेया शास्तुः शासने +अनुधर्म^चारिणी आजानेयमाना धर्मेषु भगवतः पादयोः शिरसा निपत्य भगवन्तम् इदम् अवोचत्।
प्.9.4।.अत्ययो मे भगवन्न् अत्ययो मे सुगत। यथा बाला यथा मूढा यथा +अव्यक्ता यथा +अकुशला दुष्प्रज्ञ^जातीया याहम् आनन्दं भिक्षुं स्वामि^वादेन समुदाचर्षं। स^अहं भदन्तात्ययमत्ययतः पश्यामि। अत्ययम् अत्ययतो दृष्ट्वा देशयामि। अत्ययम् अत्ययत आविष्करोमि। आयत्यां संवरम् आपद्ये। अतस् तस्या मम भगवन्न् अत्ययम् अत्ययतो जानातु प्रतिगृह्णातु
अनुकम्पाम् उपादाय। भगवान् आह। आयत्यां संवराय स्थित्वा त्वं प्रकृते +अत्ययम् अत्ययतो +अध्यागमः। यथा बाला यथा मूढा यथा +अव्यक्ता यथा +अकुशला दुष्प्रज्ञ^जातीय त्वम् आनन्दं भिक्षुं स्वामि^वादेन (10) अमुदाचरसि^इति। यतश् च त्वं प्रकृते +अत्ययं जानासि अत्ययं पश्यसि आयत्यां च संवरम् आपद्यसे, अहम् अपि ते +अत्ययम् अत्ययतो गृह्णामि। वृद्धिर्
एव ते प्रकृते प्रतिकाङ्क्षतव्या कुशलानां धर्माणां न हानिः।
प्.10.1।.अथ प्रकृतिर् भिक्षुणी भगवता^अभिनन्दिता अनुशिष्टा एकाव्यपकृष्टा +अप्रमत्ता आतापिनी स्मृतिम् अती संप्रजाना प्रहितानि विविक्तानि विहरति स्म। यद् अर्थं कुल^दुहितरः केशान् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया^आगाराद् अनागारिकां प्रव्रजन्ति तदनुत्तर^ब्रह्मचर्य^पर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञय साक्षात् कृत्य^उपसंपद्य
प्रवेदयते स्म। क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं न^अपरमस्माद् भवं प्रजानामि^इति।
प्.10.2।.अश्रौषुः श्रावस्तेयका ब्राह्मण^गृहपतयो भगवता किल चन्डाल^दारिका प्रव्राजितेति। श्रुत्वा च पुनर् अवध्यायन्ति। कथं हि नाम चण्डाल^दारिका भिक्षूणां सम्यक्चर्यां चरिष्यति। भिक्षुणीनाम् उपासकानाम् उपासिकानां सम्यक्^चर्यां चरिष्यति। कथं हि नाम चण्डाल^दारिका ब्रह्म^क्षत्रिय^गृहपति^महा^शाल^कुलेषु प्रवेक्ष्यति।
प्.11.1।.अश्रौषीद् राजा प्रसेनजित् कौशलो भगवता चण्डाल^दारिका प्रव्राजितेति। श्रुत्वा च पुनर् अवध्यायाति। कथं हि नाम चण्डाल^दारिका भिक्षूणां सम्यक्^चर्यां चरिष्यति। भिक्षुणीनाम् उपासकानाम् उपासिकानां सम्यक्^चर्यां चरिष्यति। कथं ब्राह्मण^क्षत्रिय^गृहपति^महा^शाल^कुलेषु प्रवेक्ष्यति।
प्.11.2।.विमृष्य च भदरं यानं योजयित्वा भद्रं यानम् अभिरुह्य संबहुलैश् च श्रावस्तेयैर् ब्राह्मण^गृहपतिभिः परिवृतः पुरस्कृतः श्रावस्त्या निर्याति स्म। येन जेतवनम् अनाथपिण्डदस्य^आरामस् तेन^उपसंक्रान्तः। तस्य खलु यावती यानस्य भूमिस् तावद् यानेन गत्वा स यानाद् अवतीर्य पत्तिकाय^परिवृतः पत्तिकाय^पुरस्कृतः पद्भ्याम् एव^आरामं प्राविक्षत्।
प्रविश्य येन भगवांस् तेन^उपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ते +अपि संबहुलाः श्रावस्तेयका ब्राह्मण^क्षतिर्य^गृहपतयो भगवतः पादौ शिरसा वन्दित्वा^एकान्ते निषण्णाः। अप्य् ऐकत्या भगवता सार्धं संमुखं संरञ्जनीं संमोदिनीं विविधां कथां व्यतिसार्य^एकान्ते निषण्णाः। अप्य् ऐकस्या भगवतः पुरतः
स्वकस्वकानि माता^पैतृकाणि नाम^गोत्राणि अनुश्राव्य^एकान्ते निषण्णाः। अप्य् ऐकत्य येन भगवांस् तेन^अञ्जलिं प्रणम्य^एकान्ते निषण्णाः। अप्य् ऐकत्यास् तूष्णीं भूता एकान्ते निषण्णाः।
प्.11.3।.अथ भगवान् राजानं प्रसेनजितं कौशलम् आरभ्य तेषां च संबहुलानां श्रावस्तेयकानां ब्राह्मण^क्षत्रिय^गृहपतीनां चेतसा चित्तम् आज्ञाय प्रकृतेर् भिक्षुण्याः पूर्वनिवासम् आरभ्य भिक्षूनाम् अन्त्रयते स्म। इच्छथ यूयं भिक्षवस् तथा^आगतस्य सम्मुखं प्रकृतेर् भिक्षुण्याः पूर्व^निवासम् आरभ्य धर्म^कथां श्रोतुम्।
प्.11.4।.भिक्षवो भगवन्तम् आहुः । एतस्य भगवन् काल एतस्य सुगत समयो यद् भगवान् प्रकृतेर् भिक्षुण्याः पूर्व^निवासम् आरभ्य धर्म^कथां कथायेत्। यद् भगवतः (12) श्रुत्वा भिक्षवो धारयिष्यन्ति। भगवान् आह। तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। एवं साधु भगवन्न् इति ते भिक्षवो भगवतः प्रत्यश्रौषुः। भगवांस्
तान् इदम् अवोचत्।
प्.12.1।.भूत^पूर्वं भिक्षवो +अतीते +अध्वनि गङ्गा^तटे +अतिमुक्त^कदली^पाटलक^आमलकी वन^गहन^प्रदेशे तत्र त्रिशङ्कुर् नाम मातङ्ग^राजः प्रतिवसति स्म। संबहुलैश् च मातङ्ग^सहस्रैः सार्धं। स पुनर् भिक्षवस् त्रिशङ्कुर् मातङ्ग^रजः पूर्व^जन्म^अधीतान् वेदान् समनुस्मरति स्म स^अङ्ग^उपाङ्गान् सरहस्यान् सनिघण्ट^कैटभान् स^अक्षर^प्रभेदान्
इतिहास^पञ्च^मानन्यानि च शास्त्राणि। पदको वैयाकरणो लोकायत^यज्ञ^मन्त्रे महा^पुरुष^लक्षणे निष्णातो निष्काङ्क्षो भाष्यं च यथार्धर्मं वेद^व्रत^पदान्य् अनुश्रुतं च भाषते स्म।
प्.12.2।.तस्य त्रिशङ्कुर् मातङ्ग^राजस्य शार्दूअकर्णो नाम कुमारो +अभूद् उत्पन्नः। रूपतश् च कुलतश् च शीलतश् च गुणतश् च सर्व^गुणैश् च^उपेतो +अभिरूपो दर्शनीयः प्रासादिकः परमया शुभ^वर्ण^पुष्कलतया समन्वागतः।
प्.12.3।.अथ त्रिशङ्कुर् मातङ्ग^राजः।शार्दूलकर्णं कुमारं पूर्व^जन्माधीतान् वेदान् अध्यापयति स्म। यद् उत स^अङ्ग^उपाङ्गान् सरहस्यान् सनिघण्ट^कैटभान् स^अक्षर^प्रभेदान् इतिहास^पञ्च^मानन्यानि च शास्त्राणि भाष्यं च यथा^धर्मं वेद^व्रत^पदानि।
प्.12.4।.अथ त्रिशङ्कोर् मातङ्ग^राजस्य^एतद् अभवत्। अयं मम पुत्रः शार्दूलकर्णो नाम कुमारः। उपेतो रूपतश् च कुलतश् च शीलतश् च गुणतश् च। सर्व^गुण^उपेतो +अभिरूपो (13) दर्शनीयः प्रासादिकः परमया च वर्ण^पुष्कलतया समन्वागतः। चीर्ण^व्रतो +अधीत^मन्त्रो वेद^पारगः। समयो +अयं यन् न्य् अहम् अस्य निवेशन^धर्मं करिष्ये। तत् कुतो न्य्
अवं शार्दूलकर्णस्य पुत्रस्य शीलवतीं गुणवतीं रूपवतीं प्रतिरूपां प्रजावतीं लभेयम् इति।छेच्केद्
प्.13.1।.तस्मिन् खलु समये पुष्करसारी नाम ब्राह्मण उत्कूटं नाम द्रोण^मुखं परिभुङ्क्ते स्म। समप्त^उत्सदं स^तृण^काष्ठ^उदकं धान्य^सहगतं राज्ञा +अग्निदत्तेन ब्रह्म^देयं दत्तम्।
प्.13.2।.पुष्करसारी पुनर् ब्राह्मण उपेतः मातृतः पितृतः संशुद्धो गृहिण्यामनाक्षिप्तो जातिवादेन गोत्र^वादेन यावद् आसप्तममातामहपितामहं। युगपद् उपाध्यायो +अध्यापको मन्त्र^धरस् त्रयाणां वेदानां पारगः स^अङ्ग^उपाङ्गानां सरहस्यानां सनिघण्ट^कैटभानां स^अक्षर^प्रभेदानाम् इतिहास^पञ्च^मानां सदृश^व्याकर्ता पदको वैयाकरणः।
लोकायत^यज्ञ^मन्त्र^महा^पुरुष^लक्षणेषु पारगः। स्फीतम् उत्कूटं नाम द्रोण^मुखं परिभुङ्क्ते।
प्.13.3।.पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता भूता। उपेता रूपतश् च कुलतश् च शीलतश् च गुणतश् च। सर्व^गुण^उपेता +अभिरूपा दर्शनीया प्रासादिका परमया वर्ण^पुष्कलतया समन्वागता शीलवती गुणवती।
प्.13.4।.अथ त्रिशङ्कोर् मातङ्ग^राजस्य^एतद् अभवत्। अस्त्य् उत्तर^पूर्वेण^उत्कूटो नाम द्रोण^मुखः, तत्र पुष्करसारो नाम ब्राह्मणः प्रतिवसति। उपेतो मातृतः पितृतो (14) यावत् तत्रैवेदिके प्रवचने विस्तरेण। स च^उत्कूटं द्रोण^मुखं परिभ्ङ्क्ते। ससप्त^उत्सदं सतृण^काष्ठ^उदकं धान्य^भोगैः सहगतं राज्ञा +अग्निदत्तेन ब्रह्म^देयं दत्तम्।
प्.14.1।.तस्य पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता उपेता रूपतश् च कुलतश् च शीलतश् च सर्व^गुण^उपेता +अभिरूपा दर्शनीया प्रासादिका परमया वर्ण^पुष्कलतया समन्वागता। शीलवती गुणवती पुत्रस्य मे शार्दूलकर्णस्य प्रतिरूपा पत्नी भविष्यतिति।
प्.14.2।.अत्र त्रिशङ्कुर् मातङ्ग^राज एतम् एवार्थं बहुलं रात्रौ चिन्तयित्वा वितर्क्य तस्या एव रात्र्या अत्ययात् प्रत्यूष^काल^समये सर्व^श्वेतं वडवा रथम् अभिरुह्य महता श्वपाकगणेनामात्यगणेन परिवृतश् चण्डाल^कुल^नगरान् निष्क्रम्य^उत्तरेन प्रागच्छद्येनोत्कूटं द्रोण^मुखम्।
प्.14.3।.अथ त्रिशङ्कुर् मातङ्ग^राज उत्कूटस्य^उत्तरपूर्वेण सुमनस्कं नाम^उद्यानं नाना^वृक्ष^संच्छन्नं नाना^वृक्ष^कुसुमितं नाना^द्विजनिकूजितं नन्दनम् इव देवानां तद् उपसंक्रान्तः। उपसंक्रम्य ब्राह्मणं पुष्करसारिणम् आगमयमानो +अस्थात्। ब्राह्मणः पुष्करसारी माणवकान् मन्त्रान् वाचयितुम् इहागमिष्यति^इति।
प्.14.4।.अथ ब्राह्मणः पुष्करसारी तस्या एव रात्र्या अत्ययात् सर्व^श्वेतं वडवारथम् अभिरुह्य शिष्यगणप्रिवृतः पञ्च^मात्रैर् माणवक^शतेः पुरस्कृत उत्कूटान् निर्य्ति स्म, ब्राह्मणकान् मन्त्रान् वाचयितुम्।
प्.15.1।.अद्राक्षीत् त्रिशङ्कुर् मातङ्ग^राजो ब्राह्मणं पुष्करसारिणं सूर्यम् इव^उदयन्तं तेजसा ज्वलन्तम् इव हुतवहं यज्ञम् इव ब्राह्मण^परिवृतं शक्रम् इव देव^गणपरिवृतं हैमवन्तम् इवौषधिभिः समुद्रम् इव रत्नैश् चन्द्रम् इव नक्षत्रैर् वैश्रवणम् इव यक्ष^गणैर् ब्रह्माणम् इव देव^र्षिगणैः परिवृतं शोभमानं। दूरत एवागच्छन्तं दृष्ट्वा
चैनं प्रत्युद्गम्य यथा^धर्मं कृत्वेदम् अवोचत्।
प्.15.2।.अहं भोः पुष्करसारिन् स्वागतम् आयाहि। कार्यं च ते वक्ष्यामि तच् छ्रूयतां। एवम् उक्ते ब्राह्मणः पुष्करसारी त्रिशङ्कुमातङ्ग^राजम् इदम् अवोचत्।
प्.15.3।.न हि भोस् त्रिशङ्को शक्यं ब्राह्मणेन सह भोः कारं कर्तुं।
प्.15.4।.अहं भोः पुष्करसारिन् शक्नोमि भोः कारं कर्तुं। यच्छक्यं मे कर्तुं भवति नैव तच्छक्यं ते कर्तुं। अपि तु चत्वारो भोः पुष्करसारिन् पुरुषस्य कार्यसमारम्भाः पूर्व^समारब्धा भवन्ति। यद् उत आत्मार्थं वा परार्थं वात्मीयार्थं (16) वा सर्व^भूत^संग्रहार्थं वा। इदं च^अत्र महत्तरं कार्यं यत् ते व्याख्यास्यामि तच् छ्रूयतां। पुत्राय
मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्या^अर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तं दास्यामि।
प्.16.1।.इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य भृशं ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश् चण्डीभूतो +अनात्तमनाः कोपं च क्वेषं च म्रक्ष्यं च तत्प्रत्ययात् संजनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं धमयित्वा +अक्षिणी परिवर्त्य नकुल^पिङ्गलां दृष्टिम् उत्पाद्य त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्।
प्.16.2।.धिग् ग्राम्यविषय। चण्डाल। नेदं श्वपाकवचनं युक्तं। यस्त्वं ब्राह्मणं वेद^पारगं हीनश् चण्डाल^योनिजो भूत्वा इच्छस्य् अवमर्दितुं। भो दुर्मते।
प्.16.3अब्।.प्रकृतिं त्वं न जानासि; आत्मानं च^अभिमन्यसे।
प्.16.3च्द्।.बाल^अग्रे सर्षपं मा भो स्थापय(मा)क्लेशम् आगमः।
प्.16.4अब्।.मा प्रार्थया +अप्रार्थनीयां वायुं पाशेन बन्धय।
प्.17.1अब्।. न हि चामी^करं मूढ भवेद् भस्म कदाचन।
प्.17.1च्द्।.प्रकाशे बान्धकारे किं विशेषो नोपलभ्यते॥
प्.17.2अब्।.चण्डाल^योनिजस् त्वं हि द्विजातिः पुनर् अप्य् अहं।
प्.17.2च्द्।.हीनः श्रेष्ठेन सम्बन्धं मूढ प्राथयसे कथं॥
प्.17.3अब्।.चण्डाल^योनिभूतस् त्वम् अहम् अस्मि द्विजातिजः।
प्.17.3च्द्।.न हि श्रेष्ठः प्रहीनेन सम्बन्धं कर्तुम् इच्छति॥
प्.17.4अब्।.श्रेष्ठाः श्रेष्ठैर् हि सम्बन्धं कुर्वन्तीह द्विजातयः।
प्.17.4च्द्।.विद्यया ये तु सम्पन्नाः संशुद्धश् चरणेन च॥
प्.17.5अब्।.जात्या चैवान् अभिक्षिप्ता मन्त्रैः परमतां गताः।
प्.17.5च्द्।.अध्यापका मन्त्र^धरास् त्रिषु वेदेषु पारगाः॥
प्.17.6अब्।.निघण्टकैटभान् वेदान् ब्राह्मण ये ह्य् अधीयते।
प्.17.6च्द्।.तैस् तादृशैर् हि सम्बन्धं कुर्वन्तीह द्विजातयः॥
प्.17.7अब्।.न हि श्रेष्ठो हि हीनेन सम्बन्धं कर्तुम् इच्छति।
प्.17.7च्द्।.प्रार्थयसे +अप्रार्थनीयां वायुं पाशेन बन्धितुं॥
प्.17.8अब्।.यद् अस्माभिश् च सम्बन्धम् इह त्वं कर्तुम् इच्छसि।
प्.17.8च्द्।.जुगुप्सितः सर्व^लोके कृपणःपुरुषाधमः।
प्.17.8एf।.गच्छ त्वं वृषल क्षिप्रं किम् अस्मान् अवमन्यसे॥
प्.18.1अब्।.चण्डालाः सह चण्डालैः पुक्कशाः सह पुक्कशैः।
प्.18.1च्द्।.कुर्वन्तीहैव सम्बन्धं जातिभिर् जातिर् एव च॥
प्.18.2अब्।.ब्राह्मणा ब्राह्मणैः सार्धं क्षत्रियाः क्षत्रियैः सह।
प्.18.2च्द्।.सार्धं वैश्यास् तथा वैश्यैः शूद्राः शूद्रैस् तथा सह॥
प्.18.3अब्।.सदृशाः सदृशैः सार्धम् आवहन्ति परस्परं।
प्.18.3च्द्।.न हि कुर्वन्ति चण्डालाः सम्बन्धं ब्राह्मणैः सह॥
प्.18.4अब्।.सर्व^जातिविहीनो +असि सर्व^वर्ण^जुगुप्सितः।
प्.18.4च्द्।.कथं हीनश् च श्रेष्ठेन सम्बन्धं कर्तुम् इच्छसि॥
प्.18.5।.इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर् मातङ्ग^राज इदम् अवोचत्।
प्.18.6अब्।.यथा भस्मनि सौवर्णे विशेष; उपलभ्यते।
प्.18.6च्द्।.ब्राह्मणे वान्य^जातौ वा न विशेषो +अस्ति वै तथा॥
प्.18.7अब्।.यथा प्रकाशतमसोर् विशेष; उपलभ्यते।
प्.18.7च्द्।.ब्राह्मणे वान्य^जातौ वा न विशेषो +अस्ति वै तथा॥
प्.18.8अब्।.न हि ब्राह्मण; आकाशान् मरुतो वा समुत्थितः।
प्.18.8च्द्।.भित्वा वा पृथिवीं जातो जात^वेदा यथारणेः॥
प्.18.9अब्।.ब्राह्मणा योनितो जाताश् चण्डाला; अपि योनितः।
प्.18.9च्द्।.श्रेष्ठत्वे वृषलत्वे च किं वा पश्यसि कारणं॥
प्.18.10अब्।.ब्राह्मणो +अपि मृतोत्सृष्टो जुगुप्स्यो +अशुचिर् उच्यते।
प्.18.10च्द्।.वर्णास् तथा^एव वा^अप्य् अन्ये का नु तत्र विशेषता॥
प्.19.1अब्।.यत् किञ् चित् पापकं कर्म किल्विषं कलिर् एव च।
प्.19.1च्द्।.सत्त्वानाम् उपघाताय ब्राह्मणैस् तत् प्रकाशितं॥
प्.19.2अब्।.इति कर्माणि च^एतानि प्रकाशितानि ब्राह्मणैः।
प्.19.2च्द्।.कर्मभिर् दारुणैश् च^अपि ``पुण्यो +अहंऽऽ ब्रूवते द्विजाः॥
प्.19.3अब्।.मांसं खादितुकामैस् तु ब्राह्मणैर् उपकल्पितं।
प्.19.3च्द्।.मन्त्रैर् हि प्रोक्षिताः सन्तः स्वर्गं गच्छन्त्य् अजैडकाः॥
प्.19.4अब्।.यद्य् एष मार्गः स्वर्ताय कस्मान् न ब्राह्मणा ह्य् अमी।
प्.19.4च्द्।.आत्मानम् अथवा बन्धून् मन्त्रैः संप्रोक्षयन्ति वै॥
प्.19.5अब्।.मातरं पितरं च^एव भ्रातरं भगिनीं तथा।
प्.19.5च्द्।.पुत्रं दुहितरं भार्यां द्विजा न प्रोक्षयन्त्य् अमी॥
प्.19.6अब्।.मित्रं ज्ञातिं सखीं वा^अपि ये वा विषयवासिनः।
प्.19.6च्द्।.प्रोक्षितास् ते +अपि वा मन्त्रैः सर्वे यास्यन्ति सद्गतिं॥
प्.19.7अब्।.सर्वे यज्ञैः समाहुता गमिष्यन्ति सतां गतिं।
प्.19.7च्द्।.पशुभिः किं नु भो यष्टैर् आत्मानं किं न यक्ष्यसे॥
प्.19.8अब्।.न प्रोक्षणैर् न मन्त्रैश् च स्वर्गं गच्छन्त्य् अजैडकाः।
प्.19.8च्द्।.न ह्य् एष मार्गः स्वर्गाय मिथ्याप्रोक्षणम् उच्यते॥
प्.19.9अब्।.ब्राह्मणैर् औद्रचित्तैस् तु पर्यायो ह्य् एष चिन्तितः।
प्.19.9च्द्।.मांसं खादितुकामैस् तु प्रोक्षणं कल्पितं पशोः॥
प्.19.10अब्।.अन्यच् च^अहं प्रवक्ष्यामि ब्राह्मणैर् यत् प्रकल्पितं।
प्.19.10च्द्।.पातका हि समाख्याता ब्राह्मणेषु चतुर्^विधाः॥
प्.20.1अब्।.सुवर्ण^चौर्यं मद्यं च गुरु^दारा^अभिमर्दनं।
प्.20.1च्द्।.ब्रह्माघ्नता च चत्वारः पातका ब्राह्मणेष्व् अमी॥
प्.20.2अब्।.सुवर्ण^हरणं वर्ज्यं स्तेयम् अन्यन्न विद्यते।
प्.20.2च्द्।.सुवर्णं यो हरेद् विप्रः स तेन +अब्राह्मणो भवेत्॥
प्.20.3अब्।.सुरापानं न पातव्यम् अन्यपानं यथेष्टतः।
प्.20.3च्द्।.सुरां तु यः पिवेद् विप्रः स तेन^अब्राह्मणो भवेत्॥
प्.20.4अब्।.गुरु^दारा न गन्तव्या; अन्यदारा यथेष्टतः।
प्.20.4च्द्।.गुरु^दारां तु यो गच्छेत् स तेन^अब्राह्मणो भवेत्॥
प्.20.5अब्।.न हन्याद् ब्राह्मणं ह्य् एकं हन्याद् अन्यान् अनेकशः।
प्.20.5च्द्।.हयात्त ब्राह्मणं यो वै स तेन^अब्राह्मणो भवेत्॥
प्.20.6अब्।.इत्य् एते पातका ह्य् उक्ता ब्राह्मणेषु चतुर्^विधाः।
प्.20.6च्द्।.भवन्त्य् अब्राह्मणा येन ततो +अन्ये +अपातकाः स्मृताः॥
प्.20.7अब्।.कृत्वा चतुर्णम् एकैकं भवेद् अब्राह्मणस् तु सः।
प्.20.7च्द्।.लभते न च सामीचीं ब्राह्मणाणां समागमे।
प्.20.7एf।.आसनं च^उदकं च^एव व्युत्थानं स न च^अर्हति॥
प्.20.8अब्।.तस्य निःसरनं दृष्टं ब्राह्मणैः पतितस्य तु।
प्.20.8च्द्।.व्रतं वै स समादाय पुनर् ब्राह्मणतां व्रजेत्॥
प्.20.9अब्।.असौ द्वादश^वर्षाणि धारयित्वा खराजिनं।
प्.20.9च्द्।.खाट्वाङ्गम् उच्छ्रितं कृत्वा मृतशीर्षे च भोजनं॥
प्.21.1अब्।.एतद् व्रतं समादाय निश्चयेन निरन्तरं।
प्.21.1च्द्।.पूर्णे द्वादशमे वर्षे पुनर् ब्राह्मणतां व्रजेत्॥
प्.21.2अब्।.इति निःसरणं दृष्टं ब्राह्मणैस् तु तपस्विभिः।
प्.21.2च्द्।.कुमार्गगामिभिर् मूढैर् अनिःसरणदर्शिभिः॥
प्.21.3। तद् इदं ब्राह्मण ते ब्रवीमि, संज्ञामात्रकम् इदं लोकस्य यद् इदम् उच्यते ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इत्य् वा। सर्वम् इदम् एकम् एवेति विज्ञय पुत्राय मे शार्दूलकर्णाय प्रकृतिं माणविकामनुप्रयच्छ भार्या^अर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि। इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य
ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश् चण्डीभूतो +अनात्तमनाः कोपं च द्वेषं च चत्प्रत्ययं जनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं (22) धमयित्वा +अक्षिणी परिवर्त्य नकुल^पिङ्गलां दूष्टिम् उत्पाद्य त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्।
प्.22.1अब्।.असमीक्ष्यैतत्त्वया हि कृता संज्ञेयम् ईदृशी।
प्.22.1च्द्।.एकैव जातिर् लोके +अस्मिन् सामान्या न पृथग्^विधा॥
प्.22.2अब्।.कथं श्वपाक^जातीयो ब्राह्मणं वेद^पारगं।
प्.22.2च्द्।.निहीनयोनिजो भूत्वा विमर्दितुम् इह^इच्छसि॥
प्.22.3।.राजानः खलु वृषल प्रति[वि]भागज्ञा भवन्ति। तद् यथा देश^धर्मे वा नगर^धर्मे वा ग्राम^धर्मे वा निगमधम वा शुल्क^धर्मे वा आवाह^धर्मे वा विवाह^धर्मे वा पूर्व^कर्मसु वा। चत्वार इमे वृषल वर्णाः। यद् उत ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति। तेषां विवाह^धर्मेषु चतस्रो भार्या ब्राह्मणस्य भवन्ति। तद् यथा ब्राह्मणी क्षत्रिया
वैश्या शूद्री चेति। तिस्रः क्षत्रियस्य भार्या भवन्ति। क्षत्रिया वैश्या शूद्री चेति। वैश्यस्य द्वे भार्ये भवतः। वैश्या शूद्री चेति। शूद्रस्य अव् एका भार्या भवति शूद्री एव। एवं ब्राह्मणस्य वृषल चत्वारः पुत्रा भवन्ति।तद् यथा ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चेति। क्षत्रियस्य त्रयः पुत्राः, क्षत्रियो वैश्यः शूद्र इति। वैश्यस्य द्वौ पुत्रौ, वैश्यः
शूद्र इति। शूद्रस्य त्व् एक एव पुत्रो भवति यद् उत शूद्र एव।
प्.22.4।.ते ब्राह्मणाः पुनर् वृषल ब्रह्मणः पुत्राः। औरसा मुखतो जाताः। उरस्तो बाहुतः क्षत्रियाः। नाभितो वैश्याः। पद्भ्यां शूद्राः।
प्.22.5।.ब्रह्मणा^अयं खलु वृषल लोकः सर्व^भूतानि निर्मितानि।
प्.23.1अब्।.तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास् तद् अनन्तरं।
प्.23.1च्द्।.वैश्यास्त्रितीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥ इति॥
प्.23.2।.स त्वं वृषल चतुर्थे +अपि वर्णे न संदृश्यसे। अहं च^अग्रे वर्णे श्रेष्ठे वर्णे परमे वर्णे प्रवरे वर्णे। परमार्थं च संयोगमाकाङ्क्षसि प्रणश्य त्वं वृषल क्षिप्रं । मा च^अस्माकम् अवमंस्थाः।
प्.23.3।.इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर् मातङ्ग^राज इदम् अवोचत्। इदम् अत्र ब्राह्मण शृणु यद् ब्रवीमि। ब्रह्मणा^अयं लोकः, सर्व^भूतानि निर्मितानि।
प्.23.4अब्।.तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास् तद् अनन्तरं।
प्.23.4च्द्।.वैश्यास् त्रृतीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥इति॥
प्.23.5अब्।.सपाद^जङ्घाः सनखाः समांसाः सपार्श्वपृष्ठाश् च नरा भवन्ति।
प्.23.5च्द्।.एकांशतो नास्ति यतो विशेषो वर्णाश् च चत्वार इतो न सन्ति॥
प्.23.6अब्।.अथो विशेषः प्रवतोस्ति कश्चित् तद् ब्रूहि यच् च^अनुमतं यथा ते।
प्.23.6च्द्।.अथो विशेषः प्रवरो हि नास्ति वर्णाश् च चत्वार इतो न सन्ति॥
प्.24.1अब्।. यथा हि दाउरुका बालाः क्रीडमाना महा^पथे।
प्.24.1च्द्।.पांशुपुञ्जानि संपिण्ड्य स्वयं नामानि कुर्वते॥
प्.24.2अब्।.इदं क्षीरम् इदं दधि; इदं मांसम् इदं घृतं।
प्.24.2च्द्।.न च बालस्य वचनात् पांशवो +अन्नं भवन्ति हि॥
प्.24.3अब्।.वर्णास् तथाइव चत्वारो यथा ब्राह्मण भाषसे।
प्.24.3च्द्।.पांशुपुञ्जाभिधानेन योगो [यः को] प्य् एष न विद्यते॥
प्.24.4अब्।.न केशेन न कर्णाभ्यां न शीर्षण न चक्षुषा।
प्.24.4च्द्।.न मुखेन न नासया न ग्रीवय न बाहुना॥
प्.24.5अब्।.नोरसाप्यथ पार्श्वाभ्यां न पृष्ठेन^उदरेण च।
प्.24.5च्द्।.नोरुभ्याम् अथ जञ्ङ्हाभ्यां पाणिपाद^नखेन च॥
प्.24.6अब्।.न स्वरेण न वर्णेन न सर्वांशैर् न मैथुनैः।
प्.24.6च्द्।.नानाविशेषः सर्वेषु मनुष्येषु हि विद्यते॥
प्.24.7अब्।.यथा हि जातिष्व् अन्यासु लिङ्गं योनिः पृथक् पृथक्।
प्.24.7च्द्।.सामान्यं कारणं तत्र किं वा जातिषु मन्यसे॥
प्.24.8अब्।.सशीर्षकाश् च^अथ नरास्थि^युक्ताः सचर्मकाः सेन्द्रियसोदराश् च।
प्.24.8च्द्।.एकांशतो नास्ति यतो विशेषो वर्णा न युक्ताश् चतुरो +अभिधातुं॥
प्.24.9अब्।.अथास्ति कश्चित् प्रवरो विशेषस् तद् ब्रूहि यच्चानुमतं यथा ते।
प्.24.9च्द्।.अथो विशेषः प्रवरो +अत्र नास्ति वर्णा न युक्ताश् चतुरोभिधातुं॥
प्.25.1अब्।.दोषो ह्य् अयं च^अत्र भवेद् अयुक्तो यद् यत् त्वया च^अभिहितं निदाने।
प्.25.1च्द्।.श्रुत्वा तु मत्तः प्रतिपद्य सौम्य यच् च^अत्र मन्ये शृणुचोद्यमानं॥
प्.25.2अब्।.यच् च^अत्र युक्तं विषमं समं वा तात् ते प्रवक्ष्यामि नियुज्यमानः।
प्.25.2च्द्।.दोषो हि यश् च^अपि भवेद् अयुक्तो वक्ष्यामि ते ह्य् उत्तरत^उत्तरं च।
प्.25.3एf।.श्रुत्वा तु मत्तः प्रतिपद्य सौम्य कर्म^अधिपत्यप्रभवा मनुष्याः॥
प्.25.4।.अनुमानम् अपि ते ब्राह्मण यदि प्रमाणं, तत्र यद् ब्रवीषि ब्रह्मा एक इति तस्मात् प्रजा अपि एक^जात्या एव। वयम् अप्य् एक^जात्या भवामः। यच् च व्रवीषि ब्रह्मणा^अयं लोकः सर्व^भूतानि च निर्मितानि^इति। स चेत्ते ब्राह्मण इदं प्रमाणं, तद् इदं ते ब्राह्मण अयुक्तं यद् ब्रवीषि चत्वारो वर्णा ब्राह्मणाः क्षत्रिया वैश्या शूद्राश् चेति।
प्.25.4।.अपि तु ब्राह्मण मिथ्या मम वचो भवेत् यदि ब्राह्मण संवादेन मुनुष्यजातेर् नाना^करणं प्रज्ञायते। यद् उत शीर्षतो वा मुखतो वा कर्णतो वा नासिकातो वा (26) भ्रूतो वा रूपतो वा संस्थानतो वा वर्णतो वा ऽऽकारतो वा योनितो वा ऽऽहारतो वा सम्भावतो वा नाना^करणं प्रज्ञायते।
प्.26.1।.तद् यथा^अपि भोः पुष्करसारिन् गवाश् च गर्दभो ष्ट्रमृगपक्ष्यजैडका^नामण्डजजरायुजसंस्वेदजौपपादुकानांनाना^करनं प्रज्ञायते। यद् उत पादतो +अपि मुखतोपि वर्णतो +अपि संस्थानतो +अपि आहारतो +अपि योनिसम्भवतो +अपि नाना^करणं प्रज्ञायते नच^एवं तेषां चतुर्णां वर्णानां नाना^करणं प्रज्ञायते। तत् तस्मात् सर्वम् इदम् एकम् इति।
प्.26.2।.अपि च। ब्राह्मणामीषां फल्गुवृक्षाणामाम्रातकजम्बुखर्जूरपनसदालावनतिन्दुकमृद्वीकबीज^पूरककपित्थाक्षोडनारिकेलतिनिशकरञ्ज^आदीनां नाना^करणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च त्वग्भागतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नाना^करणं प्रज्ञायते। न च^एवं चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
प्.26.3।.तद् यथा ब्राह्मणामीषां स्थलजानां वृक्षाणां सारतमालनक्तमालकर्णिकारस्सप्तपर्णशिरीषकोविदारस्यन्दनचन्दनशिंशपैरण्डखदिर^आदीनां नाना^करणं प्रज्ञायते।
प्.26.4।.यद् उत मूलतश् च स्कन्धतश् च त्वग्भागतश् च गुल्मतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च विशेष उपलभ्यते। न च^एवं चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
प्.26.5।.तद् यथा भोः पुष्करसारिन्न् अमीषां क्षीरवृक्षाणाम् उदुम्बरप्लक्षाश्वत्थन्यग्रोधवल्गुकेत्य् एवम् आदीनां नाना^करणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च त्वग् भागतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नाना^करणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
प्.26.6।.तद् यथा पुष्करसारिन्न् अमीषाम् अपि फलबैषज्यवृक्षाणाम् आमलकीहरीतकीविभीतकी फरसक^आदीनाम् अन्यासाम् अपि विविधानाम् ओषधीनां ग्राम^जानां पार्वतीयानां तृण^वनस्पतीनां नाना^करणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च (27) गुल्मतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नाना^करणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां
नाना^करणं प्रज्ञायते।
प्.27.1।.तद् यथा स्थलजानां पुष्प^वृक्षाणाम् अतिमुक्तक^चम्पक^पाटलानां सुमना वार्षिकाधनष्कारिक^आदीनां नाना^करणं प्रज्ञायते। यद् उतो रूपतो +अपि वर्णतो +अपि गन्धतो +अपि संस्थानतो +अपि नाना^करणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
प्.27.2।.तद् यथा ब्राह्मणाम् ईषाम् अपि जलजानां पुष्पाणां पद्म^उत्पल^सौगन्धिक^मृदु^गन्धिक^आदीनां नाना^करणं प्रज्ञायते। यद् उत रूपतश् च गन्धतश् च संस्थानतश् च वणतश् च नाना^करणं प्रज्ञायते। नत्वेव वर्णानां नाना^करणं प्रज्ञायते। तद् यथा पुष्करसारिन् अमी ब्राह्मणा इति क्षत्रिया इति वैश्या इति शूद्रा इति। तस्माद् एकम् एव^इदं सर्वम्
इति।
प्.27.3अब्।.अप्य् अन्यत् ते प्रवक्ष्यामि ब्राह्मणैः कल्पितं यथ्।आ।
प्.27.3च्द्।.शिरः सतारं गगनम् आकाशम् उदरं तथा॥
प्.27.4अब्।.पर्वताश् च^अप्य् उभाव् ऊरू पादौ च धरणी^तलं।
प्.27.4च्द्।.सूर्याचन्द्रमसौ नेत्रे रोम तृण^वनस्पती॥
प्.27.5अब्।.अश्रूण्य् अवोचद् वर्षा +अस्य नद्यः प्रस्रावम् एव च।
प्.27.5च्द्।.सागराश् च^अप्य् अमेध्यं वै; एवं ब्रह्मा प्रजापतिः॥
प्.28.1।.परीक्षस्व त्वं ब्रह्मणः स्व^लक्षणं। यस्माद् ब्रह्मणो ब्राह्मणा उत्पन्नास् तस्मात् क्षत्रिया अपि वैश्या अपि शूद्रा अप्य् उत्पन्नाः।
प्.28.2अब्।.एवं प्रसूतिर् यदि तत्वतः स्यात् ततो हि स्याद् वर्ण^कृतो विशेषः।
प्.28.2च्द्।.यदि ब्राह्मणा ब्रह्म^लोकं व्रजेयुस् त्रयश् च वर्णा न व्रजेयुः स्वर्गं।
प्.28.2एf।.एवं भवेद् वर्ण^कृतो विशेषो न चेन्न चत्वारो भवन्ति वर्णाः॥
प्.28.3अब्।.यस्माद् धि वर्णश् चतुर्थ एवं प्रयाति स्वर्गं स्वकृतेन कर्मणा।
प्.28.3च्द्।.यतस् तपश् च^आर्षम् इह प्रशस्तं तस्माद् द्विजातेर् न विशेषणं स्याद्॥
प्.28.4अब्।.यदि ब्राह्मणः स्याद् इहैक एव द्विजिह्वश् चतुः^श्रवणस् तथा^एव।
प्.28.4च्द्।.चतुर्^विषाणो बहुपाद् द्विशीर्ष एवं कृते वर्ण^कृतो विशेषः॥
प्.29.1अब्।.रागैश् च नाम परघातनं च एवं प्रकारं च विहेठनं च।
प्.29.1च्द्।.सत्त्वस्य वै कर्मणो ध्वंसनं च एतान्य् अकल्याणकृतानि विप्रैः॥
प्.29.2अब्।.युद्धं विवाद्ं कलहान्य् अभीक्ष्णं गोप्रोक्षणं चिन्तितं ब्राह्मणैर् हि।
प्.29.2च्द्।.अथर्वणः कर्मणा त्रासनं च एतानि मन्त्राणि कृतानि विप्रैः॥
प्.29.3अब्।.पापेच्छता बहु^जन^वञ्चनं च शाठ्यं च धौर्त्यं च तथा^एव कल्पं।
प्.29.3च्द्।.एवं परेषाम् अहितं विचिन्त्य कदा च ते स्वर्गम् इतो व्रजेयुः॥
प्.29.4अब्।.ये ब्राह्मणा उग्रतपा विनीता व्रतेन शीलेन सदा ह्य् उपेताः।
प्.29.4च्द्।.अहिंसका ये दम संयमे रतास् ते ब्राह्मणा ब्रह्म^पुरं व्रजन्ति॥
प्.29.5अब्।.सह^अस्थि^मांसः सनखः सचर्मा दुःखं सुखं मूत्र^पुरीषम् एकं।
प्.29.5च्द्।.पञ्च^इन्द्रियैर् नास्ति यतो विशेषस् तस्मान् न वै वर्ण^चतुष्क एषः॥
प्.29.6।.तद् यथा नाम ब्राह्मण कस्य^चित् पुरुषस्य चत्वारः पुत्रा भवेयुः। स तेषां नामानि कुर्यान् नन्दक इति वा जीवक इति वा अशोक इति वा शतायुर् इति वा । इष्टाश् च (30) पुनर् भो एतस्य पुरुषस्य पुत्रा भवेयुः। तत्र यो नन्दकः स नन्देत्। यो जीवकः स ईवेत्। यो +अशोकः स न शोचेत्। यः शतायुः स वर्षशतं जीवेत्।
प्.30.1।.नामतः पुनर् ब्राह्मण तेषां नाना^करणं प्रज्ञायते न जातितः। तत्कस्य हेतोः। इह खलु पुनर् ब्राह्मण पितृतः पुत्रो जाय्ते। तस्माच् च तत्रेदं व्याकरणं भवति:
प्.30.2अब्।.माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।
प्.30.2च्द्।.यद्य् एवं भो विजानासि न ते (पुत्रा) परभूताः क्वचित्॥
प्.30.3।.परीक्षस्व ब्राह्मण संयगेव को +अत्र ब्राह्मणः क्षत्रियो वैश्यः शूत्र इति।
प्.30.4अब्।.सर्वे काणाश् च कुब्जाश् च सर्वे +अपस्मारिणोपि वा।
प्.30.4च्द्।.किलासिनः कुष्ठिनश् च गौराः कृष्णाः पृथक् पृथक्॥
प्.30.5।.प्रतिष्ठिताः सममज्जानखत्वचपार्श्व^उदरवक्त्राः प्रजा हि ताः स्वकर्मणा। एवं गते ब्राह्मण नैव भवति विशेषः। को जाति^कृतो विशेषः।
प्.30.6।.यस्मान् न जातेर् विशेषणो +अस्ति तस्मान् न वै वर्ण^चतुष्क एव।
प्.31.1।.तस्मात् ते ब्राह्मण ब्रवीमि संज्ञामात्रम् इदं लोकस्य यद् इदं ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा चण्डाल इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्या^अर्थाय यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।
प्.31.2।.इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारीदम् अवोचत्। किं पुनर्भवता ऋग्वेदो +अधीतः, यजुर्वेदो +अधीतः, सामवेदो +अधीतः, अथर्ववेदो +अधीतः, आयुर्वेदो +अधीतः कल्पाध्यायो पि। अध्यात्मम् अपि मृगचक्रं वा नक्षत्र^गणो वा तिथि^क्रमगणो वा त्वयाधीतः। कर्म^चक्रं वा त्वयाधिगतं। अथवा +अङ्गविद्या वा वस्त्रविद्या
वा शिवाविद्या शकुनिविद्या वा त्वयाधीता। अथवा राहुचैर्तं वा शुक्र^चरितं वा ग्रहचरितं वा त्वयाधीतं। अथवा लोकायतें भवता भाष्यप्रवचनं वा पक्षाध्यायो वा न्यायो वा त्वयाधीतः।
प्.32.1।.एवम् उक्ते त्रिशङ्कुर् मातङ्ग^राहः पुष्करसारिणं ब्राह्मणम् एतद् अवोचत्। एतच् च मया ब्राह्मणाधीतं भूयश् च^उत्तरं । यद् अपि ते ब्राह्मण एवं स्याद् अहम् अस्मि मन्त्रेषु पारं प्राप्त इति। तत्र ते ब्राह्मण सह धर्मेणानुमानं प्रवक्ष्यामि। न खल्व् एवं ब्राह्मण प्राथमकल्पिकानां सत्त्वानाम् एतद् अभवत्। यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य
इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं।
प्.32.2।.अथ ब्राह्मण सत्त्वानामसदृशानां च^उभयथा सदृशानां ततो +अन्ये सत्त्वाः शालिक्षेत्राणि केलायन्ति गोपायन्ति वापयन्ति वा। ते +अमी क्षत्रिया इति संज्ञा उदपादि। अथात्र ब्राह्मण तद् अन्यतमानां सत्तानाम् एतद् अभवत्। परिग्रहो रोगः परिग्रहो गण्डः परिग्रहः शल्यः। यन्नु वयं स्वपरिग्रहम् अपहायारण्यायतनं गत्वा
तृण^काष्ठशाखापर्णपलाशकानुपसंहृत्य तृण^कुटिकां वा पर्णकुटिकां वा कृत्वा प्रविश्य ध्यायेन इति।
प्.32.3।.अथ ते सत्त्वास् तं स्वकं परिग्रहम् अपहायारण्यायतनं गत्वा तृण^काष्ठशाखापत्रपर्णपलाशकैस् तृण^कुटिं वा पर्णकुटिकां वा कृत्वा तत्र^एव प्रविश्य ध्यायन्ति स्म। ते तत्र सायम् आसनहेतोः प्रान्तवाटिकां प्रातरशनहेतोश् च ग्रामं पिण्डाय प्रविशन्ति स्म।
प्.32.4।.अथ तेषां ग्राम^वासिनां सत्त्वानाम् एतद् अभवत्। दुष्करकारका वत भोः सत्त्वा ये स्वकं परिग्रहम् उतृज्य ग्राम^निगमजन^पदेभ्यो बहिर् निर्गतास् तेषां बहिर्मनस्का ब्राह्यणा इति संज्ञा उदपादि। ते च पुनर् ग्राम^वासिनः सत्त्वास् तान् अतीव सत्कुर्वन्ति स्म। तेषां च दातव्यं मन्यन्ते स्म।
प्.33.1।.अथ तेषाम् एव सत्त्वानाम् अन्यतमे सत्त्वास् तानि ध्यानान्य् असंभावयन्तो ग्रामेष्व् अवतीर्य मन्त्र^पदान् स्वाध्यायन्ति स्म। तांस् ते ग्राम^निवासिन आहुः --- न लेवलम् इमे सत्त्वा इमे +अध्यापकाः, तेषाम् अध्यापका इति लोके संज्ञा उदपादि।
प्.33.2।.अयं हेतुर् अयं प्रत्ययो ब्राह्मणानां लोके प्रादुर्भावाय। अथान्यतमे सत्त्वा विवेक^काल^प्रतिसंयुक्तान् कर्म^अन्तान् विविधान् अर्थ^प्रतिसंयुक्तान् कुर्वन्ति स्म। तेषां वैश्या इति संज्ञा उदपादि।
प्.33.3।.अथान्यतमे सत्त्वाः क्षुद्रेण कर्मणा जीविकां कल्पयन्ति स्म। तेषां शूद्रा इति संज्ञा उदपादि।
प्.33.4।.भूत^पूर्वं ब्राहम्ण अन्यतमः सत्त्वो वधूम् आदाय रथम् आरुह्यान्यतम् अस्मिन्न् अरण्यप्रदेशे गतः। तत्र च रथो भग्नः। तस्मान् मातङ्गम [मा त्वं गमः] इति संज्ञा उदपादि।
प्.33.5।.क्षेत्रं कर्षन्ति ये तेषां कर्षका इति संज्ञा प्र्वृत्ता। भाष्येण च पर्षदं रञ्जयति धर्मेण शीलब्रतसमाचारेण सम्यक्, तस्य राजा इति संज्ञा +अभूत्।
प्.33.6।.ततो +अन्ये सत्त्वा वाणिज्यया जीविकां कल्पयन्ति तेषां वणिज इति संज्ञा (34) उदपादि। ततश् च^अन्ये सत्त्वाः प्रव्रजन्ति स्म। प्रव्रजित्वा परान् जयन्ति क्लेशान् जयन्ति^इति तेषां प्रव्रजिता इति लोके संज्ञा उदपादि।
प्.34.1।.अपि तु ब्राह्मण एकैव संज्ञा लोक उदपादि। तां ते प्रवक्ष्यामि।
प्.35.1।.ब्रह्मा लोके +अस्मिन् इमान् वेदान् वाचयति। ब्रह्मा देवानां परम^तापसः। इन्द्रस्य कौशिकस्य वेदान् वाचयति स्म। इन्द्रः कौशिको +अरणेमि गौतमं वेदान् वाचयति। अरणेमि गौतमः श्वेतकेतुं वेदान् वाचयति। श्वेतकेतुः शुकं पण्डितं वेदान् वाचयति। शुकः पण्डितश् च वेदान् विभजति स्म। तद् यथा पुष्यो बह्व्^ऋचानां पंक्तिश् छन्तोगानाम् एक^विंशतिर् अध्वर्यवः।
क्रतुर् अर्थ^वणिकानां। बह्व्^ऋचानाम् एते ब्राह्मणाः। सर्वे ते व्याख्यायन्ते। पुष्य एको भूत्वा पञ्च^विंशतिधा भिन्नः। तद् यथा शुक्ला वल्कला माण्डव्या इति। तत्र दश शुक्लाः। अष्टौ वल्कलाः। सप्त माण्डव्याः। इतीयं ब्राह्मण बह्व्^ऋचानां शाखा। पुष्य एको भूत्वा पञ्च^विंशतिधा भिन्नः।
प्.35.2।.अनुमानम् अपि ब्राह्मण प्रमाणं छन्दोगानां। ब्राह्मणाः सर्व एते छन्दोगाः। पंक्तिर् एत्य् एका भूत्वा स^अशीति^सहस्रधा भिन्ना। तद् यथा शीलवल्का अरणेमिका लौकाक्षाः कौथुमा ब्रह्म^समा महा^समा महा^यागिकाः स^अत्यम् उग्राः समन्त^वेदाः।
प्.36.1।.तत्र शीलवल्का विंशतिः। अरणेमिका विंशतिः। लौकाक्षाश् चत्वारिंशत्। कौथुमानां शतं। ब्रह्म^समानां शतं। महा^समानां पञ्च^शतानि। महा^यागिकानां शतं। स^अत्यम् उग्राणां शतं । समन्त^वेदानां शतं। इतीयं ब्राह्मण^छन्दोगानां शाखा। पंक्तिर् इत्य् एका भूत्वा स^अशीति सहस्रधा भिन्ना।
प्.36.2।.अनुमानम् अपि प्रमाणम् अध्वर्यूणां। एते ब्राह्मणा एक^विंशत्य् अध्वर्यवो भूत्वा एक^उत्तरशतधा भिन्नाः। तद् यथा कठाः कंइना वाजसनेयिनो जातुकर्णाः प्रोष्ठपदा ऋषयः। तत्र दश कठा दश कणिमा एकादश वाजसनेयिनः।त्रयोदश जातुकर्नाः। षोडश प्रोष्ठपदाः। एक चत्वारिंशद् ऋषयः। इतीयं ब्राह्मणाध्वर्यूणां शाखा। एक^विंशत्यध्वर्यवो भूत्वा
एक^उत्तरशतधा भिन्नाः।
प्.36.3।.अनुमानम् अपि ब्राह्मण प्रमाणम् अथर्वणिकानां । एते मन्त्राः सर्वे ते +अथर्वणिकाः। क्रतुर् एको भूत्वा द्विधा भिन्नः। द्विधा भूत्वा चतुर्धा भिन्नः।चतुर्धा भूत्वा +अष्टधा भिन्नः। अष्टधा भूत्वा [नव]दशधा भिन्नः। इतीयं ब्राह्मणाथर्वणिकानां शाखा। क्रतुर् एकः षोडश^उत्तरद्वादश^शतधा भिन्नः।
प्.36.4।.अनुमानम् अपि ब्राह्मण प्रमाणं प्रतीत्य एतानि द्वादश^भेदशतानि षोडशभेदाश् च ये ब्राह्मणैः पौराणैः सम्यग् दृष्टाः। छन्दसि वा व्याकरणे वा लोकायते वा (37) पदमीमांसायां वा न चैषामूहापोहः प्रज्ञायते। यद् उत एक^जात्यो नामेति विदित्वा बन्धुर् भवितुम् अर्हति। तत् ते व्राह्मण ब्रवीमि संज्ञामात्रकम् एतल् लोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय
इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्या^अर्थाय यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।
प्.37.1।.इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारी तुष्णींभूतो मद्गुभूतः स्रस्तस्कन्धो +अधोमुखो निष्प्रतिभः प्रध्यानपरो +अस्थात्।
प्.37.2।.ददर्श त्रिशङ्कुर् मातङ्ग^राजो ब्राह्मणं पुष्करसारिणं तृष्णींभूतं मद्गुभूतं स्रस्त^स्कन्धम् अधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितं। दृष्ट्वा च पुनर् इदम् अब्रवीत्। यद् अपि ते ब्राह्मण एवं स्याद् असदृशेन सह सम्बन्धो भविष्यति^इति। न पुनस्त्वया ब्राह्मण^एवं द्रष्टव्यं। (38)तत् कस्य हेतोः। ये प्रमाणश्रुतिशीलप्रञ्ञादयो गुणा अग्य्रा
लोकस्य ते मम पुत्रस्य शार्दूलकर्णस्य संविद्यन्ते। यद् अपि ते ब्राह्मण एवं स्यात् --- ये वाजपियं यज्ञं यजन्ति। अश्वमेधं पुरुष^मेधं शाम्यप्राशं निरर्गडं यज्ञं यजन्ति, सर्वे ते कायस्य भेदात्सुगतौ स्वर्ग^लोके देवेषूपपद्यन्त इति। न पुनर्ब्राह्मण त्वय^एवं द्रष्टव्यं। तत् कस्य हेतोः।वाजपेयं ब्राह्मण यज्ञं यजमाना अश्वमेधं पुरुष^मेधं
शाम्यप्राशं निरर्गडं यज्ञं च यजमाना बहुधा मन्त्रान् प्रवर्तयन्तः प्राणिहिंसां च प्रवर्तयन्ति। तस्मात् ते ब्राह्मण ब्रवीमि न ह्य् एष मार्गः स्वर्गाय। अहं ते ब्राह्मण मार्गं स्वर्गाय व्याखामि। तच् छृणु।
प्.38.1अब्।.शीलं रक्षेत मेधावी प्रार्थयानः सुख^त्रयं।
प्.38.1च्द्।.प्रशंसां वित्त^लाभं च प्रेत्य स्वर्गे च मोदनं॥
प्.38.2।.यैर् ब्राह्मण इतः पूर्वं वाजपेयो यज्ञ इष्टः। यैर् अश्वमेधो यैः पुरुष^मेधो यैः शाम्यप्राशो यैर् निरर्गडो यज्ञ इष्टः, परिगृहीतस् तैर् निरर्गलं च कामैः कामः। इतो नाकः पर्येष्यते। ये ब्राह्मण इतः पश्चाद् वाजपेयं यज्ञं यक्ष्यन्ति ये +अश्वमेधं पुरुष^मेधं ये शाम्यप्राशं निरर्गडं यज्ञं यक्ष्यन्ति ते निरर्थकं महा^विघातं संयोक्ष्यन्ति।
प्.38.3।.तस्मात् ते ब्राह्मन ब्रवीमि --- एहि त्वं मया सार्धं सम्बन्धं योजयस्वा। तत् कस्य हेतोः। धर्मेण हि चण्डाला अजुगुप्सनीया भवन्ति। अपि च।
प्.39.1अब्।.श्रद्धा शीलं तपस्त्यागः श्रुतिर् ज्ञानं दयैव च।
प्.39.1च्द्।.दर्शनं सर्व^वेदानां स्वर्गव्रत^पदानि वै॥
प्.39.2।.प्रमाणम् अष्टप्रकारं स्वर्गाय। तद् एभिर् अष्टाभिः प्रकारैः स्वर्गगमनम् इष्यते। ये प्रायेण जानन्ति विशेषेण खल्व् अप्य् अनेकैर् विविधरि यज्ञैः। अष्टौ चेमा ब्राह्मण निर्दिष्टा मातृतुल्या भगिन्यो लोके प्रवर्तन्ते। तद् यथा अदितिर् देवानां माता। दिवित् दानवानां। मनुर् मानवानां। सुरभिः सौरभेयानां। विनता सुपर्णानां। कद्रुर् नागानां। पृथिवी भूतानां
माता सर्व^बीजानां। मरुतां महामहः। महा^काश्यपं मनसा विदन्ति ऋषयः।
प्.39.3।.अथ खलु भोः पुष्करसारिन् ब्राह्मणानां सप्तगोत्राणि व्याख्यास्यामि तानि श्रूयन्तां। तद् यथा गौतमा वात्स्याः कौत्साः कौशिकाः काश्यपा वाशिष्ठा माण्डव्या इत्य् एतानि ब्राह्मण सप्तगोत्राणि। एषाम् एकैकं गोत्रं सप्तधा भिन्नं। अत्र ये गौतमास् ते कौथुमास्ते गर्गास् ते भरद्वाजास्त आर्ष्टिषेणास् ते वैखानसास् ते (40) वज्रपादाः। तत्र ये वात्स्यास्त आत्रेयास्
ते मैत्रेयास् ते भार्गवास् ते सावर्ण्या स्ते सलोलास् ते बहुजाताः। तत्र ये कौत्सास् ते मौद्गल्यायनास् ते गौणायनास् ते लाङ्गलास्ते लग्नास्ते दण्डलग्नास्ते सोम^भुवाः[वह्}। तत्र ये कौशिकास् ते कात्यायनास् ते दर्भकात्यायनास् ते वल्कलिनस् ते पक्षिणस् ते लौकाक्षास् ते लोहित^आयनाः (लोहित्यायनाः) । तत्र ये काश्यपास् ते मण्डनास् ते इष्टास् ते शौण्डायनास् ते रोचनेयास्
ते +अनपेक्षास् ते +अग्निवेश्याः। तत्र ये वःशिष्ठास् ते जातुकर्ण्यास् ते धान्यायनास् ते पाराशरास् ते व्याघ्रनखास् त आण्डायनस्त औपमन्यवाः। तत्र ये माण्डव्यास् ते भाण्डायनास् ते धौम्रायणास् ते कात्यायनास् ते खल्व् अवाहनास् ते सुगन्धारायणास् ते कापिष्ठलायनाः।
प्.40.1।.इत्य् एतानि ब्राह्मण एवम् एकोनपञ्चाशद् गोत्राणि ब्राह्मणैः पौराणैः सम्यग् दृष्टानि छन्दसि व्याकरणे पदमीमांसायां। अन्यानि च गोत्राणि विस्तरतो मया वाचितानि। तानि अन्यैर् न ज्ञायन्ते।
प्.40.2।.यद् उतैकत्वम् इति विदित्वा भवान् बन्धुर् भवितुम् अर्हति। तस्मात् ते ब्राह्मण ब्रवीमि सामान्यं संज्ञामात्रकम् इदं लोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं । प्प्प्प्प्पुत्राय मे शार्दूलकर्णाय प्रकृतिंदुहितरम् उत्सृज भार्या^अर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।
प्.41.1।.इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारी तृष्णीं भूतो मद्गुभूतः स्रस्तस्कन्धो +अधोमुखो निष्प्रतिभः प्रध्यानपरः स्थितो +अभूत्। अद्राक्षीत् त्रिशङ्कुर् मातङ्ग^राजः पुष्करसारिणं ब्राह्मणं तूष्णीं भूतं मद्गुभूतं स्रस्तस्कन्धम् अभोमुखं निष्प्रतिभं प्रध्यानपरं स्थितं। दृष्ट्वा च पुनर् इदम् अवोचत्।
प्.41.2अब्।.यादृशं वाप्यते बीजं तादृशं लभ्यते फलं।
प्.41.2च्द्।.प्रजापतेर् हि चैकत्वे निर्विशेषो भवत्य् अतः॥
प्.41.3अब्।.न च^इन्द्रियाणां नानात्वं क्रियाभेदश् च दृश्यते।
प्.41.3च्द्।.ब्राह्मणे वान्य^जातौ वा नैषां किञ्चिद् विशिष्यते॥
प्.41.4अब्।.न ह्य् आत्मनः समुत्कर्षः श्रेष्ठ त्वम् इह युज्यते।
प्.41.4च्द्।.शुक्र^शोणित^सम्भूतं योनितो ह्य् उभयं समं॥
प्.41.5अब्।.चातुर्वर्ण्यं प्रवक्ष्यामि पशु^धर्म^कथां तव।
प्.41.5च्द्।.भवेत् ते भगिनी भार्या नैतद् ब्राह्मण युज्यते॥
प्.41.6अब्।.यदि तावद् अयं लोको ब्रह्मणा जनितः स्वयं।
प्.41.6च्द्।.ब्राह्मणी ब्राह्मण^स्वसा क्षत्रिया क्षत्रियस्वसा॥
प्.41.7अब्।.अथ वैश्यस्य वैश्या वै शूद्रा शूद्रस्य वा पुनः।
प्.41.7च्द्।.न भार्या भगिनी युक्ता ब्रह्मणा जनिता यदि॥
प्.41.8अब्।.न सत्त्वा ब्रह्मणो जाताः क्लेशजाः कर्मजास्त्वमी।
प्.41.8च्द्।.नीचैश् च^उच्चैश् च दूश्यन्ते सत्त्वा नाना^आश्रयाः पृथक्॥
प्.41.9अब्।.तेषां च जातिसामान्याद् ब्राह्मणे क्षत्रिये तथा।
प्.41.9च्द्।.अथ वैश्ये च शूद्रे च समं ज्ञानं प्रवर्तते॥
प्.42.1अब्।.ऋग्वेदो +अथ यजुर्वेदः सामवेदोप्य् अथर्वाणं।
प्.42.1च्द्।.इतिहासो निघण्टश् च कुतश् छन्दो निरर्थकं॥
प्.42.2अब्।.अस्माकम् अप्य् अध्ययने मैत्री विद्या तथा शिखी।
प्.42.2च्द्।.संक्रामणी प्रकामणी स्तम्भनी काम^रूपिणी॥
प्.42.3अब्।.मनोजवा च गान्धारी घोरी विद्या वशङ्करी।
प्.42.3च्द्।.काक^वाणी च मन्त्रं च; इन्द्रजालं च भञ्जनी॥
प्.42.4अब्।.अस्माकम् आसीत् पुरुषा विद्यास्वाख्यातपण्डिताः।
प्.42.4च्द्।.मणि^पुष्पाश् च; ऋषयो भास्वराश् च महर्षयः॥
प्.42.5अब्।.संप्राप्ता देवता;ऋद्धिं किं चिकित्सासि विद्यया।
प्.42.5च्द्।.अशिक्षिताश् च चण्डाला ब्राह्मणा वेद^पारगाः॥
प्.42.6अब्।.कपिञ्जलाद्या जनितो मन्त्राणां पारभिंगतः।
प्.42.6च्द्।.न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण मन्यसे॥
प्.43.1अ।.निषाद्यजनयत्काली पुत्रं द्वैपायानं मुनिं।
प्.43.1ब्।.उग्रं तेजस्विनं भीष्मं पञ्चाभिज्ञं महा^तपं।
प्.43.2अब्।.न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥
प्.43.2च्द्।.क्षत्रिया रेणुका नाम जज्ञे रामं महा^मुनिं।
प्.43.2एf।.पण्डितं च विनीतं च सर्व^शास्त्र^विशारदं।
प्.43.3अब्।.न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥
प्.43.3च्द्।.ये च ते मनुजा; आसन् तेजसा तपसा युताः।
प्.43.4अब्।.पण्डिताश् च विनीताश् च लोके च; ऋषिसम्मताः।
प्.43.4च्द्।.न हि ते ब्राह्मणीपुत्राः किं वा ब्राह्मण वक्ष्यसि॥
प्.43.5अब्।.संज्ञा कृतेयं लोकस्य ब्राह्मणाः क्षत्रियास् तथा।
प्.43.5च्द्।.वैश्याx च^एव तथा शूद्राः संज्ञेयं संप्रकीर्तिता॥
प्.43.6।.तस्मात् ते ब्राह्मण ब्रवीमि संज्ञामात्रकम् इदंलोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूदर इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे (44) शार्दूलकर्णाय प्रकृतिं दुहितरम् अनुप्रयच्छ भर्यर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।
प्.44.1।.इदं च पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्ब्राह्मणः पुस्करसारी त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्। किं गोत्रो भवान्। आह आत्रेयगोत्रो +अस्मि। हिंपूर्वः। आह। आत्रेयः। किंचरणःआह कालेयमैत्रायणीयः। कति प्रवराः। आह त्रयः प्रवराः। तद् यथा वात्स्याः कौत्स्या भरद्वाजाश् च। के भवन्तः सब्रह्म^चारिणः। छन्दोगाः। कति छन्तोगानां
भेदाः। षट्। ते कतमे। आह। तद् यथा। कौथुमाः। च^अरायणीयाः। लाङ्गलाः। सौवर्चसाः। कापिञ्जलेयाः। आर्ष्टिषेणा इति।
प्.44.2।.किं भवतो मातृजं गोत्रं। आह। पाराशरीयं। पठतु भवान् सावित्रीं। कथं भवति। कत्यक्षरा सावित्री। कथिगण्डा। कतिपदा।
प्.44.3।.चतुर्विंशत्यक्षरा सावित्री। त्रिगण्डा। अष्टाक्षरपदा। उच्चारयतु भवान् सावित्रीं।अथ खलु भोः पुष्करसारिन् सोत्पत्तिकां सावित्रीं प्रवक्ष्यामि। तच् छ्रूयतां।
प्.44.4।.कथयतु भवान्।
प्.44.5।.भूत^पूर्वं ब्राह्मणातीते +अध्वनि वसुर् नाम ऋषिर् भूव। पञ्चाभिज्ञ उग्रतेजा महानुभावो ध्यानानां लाभी। तेन तत्र तक्षकदुहिता कपिला नाम आसादिता भार्या^अर्थं। स तत्र संरक्त^चित्तस् तया कन्यया सार्धं मैथुनम् अगच्छत्। स ऋषि (45) ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः। ऋद्धिपरिहीनः स विप्रतिसारी आत्मनो दुश्चरितं विगर्हमाणस् तस्यां
वेलायां सावित्रीं भाषते स्म। तद् यथा।
प्.45.1।.ओं भूर् भुवः स्वः। तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्।
प्.45.2।.इति हि ब्राह्मण अज्ञान^शोधनार्थम् इमम् एव मन्त्रं स ब्राह्मणो दिवा^रात्रं जपति स्म। इयं ब्राह्मणानां सावित्री। पूर्वजः प्रजापतिः
प्.45.3अब्।.जटिलस्तापसो भूत्वा गहनं वनम् आश्रितः।
प्.45.3च्द्।.गम्भीराव् अभासे तत्र ह्य् आत्मारामस् तपोरतः।
प्.45.4।.देवस्य श्रेष्ठकं भीजनम् अपनाभ्यो पविष्ट इमंमन्त्रम् अजपत्। इयं क्षत्रियाणां सावित्री।
प्.45.5।.ओं चित्रं हि वैश्यकन्यका। अथ सा कन्या अर्थतः प्रवीणा।
प्.46.1।.इयं वैश्यानां सावित्री। ओम् अतपः सुतपः। जीवेम शरदां शतं। पश्येम शरदां शतं। इयं शूद्राणां सावित्री। ओं भूर् भुवः स्वः।
प्.46.2अब्।.कामा हि लोके परमाः प्रजानां क्लेशप्रहाणे भूता अन्तरायाः।
प्.46.2च्द्।.तस्माद् भवन्तः प्रजहन्तु कामान् ततो +अतुलं प्राप्स्य् अथ ब्रह्म^लोकं।
प्.46.3।.इतीयं ब्राह्मण ब्रह्मणा सहापतिना सावित्री भाषिता, पूर्वकैश् च सम्यक् संबुद्धैर् अभ्यनुमोदिता।
%नक्षत्रवंशः आगोत्र 46
प्.46.4।.पठ भोस् त्रिशङ्को नक्षत्र^वंशं। अथ किं। भोः कथयतु भवान्। श्रूयतां भोः पुष्करसारिन् नक्षत्र^वंशं कथयिष्यामि। तद् यथा।
प्.46.5।.कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वस्ह्ः पुष्यः अश्लेषा मघा पूर्वफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूला पूर्वाषाढा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा शतभिषा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती अश्विनी भरणी । इत्य् एतानि भोः पुष्करसारिन्न् अष्टाविंशति^नक्षत्राणी।
प्.46.6।.कति^तारकाणि कति^संस्थानानि कति^मुहूर्त^योगानि किम्^आहाराणि किं^दैवतानि किं^गोत्राणि।
प्.46.7।.कृत्तिका भोः पुष्करसारिन् नक्षत्रं षट्तारं क्षुर^संस्थानं त्रिंशन्^मुहूर्त^योगं (47) दध्याहारम् अग्निदैवतं वैश्यायनीयं गोत्रेण। रोहिणी^नक्षत्रं पञ्च^तारकं शकटाकृति^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं मृगमांसाहारं प्रजापति^दैवतं भारद्वाजं गोत्रेण। मृगशिरा^नक्षत्रं त्रितारं मृगशीर्ष^संस्थानं त्रिंशन् मुहूर्त^योगं
फलमूलाहारं सोम^दैवतं मृगायणीयं गोत्रेण। आर्द्र^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं सर्पिर्मण्डाहारं सूर्य^दैवतं हारीतीतायनीयं गोत्रेण। पुनर्वसु^नक्षत्रं द्वितारं पद^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं मध्य्?आहारम् अदितिदैवतं वाशिष्ठं गोत्रेण। पुष्य^नक्षत्रं त्रितारं वर्धमान^संस्थानं त्रिशन्^मुहूर्त^योगं
मधु^मण्डाहारं बृहस्पति^दैवतम् औपमन्यवीयं गोत्रेण। अश्लेषा^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं पायस^भोजनं सर्प^दैवतं मैत्रायणीयं गोत्रेण।
प्.47.1।.इति^इमानि भोः पुष्करसारिन् सप्त^नक्षत्राणि पूर्व^द्वारकाणि। मघा^नक्षत्रं (48)पञ्च^तारं नदी^कुब्ज^संस्थानं त्रिशन्^मुहूर्त^योगं तिल^कृसराहारं पितृदैवतं पिङ्गलायनीयं गोत्रेण। पूर्वफल्गुनी^नक्षत्रं द्वितारं पदक^संस्थानं त्रिशन् मुहूर्त^योगं विल्वभोजनं भवदेवतं गौतमीयं गोत्रेण। उत्तरफल्गुनी^नक्षत्रं द्वितारं
पदक^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं गोधूममत्स्याहारम् अर्यमादैवतं कौशिकं गोत्रेण। हस्त^नक्षत्रं पञ्च^तारं हस्त^संस्थानं त्रिंशन्^मुहूर्त^योगं श्यामाकभोजनं सूर्य^दैवतं काश्यपं गोत्रेण। चित्रा^नक्षत्रम् एक^तारं तिलक^संस्थानं त्रिंशन्^मुहूर्त^योगं मुद्गकृसरघृत^पूपाहारं त्वष्टृदैवतं कात्यायनीयं गोत्रेण।
प्.48.1।.स्वाती^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं मुद्गकृसरफलाहारं वायुदैवतं कात्यायनीयं गोत्रेण। विशाखा^नक्षत्रं द्वितारं विषाण^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं तिल^पुष्पाहारम् इन्द्राग्निदैवतं शांखायनीयं गोत्रेण।
प्.49.1.इत्य् एतानि भोः पुष्करसारिन् सप्त^नक्षत्राणि दक्षिणाद्वारकाणि।
प्.49.2।.अनुराधा^नक्षत्रं चतुस्तारं रत्नाबली^संस्थानं त्रिशन्^मुहूर्त^योगं सुरामांसाहारं मित्रदैवतम् आलंबायनीयं गोत्रेण। ज्येष्ठा^नक्षत्रं त्रितारं यवमध्य^संस्थानं पञ्च^दश^मुहूर्त^योगं शालियवागुभोजनम् इन्द्रदैवतं दीर्घकात्यायनीयं गोत्रेण। मूल^नक्षत्रं सप्ततारं वृश्चिक^संस्थानं त्रिशन्^मुहूर्त^योगं मूलफलाहारं नैरृतिदैवतं
कात्यायनीयं गोत्रेण। पूर्वाषाढा^नक्षत्रं चतुस्तारं गोविक्रम^संस्थानं त्रिशन्^मुहूर्त^योगं न्यग्रोधकषायाहारं तोयदैवतं दर्भकात्यायनीयं गोत्रेण। उत्तराषाढा^नक्षत्रं चतुस्तारं गजविक्रम^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं मधु^लाजाहारं विश्व^दैवतं मौद्गलायनीयं गोत्रेण। अभिजिन्^नक्षत्रं त्रितारं गोशीर्स^संस्थानं षण्^मुहूर्त^योगं
(50) वायुआहारं ब्रह्म^दैवतं ब्रह्मावतीयं गोत्रेण। श्रवणा^नक्षत्रं त्रितारं यवमध्य^संस्थानं त्रिंशन्^मुहूर्त^योगं पक्षिमांसाहारं विष्णुदैवतं कात्यायनीयं गोत्रेण।
प्.50.1।.इत्य् एतानि भोः पुष्करसारिन् सप्त^नक्षत्राणि पश्चिमद्वारकाणि।
प्.50.2।.धनिष्ठा^नक्षत्रं चतुस्तारं शकुन^संस्थानं त्रिंशन्^मुहूर्त^योगं कुलत्थपूपाहारं वसुदैवतं कौण्डिन्यायनीयं गोत्रेण। शतभिषा^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं यवागुभोजनं वरुणदैवतं ताण्ड्यायनीयं गोत्रेण। पूर्वभाद्रपदा^नक्षत्रं द्वितारं पदक^संस्थानं त्रिंशन्^मुहूर्त^योगं मांस^रुधिराहारम्
अहिर्बुध्न्यदैवतं जातूकर्ण्यं गोत्रेण। उत्तरभाद्रपदा^नक्षत्रं द्वितारं पदक^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं (51)मांसाहारम् अर्यमादैवतं ध्यानद्राह्यायणीयं गोत्रेण। रेवती^नक्षत्रम् एक^तारं तिलक^संस्थानं त्रिशन्^मुहूर्त^योगं दध्याहारं पूषदैवतम् अष्टभगिनीयं गोत्रेण। अश्विनी^नक्षत्रं द्वितारं तुरगशीर्ष^संस्थानं
त्रिंशन्^मुहूर्त^योगं मधु^पायसभोजनं गन्धर्व^दैवतं मैत्रायाणीयं गोत्रेण। भरणी^नक्षत्रं त्रितारं भग^संस्थानं त्रिंशन्^मुहूर्त^योगं तिल^तण्डूलाहारं यमदैवतं भार्गवीयं गोत्रेण।
प्.51.1।.इत्य् एतानि भोः पुष्करसारिन् सप्त^नक्षत्राणि उत्तर^द्वारकाणि।
प्.51.2।.अमीषां भोः प्प्पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां षण्^नक्षत्राणि पञ्च^चत्वारिंशन्^मुहूर्त^योगानि। तद् यथा। रोहिणी पुनर्वसु उत्तरफल्गुनी विशाखा उत्तराषाढा उत्तरभाद्रपदा चेति।
प्.51.3।.पञ्च^नक्षत्राणि पञ्च^दश^मुहूर्त^योगानि। तद् यथा। आर्द्रा अश्लेषा स्वाती ज्येष्ठा शतभिषा चेति। एको +अभिजित् षण्^मुहूर्त^योगः। अवशिष्टानि त्रिंशन्^मुहूर्त^योगानि।
प्.52.1।.अमीषां भोः पुष्करसारिन् सप्तानां नक्षत्राणां पूर्व^द्वारिकाणां कृत्तिका प्रथमा नामाश्लेषा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणां दक्षिण^द्वारिकाणां मघा प्रथमा नाम विशाखा पश्चिमा नाम। अमीषां पश्चिमद्वारिकाणां सप्तानां नक्षत्राणाम् अनुराधा प्रथमा नाम श्रवणा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणाम् उत्तर^द्वारिकाणां धनिष्ठा प्रथमा
नाम भरणी पश्चिमा नाम।
प्.53.2।.अमीषां भोः पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां सप्त बलानि। कतमानि सप्त। यद् उत त्रीणि पूर्वाणि विशाखानुराधा पुनर्वस्ह्ः स्वातिश् च। त्रीणि दारुणानि। आर्द्रा अश्लेषा भरणी चेति। चत्वारि सम्माननीयानि। यद् उत त्रीणि उत्तराणि रोहिणी चेति। पञ्च मृदुकानि। श्रवणा धनिष्ठा शतभिषा ज्येष्ठा मूला इति। पञ्च धारणीयानि। हस्ता चित्रा अश्लेषा मघा
अभिजिच् चेति। चत्वारि क्षिप्र^करणीयानि। यद् उत कृत्तिका मृगशिरा पुष्या अश्विनी चेति।
%नक्षत्राणां योगः
प्.52.3।.अमीषां भोः पुष्करसारिन्न् अष्टविंशतीनां नक्षत्राणां त्रयो योगा भवन्ति। ऋषभानुसारी योगः। वत्सानुसारी योगः। युगनद्धो योगः। तत्र नक्षत्रं यदि पुरस्ताद् गच्छति चन्द्रश् च पृष्ठतः, अयम् उच्यते ऋषभानुसारी योग इति। यद् उत चन्द्रः पुरस्ताद् गच्छति नक्षत्रं च पृष्ठतः, तदा भवति वत्सानुसारी योगः। यदि पुनश् चन्द्रो नक्षत्रं च^उभौ
समौ युगपद् गच्छतः, तदायम् उच्यते युगनद्धो योग इति।
%ग्रहः 53
प्.53.1।.अथ खलु भोः पुष्करसारिन् ग्रहान् प्रवक्ष्यामि तच् छ्रूयतां। तद् यथा शुक्रो बृहस्पतिः शनैश्चरो बुधो +अङ्गारकः सूर्यस् ताराधिपतिश् चेति।
%रात्रिदिवसयोर् ह्रासवृद्धी 53
प्.53.2।.एवं विपरिवर्तमाने लोके नक्षत्रेषु प्रविभक्तेषु कथं रात्रिदिवसानां ह्रासो वृद्धिश् च भवति। तद् उच्यते।
प्.53.3।.हेमन्तानां द्वितीये मासि रोहिण्याम् अष्टम्यां द्वादश^मुहूर्तो दिवसो भवति। अष्टादश^मुहूर्ता रात्रिः। ग्रीष्माणां पश्चिमे मासे रोहिण्याम् अष्टम्याम् अष्टादश^मुहूर्तो दिवसो भवति। द्वादश^मुहूर्ता रात्रिः। वर्षाणां पश्चिमे मासे रोहिण्याम् अष्टम्यां चतुर्^दश^मुहूर्तो दिवसो भवति। षोडश^मुहूर्ता रात्रिः।
प्.53.4।.किं भोस् त्रिशङ्को रात्रिदिवसानां प्रस्थानं। दिवसानुदिवसं। किं पक्षस्य प्रस्थानं। (54)प्रतिपद्। किं संवत्सरस्य प्रस्थानं। पौषः। किम् ऋतूनां प्रस्थानं। प्रावृट्।
%^मुहूर्तनामानि 54
प्.54.1।.किं भोस् त्रिशङ्को क्षणस्य परिमाणं । किं लवस्य। किं मुहूर्तस्य।
प्.54.2।.तद् यथा भोः पुष्करसारिन् स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस् तत्क्षणः। विंशत्यधिकं तत्क्षणशतम् एकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमसम्बन्धेन त्रिंशन्^मुहूर्तम् एकं रात्रिदिवसम् अनुमीयते। तेषां मुहूर्तानाम् इमानि नामानि भवन्ति।
प्.54.3।.आदित्य उदयति षण्णवति^पौरुषायां छायायां चतुरोजा नाम मुहूर्तो भवति। षष्टिपौरुषायां छायायां श्वेतो नाम मुहूर्तो भवति। द्वादश^पौरुषायां छायायां समृद्धो नाम मुहूर्तो भवति। षट्पौरुषायां छायायां शरपथो नाम मुहूर्तो भवति।
प्.55.1।.पञ्च^पौरुषायां छायायाम् अतिसमृद्धो नाम मुहूर्तो भवत्। चतुः^पौरुषायां छायायाम् उद्गतो नाम मुहूर्तो भवति। त्रिपौरुषायां छायायां सुमुखो नाम मुहूर्तो भवति। स्थिते मध्याह्ने वज्रको नाम मुहूर्तो भवति। परिवृत्ते मध्याह्ने त्रिपुरुषायां छायायां रोहितो नाम मुहूर्तो भवति।
प्.55.2।.चतुः^पौरुषायां छायायां बलो नाम मुहूर्तो भवति। पञ्च^पौरुषायां छययं विजयो नाम मुहूर्तः। षट्पौरुषायां छायायां सर्व^रसो नाम मुहूर्तः। द्वादश^परुषायां छायायां वसुर् नाम मुहूर्तः। षष्टिपौरुषायां छायायां सुन्दरो नाम मुहूर्तः। अवतरमाण आदित्ये षण्णवति^पौरुषायां छायायां परभयो नाम मुहूर्तो भवति।
प्.55.3।.इत्य् एतानि दिवसस्य मुहूर्तानि।
प्.55.4।.अथ खलु भोः पुष्करसारिन् रात्र्या मुहूर्तानि व्याख्यास्यामि।अस्तंगत आदित्ये रौद्रो नाम मुहूर्तः। ततस् तारावचरो नाम मुहूर्तः। संयमो नाम मुहूर्तः (56) सांप्रैयको नाम मुहूर्तः। अनन्तो नाम मुहूर्तः। गर्दभा नाम मुहूर्तः। राक्षसो नाम मुहूर्तः। स्थिते +अर्धरात्रे +अवयवो नाम मुहूर्तः। अतिक्रान्ते +अर्धरात्रे ब्रह्मा नाम मुहूर्तः। दितिर् नाम
मुहूर्तः। आतपाग्निर् नाम मुहूर्त। अभिजिन् नाम मुहूर्तः। इत्य् एतानि रात्रेर् मुहूर्तनामानि। इति भोः पुष्करसारिन् इमानि त्रिशन् मुहूर्तानि यैर् अहो^रात्रं प्रज्ञायते।
प्.56.1।.तत्क्षणः क्षणो लवो मुहूर्तः । तत्र त्रिंशतितमो भागो मुहूर्तस्य लवः। षष्टितमो भागो लवस्य क्षणः। विंशत्युत्तरभागशतं क्षणस्य तत्क्षणः। तद् यथा स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस् तत्क्षणःः। विंशत्युत्तरक्षणशतं तत्क्षणस्यैकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमयोगेन
त्रिंशन्^मुहूर्तम् एकम् अहो^रात्रं। त्रिंशद् अहोरात्राण्य् एको मासः। द्वादश^मासाः संवत्सरः। चतुरोजाः श्वेतः समृद्धः शरपथो +अतिसमृद्ध उद्गतः (57) सुमुखो वज्रको रोहितो बलो विजयः सर्व^रसो वसुः सुन्दरः पर^भयः। रौद्रस् तारावचरः संयमः सांप्रैयको +अन्नन्तो गर्दभो राक्षसो +अवयवो ब्रह्मा दितिर् अर्को विधमनो आग्नेय आतपाग्निर् अभिजित्।
प्.57.1।.इति^इमानि मुहूर्तानां नामानि।
%काल^उत्पत्तिः 57
प्.57.2अब्।.कालोत्पत्तिम् अपि ते ब्राह्मण वक्ष्यामि शृणु।
प्.57.2च्द्।.कालस्य किं प्रमाणम् इति तद् उच्यते।
प्.57.3।.द्वावक्षिनिमेषाव् एको लवः। अस्टौ लवा एका काष्ठा। षोडशकाष्ठा एका कला। कलानां त्रिंशदेको नाडिका। तत्र द्वे नाडिक एको मुहूर्तः।
प्.57.4।.नाडिकायाः पुनः किं प्रमाणं। तद् उच्यते।
प्.57.5।.द्रोणं सलिलस्यैकं। तद्धरणतो द्वे पलशते भवतः। नालिकाछिद्रस्य किं प्रमाणं। सुवर्ण^मात्रं। उपरि चतुर्^अङ्गुला सुवर्ण^शलाका कर्तव्या। (58) वृत्तपरिमण्डला समान्ताच् चतुरस्रा आयता। यदा च^एवं शीर्येत तत् तोयं घटस्य तदैका नाडिका। एतेन नालिकाप्रमाणेन विभक्ते द्वे नाडिक एको मुहूर्तः। एतेन भो ब्राह्मण त्रिंशन् मुहूर्ताः। यै
रात्रिदिवसा अनुमीयन्त इति।
प्.58.1।.ततः षोडश निमेषा एका काष्ठा। षोडश काष्ठा एका कला। षष्टिकला एको मुहूर्तः। त्रिंशन्^मुहूर्ता एकम् अहोरात्रम्। त्रिंशद् अहोरात्राण्य् एको मासः। द्वादश^मासाः संवत्सरः।
प्.58.2।.एतेन पुनरक्षिनिमेषेण षोडशकोटयो +अष्टपञ्चाशच् च शत^सहस्राणि अष्टाशीति^सहस्राणि स एवं मापितः। तच् च ब्राह्मण कालोत्पत्तिर् व्याख्याता।
%क्रोशयोजन^उत्पत्तिः 58
प्.58.3।.सृणु ब्राह्मण क्रोशयोजनानाम् उत्पत्तिं। सप्त परमाणव एको +अणुर् भवति। सप्ताणवः सर्व^सूक्ष्मं दृस्यते। तद् एकं वातायनरजः। वातायनरजांसि सप्त, शश^करजः। सप्त शश^करजांस्य् एड^करजः। सप्त एड^करजांश्येकं गोरजः। सप्तगोरजांस्य् एका यूका। सप्तयूका एका लिक्षा। सप्तलिक्षा एको यवः। सप्त यवा एकाङ्गुलिः। द्वादशाङ्गुलयो वितस्तिः।
द्वे वितस्ती एको हस्तः। चत्वारो हस्ता एकं धनुः। धनुः^सहस्रम् एकः क्रोशः। चत्वारः क्रोशा एको मागधयोजनः। योजनस्य प्रमाणं पिण्डितां।
प्.59.1।.परमाणूनां कोटिशत^सहस्राणि चतुर्^विंशतिश् चैकोनत्रिंशत्कोटि^सहस्राणि द्वादश च शत^सहस्राणि। एवं मापितं योजनम् इति।
प्.59.2।.शृणु ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिं। तत्कथयतु भवान्।
प्.59.3।.द्वादश यवा माषकः। षोडश मासका एकः कर्षः।सुवर्णस्य परिमाणं पिण्डितम् इति। द्वे कोटी पञ्च^विंशतिश् च सहस्राणि पञ्च^शतान्य् अष्टौ च परमाणवः। एवं मापिता ब्राह्मण सुवर्णस्य परिमाण^उत्पत्तिः।
प्.59.4।.शृणु ब्राह्मण पलप्रमाणं। चतुःषष्टि^माषकाः पलं मागधकं। मागधकया तुलया पलस्य परिमाणं पिण्डितं। परमाणूनाम् अष्टकोटयः सप्तचत्वारिंशच् च शत^सहस्राणि सप्त च सहस्राणि द्वे शते +अशीतिश् च परमाणवः। एवं मापितं ब्राह्मण पलस्य परिमाणम् इति।
प्.59.5।.शृणु ब्राह्मण रस^परिमाणस्य^उत्पत्तिं। चतुर्^विंशति^पलानि मागधकः। प्रस्थः। तत् रस^परिमाणं। मागधकया तुलया प्रस्थास्य परिमाणं पिण्डितं। द्वे कोटिशते तिस्रश् च कोटय एकोनतिंशच् च शत^सहस्राणि चतुःसप्तति (60) सहस्राणि सप्त च शतानि विंशतिश् च परमाणवः। एवं मापिता ब्राह्मण रस^मानस्य^उत्पत्तिर् इति।
प्.60.1।.शृणु ब्राह्मण धान्य^परिमाणस्य^उत्पत्तिं। एकोनत्रिंशति^पलान्य् एक^कर्षेणोनानि मागधः प्रस्थः। मापितं धान्य^परिमाणं। मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितं। कोटिशतम् अष्टपञ्चाशच् च कोटयो द्विर् अशीतिश् च शत सहस्राणि एक^षष्टिश् च सहस्राणि पञ्च^शतानि त्रिंशच् च परमाणवः। एवं मापितं ब्राह्मण धान्यस्य परिमाणम् इति।
%नक्षत्रव्या^करणं
प्.60.2।.पठ भोस् त्रिशङ्को नक्षत्र^व्याकरनं नाम^अध्यायं। अथ खलु भो ब्राह्मण नक्षत्र^व्याकरनं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भवान्।
प्.61.1।.कृत्तिकासु जातो मानवो यशस्वी भवति। रोहिण्यां जातः सुभगो भवति भोगवांश् च। मृगशिरसि जातो युद्धार्थी भवति। आर्द्रायां जात उत्सो +अन्न^पानानां भवति। पुनर्वसौ जातः कृषिमान् भवति गोरक्षश् च। पुष्ये जातः शीलवान् भवति। अश्लेषायां जातः कामुको भवति। मघायां जातो मतिमान् भवति, महा^आत्मा च। पूर्वफल्गुन्यां जातो +अल्प^अयुष्को
भवति। उत्तरफल्गुन्यां जात उपवासशीलो भवति, स्वर्गपरायणश् च। हस्ते जातश् चौरो भवति। चित्रायां जातो नृत्यगीतकुशलो भवति, आभरण^विधिज्ञश् च। स्वात्यां जातो गणको भवति, गणक^महामात्रो वा। विशाखायां जातो राज^भटो भवति। अनुराधायां जातो वाणिजको भवति सार्थिकः। ज्येष्ठायां जातो +अल्प^अयुष्को भवति, अल्प^भोगश् च। मूले जातः
पुत्रवान् भवति, यशस्वी च। पूर्वाषाढायां जातो योगाचारो भवति। उत्तराषाढायां जातो भक्तेश्वरः कुलीनश् च भवति। अभिजिति जातः कीर्तिमान् पुरुषो भवति। श्रवणे जातो (62) राज^पूजितो भवति। धनिष्ठायां जातो धनाढ्यो भवति। शतभिषायां जातो मूलिको भवति। पूर्वभाद्रपदायां जातश् चौर^सेनापतिर् भवति। उत्तरभाद्रपदायां जातो गन्धिको भवति,
गन्धर्वश् च। रेवत्यां जातो नाविको भवति। अश्विन्यां जातो +अश्ववाणिजको भवति। भरण्यां जातो वध्यघातको भवति। अयं भोः पुष्करसारिन् नक्षत्र^व्याकरणो नाम।
%नक्षत्रनिर्देशः
प्.62.1।.पठ भोस् त्रिशङ्को नक्षत्र^निर्देशं नाम^अध्यायं। अथ भोः पुष्करसारिन् नक्षत्र^निर्देशं नाम^अध्यायं व्याख्यास्यामि तच् छ्रूयतां । कथयतु भवान्।
प्.62.2अब्।.कृत्तिकासु निविष्टं वै नगरं ज्वलति श्रिया।
प्.62.2च्द्।.प्रभूरत्नोज्वलं च^एव तन् नगरं विनिर्दिशेत्॥
प्.62.3अब्।.रोहिण्यां तु निविष्टं वै नगरं तद् विनिर्दिशेत्।
प्.62.3च्द्।.धार्मिको +अत्र जनो भूयात् प्रभूत^धन^सञ्चयः।
प्.62.3एf।.विद्या^प्रकृति^सम्पन्नः स्वदाराभिर् अतो +अपि च॥
प्.62.4अब्।.मृगशीर्षे निविष्टं तु स्त्रीभिर् गोभिर् धनैस् तथा।
प्.62.4च्द्।.माल्यभोगैश् च सङ्कीर्णम् अद्भुतैश् च पुरस्कृतं॥
प्.63.1अब्।.आर्द्रायां मत्स्य^मांसानि भक्ष्यभोज्यधनानि च।
प्.63.1च्द्।.भवन्ति क्रूरपुरुषा मूर्खप्रकृतयः पुरे॥
प्.63.2अब्।.पुनर्वसौ निविष्टे तु नगरं दीप्यते श्रिया।
प्.63.2च्द्।.प्रभूत^धन^धान्यं च भूत्वा वा^अपि विनश्यति॥
प्.63.3अब्।.स्रीमत्पुष्ये निविष्टे तु प्रजा दुष्टा प्रसीदति।
प्.63.3च्द्।.युक्ताः श्रिया च धर्मिष्ठास् तथिव चिरजीविनः॥
प्.63.4अब्।.तेजस्विनश् च दीर्घायुर्^धन^धान्य^रसान्विताः।
प्.63.4च्द्।.वनस्पतिस् तथा क्षिप्रं पुष्येत् तत्र पुनः पुनः॥
प्.63.5अब्।.अश्लेषायां निविष्टे तु दुर्भगाः कलह^प्रियाः।
प्.63.5च्द्।.दुःशीला दुःखभाजश् च निवसन्ति नराधमाः॥
प्.63.6अब्।.मघायां च निविष्टे तु विद्यावन्तो महा^धनाः।
प्.63.6च्द्।.स्वदारा^अभिरता मर्त्या जायन्ते सुपराक्रमाः॥
प्.64.1अब्।.फल्गुन्यां तु स्त्रियो माल्यं भोजनाच्छादनं शुभं।
प्.64.1च्द्।.गन्धोपेतानि धन्यानि निविष्टे नगरे भवेत्॥
प्.64.2अब्।.उत्तरायां तु फाल्गुन्यां धान्यानि च धनानि च।
प्.64.2च्द्।.मूर्खा जना जिताः स्त्रीभिर् निविष्टे नगरे भवेत्॥
प्.64.3अब्।.हस्ते च विनिविष्टे तु विद्यावन्तो महा^धनाः।
प्.64.3च्द्।.परस्परं च रुचितं शयनं नगरे भवेत्॥
प्.64.4अब्।.चित्रायां च निविष्टे तु स्त्री^जिताः सर्व^मानवाः।
प्.64.4च्द्।.श्रीमत्^कान्तं च नगरं ज्वलन्तं तद् विनिर्दिशेत्॥
प्.64.5अब्।.स्वात्यां पुरे निविष्टे तु प्रभूत^धन^सञ्चयाः।
प्.64.5च्द्।.लुब्धाः क्रूराश् च मूर्खाश् च प्रभूता नगरे भवेत्॥
प्.64.6अब्।.विशाखायां निविष्टं तु नगरं ज्वलति श्रिया।
प्.64.6च्द्।.यायजूकजनाकीर्णं शस्त्रान्तं च विनिर्दिशेद्॥
प्.64.7अब्।.अनुराधानिविष्टे तु धर्म^शीला जितेन्द्रियाः।
प्.64.7च्द्।.स्वदारनिरताः पुण्या जपहोमपरायणाः॥
प्.65.1अब्।.ज्येष्ठायां सन्निविष्टं तु बहु^रत्नधनान्वितैः।
प्.65.1च्द्।.सत्त्वैर् वेद^विदैः पूर्णं शश्वत्समभिवर्धते॥
प्.65.2अब्।.मूलेन सनिविष्टं तु पुरं धान्य^धनान्वितं।
प्.65.2च्द्।.दुःशीलजन^सङ्कीर्णं पांसुना च विनश्यति॥
प्.65.3अब्।.पूर्वाषाढानिविष्टं तु पुरं स्याद् धन^धान्य^भाक्।
प्.65.3च्द्।.लुब्धाः क्रूराश् च मूर्खाश् च निवसन्ति नराधमाः॥
प्.65.4अब्।.निविष्टे तूत्तरायां च धन^धान्य^समुच्चयः।
प्.65.4च्द्।.विद्याप्रकृतिसम्पन्नो जनश् च कलह^प्रियः॥
प्.65.5अब्।.अभिजिति निविष्टे तु नगरे तत्र मोदिताः।
प्.65.5च्द्।.नराः सर्वे सदा हृष्टाः परस्परानुरागिणः॥
प्.65.6अब्।.श्रवणायां निविष्टं तु पुरं धान्य^धनान्वितं।
प्.65.6च्द्।.अरोगिजन^भूयिष्ठसहितं तद् विनिर्दिशेत्॥
प्.65.7अब्।.धनिष्ठायां निविष्टं तु स्त्री^जितं पुरम् आदिशेत्।
प्.65.7च्द्।.प्रभूत^वस्त्रमाल्यं च काम^भोग^विविर्जितम्॥
प्.65.8अब्।.पुरे शतभिषा^युक्त मूर्खशाठ्य^प्रिया जहाः।
प्.65.8च्द्।.स्त्रीषु पानेषु संसक्ताः सलिलेन विनश्यति॥
प्.66.1अब्।.पुरे प्रोष्ठपदाध्यक्षे नरास् तत्र सुख^प्रियाः।
प्.66.1च्द्।.परोपतापिनो मूर्खा मानकामविवर्जिताः॥
प्.66.2अब्।.उत्तरायां निविष्टे तु शश्वद्वृद्धिर् अनुत्तरा।
प्.66.2च्द्।.पूर्णं च धन^धान्याभ्यां रत्नाढ्यं च विनिर्दिशेत्॥
प्.66.3अब्।.पुरे निविष्टे रैवत्यां सुन्दरी जनता भवेत्।
प्.66.3च्द्।.खरोष्ट्रं च^एव गावश् च प्रभूत^धन^धान्यता॥
प्.66.4अब्।.अश्विन्यां विनिविष्टं तु नगरं शिवम् आदिशेत्।
प्.66.4च्द्।.अरोगिजन^सम्पूर्णं दर्शनीयजनाकुलम्॥
प्.66.5अब्।.भरण्यां सन्निविष्टे तु दुर्भगाः कलह^प्रियाः।
प्.66.5च्द्।.दुःशीला दुःखभाजश् च वसन्ति पुरुषाधमाः॥
प्.66.6अब्।.पुराणि राष्ट्रणि तथा गृहाणि नक्षत्र^योगं प्रसमीक्ष्य विद्वान्।
प्.66.6च्द्।.इष्टे प्रशस्ते च निवेशयेत् तु पूर्वे च जन्मे +अधिगतं मयेदं॥
प्.67.1।.अयं भोः पुष्करसारिन् नक्षत्र^निर्देशो नाम^अध्यायः।
%नक्षत्राणां स्थान^निर्देशः
प्.67.2।.अथ खलु भोः पुष्करसारिन्न् अष्टाविंशतीनां(28åह्) नक्षत्राणां स्थान^निर्देशं नाम^अध्यायं प्रवक्ष्यामि। एतच् छ्रूयतां।
प्.67.3।.कथयतु भगवान्।
प्.67.4।.कृत्तिका भोः पुष्करसारिन् नक्षत्रं कलिङ्ग^मगधानां । रोहिणी सर्व^प्रजायाः। मृगशिरा विदेहानां राजोपसेवकानां च। एवम् आर्द्रा क्षत्रियाणां ब्राह्मणानं च। पुनर्वसुः सौपर्णानां। पुष्य^नक्षत्रं सर्वेषाम् अवदात^वदात^वसनानां। राज^पदसेवकानां च। अश्लेषा नागानां हैमवतानां च। मघा^नक्षत्रं गौडिकानां। पूर्वफल्गुनी चौराणां। उत्तरफल्गुनी
अवन्तीनां। हस्ता सौराष्ट्रिकाणां। चित्रा पक्षिणां द्विपदानां। स्वाती सर्वेषां प्रव्रज्यासमापन्नानां। विशाखा औदकानां। अनुराधा वाणिजकानां शाकटिकानां च। ज्येष्ठा दौवालिकानां। (68) मूला पथिकानां। पूर्वाषाढा वाह्लीकानां च। उत्तराषाढा काम्बोजानां। अभिजित् सर्वेषां दक्षिणापथिकानां ताम्रपर्णिकानां च। श्रवणा घादकानां चौराणां च। धनिष्ठा कुरु^पाञ्चालानां।
शतभिषा मौलिकानाम् आर्थवणिकानां च। पूर्वभाद्रपदा गन्धिकानां यवन^काम्बोजानां च। उत्तरभाद्रपदा गन्धर्वाणां। रेवती नाविकानां च। अश्विनी अश्ववाणिजानां च। भरणी भद्रपदकर्मणां भद्रकायाकानां च।
प्.68.1।.अयं भोः पुष्करसारिन् नक्षत्राणां स्थान^निर्देश^व्याकरणो नाम^अध्यायः।
%ऋतुवर्षः
प्.68.2।.पठ भोस् त्रिशङ्को ऋतुवर्षं नाम^अध्यायं। तद् अहं वक्ष्ये श्रूयतां। कथयतु भगवान्।
प्.68.3।.कृत्तिकासु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। वर्षो दश^रात्रिकः। श्रवणायुक्तप्रोष्ठपदायाम् अग्नोदको वर्षारात्रो भवति। पश्चाद् वर्षं संजनयति। हेमन्ते ग्रीष्मे ग्रीणि च^अत्र (69) भय^प्रग्रहाणि भवन्ति। अग्नि^भयं शस्त्र^भयं च^उदक^भयं च भवति। उक्तं कृत्तिकासु।
प्.69.1।.रोहिण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एष च वर्षारात्रः सारोपरोधः सस्यं च संपादयति। द्वौ च^अत्र रोगौ प्रबलौ भवतः। कुक्षिरोगश् चक्षूरोगश् च। चौर^बहुलाश् च^अत्र दिशो भवन्ति। उक्तं च रोहिण्यां।
प्.69.2।.मृगशिरसि ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। सारोपरोधो वर्षारात्रः। पश्चाद् वर्षं संजनयति। निक्षिप्तशस्त्राश् च^अत्र (70) राजानो भवन्ति। क्षेमिणः सुनीतिकाश् च दिशो भवन्ति। मुदिताश् च^अत्र जनपदा भवन्ति। उक्तं मृगशिरसि।
प्.70.1।.आर्द्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टादशाढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। निधयश् च रक्षयितव्याः। चौर^बहुलाश् च^अत्र दिशो भवन्ति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। त्रयश् च^अत्र रोगाः प्रबला भवन्ति। ज्वरः श्वासो गलग्रहश् च। बालानां दारकदारिकाणां च मरणं
भवति। इत्य् उक्तम् आर्द्रायां।
प्.70.2।.पुनर्वसौ ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति। नवत्याढकानि प्रवर्षति। महा^मेघान् उत्पादयति। आषाढायां प्रविष्टायां मृदूनि प्रवर्षति। अनन्तरं च निरन्तरेण प्रवर्षति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। उक्तं पुनर्वसौ।
प्.71.1।.पुष्ये ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति द्वात्रिंशदाढकानि प्रवर्षति। अत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। व्यक्तं प्रधान^वर्षाणि भवन्ति। सस्यं च निष्पादयति। ब्राह्मण^क्षत्रियाणां च विरोधो भवति। दंष्ट्रिणश् च^अत्र प्रबला भवन्ति। तत्र त्रयो रोगाश् च भवन्ति। गण्डाः पिटकाः पामानि च । इत्य् उक्तं
पुष्ये।
प्.71.2।.अश्लेषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। विषमाश् च वायवो वान्ति। संविग्नाश् च^अत्र ज्ञानिनो राजानश् च भवन्ति। एषो वर्षः सर्व^सस्यानि सम्पादयति। जायापतिकानां राजामात्यानां च विरोधो भवति। उक्तम् अश्लेषायां।
प्.71.3।.मघायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि (72) प्रवर्षति। एषो वर्षः सर्व^सस्यानि सम्पादयति। मृगपक्षिपशुमनुष्याणां च^अत्र गर्भा विनश्यन्ति। जन^मरणं च^अत्र भविष्यति^इति। उक्तं मघायां।
प्.72.1।.पूर्वफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। एषो वर्षः सर्व^सस्यानि सम्पादयति। तच् च सस्यं जनयित्वा पर^चक्र^पीडिता मनुष्या न सुखेनोपभुञ्जते। पशूनां मणुष्याणां च^अत्र गर्भाः सुखिनो भवन्ति। उक्तं पूर्वफल्गुन्यां।
प्.72.2।.उत्तरफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि प्रवर्षति। एषो वर्षः सर्व^सस्यानि च सम्पादयति। निक्षिप्तशस्त्राश् च^अत्र राजानो भवन्ति। ब्रह्म^क्षत्रिययोश् च विरोधो भवति। क्षिप्रं च अनीतिकाः प्रजा विनश्यन्ति। च^उक्तम् उत्तरफल्गुन्यां।
प्.72.3।.हस्ते ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकोनपञ्चाशदाढकानि (73) प्रवर्षति। देवश् च तद् यथा परिक्षिपति। पतितानि च सस्यानि जनस्यारसाग्राणि अनुदग्राणि अल्प^साराण्य् अल्पोदकानि। दुर्भिक्षश् च^अत्र भविष्यति। उक्तं हस्ते।
प्.73.1।.चित्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। सारोपरोधस् ततः पश्चाद् वर्षं संजनयति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। मुदिताश् च^अत्र जनपदा भवन्ति। उक्तं चित्रायां।
प्.73.2।.स्वात्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। चौराश् च^अत्र बलवत्तरा भवन्ति। उक्तं स्वात्यां।
प्.73.3।.विशाखायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि (74) प्रवर्षति। एषा वर्षः सर्व^सस्यानि सम्पादयति। राजानश् च^अत्र छिद्र^युक्ता भवन्ति। अग्निदाहाश् च^अत्र प्रबला भवन्ति। दंष्ट्रिणश् च^अत्र बलवन्तो +अपि क्षयं गच्छन्ति। उक्तं विशाखायां।
प्.74.1।.अनुराधायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति। एषो वर्षः सस्यं सम्पादयति। मित्राणि च^अत्र दृढानि भवन्ति। उक्तम् अनुराधायां।
प्.74.2।.ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि प्रवर्षति। तत्र कृषि^कर्मान् तानि प्रतिसंहर्तव्यानि। युगवरत्राणि वर्जयितव्यानि। स्वधान्यानि उपसंहर्तव्यानि। अग्नयः प्रतिसंहर्तव्याः। लाङ्गलानि प्रतिसंहर्तव्यानि। अवश्यम् अनेन जनपदेन विनष्टव्यं भवति। पर^चक्र^पीडितो भवति। उक्तं ज्येष्ठायां।
प्.74.3।.मूले ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुषष्ट्याढकानि (75) प्रवर्षति। एषो वर्षः सस्यं सम्पादयति। चौर^बहुलाश् च^अत्र दिशो भवन्ति। त्रयश् च^अत्र व्याधयो बलवन्तो भवन्ति। वात^गण्डः पार्श्वशूलम् अक्षिरोगश् च। पुष्प^फलानि च^अत्र समृद्धानि भवन्ति। निक्षिप्तशस्त्राश् च^अत्र राजानो भवन्ति। उक्तं मूले।
प्.75.1।.पूर्वस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति। द्वौ च^अत्र ग्राहौ भवतः । प्रोष्ठपदे वा +अश्वयुजौ वा पक्षे। एषो वर्षः सर्व^सस्यानि सम्पादयति। द्वौ च^अत्र रोगौ प्रबलौ भवतः। कुक्षिरोगो +अक्षिरोगश् च । उक्तं पूर्वाषाढायां।
प्.75.2।.उत्तरस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। तत्र स्थलानि कृषि^कर्तव्यानि। निम्नानि परिवर्जयितव्यानि। महा^स्रोतांसि च^अत्र प्रवहन्ति। अग्रोदका च^अत्र वर्षा भवति। सर्व^सस्यानि निष्पादयति। त्रयश् च^अत्र रोगाः प्रबला भवन्ति। गण्डः कच्छः कण्ठ^रोग इति। उक्तम् उत्तराषाढायाम्॥
प्.75.3।.अभिजिति ग्रीष्माणां पश्चिमे मासे यद्य् अत्र प्रवर्षति चतुःषष्ट्य्^आढाकानि (76) प्रवर्षति। मण्डलवर्षं च देवः प्रवर्षति। पश्चाद् वर्षः सस्यं जनयति। औदकानां भूतानाम् उत्सर्गो भवति। उक्तम् अभिजिति।
प्.76.1।.श्रवणे तु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुष्षष्ट्याढकानि प्रवर्षति। मण्डलवर्षं च देवो वर्षति। पश्चाद् वर्षा सस्यं सम्पादयति। औदकानां भूतानाम् उत्सर्गो भवति। व्याधि^बहुलाश् च नरा भवन्ति। राजानश् च तीव्र^दण्डा भवन्ति। उक्तं श्रवणे।
प्.76.2।.धनिष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^पञ्चाशदाढकानि प्रवर्षति। विभक्ताश् च^अत्र वर्षा भवन्ति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। दुर्मुखो रात्रौ वर्षो भवति। सस्यानि सम्पादयति। एकश् च^अत्र रोगो भवति। गण्ड^विकारः। शस्त्र^समादानाश् च राजानो भवन्ति। उक्तं धनिष्ठायां।
प्.76.3।.शतभिषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि (77) प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषो वर्षः सर्व^सस्यानि सम्पादयति। चक्र^समारूढा जनपदा भवन्ति। मनुष्या दारकदारिकाश् च स्कन्धे कृत्वा देश^अन्तरं गच्छन्ति। उक्तं शतभिषायं।
प्.77.1।.पूर्वस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। वर्षामुखे च^अत्र एकोनविंशति रात्रिको +अवग्रहो भवति। पुष्प^सस्यं च नाशयति। एताश् च वर्षा बहु^चौरा भवन्ति। द्वौ च^अत्र महा^व्याधी भवतः। प्रथमं पित्ततापज्वरो भवति। पश्चाद् बलवान् महा^ग्रहो भवति। मर्त्यानां नारीणां
च मरणं भवति। उक्तं पूर्वभाद्रपदायां।
प्.77.2।.उत्तरस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। महा^स्रोतांसि प्रवहन्ति। ग्राम^नगर^निगमाः स्रोतसा उह्यन्ते। चत्वारश् च^अत्र व्याधयः प्रबला भवन्ति। तद् यथा कुक्षिरोगो +अक्षिरोगः (78) काशो ज्वरश् चेति। बालानां दारकदारिकाणां मरणां भवति। अत्र स्थलानि कृषि^कर्तव्यानि। निम्नानि
परिवर्जयितव्यानि। एताश् च वर्षाः पुष्पाणि फलानि च सम्पादयन्ति। उक्तम् उत्तरभाद्रपदायां।
प्.78.1।.रेवत्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^षष्ट्याढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषा परिभुञ्जते। निक्षिप्तशस्त्र^दण्डाश् च राजानो भवन्ति। अनुद्विग्नाश् च जनपदा भवन्ति। उद्विग्नाश् च दानपतयो भवन्ति। देव^नक्षत्र^समायुक्ताश् च जनपदा भवन्ति। मित्राणि समायुक्तानि भवन्ति।
उक्तं रेवत्यां।
प्.78.2।.अश्विन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टचत्वारिंशदाढकानि प्रवर्षति। यच् च मध्ये वर्षा भवति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषा वर्षा सर्व^सस्यानि सम्पादयति। (79) भय^समायुक्ताश् च^अत्र जनपदा भवन्ति। चौराश् च प्रबला भवन्ति। उक्तम् अश्विन्यां।
प्.79.1।.भरण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। तत्र स्थलानि कृषि^कर्तव्यानि। निम्नानि परिवर्जयितव्यानि। दुर्भिक्षस् च^अत्र भवति। जरामरणं जनानां भवति। राजानश् च^अत्र अन्योन्यघातका भवन्ति। पुत्रपौत्राणां च कलहो भवति। उक्तं भरण्यां।
प्.79.2।.अयं घोः पुष्करसारिन् नक्षत्र^र्तुवर्षाध्यायः॥
% राहुग्रहे फलविपाकः
प्.79.3।.अमीषां भोः पुष्करसारिन्न् अश्टाविंशतीनां नक्षत्राणां राहुग्रहे फलविपाकं व्याख्यास्यामि।
प्.79.4.।कृत्तिकासु भोः पुष्करसारिन् यदि चन्द्र^ग्रहो भवति कलिङ्गमगधानाम् उपपीडा भवति। यदि रोहिण्यां चन्द्र^ग्रहो भवति प्रजानाम् उपपीडा भवति। यदि मृगशिरसि चन्द्र^ग्रहो भवति विदेहानां जनपदानाम् उपपीडा भवति। राजोपसेवकनां च। एवम् आर्द्रायां पुनर्वसौ पुष्ये च वक्तव्यं। अश्लेषायां यदि चन्द्र^ग्रहो भवति नागानां हैमवतानां
च पीडा भवति। यदि मघासु चन्द्र^ग्रहो भवति गौडिकानाम् उपपीडा भवति। यदि पूर्वफल्गुन्यां सोमो गृह्यते चौराणाम् उपपीडा (80) भवति। यद्य् उत्तरफल्गुन्यां सोमो गृह्यते +अवन्तीनाम् उपपीडा भवति। यदि हस्तेषु सोमो गृह्यते सौराष्ट्रिकाणाम् उपपीडा भवति। यदि चित्रायां सोमो गृह्यते पक्षिणां द्विपदानां च पीडा भवति। यदि स्वात्यां सोमो गृह्यते
सर्वेषां प्रव्रज्यासमापन्नानाम् उपपीडा भवति। यद्य् अनुराधासु सोमो गृह्यते वणिजानाम् उपपीडा भवति शाकटिकानां च। यदि ज्येष्ठायां सोमो गृह्यते दौवालिकानां पीडा भवति। यदि मूले सोमो गृह्यते +अध्वगानां पीडा भवति। यदि पूर्वाषाढायां सोमो गृह्यते +अवन्तीनां पीडा भवति। यद्य् उत्तराषाढायां सोमो गृह्यते काम्बोजकानां पीडा भवति। बाह्लीकानां च।
यद्य् अभिजिति सोमो गृह्यते दक्षिणापथिकानां पीडा भवति। ताम्रपर्णिकानां च। यदि श्रवणेषु सोमो गृह्यते चौराणां घातकानां च^उपपीडा भवति। यदि धनिष्ठायां सोमो गृह्यते कुरुपाञ्चालनां पीडा भवति। यदि शतभिषायां सोमो गृह्यते मौलिकानाम् आथर्वणिकानां च पीडा भवति। यदि पूर्वभाद्रपदायां सोमो गृह्यते गान्धिकानां यवन^काम्बोजकानां च पीडा
भवति। यद्य् उत्तरभाद्रपदायां सोमो गृह्यते (81) गन्धर्वाणां पीडा भवति। यदि रेवत्यां सोमो गृह्यते नाविकानां पीडा भवति। यद्य् अश्च्विणिजानां पीडा भवति। यदि भरण्यां सोमो गृह्यते भरुकच्छानां पीडा भवति।
प्.81.1।.एवं भोः पुष्करसारिन् नक्षत्रे चन्द्र^ग्रहो भवति तस्य तस्य देशस्य पीडा भवति। इत्य् उक्तो राहुग्रहफलविपाकाध्यायः।
% नक्षत्रकर्म^निर्देशः
प्.81.2।.प्रति^नक्षत्र^वंशशास्त्रे यथोक्तं कर्म तच् छृणु।
प्.81.3अब्।.उच्यमानम् इदं विप्र;ऋषीणां वचनं यथा।
प्.81.3च्द्।.षट्तारां कृत्तिकां विद्याद् आश्रयं तासु कारयेत्।
प्.81.3एf।.अग्न्याधानं पाकयज्ञः समृद्धिप्रसवश् च यः॥
प्.81.4अब्।.सर्पिर्विलोडयेत् तत्र गवां वेश्म च कारयेत्।
प्.81.4च्द्।.अजैडकाश् च क्रेतव्या गवां च वृषम् उत्सृजेत्॥
प्.81.5अब्।.अश्मसारमयं भाण्डं सर्वम् अत्र तु कारयेत्।
प्.81.5च्द्।.हिरण्यकारकर्म^अन्तमिष्व् अस्त्रं च^उपकारयेत्॥
प्.81.6अब्।.मेतृको मापयेद् अत्र कुटिकाग्निनिवेशनं।
प्.81.6च्द्।.पीतलोहित^पुष्पाणां बीजान्य् अत्र तु घापयेत्॥
प्.82.1अब्।.गृहं च मापयेत् अत्र तथा +अवासं प्रकल्पयेत्।
प्.82.1च्द्।.नवं च छादयेद् वस्त्रं क्रयणं न^अत्र कारयेत्॥
प्.82.2अब्।.क्रूरकर्माणि सिध्यन्ति युद्धसंरोधबन्धनम्।
प्.82.2च्द्।.परपीडाम् अथात्रैव विद्वान् नैव प्रयोजयेत्॥
प्.82.3अब्।.शस्त्राणि क्षुरकर्माणि सर्वाण्य् अत्र तु कारयेत्।
प्.82.3च्द्।.तेजसानि च भाण्डानि कारयेच् च क्रीणीत च॥
प्.82.4अब्।.आयुष्यं च शिरः^स्नानां स्त्रीणां विष्कम्भणानि च।
प्.82.4च्द्।.प्रवर्षणं चेद् देवस्य न^अत्र वैरं प्रशाम्यति॥
प्.82.5अब्।.क्रोधनो हर्षणः शूरस् तेजस्वी साहस^प्रियः।
प्.82.5च्द्।.आयुष्मांश् च यशस्वी च यज्ञ^शीलो +अत्र जायते॥कृत्तिकासु
प्.82.6अब्।.सर्वं कृषि^पदं कर्म रोहिण्यां संप्रयोजयेत्।
प्.82.6च्द्।.क्षेत्रवस्तुविहारांश् च नवं वेश्म च कारयेत्॥
प्.82.7अब्।.प्रयोजयेच् चक्रान् वारान् दासांश् च^एव गृहे पशून्।
प्.82.7च्द्।.वापयेत् सर्वबीजानि ध्रुवं वासांसि कारयेत्॥
प्.83.1अब्।.ऋणं न दद्यात् तत्र^एव वैरम् अत्र तु वर्धते।
प्.83.1च्द्।.संग्रामं च सुरायोगं द्वयम् एव विवर्जयेत्॥
प्.83.2अब्।.प्रवर्षणं च देवस्य जन्म च^अत्र प्रशस्यते।
प्.83.2च्द्।.सानुक्रोशः क्षमायुक्तः स्त्री^कामो भक्षलोलुपः।
प्.83.2एf।.आयुष्मान् पशुमान् धन्यो महा^भोगो +अत्र जायते॥रोहिण्यां॥
प्.83.3अब्।.सौम्यं मृगशिरो विद्याद् ऋजु तिस्रश् च तारकाः।
प्.83.3च्द्।.मृदूनि यानि कर्माणि तानि सर्वाणि कारयेत्।
प्.83.3एf।.यानि कर्माणि रोहिण्यां तानि सर्वाणि कारयेत्॥
प्.83.3अब्।.सक्षीरान् वापयेद् वृक्षान् बीजानि क्षीरवन्ति च।
प्.83.3च्द्।.राज^प्रासादवलभीछत्राण्य् अपि च कारयेत्॥
प्.83.4अब्।.सर्वकर्मकथाः कुर्याच् चर्यावासान् न कारयेत्।
प्.83.4च्द्।.उष्ट्रांश् च बलीवर्दांश् च दमयेद् अपि कृष्टये॥
प्.83.5अब्।.आच्छादयेन् नवं वासश् च^अलङ्कारं च कारयेत्।
प्.83.5च्द्।.द्विजातीनां तु कर्माणि सर्वाण्य् एवात्र कारयेत्॥
प्.83.6अब्।.प्रवर्षणं च देवस्य सुवृष्टिं च^अत्र निर्दिशेत्।
प्.83.6च्द्।.स्वप्नशीलस् तथा त्रासी मेधावी स च जायते॥मृगशिरसि॥
प्.84.1अब्।.आर्द्रायां मृगयेद् अर्थान् भद्रं कर्म च कारयेत्।
प्.84.1च्द्।.क्रूरकर्माणि सिध्यन्ति तानि विद्वान् विवर्जयेत्॥
प्.84.2अब्।.उदपान^परीखांश् च तडागान्य् अत्र कारयेत्।
प्.84.2च्द्।.ऊहेत(ऊहयेत्) प्रथमां वृष्टिं विक्रीणीयाच् च न^अत्र गां।
प्.84.2एf।.तिल^पीडानि कर्माणि शौण्डिकानां तथापणं॥
प्.84.3अब्।.पीडयेद् इक्षुदण्डानि; इक्षुबीजानि वापयेत्।
प्.84.3च्द्।.प्रवर्षणं च देवस्य विद्याद् बहु^परिस्रवं।
प्.84.3एf।.क्रोधनो मृगयाशीलो माम्सकामो +अत्र जायते॥आर्द्रायां॥
प्.84.4अब्।.पुनर्वसौ तु युक्ते +अत्र कुर्याद् वै व्रत^धारणं।
प्.84.4च्द्।.गोदानं च^उपनायनं सर्वम् अत्र प्रसिध्यति॥
प्.84.5अब्।.प्रजायमानां प्रमदां गृहीत्वा गृहम् आनयेत्।
प्.84.5च्द्।.पुनः पुनर् यदीच्छेत तत्र कर्माणि कारयेत्॥
प्.85.1अब्।.चिकित्सनं न कुर्वीत यदीच्छेन् न पराभवं।
प्.85.1च्द्।.प्रवर्षणं च देवस्य जन्म च^अत्र प्रशस्यते॥
प्.85.2अब्।.अलीलश् च^अत्र जायेत स्त्री^लोलश् च^अपि मानवः।
प्.85.2च्द्।.चित्र^शीलश् च नैकत्रार्पितचित्तः स; उच्यते॥पुनर्वसौ॥
प्.85.3अब्।.धन्यं यशस्यम् आयुष्यं पुष्ये नित्यं प्रयोजयेत्।
प्.85.3च्द्।.सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥
प्.85.4अब्।.राजामात्यं प्रयुञ्जीत शुश्रूषां विनयं चरेत्।
प्.85.4च्द्।.राजानम् अभिपिञ्चेद् च; अलंकुर्यात् स्वकां तनु॥
प्.85.5अब्।.श्मश्रुकर्माणि कुर्याच् च वपनं नखलोमतः।
प्.85.5च्द्।.पुरोहितं च कुर्वीत ध्वज^अग्रं च प्रकारयेत्॥
प्.85.6अब्।.प्रवर्षणं च देवस्य मन्दवर्षं समादिशेत्।
प्.85.6च्द्।.न च रोगो न चौरश् च क्षेमं च^अत्र सदा भवेत्॥
प्.85.7अब्।.पुष्येण नित्य^युक्तः सन् सर्वकर्माणि साधयेत्।
प्.85.7च्द्।.वैरेणात्रोपनाहैश् च ये जनास् तान् विवर्जयेत्।
प्.85.7एf।.आयुष्मांश् च यशस्वी च महा^भोगः प्रजायते॥पुष्ये॥
प्.86.1अब्।.सिध्यते दारुणं कर्म; अश्लेषायां च कारयेत्।
प्.86.1च्द्।.कुर्याद् आभरणान्य् अत्र प्राकारम् उपकल्पयेत्॥
प्.86.2अब्।.देहबन्धं नदी^बन्धं सन्धिकर्म च कारयेत्।
प्.86.2च्द्।.प्रभूत^दंशमशकं वर्षं मन्दं च वर्षति।
प्.86.2एf।.क्रोधनः स्वप्नशीलश् च कुहकश् च^अत्र जायते॥अश्लेषायां॥
प्.86.3अब्।.मघासु सर्वधान्यानि वापयेत् संहरेद् अपि।
प्.86.3च्द्।.संघातकर्म कुर्वीत सुमुखं च^अत्र कारयेत्॥
प्.86.4अब्।.कोष्ठ^आगाराणि कुर्वीत फलं च^अत्र निवेशयत्।
प्.86.4च्द्।.सर्वदा पितृदेवेभ्यः श्राद्धं चैव^अत्र कारयेत्॥
प्.86.5अब्।.सस्यानां बहुली^भावो यदि देवो +अत्र वर्षति।
प्.86.5च्द्।.सुहृच् च द्वारिकश् च^एव रस^कामश् च जायते।
प्.86.5एf।.आयुष्मान् बहु^पुत्रश् च स्त्री^कामो भक्त^लोलुपः॥
प्.86.6अब्।.संग्रामं जीयते तत्र यदि पूर्वं प्रवर्तते।
प्.86.6च्द्।.दारुणानि च कर्माणि तानि विद्वान् विवर्जयेत्॥मघासु॥
प्.87.1अब्।.फल्गुनीषु च पूर्वासु सौभाग्यार्थानि कारयेत्।
प्.87.1च्द्।.विशेषाद् आमलक्यादि फलानाम् उपकारयेत्॥
प्.87.2अब्।.कुमारीमङ्गलार्थानि स्नापनानि च कारयेत्।
प्.87.2च्द्।.कन्या^प्रवहनार्थाय विहारं च^एव कारयेत्॥
प्.87.3अब्।.वेश्मानि कारयेत् तत्र वश्य(वैश्य)म् अत्र प्रयोजयेत्।
प्.87.3च्द्।.भागं ये च^उपजीवन्ति तेषां कर्म प्रयोजयेत्॥
प्.87.4अब्।.अव्यक्तकेशो +अकेशः सुभगश् च^अत्र जायते।
प्.87.4च्द्।.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्।
प्.87.4एf।.नष्टं विद्धं कृतं च^अपि न तद् अस्ति^इति निर्दिशेत्॥पूर्वफल्गुन्यां॥
प्.87.5अब्।.उत्तरायां तु फल्गुन्यां सर्वकर्माणि कारयेत्।
प्.87.5च्द्।.मेधावी दर्शनीयश् च यशस्वी च^अत्र जायते॥
प्.87.6अब्।.अथात्र नष्टं दग्धं वा सर्वम् अस्ति^इति निर्दिशेत्।
प्.87.6च्द्।.प्रवर्षणं च देवस्य विद्यात् संपदनुत्तमां॥उत्तरफल्गुन्यां॥
प्.88.1अब्।.हस्तेन लघु^कर्माणि सर्वाण्य् एव प्रयोजयेत्।
प्.88.1च्द्।.सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥
प्.88.2अब्।.हस्त्यारोहं महा^मात्रं पुष्करिणीं च कारयेत्।
प्.88.2च्द्।.चौर्यं च सिध्यते तत्र तच् च विद्वान् विवर्जयेत्॥
प्.88.3अब्।.प्रवर्षणं च देवस्य वर्षा विश्रावणी भवेत्।
प्.88.3च्द्।.अथात्र जातं जानीयाच् छूरं चौरं विचक्षणं।
प्.88.3एf।.कुशलं सर्वविद्यासु; आरोगं चिरजीविनं॥हस्ते॥
प्.88.4अब्।.चित्रायाम् आहतं वस्त्रं भूषणानि च कारयेत्।
प्.88.4च्द्।.राजानं भूषितं पश्येत् सेनाव्यूहं च दर्शयेत्॥
प्.88.5अब्।.हिरण्यं रजतं द्रव्यं नगराणि च मापयेत्।
प्.88.5च्द्।.अलङ्कुर्यात् तथात्मानं गन्ध^माल्यविलेपनैः॥
प्.88.6अब्।.गणकानां च विद्यां च वाद्यं नर्तनगायनं।
प्.88.6च्द्।.पूर्विकां रूपकारांश् च रथकारांश् च शिक्षयेत्।
प्.88.6एf।.चित्र^करांश् च लेखकान् पुस्तकर्म च कारयेत्॥
प्.89.1अब्।.प्रवर्षणं च देवस्य चित्र^वर्षं विनिर्दिशेत्।
प्.89.1च्द्।.मेधावी दर्शनीयश् च चित्राक्षो भक्त^लोलुपः॥
प्.89.2अब्।.मृदु^शीलश् च भीरुश् च चलचित्तः कुतूहली।
प्.89.2च्द्।.आयुष्मान् सुभगश् च^एव स्त्री^लोलश् च^अत्र जायते॥चित्रायां॥
प्.89.3अब्।.स्वात्यां प्रयोजयेद् योधान् अश्वान् अश्वतरीं खरान्।
प्.89.3च्द्।.क्षिप्रं गमनीयं भक्ष्यं लङ्घकान् अध्वमानिकान्॥
प्.89.4अब्।.भेरीमृदङ्गपणवान् मुरजान् च^उपनाहयेत्।
प्.89.4च्द्।.आवाहंश् च विवाहंश् च सौहृद्यं च^अत्र कारयेत्॥
प्.89.5अब्।.निर्वासनम् अमित्राणां स्वयं न प्रवसेद् गृहात्।
प्.89.5च्द्।.प्रवर्षणं च देवस्य वात^वृष्टिर् अभीक्ष्णशः।
प्.89.5एf।.मेधावी रोग^बहुलश् चलचित्तश् च जायते॥स्वातौ॥
प्.89.6अब्।.लाङ्गलानि विशाखासु कर्षणं च प्रयोजयेत्।
प्.89.6च्द्।.यवगोधूमकर्म^अन्तान् शमीधान्यं च वर्जयेत्॥
प्.89.7अब्।.शालयस् तिल^माषाश् च ये च वृक्षाः सुशाखिनः।
प्.90.1अब्।.रोपयेत् तान् विशाखासु गृहकर्म च कारयेत्।
प्.90.1च्द्।.शिरः^स्नानानि कुर्वीत मेध्यं प्रायश् च कारयेत्॥
प्.90.2अब्।.प्रवर्षणं च देवस्य विद्यात् कल्प^परिस्रवं।
प्.90.2च्द्।.मनस्वी दर्शनीयश् च मेधावी च^अत्र जायते।
प्.90.2एf।.क्रोधनो +अल्पसुतश् च^एव दुर्भगो भक्त^लोलुपः॥विशाखासु॥
प्.90.3अब्।.अनुराधासु कुर्वीत मित्रैः सद्भिश् च सङ्गतिं।
प्.90.3च्द्।.सर्वाणि मृदु^कर्माणि माधुर्यं च^अत्र कारयेत्॥
प्.90.4अब्।.क्षौरं च कारयेत् अत्र शस्त्र^कर्माणि कारयेत्।
प्.90.4च्द्।.संयुक्तान्तप्रयोगांश् च सन्धिं कुर्याच् च नित्यशः।
प्.90.4एf।.नष्टं पर्युपतप्तं वा स्वल्पायसेन(यासंवि)निर्दिशेत्॥
प्.90.5अब्।.सुहृन्मित्रकृतश् च^अत्र धर्म^शीलश् च जायते।
प्.90.5च्द्।.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥अनुराधायां॥
प्.90.6अब्।.ज्येष्ठायां पूर्व^कारी स्याद् राजानं च^अभिषिञ्चयेत्।
प्.90.6च्द्।.नगरं निगमं ग्रामं मापयेद् आरभेत च।
प्.90.6एf।.क्षत्रियाणां च राज्ञां च सर्वकर्माणि कारयेत्॥
प्.91.1अब्।.भ्रातृणां भवति ज्येष्ठो ज्येष्टायां यो +अभिजायते।
प्.91.1च्द्।.आयुष्मांश् च यशस्वी च विद्वत्सु च कुतूहली॥
प्.91.2अब्।.प्रासादम् आरोहेच् च^अत्र गजम् अश्वं रथं तथा।
प्.91.2च्द्।.ग्राम^निगमराष्ट्रेषु स्थापयेच् छ्रेष्ठिनां बलं॥
प्.91.3अब्।.नष्टं पर्युपतप्तं वा क्लेशेनैवेति निर्दिशेत्।
प्.91.3च्द्।.दारुणान्य् अत्र सिध्यन्ति तानि विद्वान् विवर्जयेत्।
प्.91.3एf।.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥ज्येष्ठायां॥
प्.91.4अब्।.मूले तु मूलजातानि मूलकन्दालुकान्य् अपि।
प्.91.4च्द्।.सूलाद्यानि च सर्वाणि बीजान्य् अत्र प्रयोजयेत्॥
प्.91.5अब्।.ऋणं वै यत् पुराणं स्याद् अर्थो च^अस्याग्रतः स्थितः।
प्.91.5च्द्।.मूले सिद्धर्थम् आरभ्यं तथा सर्वं वराङ्गकं॥
प्.91.6अब्।.चिकित्सितानि यानीह स्त्रीणां दारककन्ययोः।
प्.91.6च्द्।.नदीषु स्नपनं च^एव मूले सर्वान् प्रयोजयेत्॥
प्.92.1अब्।.दारुणान्य् अत्र सिध्यन्ति मङ्गलानि च कारयेत्।
प्.92.1च्द्।.किण्वयोगान् सुरायोगान् न कुर्याच् छत्रुभिः सह॥
प्.92.2अब्।.धन^वान् बहु^पुत्रश् च मूलवान् अत्र जायते।
प्.92.2च्द्।.अथात्र नष्टं दग्धं वा नैतद् अस्ति^इति निर्दिशेत्।
प्.92.2एf।.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥मूले॥
प्.92.3अब्।.आषाढायां च पूर्वस्यां सरितश् च सरांसि च।
प्.92.3च्द्।.वापीकूपप्रपाश् च^एव तडागानि च कारयेत्॥
प्.92.4अब्।.उत्पाद्यानि च पुष्पाणि तथा मूलफलानि च।
प्.92.4च्द्।.आरामांश् च प्रकुर्वीत भैक्षकांश् च प्रयोजयेत्।
प्.92.4एf।.यानि च^उग्राणि कर्माणि सिध्यन्त्य् अत्र तु तानि च॥
प्.92.5अब्।.नष्टं पर्युपतप्तं वा नैतद् अस्ति^इति निर्दिशेत्।
प्.92.5च्द्।.आयुष्मान् पुण्यशीलश् च दर्शनीयो +अत्र जायते॥पूर्वाषाढे॥
प्.92.6अब्।.उत्तरस्याम् आषाढायां वैराणि न समाचरेत्।
प्.92.6च्द्।.वाययेत् सर्ववासांसि नवं नाच्छादयेद् इति॥
प्.93.1अब्।.न संहरेद् भेदयेद् वा वास्तुकर्म न सिध्यति।
प्.93.1च्द्।.शालाकर्म गव^आदीनां ग्रामे ग्रामणिनस् तथा।
प्.93.1च्।.श्रेणविन्धं च राजा नु समयं च^अत्र कारयेत्॥
प्.93.2अब्।.प्रगल्भश् च सभाशीलः कृती च^अत्र प्रजायते।
प्.93.2च्द्।.सुहृदाम् अभियोगी च मन्त्र^भाष्ये विचक्षणः॥
प्.93.3अब्।.नष्टं वा^अप्य् उपतप्तं वा; अस्तीत्य् एवं विनिर्दिशेत्।
प्.93.3च्द्।.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥उत्तराषाढायां॥
प्.93.4।.अभिजिति न कुर्वीत ब्रह्म^देवस्य ह्य् अर्चनं॥अभिजिति॥
प्.93.5अब्।.श्रवणे न च कुर्वीत सर्वाः संग्रामिकाः क्रियाः।
प्.93.5च्द्।.गीतशिक्षाध्ययनं च न चिरेण हि सिध्यति॥
प्.93.6अब्।.कर्णयोर् वेधनं कुर्याद् राजानं च^अभिषिञ्चयेत्।
प्.93.6च्द्।.द्विजातीनां तु कर्माणि सर्वाण्य् एव प्रयोजयेत्॥
प्.94.7अब्।.बलि^कृत्यानि कुर्वीत दर्शयेच् च बलान्य् अपि।
प्.94.7च्द्।.मेधावी अरोगी बलवान् यज्ञ^शीलो +अत्र जायते॥
प्.94.8अब्।.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्।
प्.94.8च्द्।.नष्टं च लभ्यते तत्र श्रवनस्थे निशाकरे॥श्रवणे॥
प्.94.9अब्।.धनिष्ठा लघु नक्षत्रं सर्वकर्मसु पूजितं।
प्.94.9च्द्।.अधीत्य ब्राह्मणः स्नायाद् राजानम् अभिषिञ्चयेत्॥
प्.94.10अब्।.सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्।
प्.94.10च्द्।.श्रेष्ठिनं स्थापयेद् देशे गणाध्यक्षं गणेश्व् अपि॥
प्.94.11अब्।.मेधावी च यशस्वी च महा^भोगी महा^धनः॥
प्.94.11च्द्।.बह्व्^अपत्यो मृदुर् दान्तो महा^आत्मा च^अत्र जायते।
प्.94.11च्।.प्रवर्षणं च देवस्य विद्याच् च^अत्र सुवृष्टितां॥धनिष्ठायां॥
प्.94.12अब्।.नित्यं शतभिषायोगे भैषज्यानि प्रयोजयेत्।
प्.94.12च्द्।.कीर्तिकर्म च कुर्वीत सिध्यन्त्य् आथर्वणानि च॥
प्.94.13अब्।.प्रसारयेच् च पण्यानि शौण्डिकं च प्रयोजयेत्।
प्.94.13च्द्।.अदधिं खानायेत् तत्र तिल^माषांश् च वापयेत्॥
प्.95.1अब्।.(95)सामुद्रिकाणि पण्याणि नाविनश् च प्रयोजयेत्।
प्.95.1च्द्।.आदेयं च तदा +अदद्याद् व्ययं च^अत्र न कारयेत्॥
प्.95.2अब्।.सन्धिपालान् द्वार^पालांल् लेखकांश् च प्रयोजयेत्।
प्.95.2च्द्।.भिषक्कर्म च कुर्वीत भैषज्यानि च संहरेत्॥
प्.95.3अब्।.निधिं वा खानयेत् तत्र निदध्याद् अपि वा निधिं।
प्.95.3च्द्।.धनं च^अत्र प्रयुञ्जीत भिषक्कर्म च शिक्षयेत्॥
प्.95.4अब्।.अथात्र मृगयेन् नष्टं लभ्यते तच् चिराद् अपि।
प्.95.4च्द्।.अरोगी क्रोधनश् च^अत्र स्वप्नशीलश् च जायते।
प्.95.4एf।.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥शतभिषायां॥
प्.95.5अब्।.पूर्वभाद्रपदायोगे क्रूराणां सिद्धिर् उच्यते।
प्.95.5च्द्।.नष्टविद्धोपतप्तं वा नैतद् अस्ति^इति निर्दिशेत्॥
प्.95.6अब्।.दीर्घश्रोत्रो महा^भोगो ज्ञातीनां च सदा^प्रियः।
प्.95.6च्द्।.महा^धनो +अक्रूरकर्मा निःक्रोहश् च^अत्र जायते।
प्.95.6एf।.प्रवर्षणं च देवस्य चण्डां वृष्टिं समादिशेत्॥पूर्वभाद्रपदे॥
प्.96.1अब्।.उत्तरस्यां तु कुर्वीत; आयुष्यं पुष्टिकर्म च।
प्.96.1च्द्।.न च दक्षिनतो गच्छेत् पुरं च^अत्र प्रदापयेत्॥
प्.96.2अब्।.आयुष्मांश् च यशस्वी च धनवांश् च^अत्र जायते।
प्.96.2च्द्।.अत्र^अपि त्रिगुणं विन्देद् आदानं यदि वा व्ययं।
प्.96.2एf।.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥उत्तरभाद्रपदे॥
प्.96.3अब्।.रेवत्यां रत्न रजतं धन^धान्यं प्रयोजयेत्।
प्.96.3च्द्।.कोष्ठ^आगाराणि कुर्वीत किण्वं च^अत्र न कारयेत्॥
प्.96.4अब्।.सुराकर्म च कुर्वीत हिरण्यं गोव्रजानि च।
प्.96.4च्द्।.गोसङ्घं स्थापयेच् च^अत्र गोशालां च^अत्र कारयेत्।
प्.96.4एf।.आच्छादयेन् नवं वस्त्रं हिरण्यम् अपि धारयेत्॥
प्.96.5अब्।.भिक्षुको दानशीलश् च दरिद्रश् च^अनसूयकः।
प्.96.5च्द्।.ज्ञातीनां सेवको नित्यं धर्म^ज्ञश् च^अत्र जायते।
प्.96.5एf।.सुवृष्टिं नष्ट^लाभं च रेवत्याम् अभिनिर्दिशेत्॥रेवत्यां॥
प्.97.1अब्।.स्त्री^पुंसम् अश्विना युञ्ज्याद् अश्वशालां च कारयेत्।
प्.97.1च्द्।.अश्वान् प्रयोजयेद् अत्र रथं च^अत्र प्रयोजयेत्॥
प्.97.2अब्।.ऋणः प्रयोगः कर्तव्यो बीजान्य् अत्र प्रवापयेत्।
प्.97.2च्द्।.यानानि च हयान् दम्यान् दन्तिनश् च प्रयोजयेत्॥
प्.97.3अब्।.भैषज्यं भोजयेद् अत्र भिषक्कर्म च कारयेत्।
प्.97.3च्द्।.मेधावी दर्शनीयश् च राज^योग्यश् च सम्पदा॥
प्.97.4अब्।.अरोगो बलवांच् छूरः सुभगो ह्य् अत्र जायते।
प्.97.4च्द्।.सुवृष्टिं नष्ट^लाभं च; अश्विन्याम् अभिनिर्दिशेत्॥अश्विन्यां॥
प्.97.5अब्।.त्रितारां भरणीं विद्यात् क्रूरकर्माणि साधयेत्।
प्.97.5च्द्।.भृत्यांश् च भृतकांश् च^अपि वृणुयाद् दर्शयेत् तथा॥
प्.97.6अब्।.भूतिं च^उपनयेद् अत्र भार्यां च न विवाहयेत्।
प्.97.6च्द्।.उत्कटको वञ्चतकः कूटसाक्षी च तन्द्रिजः॥
प्.98.1अब्।.विधिज्ञः पापचारित्रः कदर्यश् च^अत्र जायते।
प्.98.1च्द्।.जायते च^अत्र दुःशीलो गुरूणाम् अभ्यसूयकः।
प्.98.1एf।.परोपतापी लुब्धश् च परव्याहारगोचरः॥भरण्यां॥
प्.98.2अब्।.सप्तविंशति^नक्षत्रे कृत्तिकादि यदा भवेत्।
प्.98.2च्द्।.भरण्यन्तानि; ऋक्षाणीमां प्रतिपादयेत् क्रियां॥
प्.98.3अब्।.तेषां मध्ये यदा सर्वे शस्यान्य् ओषधयो +अपि च।
प्.98.3च्द्।.वनस्पतयश् च पीड्यन्ते यत्रासौ तिष्ठते ग्रहः।
प्.98.3एf।.सर्वं प्रतिपादयितव्यम् उक्त^नक्षत्र^कर्मसु॥
प्.98.4।.उक्तो नक्षत्र^कर्म^निर्देशो नाम^अध्यायः॥
% ध्रुव^क्षिप्र^अर्ध^रात्रिकाणि नक्षत्राणि
प्.98.5।.चत्वारि भोः पुष्करसारिन् नक्षत्राणि ध्रुवाणि भवन्ति तानि व्याख्यास्यामि। तच् छृणु। तद् यथा। त्रीणि उत्तराणि रोहिणी च। क्षेमे +अध्यावसेत्। (99) बीजानि च^अत्र रोपयेद्। निवेशतं च^अत्र कल्पयेत्। राजानं च^अभिषिञ्चयेत्। यानि च^अन्यानि उक्तानि कर्माणि तानि कारयेत्।
प्.99.1अब्।.अथ नष्टं दग्धं वा विद्धं च^अपि हृतं च वा।
प्.99.1च्द्।.एवम् अभिनिर्दिष्टां वा स्वस्ति क्षिप्रं भविष्यति॥
प्.99.2अब्।.अथात्र जातो धन्यो +असौ विद्यात्मा च यशस्वी च।
प्.99.2च्द्।.मङ्गलीयो महा^भोगी महा^योगी भविष्यति॥
प्.99.3।.चत्वारि भोः पुष्करसारिन् नक्षत्राणि क्षिप्रानि भवन्ति। तद् यथा पुष्यो हस्ताभिजिद् अश्विनो चेति। एषु क्षिप्राणि कर्माणि कारयेच् च विचक्षणः। स्वाध्यायं मन्त्र^समारम्भं प्रवास^प्रस्थानं गाश् च तुरङ्गान् अप्य् अत्र योजयेत्। धूयाणि युक्तकर्माणि च^ओषधीकर्माणि च। भेषज्यानि सर्वाण्य् अत्र प्रयोजयेत्।
प्.99.4।.तत्र यज्ञ^समारम्भं चातुर्मास्यं च कारयेत्। अथात्र नष्टं दग्धं वा विद्धं वा स्वस्ति भविष्यति^इति वक्तव्यं।
प्.99.5अब्।.अथात्र जातकं विद्यान् मङ्गलीयं यशस्विनं।
प्.99.5च्द्।.महा^भोगं च राजानं महा^योगिनम् ईश्वरं॥
प्.99.6अब्।.महा^धनं महा^भोगं तथा च महद्^उत्तमं।
प्.99.6च्द्।.क्षत्रियं दानशीलं च ब्रह्मणं च पुरोहितं॥इति।
प्.99.7।.पञ्च खलु भोः पुष्करसारिन् नक्षत्रानि दारुणानि भवन्ति।तद् यथा।
प्.99.8अब्।.मघा त्रीणि च पूर्वाणि भरणी चेति पञ्चमी।
प्.99.8च्द्।.अथात्र दग्धं नष्टं वा विद्धं वा न भविष्यति॥
मूल पाठ: Śārdūlakarṇāvadāna [= Avadāna 33 of the Divyāvadāna] · Edition: Mukhopadhyaya, Sujitkumar: The Sardulakarnavadana, Calcutta : The Visvabharati Publishing Department 1954 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0