भाषा

ENहिગુ
ग्रंथ पाठ

सारतम · भाग 2138

ऽप्राबन्धिको ऽ हि भावनामार्गः । ततः प्राकृतो विषयः पश्चात्तमो विषयीति नास्ति विरोधः । अत्र सूत्रं भगवानाहेत्यादि । इमानीति यथोक्तानि शून्यतादीनि । प्रज्ञापारमिताप्रतिसंयुक्तानीति । विकल्पपारमित्तैव प्रज्ञा प्रज्ञापारमिता दर्शनमार्गो भावनामार्गश्च । निर्वेधभागीयानि तु तादर्थ्यात्प्रज्ञापारमिता । तस्यां त्रिविधायां प्रतिसंयुक्तानि सम्बद्धानि तदाधाराणीत्यर्थः । य इमानिओ चिन्तयिष्यति तुलयिष्यति उपनिधास्यतीति सम्बन्धः । कथमित्यत आह । एवं मयेत्यादि । स्थातव्यमिति चिन्तयैकान्तनिश्चयात् । शिक्षितव्यमिति तुलनेन शमथोत्पादनात् । प्रतिपत्तव्यमित्युपनिध्यानेन विपश्यनोत्पादनात् । आज्ञप्तं ग्रन्थश्रवणात् । आख्यातमर्थज्ञापनात् । उपदिष्टं रहस्यकीर्तनात् चतस्रो युक्तयः । अपेक्षायुक्तिः सर्वहेतूनपेक्ष्य कार्योत्पत्तेः । कार्यकारणयुक्तिः तेभ्यः प्रत्येकं कार्यविशेषोत्पत्तेः । उपपत्तिः साधनयुक्तिः । येन प्रमाणेन यो ऽर्थः सिध्यति । धर्मतायुक्तिः स्वभावनियमोधर्माणाम् । अग्नि एव दहत्याप एव क्लेदयन्तीत्यादि । आभिः समाध्यालम्बनस्य रहसि पर्यङ्कमारुह्य सत्कृत्य सातत्येन निरूपणं चिन्ता । तत्रैव नवाकारेण शमथेन चेतसः समीकरणं तुलनम् । धर्मान्विचिनोति प्रविचिनोति परिवितर्कयति परिमीमांसामापद्यत इति चतुराकारा विपश्यना उपनिध्यानम् ॥ तत्र यथावभ्दाविकताज्ञानं विचयः । ( र्स्त्_119 ) पञ्चैव स्कन्धा इत्यादि यथावभ्दाविकताज्ञानं प्रविचयः । सर्व एते शून्या इत्यादि निर्विकल्पेन मनसा प्रज्ञासहगतेन निमित्तीकरणं परिवितर्कः । सन्तीरणं परिमीमांसा । इति भावनामार्गस्य स्वभावः ॥
नवधा च प्रकारतः ।
स भावनामार्गः प्रकारभेदेन नवधा भवति । चकाराद्विपक्षो नवधा । कथमित्याह-
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ 4-54 ॥
मृदुमृदुः । मृदुमध्यः । मृद्वधिमात्रः । मध्यमृदुः । मध्यमध्यः । मध्यधिमात्रः । अधिमात्रमृदुः । अधिमात्रमध्यः । अधिमात्राधिमात्रश्चेति । विपक्षाणामप्येत एव नव प्रकाराः । तत्रैते मार्गस्य प्रकारा अनुलोममुत्पद्यन्ते । तैः प्रतिलोमं विपक्षप्रकाराः क्षीयन्ते । अधिमात्राधिमात्रो ऽधिमात्रमध्यो यावन्मृदुमृदुः । स च विपक्षो भावनाहेयः क्लेशविकल्पा यथायोगाम् । औदारिको हि मलश्चेलात्पुर्व निष्पीड्यते पश्चासूक्ष्मः । तद्वच्चित्तादपि ।
तत्राद्यः तथेत्यादिना । द्वितीय एवमित्यादिना । ततः यथा पुनरपरादिभीः प्रसवत्यन्तैः ततः द्वावेकेन पुनरपरादिना सुभूतिराहेत्यतः प्राक् । तथेत्यादि । तथेति यथोक्तेन क्रमेण सम्पादयमानः शमथेन । उपनिध्यायन विपश्यनया । उपपरीक्षमाण उभाभ्याम् । प्रयुज्यमानः शमथवीर्येण । घटमानो विपश्यनावीर्येण । व्यायच्छमान उभयवीर्येण । स्वयमेव भगवान् पृच्छति कियत्कर्म करोतीति । उत्तरं स्वयमेवाह तद्यथापीत्यादिना । प्रसादा प्रभवन्तीति प्रासादिका गुणाः । मत्वर्थीयो ऽच् । परपरिगृहीतेति परकीया न वशयेन् न शक्नुयात् । संसारादित्यागामिनो जन्मप्रबन्धात् । छोरयतीति त्यजति । विपृष्ठीकरोति । आगामिनो ऽनागमनात् । व्यन्तीकरोतीत्यपरान्ततः पूर्वान्तनयनात् । यथाज्ञप्तमित्यादि पूर्ववत् । यथोद्दिष्टं यथा निर्दिष्टमित्युद्देशनात् । तिष्ठति चिन्तया संशयच्छेदात् । शिक्षते शमथेन । प्रतिपद्यते विपश्यनया । उपनिध्यायतीत्युभाभ्याम् । एवं योगं भावनामापद्यते । इयता एकं कर्मोक्तम् ।
द्वितीयमाह तांश्चेत्यादिना सम्यक्सम्बोधेरित्येतदन्तेन । इति भावनामार्गो मृदुमृदुः ॥
एवमित्यादि एवमित्यनन्तरोक्तवत् । तावत्कर्मेति बहुतरकल्पव्यन्तीकरणम् । सम्यक्सम्बोधिविनिवर्तकदोषविवर्जनं च । अधिकमाह ( र्स्त्_120 ) यथेत्यादिना प्राक् पुनरपरात् । तत इति दायकात् । अयमेव विशिष्यते बहुतरपुण्यतया प्रकृष्यते । इत्यत आह । योयमित्यादि । इति भावनामार्गो मृदुमध्यः ॥
पुनरित्यादि । दद्यादर्पणतः । प्रतिष्ठापयेदविप्रतिसारतः । इति भावनामार्गो मृद्धधिमात्रः ॥
पुनरित्यादि । मनसिकारो विहारः । इति भावनामार्गो मध्यमृदुः ॥
पुनरित्यादिना भावनामार्गो मध्यमध्यः ॥
पुनरित्यादि । व्युत्थाय धर्म देशयेत् तच्च बोधौ परिणामयेदिति भावनामार्गो मध्याधिमात्रः ॥
पुनरपरेत्यादि । तच्च धर्मदानं । प्रज्ञापारमितोक्तेन परिणामेन परिणामयेदिति भावनामार्गो ऽधिमात्रमृदुः ॥
पुनरित्यादि । तद्धर्मदानं प्रज्ञापारमितोक्तपरिणामेन परिणमय्य पुनः प्रतिसंलयने योगमापद्यते । इति भावनामार्गो ऽधिमात्रमध्यः ॥
यः पुनस्तत् प्रतिसंलयनमविरहितं करोति प्रज्ञापारमितया स तस्य भावनामार्गो ऽधिमात्राधिमात्रः ॥
सुभूतिराहेत्यादि । इह बहुतरं पुण्यं प्रसवतीति बाहुल्येनोक्तम् । अतः सुभूतेश्चोद्यम् । अभिसंस्कारो विकल्पः । तद्वत्पुण्याभिसंस्कारोपि । तस्माद्वहुतरं पुण्यमिति बहुतरो विकल्प उक्तः स्यादिति । उत्तरं भगवानाह सोपीत्यादिना प्रसवत्यन्तेन । इदानीमिति भावनामार्गकाले । यथालक्षणमसत्त्वाच्छून्यः । अज्ञातार्थे कप्रत्ययः । बालैरज्ञातः शून्यक इत्येव । एवमेव आख्याति प्रख्यातीति आख्यः । अनाख्ये आख्या भवति आख्यायते लोहितादेराकृतिगणत्वात् क्यष् । प्रख्यातीत्यर्थः । एवमुत्तरेष्वपि द्रष्टव्यम् । अस्वामिकत्वाद् रिक्तः । अग्राह्यत्वात् तुच्छः । ग्राहकाभावत्वाद् असरः । एवमिति शून्यतादिभिः । शेषं सुबोधम् । इति बहुतरंपुण्यंप्रसवचोद्यपरिहारौ ॥
सुभूतिराहेत्यादि । उत्कर्षोपि विशेषः । छेदोपि नानाकरणम् । तयोर्व्यवच्छेदार्थमुभयोरुपादानम् । प्रमाणानीत्यौदार्यपरिच्छेदाः । संख्ययापीति गणनयापि न क्षपयितुं क्षयं नेतुम् । स्याभ्दगवन्नित्यादि सुगमम् । अधिकं वचनं अधिवचनं मुख्यं वाचकमित्यर्थः । अक्षया अपीति ( र्स्त्_121 ) आकाशवत् । अप्रमेयातापीत्याकाशस्येव । अक्षयाप्रमेयशून्यतानिमित्तादीनां अभिलापाः शब्दाः । ननु शब्दा अपि विचत्राः कथमेकार्थे व्यवच्छेद्यभेद्यलेशादिति भावः । अत एवाह देशनाभिनिर्हार एष इति । देश्यते ऽनयेति देशना करुणा तस्याभिनिर्हारो निःष्यन्दः स चासौ निर्देशश्च । अत्र शास्त्रम्-
[114] असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः ।
कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुने ॥ 4-55 ॥
ऽन क्षमाऽ इति न युक्ताः । इत्यसंख्येयादिनिर्देशे चोद्यपरिहाराः ॥
सुभूतिहाह । आश्चर्यमित्याद्यपि तु खल्वित्यतः प्राक् । अवाग्गोचरत्वाद् अनभिलाप्याः । पारमितार्थस्येति शून्यतालक्षणस्य । अत्र शास्त्रम्-
[115] हानिवृद्धी न युज्येते निरालापस्य वस्तुनः ।
भावनाख्येन किं हीनं वर्त्मना किमुदागतम् ॥ 4-56 ॥
इत्यनभिलाप्यस्य हानिवृद्ध्यभावः ॥

कथं तर्हि बोधिरित्यत आह । अपि तु खल्वित्याद्यापरिवर्तसमाप्तेः । स दानं ददत्तान्मनसिकारांस्तांश्चित्तोत्पानिति यैर्दानं ददाति । तानि च कुशलमूलानीति यानि तैस्चित्तोत्पादैः संप्रयुक्तानि । यथा बोधिस्था परिणामयतीति । अन्यथा न सा परिणामना बोधये स्यात् । एवमुत्तरास्वपि द्रष्टव्यम् ॥
यथानुत्तरा सम्यक्सम्बोधिरित्युक्तम् । अतः पृच्छति । अथ खल्वित्यादिना । भगवानाह तथतैषा सुभूते ऽनुत्तरा सम्यक्सम्बोधिरित्यादि । अभीक्ष्णमिति पुनः पुनः । बहुलमिति प्रबन्धने । एवं खल्वित्यादिनोपसंहारः । अत्र शास्त्रम्-
[116] यथा बोधिस्तथैवासाविष्टस्याथैस्य साधकः ।
तथतालक्षणा बोधिः सोपि तल्लक्षणो मतः ॥ 4-57 ॥
ऽअसौऽ इति ऽसोपिऽ इति भावनामार्गः ॥
शून्यताप्रधानः परिवर्तः शून्यतापरिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामष्टादशः परिवर्तः ॥
19. गङ्गदेवाभगिनीपरिवर्तो नामेकोनविंशतितमः ।
अथ खल्वित्यादि प्रागेवमुक्तात् । न पूर्वेण चित्तेन बोधिर्न च पश्चिमेन तयोरसमवधानादिति चोद्यम् ॥
एवमुक्त इत्यादि प्रागेवमुक्तात् । इयता दीपदृष्टान्तेन परिहारः । अत्र शास्त्रम्-
[117] पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा ।
इति चोद्यम् ।
दीपदृष्टान्तयोगेन
बोधिरिति वर्तते । अनेन परिहारः ॥
अथ शास्त्रम्-
गम्भीरा धर्मताष्टधा ॥ 4-58 ॥

या बोधिरिति वर्तते । केवलाया बोधेस्तथतैव लक्षणमुक्तमष्टादशे । सपरिच्छदायास्तु बोधेर्लक्षणमष्टविधं गाम्भीर्यम् । तत्कथमष्टधा?
[118] उत्पादे च निरोधे च तथतायां गभीरता ।
ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले ॥ 4-59 ॥
ऽअद्वयं च उपायकौशल्यं च; इति समाहारद्वन्द्वः । अत एवमुक्त इत्यादिना प्रागेवमुक्ताद्गाम्भीर्य सुभूतिः प्रस्तौति । अन्यत्र तेभ्य इति विना तेभ्यः । एवमुक्ते भगवानित्यादिना परिजयं करोतीत्येतदन्तेनाष्टविधं गाम्भीर्यमाह । यच्चित्तमिति भ्रान्तमभूतपरिकल्पात्मकम् । निरुद्धमिति सन्तानक्षयात् क्षीणम् । नो हीति नैवेत्यर्थः । भ्रान्तिकारणस्य द्वयाभिनिवेशस्य क्षयादिति भावः । इत्युत्पादगाम्भीर्यम् ॥
यच्चित्तमुत्पन्नमिति अभ्रान्तम् । भ्रान्तिक्षयाच्चित्ताधीनत्वाच्च चित्तोत्पत्तेरिति भावः । निरोधधर्मि भगवन्निति प्रतिक्षणमिति भावः । निरोत्स्यत इति सन्ताननिरोधेनेति भावः । नो हीदमिति स्वरसत उत्पत्तेः प्रणिधानादिभिश्च सविशेषमक्षयीकृतत्वादिति भावः । ( र्स्त्_123 ) यच्चित्तमनुत्पन्नर्मित्युत्पादगाम्भीर्ये यदुक्तम् यन्न निरोधधर्मीत्यनन्तरमेव यदुक्तं यन्निरोधधर्मीत्यस्मिंस्तेषां पुनरुक्तता स्यात् । यच्चित्तमिति यच्चित्तसन्तानः । अनुत्पादानिरोधधर्मीत्यनादिनिधनम् यो धर्म इति निर्वाणाख्यः । निरोधोनिरुद्धम् । तत्स्वभावो ऽस्येति स्वभावनिरुद्धः । धर्मतेति शून्यता । इति निरोधगाम्भीर्यम् ।
तथैव स्थास्यतीति यावदाकाशम् । मा कुटस्था भूदिति तथतावत् । नो हीदमिति प्रवाहनित्यत्वादिति भावः । गम्भीरा तथतेति सम्यग्ज्ञानादपि सूक्ष्मत्वादितयतागाम्भीर्यम् ॥
तथतायां चित्तमिति तद्वेदित्वात्तस्या आधेयम् । नो हीदमिति ज्ञानाभ्देदे वेद्यत्वायोगात् । चित्तं तथतेत्येकलक्षणादिति भावः । अन्यत्तथताया इलिक्षणभेदादेव । नो हीदमिति लक्षणभेदेपि तादात्म्यात् । तदेवमग्राह्यत्वेपि वेद्या तथतेति ज्ञेयगाम्भीर्यम् ॥
समनुपश्यसि त्वमिति चित्तरूपम् । नो हीत्यग्राह्यत्वात् । तदेव ग्राह्यमपि चित्तं वेत्तीति ज्ञानगाम्भीर्यम् ॥
गम्भीरे चरतीति प्रज्ञापारमितार्थे । समुदाचारा आलम्बननिमित्तानि । प्रवर्तन्ते न भवन्ति । न समुदाचरन्ति न प्रख्यान्तीति चर्यागाम्भीर्यम् ॥
निमित्ते चरतीति द्वयनिमित्ते ऽद्वयनिमित्ते वा । नो हीति न द्वयनिमित्ते नाद्वयनिमित्ते । निमित्तमिति द्वयाद्वयनिमित्तम् । अविभावितमप्रहीणम् । नो हीति नाप्रहीणम् । प्रहीणमेवेत्यर्थः । इत्यद्वयगाम्भीर्यम् ॥
अपि न्विति किन्नु । निमित्तं विभावितं भवतीत्यप्रतिपूर्णेषु सर्वबुद्धधर्मेषु इति भावः । सुभूतिरुत्तरमाह । न स भगवन्नित्यदिना । इहैवेति । अस्मिन्नेव जन्मनि । कुत इत्याह । स चेदित्यादि । श्रावको भवएदिति न सम्यक्सम्बुद्धः । एतत्तदित्यादिनोपसंहारः । यल्लक्षणं यन्निमित्तमिति यद्धर्मनिमित्तं यच्च धर्मतानिमित्तं तत्सर्वं जानाति । परिजयमभ्यासमात्रं करोति । इत्युपायकौशलगाम्भीर्यम् ॥
तत्राष्टमं गाम्भीर्यं विप्रकृष्टम् । बोधे शेषाणि सन्निकृष्टानीत्युक्तविधं गाम्भीर्यम् । उक्तश्च ऽशैक्षौऽवैवर्तिको गणःऽ ॥
ऽसमता भवशान्त्योःऽ वक्तव्या । अतः शास्त्रम्-
[119] स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना ।
एष संसार एतन्निर्वाणमिति भेदकल्पना । संसारनिर्वाणयोः समताज्ञानं भावनामार्गे । स्वप्नोपमान्सर्वधर्मान् पश्यतस्तयोर्भेदकानुपलम्भात् । नन्वभूतपरिकल्पः संसारः स च भ्रान्तिमात्रं भ्रान्तिक्षयस्तु निर्वाणम् । कदा तयोः समताज्ञानम्? भावनामार्गे संमुखीभूते सर्वधर्मनैरात्म्यसंवेदनादिति चेत् । दर्शनमार्गेप्येतदस्तीति भावनामार्गस्य को ऽतिशयः? तस्मात्ततो व्युत्थितस्य समताज्ञानं ग्राह्यम् । तच्चायुक्तम् । व्युत्थितस्य हि ज्ञानं भ्रान्तं स्वप्नोपमत्वात् स्वप्नः । भावनामार्गस्तु सम्यग्ज्ञानं दिवसोपमत्वाद्दिवसः । तत्र कदा युक्तं स्यात्? यदि दैवसिकादभ्यासातिशयात्, स्वप्नेति प्रज्ञापारमिता विवर्धेत । अतः सूत्रे ऽथ खल्वित्यादिना विवर्धत इत्येतदन्तेन प्रश्नः । सुभूतिराहेत्यादिना भावितव्योन्तेनोत्तरम् । अविकल्प इति । विकल्पो विशेषः । अविकल्पो निर्विशेषः । प्रज्ञापारमिताभ्यासत इति भावनामार्गाभ्यासतः । इति संसारनिर्वाणसमता ॥
शारिपुत्र आहेत्यादि । इह स्वप्नशब्देन स्वप्न एवोच्यते । क्षयसंज्ञेति क्षयो निर्वाणं तस्य संज्ञा उद्ग्रहः । भुतार्थकल्पनं कल्पः । वितथकल्पनं विकल्पः । एवमेवेति । आकाशवत्तथागतवद्वा । चित्तं चेतना बुद्धिर्विकल्पः इत्येको ऽर्थः । विविक्तानीति निःस्वभावानि । विप्लुता हि बुद्धिरविद्यमानमेव निमित्तीकृत्यारम्बणी करोति । चेतनापीत्यादि सुगमम् । कायसाक्षीति काय आश्रयः । तत्परावृत्त्या कायेन साक्षात्कारी कायसाक्षी एनमर्थमित्येतच्चोद्यं विसर्जयिष्यतीति परिहरिष्यति । अजितो मैत्रेय इति पर्यायौ । यो धर्मो विसर्जयेदिति मैत्रेयः । विसर्जयितव्य इति प्रश्नः । येन धर्मेणेति वाचा । यस्य धर्मस्येति शारिपुत्रस्य । उत्पित्सुः त्रास उत्त्रासः । संभूतस्त्रासः सन्त्रासः । तस्य प्रवाहः सन्त्रासापत्तिः । बलाधानं भावना बलवासना । अत्र शास्त्रम्-
कर्माभावादिचोद्यानां परिहारा यथोदिताः ॥ 4-60 ॥
इति संसारनिर्वाणसमतायां चोद्यपरिहाराः ॥
ऽकृतिशुद्धिरनुत्तराऽ वक्तव्या । अतः शास्त्रम्-
[120] सत्त्वलोकस्य याशुद्धिस्तस्याः शुद्धयुपहारतः ।
तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥ 4-61 ॥
एकदा यत्रैक एव बुद्धो जायते तद्बुद्धक्षेत्रम् । तस्य शुद्धता परिशुद्धिः । सा कुतो भवति? ऽसत्त्वलोकस्यऽ दृश्यते ऽयाशुद्धिःऽ व्याडकान्तारादिता । तस्याः स्वबुद्धक्षेत्रपरिशुद्धादुपसंहारात् । मम बुद्धक्षेत्रे सर्वथैवं मा भूदिति । एषा विस्तरेण महत्योरुक्ता । इह तु संक्षेपतः । पुनरपरमित्यादिना अथ खलु तत्रेत्यतः प्राक् । उत्त्रासादिनिषेध उक्तो वक्तव्यश्च तदपेक्षया पुनरपरशब्दाः । दुर्गता भूमिः कान्तारम् । व्याडैः कान्तारं व्याडकान्तारम् पानीयवर्जितकान्तारं पानीयकान्तारम् । यदिचेच्छब्दो यद्यर्थे । दिव्योपभोगेत्यादि । समबुद्धक्षेत्रसत्त्वा इति वर्तते । रुधिराद्याहारव्युदासाय चैतदुक्तम् । सर्वस्वपरित्याग एव कुशलम् । यदेतेषां लोक इति भाजनलोके सुखसमङ्गिलः । सुखं समर्पितमाहितमेषामिति सुखसमर्पिताः । सर्वत इति सर्वत्र । व्याधिकान्तारं रोगोपसर्गः । इयतीति चित्तक्षणपरिमाणा । अपूर्वेति भाविनी । यदुताकोटीरिति नहि निरंशस्य क्षणस्य कोटिरस्ति । या सेत्यर्था(त्यपूर्वा) भुत् । अपूर्वा कोटीर्यत्राभिसंभोत्स्ये । इति बुद्धक्षेत्रपरिशुद्धिः ॥
अथ खल्वित्याद्यापरिवर्तान्तात् । अनेन यत्तस्यां देशनायां संवृत्तं तदाह । असक्तानि अलग्नानि । अन्तरिक्षे विहायसीति केवल एवाकाशे । परिनिष्पत्तिरिव परिनिष्पत्तिर्वशीभावः । प्रमाणबद्धः प्रमाणनियतः । असातकान्ताराणि दुष्कान्ताराणि । शेषं सुबोधम् ॥

गङ्गदेवाभगिन्या लक्षितः परिवर्तस्तत्परिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकोनविंशतितमः परिवर्तः ॥
20. उपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः ।
क्षेत्रपरिशुद्धिरुक्ता । उपायकौशलं वक्तव्यम् । अतः शास्त्रम्-
[121] विषयो ऽस्य प्रयोगश्च सा(शा)त्रवाणामतिक्रमः ।
अप्रतिष्ठो यथावेधमसाधारणलक्षणः ॥ 4-62 ॥
[122] अश(स)क्तो ऽनुपलम्भश्च निमित्तप्रणिधिकृतौ ।
तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् ॥ 4-63 ॥
अस्य ह्युपायकौशलस्य ऽविषयःऽ सूत्रे प्रथमं वक्तव्यः । ततःऽप्रयोगःऽ प्रथमाभ्यासः । ततो दश प्रभेदाः सा (शा)त्रवातिक्रमादयः । ऽनिमित्तप्रणिधिकृतौऽ ताभ्यामिति तथोक्तौ निमित्तकृतः प्रणिधिकृतश्च ।
अथ खल्वित्यादि । अत्रादौ भूतकोटिमित्येतदन्तेन विषय उक्तः । शून्यतासमाधिनैवानिमित्ताप्रणिहितयोर्बोधिपक्षादीनां चोपलक्षणात् । शून्यतायामिति शून्यतासमाधौ । सन्ततिः प्रवाहः । कथं प्रत्यवेक्षमाण इत्याह रूपं शुन्यमितीति । तामिति शून्यताम् । धर्मतामिति धर्मप्रकृतिम् । धर्मतयेति धर्मसारतया । भूतकोटिरिति शून्यतैव कैवल्यं गता भूतकोटिः । इत्युपायकौशलस्य विषयः ॥
एवमुक्त इत्यादि तद्यथापीत्यतः प्राक् । असमाहित एवेति साक्षात्कर्तव्यतयानध्यवसित एव । अत्रान्तरा इति यावद्बुद्धधर्मा अस्य न परिपक्वाः । एवमित्युक्तेन क्रमेण । आरूढ उपार्जिताः । शेष सुबोधम् । इत्युपायकौशलस्य प्रयोगः ॥
तद्यथापीत्यादि तद्यथापीत्यतः प्राक् । शूरो निर्भीः । वीर्यमुत्साहः । प्रतिष्ठानं स्थैर्यम् । प्रतिभानमभ्यूहः । प्रतिपत्तिरनुष्ठानम् । यस्मिन्कालादौ यद्युक्तं तज्ज्ञानात् कालादिज्ञः । गतिः कायवाक्चित्तकर्मण्यता । तां गतः प्राप्तः । प्रहरणावरणं कवचादि । स्मृतिः स्मरणम् । मतिरभ्यूहः । गतिर्ज्ञानम् । धृतिर्धारणम् । नीतिर्नीतिज्ञानम् । विशारदः पण्डितः इति शत्रव एव ऽशात्रवाऽ अन्तरायाः । तेषामतिक्रमश्चतुर्भिरप्रमाणैरिति प्रथममुपायकौशलम् ॥
तद्यथापीत्यादि तद्यथापीत्यतः प्राक् । चरतीति गच्छति । न च भूमौ पततीति पातप्रतिषेधः स्थितिः । न च कञ्चिन्निश्रित्येति प्रतिष्ठाप्रतिषेधः । निश्रित्येत्यास्पदीकृत्य । विहरतीति तिष्ठति । न च तत्रापीति विहरणेपि निश्रितः । पतत्यपरिपूर्णैरिति । अत्र न पततीति न प्रतितिष्ठतीत्यर्थः । प्रतिष्ठाविरहादप्रतिष्ठ उपायः ॥
तद्यथापीत्यादि प्रागेवमुक्तात । वारयेदिति । आकाश एव स्थापयेत् । पतनं न दद्यादिति पतितुं न दद्यात् । उद्धर्व क्षिप्तस्य स(श)रस्येव शरान्तरैश्चिरमपाताय य आवेधस्तद्वदाबुद्धधर्मपरिपाकम(कं) साक्षात्करणाय चित्तस्य चित्तान्तरैर्य आवेधः । तदनतिक्रमेण वृत्तिर्यथावेधमुपायः ॥
एवमुक्त इत्यादि प्राक् पुनरपरात् । चरति शमथेन । विहरति विपश्यनया । समाधिसमापत्तिरुभाभ्याम् । ममेति मया । अभिनिर्हरतीति निष्पादयति । समाधिश्चासौ विमोक्षश्च मुक्तिद्वारत्वात् । चित्तोत्पादश्चित्ताभिनिर्हारः । अनेनायं दुष्करकारकः । एष च सर्वश्रावकप्रत्येकबुद्धैरसाधारणत्वादसाधारण उपायः ॥
पुनरपरादि प्राक् पुनरपरात् । सत्त्व आत्मा पुरुषः । इन्द्रियाणि पञ्च श्रद्धादीनि । बलान्यपि पञ्चैव । बोध्यङ्गानि सप्त । मार्गो ऽष्टाङ्गः । सत्त्वदृष्टिः सक्तिः । तत्प्रहाणाय सत्त्वानामभिसम्बुद्धः । सत्त्वान् देशयिष्यामीति सञ्चिन्त्य शून्यतादिसमापत्तिरसक्तिः । तद्योगादसक्त उपायः ॥
पुनरपरादि प्राक्पुनरपरात् । धर्मसंज्ञा स्कन्धधात्वादिसंज्ञा । स उपलम्भः । तत्प्रहाणायेत्यादि पूर्ववत् । एवं शून्यतादिसमापत्तिरनुपलम्भः । तद्योगादनुपलम्भ उपायः ॥

पुनरपरादि पुनरपरात्प्राक् । स्त्री पुमान् रूपं शब्द इति निमित्तसंज्ञा । तत्प्रहाणायेत्यादि पूर्ववत् । एवमनिमित्तसमापत्तिरानिमित्तम् । तद्योगादानिमित्त उपायः ॥
पुनरपरादि यो हीत्यतः प्राक् । देवः शक्रश्चक्रवर्त्ती स्यामित्यादिर्भवभोगाभिलाषः प्रणिहितम् । तस्य मूलं विपर्यासाः । तस्माच्चतुर्विपर्यासप्रहाणायेत्यादि पूर्ववत् । एवमप्रणिहितसमाधिरप्रणिहितम् तद्योगादप्रणिहित उपायः ॥
यो हि कश्चिदित्यादि नैतत् स्थानं विद्यत इति यावत् । अनुपलम्भादीनामुपाया विमोक्षमुखत्रयं विषय उक्तः । सांप्रतमेषामनभिसंस्कारादिकमधिकं विषयममोघतां च ब्रवीति । अनभिसंस्कारे पतेदिति हीनबोधौ । त्रैधातुकेनेति संसारेण ॥
एवं हीत्यादि सुभूतिराहेत्यतः प्राक् । सम्यक्सम्बोधिकामेन बोधिसत्त्वेन विज्ञो बोधिसत्त्वः प्रष्टव्यः । सम्यक्सम्बोधये किं भावयेयं कथं च भावयेयमिति । स चेदाचक्षीत शून्यतादिकमेव भावय तच्च परिजयं मातुः साक्षात्कार्षीः । तत्रोपायः सर्वसत्त्वापरित्यागचित्तादिरिति । एतत्तस्याख्यातुरवैवर्तिकत्वे लिङ्गम् । तस्मात्तस्य लिङ्गमस्मिन्निति तल्लिङ्ग उपायः ॥
सुभूतिराहेत्यादि सचेत्पुनरित्यतः प्राक् । बहवो बोधाय चरन्ति तेष्वल्पकास्ते य एवं विसर्जयन्ति । व्याकृतास्ते ऽवैवर्त्तिकत्वे ऽसंहार्याः ( र्स्त्_128 ) सदेवमानुषासुरेण लोकेन । यतस्ते ऽल्पका अतो ऽल्पप्रमाणा इत्यप्रमाण उपायः ॥
तदेवं नवमस्य पश्चार्द्धात् प्रभृति विंशतितमस्य पूर्वार्द्धं यावदेकादशपरिवर्ताः सर्वाकाराभिसंबोधिः ॥
इत ऊद्धर्वं मूर्द्धाभिसमयो वक्तव्यः । तस्योद्देशः पूर्वमुक्तः श्लोकद्वयेन षडक्षराधिकेन-
[123] लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः ।
चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः ॥ 1-14 ॥
[124] प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि ।
आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः ॥ 1-15 ॥
[125] मूर्धाभिसमयः
तस्याष्टौ वस्तूनि । ऽलिङ्गविवृद्धिः निरूढिश्चित्तसंस्थितिःऽ । दृङ्मार्गे विपक्षप्रतिपक्षाः भावनामार्गे विपक्षप्रतिपक्षा आनन्तर्यसमाधिविप्रतिपत्तयश्चेति ।
तत्र लिङ्गमधिकृत्य शास्त्रम्-
[126] स्वप्नान्तरेपि स्वप्नाभा सर्वधर्मेक्षणादिकम् ।
मूर्द्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् ॥ 5-1 ॥
ऽमूर्धप्राप्तस्यऽ इति प्रकर्षप्राप्तस्य । ऽयोगस्यऽ इति त्रिसर्वज्ञताप्रयोगस्य । स चेत्पुनरित्यादि वेदितव्या । स्वप्नान्तरगतोपि स्वप्नोपमान् सर्वधर्मान् पश्यति न च साक्षात्करोतीति प्रथमं लिङ्गम् ॥
पुनरपरादि वेदितव्यान्तम् । स्वप्नान्तरगतोपि श्रावकभूमौ प्रत्येकबुद्धभूमौ त्रैधातुके च स्पृहां न करोतीति द्वितीयम् ॥
पुनरपरादि वेदितव्यान्तम् । स्वप्नान्तरगतो महत्यां परिषद्युभयसङ्घपरिवृतं तथागतमात्मानं पश्यतीति तृतीयम् ॥
पुनरपरादि वेदितव्यान्तरम् । स्वप्नान्तरगतो वैहायसमभ्युद्गम्य सत्त्वेभ्यो धर्म देशयति व्यामगतं चात्मानं संजानीते । भिक्षूंश्च निर्मितीत ये लोकधात्वन्तरेषु बुद्धकृत्यं कुर्वन्तीति चतुर्थम् ॥
पुनरपरादि वेदितव्यान्तम् । स्वप्नान्तरगतोप्यात्मनः परेषां वा वधबन्धनशिरश्छेदादीन् दृष्ट्वा नोत्त्रस्यति । विबुद्धस्य चैवं भवति स्वप्नोपमं सर्व त्रैधातुकं मया चाभिसंबुध्यैवं धर्मो देशयितव्य इति पञ्चमम् ॥
पुनरपरादि वेदितव्यान्तम् । स्वप्नान्तरगतस्य नैरयिकादीन् सत्त्वान् दृष्ट्वा एवं भवति । तथा करिष्यामि यथा मे ऽभिसम्बुद्धस्य बुद्धक्षेत्रे त्रयो ऽपायाः सर्वथा न भविष्यन्तीति षष्ठम् ॥
पुनरपरादि पुनरपरात् प्राक् । स्वप्नान्तरगतो यदि ग्रामदाहादौ वर्तमाने प्रतिविबुद्ध एवं समन्वाहरेत् । यथा मया स्वप्ने ऽवैवर्तिकलिङ्गान्यात्मनि दृष्टानि तेन सत्येनायं ग्रामदाहादिः शाम्यत्विति । स चेच्छाम्यति तत्सप्तमं लिङ्गम् ॥
पुनरपरादि आपरिवर्तसमाप्तेः । यदि कश्चित्सत्त्वो ऽमनुष्येण गृहीतो ऽधिष्ठितः आविष्टो वा अन्तःप्रवेशात् । तत्र बोधिसत्त्वः सत्याधिष्ठानं कुर्यात् । यद्यहं व्याकृतः पूर्वबुद्धैरनुत्तरायां बोधौ यदि च मे परिशुद्धो ऽध्याशयस्तामभिसम्बोद्धं यथा च नास्ति बुद्धानां किञ्चिदज्ञातम् । अनेन सत्येनायममनुष्यो ऽपक्रामत्विति स चेत्तस्मात् सत्याधिष्ठानात् अपक्रामति तदष्टमं लिङ्गम् ॥
उपायकौशल्यानां मीमांसा परिज्ञानं तदर्थः परिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां विंशतितमः परिवर्तः ॥
21. मारकर्मपरिवर्तो नामैकविंशतितमः ।
तत्र खल्वित्यादि । अयमेकविंशतितमः परिवर्तो मारकर्मणाम् । कस्तेषां प्रस्तावः? नवयानसंप्रस्थितस्य बोधिसत्त्वस्य सत्याधिष्ठानफलसम्पादनादिना मिथ्यामानोत्पादनाय बहुधा माराः । पराक्रमत इत्ययमेषां प्रस्तावः । ( र्स्त्_130 ) तत्रेत्यनन्तरोक्ते सत्याधिष्ठाने । औत्सुक्यमिति प्राप्तावसरस्य कर्मणः करणार्थ मुत्साहः । बलमुत्साहशक्तिः । तेजः प्रभावशक्तिः । कथं तेजोवत्तरमिति यावत् । तसौ मत्वर्थ इति भत्वास्पदत्वं नास्तीति भत्वेन न भवितव्यम् । तद्यथा आयुष्मान् सरस्वान् इति । एवं तर्हि दीप्त्यर्था[द्]द्रवतेः शत्रन्तात् तरप् । तेजसा दीप्ततरं तेजोवत्तरमिति । औत्सुक्यमिति । आत्मनि बहुमानम् । आवमंस्यत इत्यादि । अवमानो ऽनादरः । उच्चग्घानमन्तर्हासः । उल्लापनं मनसान्यत्करणम् । कुत्सनं दोषदर्शिता । तंसनं दोषवादिता । सम्बोधावितीति । इतिशब्दो हेतौ । मानं जनयिष्यतीत्यादि । अत्र सशब्दस्य सर्वत्रेत्यर्थः । जननमुत्पादनम् । वधंनं पुरःसरीकरणम् । स्तम्भनं स्थिरीकरणम् । बृंहण परिपुष्टिः । उत्पादनमच्चैर्नयनम् । मानेनेत्यादि । अन्येभ्यो ऽधिकत्वेन चित्तस्योन्नतिः सामान्येन मानः स पूर्वमुक्तः । इह तु तद्विशेषा उच्यन्ते । या तस्य हीनादुन्नतिः स मानः । यादृशादेव सो ऽतिमानः । यो पुनः प्रकृष्टात् स मानातिमानः । अप्राप्ते ऽवैवर्तिकत्वे प्राप्तं मयेति सो ऽभिमानः । या पुनरभूतैरवैवर्तिकगुणैर्गुणवानस्मीति स मिथ्यामानः । तथा रूपानिति महाभूतान् बोधिसत्त्वान् दृष्टवेति परेण सम्बन्धः । शेषं तेषामेव विशेषणम् । भजिष्यत इत्यत्र भजेरिट्प्रतिषेधो भवति संज्ञापूर्वकस्य विधेरनित्यत्वात् । तदेव मारबन्धनमिति मानम् ।

पुनरपरमित्यादि । नामापदेशः संज्ञाकथनम् । मृदुको मृद्विन्द्रियः । आरण्यकत्वादयो धुतगुणाः । ग्रामाद्वहिः क्रोशात्परमरण्यम् । तत्रैव स्थानात् आरण्यकः । पिण्डपातस्यैव भोजनात् पिण्डपातिकः । पांसुकूलस्येव प्रावरणात् पांसुकूलिकः । मध्यान्हस्योपान्त एव भोजनात् खलु पश्चाभ्दक्तिकः । एकासन एव भुङ्क्ते एकासनिकः । सकृदास्तीर्णे नित्यं शयनात् याथासंस्तरिकः । त्रिचीवरादधिकत्यागात् त्रैचीवरिकः । श्मशानसमीप एव स्थानात् श्माशानिकः । वृक्षमूल एव स्थानात् वृक्षमूलिकः । निषद्यया रात्रिनयनान् नैषद्यिकः । अच्छन्नो ऽवकाशो ऽभ्यवकाशः । तत्रैव स्थानात् आभ्यवकाशिकः । और्णकशानकादेरेव प्रावरणात् नामन्तिकः । अल्पैषणात् अल्पेच्छः । तावतैव सन्तोषात् सन्तुष्टः । एकाकित्वात् प्रविविक्तः । दृष्टे धर्मे तस्मिन्नेव जन्मनि भवो दृष्टधार्मिकः । तेन आदेक्ष्यति व्यपदेक्ष्यति । कथमित्याह पूर्वमपीत्यादि । यच्छब्दस्तस्मादर्थे । अधिष्ठानमाविष्करणम् । धुतगुणैः संलेखः कर्षणं धनुलेखनवत् । मन्यां करोतीति णिच् । यच् मन्यना मान इत्यर्थः । शेषं सुबोधं धुतगुणाः संविद्यन्त इति यावत् ।
तस्य खल्वित्यादि । नामाधिष्ठानेनेति किमत्र नाम? अविनिवर्तनीयशब्दस्तद्गुणशब्दश्च । स्तम्भाभिभूत इति स्तम्भो गुरुष्वगौरवम् । कतमन्नामधेयमित्यत आह । यदेवेत्यादि । तेनेति बोधिसत्त्वेन । अनुवर्तितमित्यनुविचिन्तितम् । अस्यैव निर्देश उत्तराभ्याम् । अनुवितर्कितं किं मे नाम भवेदिति । अनुविचारितमिदं मे नाम भवेदिति । व्याकरिष्यतीत्यायाख्यास्यति मारः । अनुवर्तितमाकाङिक्षतम् । समेतीति संवदति । किं केन संवदतीत्यत आह नाम्ना नामेति । ततः किमित्याह व्याकृत इत्यादि । संधाव्य संसृत्येति तासु तासु दुर्गतिषूत्पद्य । यदि चेति चकारः समुच्चयार्थः सूक्ष्मसूक्ष्माणीति दुर्लक्ष्याणि ।
अरण्यं च यथोक्तम् । वनप्रस्थं च गिरिगुहा च श्मशानं च पलालपुञ्जश्चेति द्वन्द्वः । आदिशब्दाद्वृक्षमूलादि । आरण्यकानीत्यरण्ये भवानि । अत एव प्रान्तानि विजनपदानीति विजनस्थानानि । विविक्तानि शून्यानि । विविक्तो रहितः ग्रामस्यान्तः समीपमेकदेशो वा । मनसिकारविवेक इति मनसिकारेभ्यो विवेकः । मृदुना अभिनिवेशेन निश्रितः । मध्येन आलीनः । अधिमात्रेण अध्यवसितः । तेनैवात्मोत्कर्षणात् अध्यवसायमापन्नः । संकीर्णो गृहिप्रव्रजितैः । आकीर्णः प्रव्रजितैरेव बोधिसत्त्वचण्डालः तैरसंवास्यत्वात् । बोधिसत्त्वदूषी स्वदोषेण तेषां दूषणात् । बोधिसत्त्वप्रतिरूपको देहसाम्यात् । बोधिसत्त्वप्रतिवर्णिको नामसाम्यात् । बोधिसत्त्वकारण्डवकः हंसेष्विव तेष्वकृष्णेषु कृष्णत्वात् । चौरः श्रमणवेषेण धर्मग्रहणात् । चौरो बोधिसत्त्वानामसम्मतत्वात् । चौरः सदेवकस्य लोकस्य मिथ्यादक्षिणीयत्वात् । तज्जातीय इत्यादिना तावद्वशस्य सभ्दिरसेव्यतां विस्तरेणाह । स्थाम बलम् । अनार्याः पापाः । उद्विग्नं भीतम् । तत्रापि तावदिति तादृशेपि । मंत्रायमाणेनेत्यादिना मैत्र्यादिचतुष्टयविषयभेदानाह । एवं चेत्यादिना प्रणिधानम् । अयमपीति । यस्य खलु पुनरित्यादिकः सर्वः । अभिज्ञायेति । अत्युत्क[टः] पराक्रमः पुरुषकारः । इदमपीत्यादिना पश्चिममारकर्मोपसंहारः ॥
मारकर्मणामभिधायकः परिवर्तस्तथोक्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकविंशतितमः परिवर्तः ॥
22. कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः ।
अथ खल्वित्यादिना आसु खलु पुनरित्यतः प्राक् । प्रज्ञापारमितैवेति प्राधान्यादवधारणम् । यथा च सैका तया सहिताः षट् । अत आह । सर्वा एव चेत्यादि । कुत इत्याह । षडेवेत्यादि । ता एव निष्ठां गताः शास्ता यः परमं फलम् । ततः पूर्वान्त एव मार्गः । आलोको लोकोत्तरं ज्ञानं प्रमुदितायां सोपि ता एव । उल्का प्रयत्नवाही मार्गो विमलादिभूमिषु षट्सु सोपि ता एव । अवभासो दिवसालोकः । स चायत्नवाही मार्गो ऽचलादिषु भूमिषु सोपि ता एव । अतश्च ता एव त्रीणि रत्नानि । तस्मात्ता एव शरणं यावत् दीपः । पदार्थः पूर्ववत् । ता एव माता धारणात्पोषणाच्च । ता एव पिता बिजाधानात् । ज्ञानायेति दर्शनाय । बोधायेति भावनामार्गाय । तक्तस्य हेतोरिति कुतः प्रज्ञापारमितैव यथोक्तगुणा नेतरा इत्यर्थः । अत्र हीत्यादिना परिहारः । त्रैयध्विकबुद्धानां च सर्वज्ञता तत्प्रसूतैवेत्याख्यातुमाह । येपीत्यादि । निर्जाता निष्पन्ना । अन्तर्गता इति यथायोगमन्तर्भूताः । बुद्धज्ञानादिपदानि पूर्वमेव व्याख्यातानि । सर्वभूतानां उपकारिभूतो भवतीति सम्बन्धः । कदेत्याह यदेत्यादि । इति कल्याणमित्रसेवा नवमं लिङ्गम् ॥
आसु खल्वित्यादि सुभूतिराहेत्यतः प्राक् । यस्मात् इयमेव प्रणायिका तस्मात् अपरप्रणेयता इत्यादि । तस्मादपरप्रणेयता दशमं लिङ्गम् ॥
सुभूतिराहेत्यादि । संक्लेशो व्यवदानं च प्रज्ञायत इति यावत् । असङ्गलक्षणेत्यनुपलम्भलक्षणा । सर्वधर्मस्वलक्षणानां तस्यामनुपलम्भात् । तथा रूपादयोपि शून्यत्वाद्विविक्तत्वात् । यदित्यादिना चोद्यं न चोद्यं न हीत्यर्थः । उदग्रहो निमित्तस्य अभिनिवेशो वस्तुत्वेन ग्राहः । तदेवमसङ्गलक्षणा भगवती धर्माश्च । तथाप्यस्ति संक्लेशो ऽस्ति व्यवदानमित्येकादशमं लिङ्गम् ॥
सुभूतिराहेत्यादि स चेत्पुनरित्यतः प्राक् । अनवमर्दनीय इत्यसंहार्यः । अनेनापीति सर्वधर्मेष्वविविक्तेष्वित्यादिना अनवमर्दनीयत्वलाभो द्वादशं लिङ्गम् ॥ इत्युक्तानि लिङ्गानि ॥
विवृद्धिर्वक्तव्या । अतः शास्त्रम्-
[127] जम्बूद्वीपजनेयत्ताबुद्धपूजाशुभादिकाः (काम्) ।

उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिकां ॥ 5-2 ॥
षोडशप्रकारा विवृद्धिरुक्ता सूत्रे । किं कृत्वा? ऽउपमां कृत्वाऽ । कीदृशीम्? जम्बूद्वीपे ये जनाः सत्त्वास्तेषामियत्तया सूत्रोक्तेन माहात्म्येन मनुष्यभावचित्तोत्पादलक्षणेन या बुद्धपूजा तया यच्छुभं पुण्यं तदादिर्यस्या उपमायाः, ताम् । आदिशब्दं (ब्दात्?) लब्धर (?)कारि(?)महामणिरत्नादिपरिग्रहः । बुद्धभूमिर्बहुभिः प्रकारैरुक्ता विनाप्युपमाम् ॥
तत्राद्या स चेत्पुनरित्यादिना तद्यथापीत्यतः प्राक् । यावज्जीवमिति यावदायुः । तद्दानमिति यद्बुद्धेभ्यो सर्वसत्त्वेभ्यः । मनसिकारैः विहरतीति विवृद्धिसंगृहीतैः । स्थापयित्वेति त्यक्त्वा । तत्तेषां स्थापनं कस्य हेतोः? वध्यगतानिवेति वध्यस्थानगतानिवा(व) । विरागयत इत्यप्राप्तवतः । इतिप्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवानां नयनात् प्रथमा विवृद्धिः ॥
तद्यथापीत्यादि न च परिहीयत इति यावत् । प्रज्ञापारमितेति तावदन्वेष्टव्येति सम्बन्धः । कीदृशेन? अविरहितसर्वज्ञताचित्तेन । अविरहितात्पूर्वं मनसिकारशब्दः क्वचित् पठ्यते । सा वान्या वेति पुस्तकभेदात् । प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः क्षणमप्यविरहाद् द्वितीया विवृद्धिः ॥
सुभूतिराहेत्यादि नेतत्स्थानं विद्यत इति यावत् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भाद्व्याकरणलाभ इति तृतीया ॥
सुभूतिराहेत्याद्या परिवर्तान्तात् । व्याकरणे ऽभिसम्बोधे च निर्मानत्वाच्चतुर्थी ॥
कल्याणमित्रादिः परिवर्तो कल्याणमित्रपरिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां द्वाविंशतितमः परिवर्तः ॥
23. शक्रपरिवर्तो नाम त्रयोविंशतितमः ।
तेन खलु पुनरित्यादि एवं शिक्षमाणं चेत्यतः प्राक् । सदेवमानुषासुरं लोकं सर्वश्रावकप्रत्येकबुद्धयानिकाननुपायकुशलांश्च बोधिसत्त्वो ऽभिभवति । तेषां चानभिभूतो भवतीति पञ्चमी विवृद्धिः ॥
एवं शिक्षमाणं चेत्यादि आपरिवर्तान्तात् । चत्वारो लोकपालाः शक्रस्तदन्ये च देवास्तमुपसंक्रमिष्यन्तीत्यादिभिरनुशंसैः षष्ठी ॥
शक्रेणोक्तः परिवर्तः शक्रपरिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां त्रयोविंशतितमः परिवर्तः ॥
24. अभिमानपरिवर्तो नाम चतर्शितितमः ।
अथ खल्वित्यादि कथं चानन्देत्यतः प्राक् । आलीनो भवतीति अनुलग्नो भवति । कथमित्याह । एष इत्यादि यावत्परिपूरयिष्यतीति । न ह्येवमित्यादि । यथान्यसूत्रेषु तथागतभाषितं युज्यमानं एवमत्र नास्तीत्यर्थः । गाधः प्रतिष्ठा । आस्वादो रुचिः । नामगोत्रग्रहणं धुतगुणकीर्तनं च पूर्ववत् । उत्सदा उपचिताः काया राशयः इति सप्तमी विवृद्धिः ॥
कथं चेत्याद्या पविर्तान्तात् सर्वं सुबोधम् । इत्यष्टमी विवृद्धिः ॥
योयमविनिवर्तनीयो ऽभिमानो बोधिसत्त्वस्य बव्हनर्थहेतुस्तदुपलक्षितः परिवर्तो ऽभिमानपरिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां चतुर्विशतितमः परिवर्तः ॥
25. शिक्षापरिवर्तो नाम पञ्चविंशतितमः ।
अथ खल्वित्यादि पारं गच्छतीति यावत् । क्व शिक्षमाणः सर्वज्ञतायां शिक्षत इति प्रश्नः । क्षये ऽनुत्पादे ऽनिरोधे ऽजातौऽभावे ( र्स्त्_135 ) विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाण इत्युत्तरम् । अत्रोपपत्तिः । या हि तथागतस्य तथता ययासौ तथागतः न सा क्षीयते ऽक्षयत्वात् [अ?] क्षयस्य । न च सा उत्पद्यते व निरुध्यते वा जायते वा भवति वा विभवति वा विविच्यते वा रज्यते वा आकाशीभवति वा धर्मीभवतीति वा निर्वाति वा । एवं शिक्षमाणः प्रज्ञापारमितायां शिक्षत इत्यनेन मार्गमाह ॥
बुद्धभूमौ शिक्षत इत्यनेन फलमाह । अमृतधातुर्मोक्षधातुः । नाथकामा इति नाथत्वकामाः । अभ्युद्गततेत्युत्कृष्टता । शकुनीन् ध्नन्ति शाकुनिकाः । निषादा मृतपा(? मृगयवः) । धीवराः कैवर्ताः । उरभ्रा मेषाः । तान् ध्नन्तीति औरभ्रिकाः । अन्धो ऽचक्षुः । बधिरो ऽश्रोत्रः । काण एकाक्षः । कुण्ठो वक्रबाहुः । कुब्जो भग्नपृष्ठः । कुणिः करविकलः । लड्गः संहतजानुः । खञ्जो विकलगतिः । जडो निष्प्रतिभः । लोलो ऽस्थिरपदः । लल्लो ऽकर्मण्यजिव्हः । कल्ल उच्चैः शब्दश्रावी । हीनाङ्गो निन्दिताङ्गः । विकलाङ्ग ऊनाङ्गः । विकृताङ्गो मनुष्यविसदृशाङ्गः । निगच्छतीति निष्पादयति । तामनुप्राप्नोतीति बलादिपरिशुद्धिम् । जानमिष्यामः पश्ययिष्याम इति । शत्रन्तात्करोत्यर्थे णिच् । टिलोपः । शेषं सुबोधं यावत् पारं गच्छन्ति । इति नवमी विवृद्धिः ॥
तद्यथापीत्यादि पुनरपरात्प्राक् । सुवर्णजातरूपादयः गोबलीवर्दन्यायेन । ऊषराः सक्षारमृत्तिकाः । उज्जङ्गला उच्च(?)निर्जलाः । तृणं वीरणादि । खाण्डः सु(शु)ष्कतरुकीलकः । कण्टकाधानः कण्टकीमदनादिर्विविधास्ते येषु । शेषं सुबोधम् । इति दशमी ॥
पुनरपरादि पुनरपरात्प्राक् । चक्रवर्तिराज्यं संवर्तते ऽस्मादिति तत् संवर्तनीयम् । इत्येकादशी ॥
पुनरपरादि पुनरपरात्प्राक् । शक्रः संवर्तते ऽस्मादिति तत्संवर्तनीयम् । इति द्वादशी ॥
पुनरपरादि पुनरपरात्प्राक् । ब्रह्मा संवर्तते ऽस्मादिति तत्संवर्तनीयम् । इति त्रयोदशी ॥
पुनरपरादि जीवितेन्द्रियवाक्यात्प्राक् । कुशलसस्यप्ररोहविरोधिनो रागद्वेषमोहाः खिलाः । विचिकित्सा सत्यरत्नेषु विमतिः । ईर्ष्या परसम्पत्तौ व्यारोषः । शेषाः षट् पारमिताविपक्षाः । शेषं सुबोधम् । इति चतुर्दशी ॥
तद्यथापीत्यादि स चेत्पुनरित्यतः प्राक् । अज्ञान इति प्रज्ञापारमिताविपक्षे । पुण्याग्रः पुण्यैरग्रः । तदेव दर्शयितुमाह तत्किमित्यादि । बुद्धविषयो बुद्धधर्मसाकल्यम् । वशवर्ती वृषभिः । तभ्दावस्तत्ता । विक्रीडितं ऋद्धिप्रातिहार्येण । सिंहनादनदनमनुशासनीप्रातिहार्येण । बुद्धानां सम्पत्तिरुभयार्यसंघैश्चर्यम् । व्यवचारयति परिज्ञानात् । न च प्रतिवहति तेष्वनवस्थानात् । शेषं सुबोधम् । इति पञ्चदशी ॥
स चेत्पुनरित्याद्यापरिवर्तान्तात् । अथ तामपि न सञ्जानीते । कथमित्याह इयं सेत्यादि वाशब्दान्तम् । एवमपीत्येभिरेव त्रिभिराकारैः । स चेदेवं चरतीति तथैवासंजानन्नसमनुपश्यन् । इति षोडशी विवृद्धिः ॥
शिक्षाया वाचकः परिवर्तः शिक्षापरिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चशिंतितमः परिवर्तः ॥
26. मायोपमपरिवर्तो नाम षड्विंशतितमः ।
उक्ता विवृद्धिः । निरूढिर्वक्तव्या । अतः शास्त्रम्-
[128] त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा ।
अपरित्यक्त्वसत्त्वार्था निरूढिरभिधीयते ॥ 5-3 ॥

त्रिभिः सर्वज्ञत्वैः संगृहीता धर्माः ऽत्रिसर्वज्ञत्वधर्माःऽ । तारणमोचनाश्वासनपरिनिर्वापणानि ऽसत्त्वार्थाःऽ । अतः सूत्रे ऽथ खल्वित्यादि विहरन्तीति यावत् । चरन्नपीति क्व चरन्? विवृद्धौ । किं चरन्? दानादीन् । चित्तं क्रामतीति गच्छतीति प्रसीदतीत्यर्थः । चित्तमुत्पादितमित्यहो बताहमेनामधिगच्छेयमिति । उह्यमानानिति ह्रियमानान् । समे युक्ते निर्दोषे । पारिमे तीर इति निर्वाणे । समृध्यन्तां तेषामिति चित्तोत्पादा इति परेण सम्बन्धः । अभीप्सिताः प्रीतिकरत्वात् । परिचिन्तिताः पुनःपुनरुत्पादनात् । परिगृहीता अपरित्यागयोगेन । बुद्धधर्माणामिति बुद्धः सर्वज्ञः । तस्य धर्माणामित्ययमुद्देशः ।
तस्य निर्देशस्त्रिभिः सर्वज्ञत्वैः सर्वज्ञभावैः यतः स सर्वज्ञो भवति सर्वज्ञता च स्वयम्भूंत्वं च, असंहार्यता च । तत्र सर्वाकारसर्वधर्मसम्यग्ज्ञानमिह सर्वज्ञता । स्वयमेव चित्तादेव भवन्त्यस्य धर्मा इति स्वयंभूः । सर्वधर्मवशवर्तीत्यर्थः । तस्य धर्माः स्वयंभूत्वेन ये संगृहीताः । नास्य संहारमस्तीति असंहार्यः । ( र्स्त्_137 ) सवासनसर्वावरणनिर्मुक्त इत्यर्थः । तस्य धर्मा ये ऽसंहार्यत्वेन संगृहीतास्तेषां सर्वेषां परिपूरणाय भवन्त्विति इयता परिपूरिरुक्ता ॥
सत्त्वार्थापरित्यागमाह । न मे भगवन्नित्यादिना । इमैरिति सौत्रो निर्देशः । अतो भिस ऐस् भवति । इदो ऽनादेशश्च न भवति । इमैरित्युक्तम् । कतमैरित्याह । किमितीत्यादि । किमितिशब्दस्य कथं नामेत्यर्थः इति निरूढिः ॥
चित्तस्य संस्थितिः । सा वक्तव्या । समाधिरित्यर्थः । अतः शास्त्रम्-
[129] चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमाः ।
कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः ॥ 5-4 ॥

सूत्रे पुण्यबहुत्वेन समाधिरुक्तो न साक्षात् । कथम्? चतुर्द्विपकश्च लोकधातुः साहस्रश्च द्विसाहस्रकश्च त्रिसाहस्रकश्च तैरुपमाः कृत्वा । कतमेन ग्रन्थेन? यस्तेषां भगवन्नित्यादिना अभिनिर्हृतानि भगवन्तीत्येतदन्तेन । तेषामिति सर्वेषाम् । तानिति प्रतिरूपान् । धर्मता धर्मसमूहः स्वभावो वा । पलाग्रेणेति पलप्रमाणेन प्रमाणं ग्रहीतुं इयन्ति पलानीति । अथ किं कस्यात्रोपमानम्? पुण्यपरिमाणस्य जम्बूद्वीपादिपरिमाणम् । शास्त्र उपचारः कृतः । नन्वनुमोदनामात्रस्यैतत्पुण्यपरिमाणं न समाधेः? अनुमोदनापुण्यानुमोदनेन पुण्यबहुत्वेनेत्यभिप्रायाददोषः ।
अनुमोदनायाः परिपूरणार्थं तामकुर्वतां च निन्दार्थमाह । एवमित्यादि । माराधिष्ठिता इति मारेण महापापेन निरुत्साहीकृताः । न शृण्वन्ति शब्दतः । न जानन्त्यर्थतः । न पश्यन्त्यादरतः । न समन्वाहरन्तीति नाभिमुखीकुर्वन्ति । मारपक्षे भवाः मारपाक्षिकाः । तद्वदेव महतः सत्त्वार्थस्य विघातकरणात् । मारभवनेभ्यश्च्युता इति । मारा एव अत्यन्तं तत्साधर्म्यात् । अभिनिर्हृता इति निष्पादिताः । कैरित्याह । यैरित्यादि । येषामित्यादि च ।
एवमुक्त इत्यादिना अनुमोदितव्यान्तेन शक्रप्रशंसा ।
यरित्यादिना यैरपीत्यतः प्राक् । महायानप्रस्थितानां अनुमोदनानुशंसाः ।
यैरपीत्यादिना प्रथमचित्तोत्पादिकानामपि न केवलमनुमोदितानि स्वसन्ताने चावरोपितान्यभिनिर्हृतानि च भवन्ति । अनुमोद्य चावश्यं परिणामना कर्तव्या । यथा च ते कर्तव्ये तथानुमोदनापरिणामनापरिवर्ताद्वेदितव्यम् । यथोक्तं महत्योभगवत्योः- ऽतानि कुशलमूलानि अनुमोद्यानुत्तरायां ( र्स्त्_138 ) सम्यक्सम्बोधौ परिणामयितव्यानि । तथा च परिणामयितव्यानि यथा न चित्तं चित्ते चरति न चान्यत्र चित्तात्" इत्यादि । तदेवमनुमोदनासहगतं कुशलमूलमस्य समाधेरालम्बनं सम्यक्सम्बोधौ परिणामनमाकारः । चित्तसंस्थितिः स्वभावः । क्व संस्थितिः? न चित्ते ग्राहकलक्षणेन न वान्यत्रेति न सर्वधर्मेषु । किं तर्हि? सर्वधर्मतथतायामद्वयायामिति चित्तसंस्थितिः ॥
दर्शनहेया विकल्पाः सप्रतिपक्षा वक्तव्याः । तानधिकृत्य शास्त्रम्-
[130] प्रवत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ ।
ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ ॥ 5-5 ॥
द्वौ तावद्विकल्पौ ऽग्राह्यौऽ ग्राह्यस्य विकल्पनात् । कथं ऽविकल्पौऽ? यतस्तयोरात्मा न यथाविषयं वितथः कल्पो विकल्प इति कृत्वा । तौ पुनः कस्मिन्विषये? प्रवृत्तिपक्षे च । ऽप्रत्येकंऽ इत्युभयोरपि पक्षयोः । ऽनवात्मकौऽ नवप्रभेदौ ॥
[131] द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ ।
पृथग्जनार्यभेदेन प्रत्येक तौ नवात्मकौ ॥ 5-6 ॥
अपरौ द्वौ ऽविकल्पौ ग्राहकौऽ ग्राहकस्य विकल्पनात् । कथं द्वौ? यथाक्रमं द्रव्यसतः प्रज्ञप्तिसतश्च सत्त्वस्य विकल्पनात् । तत्र प्रथमं पृथग्जनानां द्वितीयमार्याणाम् । तावपि ऽप्रत्येकं नवात्मकौऽ । कथं तौ ग्राहकविकल्पौ? असत एव ग्राहकस्य कल्पनात् । वितथो हि कल्पो विकल्पः । एतदेवाह-
[132] ग्राह्यौ चेन्न तथा स्तो ऽर्थौ कस्य तौ ग्राहकौ मतौ ।
इति ग्राहकभावेन शून्यता लक्षणं तयोः ॥ 5-7 ॥
ऽग्राहकभावेनऽ इति ग्राहकसत्त्वरूपेण । ऽतयोःऽ इति ग्राहकविकल्पयोः ॥
चत्वारोप्यमी विकल्पा विषयभेदेन प्रत्येकं नवविधाः । अत आद्यमधिकृत्य शास्त्रम्-
[133] एष स्वभावे गोत्रे च प्रतिपत्समुदागमे ।
ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः ॥ 5-8 ॥
[134] स्वस्मिन्नधिगमे कर्ततत्कारित्रक्रियाफले ।
प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः ॥ 5-9 ॥
ऽकर्तृतत्कारित्रक्रियाफले ऽ इति कर्तरि तत्कारित्रक्रियाफले चेत्यर्थः । स्वभावादिनवकं प्रवृत्तिपक्षः । बोधिसत्त्वोपादेयत्वात् । तदधिष्ठान एष विकल्पः । तस्मात्प्रथमः । अतः प्रथमं विकल्पमधिकृत्य सूत्रे नववाक्यानि ।
तत्राद्यमधिकृत्य सूत्रम् । सुभुतिराह । कथं च भगवन् मायोपममित्यादि तद्यथापित्यतः प्राक् । मायाकारनिर्मितं गजादिकं माया । तद्वदन्यदपि यत् ख्याति नेहास्ति तत् मायोपमम् । त था च चित्तम् । ग्राहकलक्षणत्वात् ग्राहकस्य चासत्त्वात् । न ह्यसति ग्राह्ये ग्राहकं युक्तम् । ग्राह्याभावः कथमिति चेत् । यदि ज्ञानेनार्थः प्रकाश्येत स्याद्ग्राह्यत्वम् । न च प्रकाश्येत । अप्रकाशस्य प्रकाश्यविरोधात् । अथार्थः प्रकाशात्मैव । किं तस्य ज्ञानेन? तस्मान्मायोपमं चित्तं तदसत् कथमभिसंबुध्यत इति प्रश्नः । उत्तरं तत्किमित्यादिना । नो हीदं नो दीदमित्यसत्त्वादिति भावः । अन्यत्रेत्यन्यम् । तं धर्ममित्यात्मानम् । नो हीदमिति तस्यात्यन्तमसत्त्वादिति भावः ।
एतदेव स्फुटीकर्तुमाह । नाहमित्यादि । अस्तीति नास्तीति वा निर्देशं नोपैति । असतो ऽविज्ञातरूपस्य विधिप्रतिषेधाभ्यामसम्बन्धादिति भावः । योपि धर्म इत्यादि सुगमम् । तस्मात्तर्हीत्यादि । तर्हिशब्दो ऽक्षमायाम् । तस्मादिति ग्राहकलक्षणत्वात् । ग्राहकत्वस्य वायोगात् । अत्यन्तग्रहणेन चैतदाह । यथेयं स्वेन लक्षणेन ग्राहकत्वेन शून्य तथा सर्वैः संप्रयोगिभिः, तेषामपि ग्राहकलक्षणत्वात् । आलम्बनभूतैश्च सर्वधर्मैः, आलम्बनस्य ग्राह्यलक्षणत्वात् । धर्माणां च यथायोगं ग्राह्यग्राहकलक्षणत्वात् । कथं पुनर्ग्राहकौ न स्तः? अभेदे ग्राह्यग्राहकत्वायोगात्, अङ्गुल्यग्रवत् । भेदे जडस्य परतोपि प्रकाशायोगात् । अजडस्य स्वयमेव प्रकाशात् । नासौ भावयितव्यः । न पुनःपुनर्बुद्धौ निवेश्यः खरविषाणवत् । नाप्यसावित्यादि । कस्यचिद्धर्मस्येति सम्यक्सम्बोध्यादेः । आवाहक आहारकः । निर्वाहको निष्पादकः । असतो ऽकिञ्चित्करत्वात् । प्रतीत्यसमुत्पाद एष एनं प्राप्य बोधिसत्त्वः संबुध्यत इति चेदाह । कथं चेत्यादि । न ह्यसत् प्राप्यत इति भावः । अनुत्तरापीत्यादि । अत्यन्तविविक्ता प्रज्ञापारमितावत् । कथं भवतीति नैव भवति । अत्यन्तासतोः साध्यसाधनत्वायोगादिति भावः ।

एवमुक्त इत्यादि । यत एव अत एवेति । हेत्वनुरूपत्वात्फलस्येत्यर्थः । स चेदित्यादिना हेतुं परिपूरयति । यदि हि संजानीते तदा विकल्पः स्यात् न प्रज्ञापारमिता । एवमित्यादिनोपसंहारः । नाप्यभिसंबुध्यत इत्यभिसंबोधेरविकल्पनादिति भावः । अभिसबुध्यते चेत्यादि । परिकल्पितेन हि रूपेण त्रयमिदं नास्ति तच्छून्येन तु विज्ञप्तिरूपेणास्तीति भावः । तथापि संवृत्तिरेषां यथा ( र्स्त्_140 ) प्रतिभाससमत्वात् । शून्यता तु परमार्थः । गम्भीरे ऽर्थे चरतीति यतो ऽस्मिन्नर्थे न शक्यते ऽन्यैश्चरितुम् । दुष्करकारक इति । यतः स भगवान् साक्षात्कर्तुं शक्तोपि न साक्षात्करोति सत्त्वावेक्षया । भाषितस्यार्थमिति आभिप्रायिकमर्थम् । दुष्करमन्येषां सुकरं बोधिसत्त्वस्येति भावः । कुतः सुकरम्? उपायकुशलत्वात् । स चोपायः प्रज्ञापारमितैव । अतस्तमेवाह तथाहीत्यादिना । य इति बोधिसत्त्वः । य इति गम्भीरो ऽर्थः । येनेति प्रज्ञापारमिताख्येन । अथास्यां प्रज्ञापारमितायां चरतः सा चर्या कियता भवतीत्यत आह । स चेदित्यादि । न संसीदतीति न भज्यते । अयमुद्देशः । अस्य निर्देशः षोढा । नावलीयत इति नास्यां मध्यप्रेमा । न संलीयत इति नास्यां मृदुप्रेमा । न विपृष्ठीभवतीति नाप्रेमा । नोत्त्रस्यतीति नैनां त्यक्तुकामः । न संत्रस्यतीति न त्यजति । न संत्रासमापद्यत इति न प्रबन्धेन त्यजति । तदेवं षड्विधभङ्गप्रतिषेधादेतद्गम्यते योस्यामभिमुखीभूतायामत्यन्तं प्रीयते सो ऽस्यां चरतीति । अपरमाह स चेदित्यादिना । अपरमाह । आसन्नेत्यादिना । अपरमाह दूरीकृतेत्यादिना । इह स्वभावादयो नवार्थाः । प्रवृत्तिपक्षे बोधिसत्त्वैरुपादेयत्वात् । तेषु विकल्पः सम्मोहो ऽसम्यग्ज्ञानम् । तत्राद्यः स्वभावविकल्पः । स्वभावः स्वाभिप्रायः । अहमनुत्तरां सम्यक्सम्बोधिमधिगच्छेयं तन्मार्गेणेति । बोधिचित्तमित्यर्थः । तस्मिन् विकल्पः । आकारो बोधेः प्रज्ञापारमितायाश्च शून्यतायां यदज्ञानमसमाहितज्ञानं च । समाहितज्ञाने च तिस्रो मन्यना । अहं चरामि आसन्ना मे महाबोधिरहं वा दूरे हीनबोधेः स्यामिति । अस्य प्रतिपक्षः कथं भगवन्मायोपमं चित्तमित्यत आरभ्य तद्यथापीत्यतः प्राक् । इति स्वभावविकल्पः ॥
तद्यथापीत्यादि । आसन्ना मे महाबोधिर्दूरे हीनबोधी यतोहं बुद्धगोत्र इति सम्मोहः । अस्य प्रतिपक्षः । आकाशसमत्वाद्गोत्रस्य तद्वदविकल्पा प्रज्ञापारमितेति गोत्रविकल्पः ॥
तद्यथापीत्यादि । अस्ति मे प्रतिपत्तिसमुदागमः । तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति संमोहः । तस्य प्रतिपक्षः समुदागमस्य मायापुरुषोपमत्वादविकल्पा प्रज्ञापारमितेति प्रतिपत्समुदागमविकल्पः ॥
तद्यथापीत्यादि । प्रतिभासः प्रतिबिम्बः । ज्ञानप्रतिभासस्य प्रतिभासत्वेनैव यद् ज्ञानं न त्वालम्बनस्य च । सेह ज्ञानस्यालम्बना भ्रान्तिः । सा मम जाता । तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति संमोहः । तस्य प्रतिपक्षः प्रतिबिम्बवदविकल्पा प्रज्ञापारमितेति आलम्बनाभ्रान्तिविकल्पः ॥
तद्यथापीत्यादि । प्रतिपक्षो हन्ता विपक्षो हन्तव्य इति संमोहः । अस्य प्रतिपक्षो यथा तथागतस्य प्रियाप्रियौ न स्तस्तद्वदविकल्पायां प्रज्ञापारमितायां चरतोपीति प्रतिपक्षविपक्षविकल्पः ॥
यथैव हीत्यादि अभूतकल्पनात् कल्पः । तस्य विगमकल्पनाद्विकल्पः । तौ प्रहीणौ यथा तथागतस्य तद्वदविकल्पायां प्रज्ञापारमितायां चरतोपि । तत्र कल्पविगमो विकल्पः स्वाधिगमसंमोहः । तस्य प्रतिपक्षः कल्पविकल्पप्रहीणा प्रज्ञापारमितेति स्वाधिगमविकल्पः ॥
तद्यथापीत्यादि । प्रज्ञापारमितामहं भावयामि । तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति कर्तरि सम्मोहः । तस्य प्रतिपक्षः । कर्तुस्तथागतनिर्मितोपमतत्तद्वदेव कर्तरि निर्विकल्पा प्रज्ञापारमितेति कर्तरि विकल्पः ॥
तद्यथापीत्यादि । स च तथागतनिर्मितो यदर्थं निर्मितस्तच्च कृत्यं करोति । न च तां क्रियां विकल्पयति । तद्वद्बोधिसत्त्वः प्रज्ञापारमितां भावयति न च विकल्पयतीति प्रतिपक्षः । बोधिविकल्पनं क्रियाफलविकल्पः ॥
तद्यथापीत्यादि [आ परिवर्ता]न्तात् । शिल्पिना यदर्थ दारुयन्त्रमयः पुमान्कृतः स तदर्थ करोति न विकल्पयति । तद्वद्बोधिसत्त्वो बोधये, न (तां) बोधिं प्राप्स्यति न च तां विकल्पयतीति प्रतिपक्षः । बोधिविकल्पनं क्रियाफलविकल्पः ॥
मायोपमचित्तोपलक्षितः परिवर्तो मायोपमपरिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां षडिंवशतितमः परिवर्तः ॥
27. सारपरिवर्तो नाम सप्तविंशतितमः ।
मायोपमपरिवर्तस्यान्ते प्रथमो ग्राह्यविकल्प उक्तः । इतरे त्रयो विकल्पा इह सारपरिवर्ते वक्तव्याः । तत्र द्वितीयं ग्राह्यविकल्पमधिकृत्य शास्त्रम् ।
[135] भवशान्तिप्रपातित्वान्न्यूनत्वे ऽधिगमस्य च ।
परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते ॥ 5-10 ॥
[136] परप्रत्ययगामित्वे समुद्देशनिवर्तने ।
प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः ॥ 5-11 ॥

[137] पृष्ठतो गमने चेति विकल्पो ऽयं नवात्मकः ।
निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः ॥ 5-12 ॥
अधिगमन्यूनतादौ दोषे बोधिसत्त्वप्रहेये[ऽ]भावान्निवृत्तिपक्षाधिष्ठानो नवविधश्च श्रावकादीनां मनोभवस्तैरहेयत्वात् । एतानाह अथ खल्वित्यादिनाथ खलु भगवानित्यतः प्राक् । तत्र शारिपुत्र एकमाह । ततः सुभूतिरेकं ततो देवपुत्रास्त्रीन् । पुनः सुभूतिश्चतुरः । इहापि प्रतिपक्षाः पठ्यन्ते । तद्विपर्ययेण विकल्पा गम्यन्ते । सारे बतायमिति बतशब्दो हर्षे । उत्कृष्टं फलं सम्यक्संबोधिः । सो ऽनुसारः । तन्निमित्तं बोधिसत्त्वश्चरति । कतम इत्याह । य इत्यादि । प्रज्ञापारमिता चात्र उभयनैरात्म्यज्ञानमुच्यते । तस्यां चरतः संसारे नात्यन्तमुद्वेगो निर्वाणे नात्यन्तमुत्कण्ठा । उभयोरनुपलम्भत्वात् । ततोयमनुत्तरां सम्यक्सम्बोधिमधिगच्छेदिति प्रतिपक्षः । अन्यथा तु संसारे वा पतेत्पञ्चभिः पारमिताभिः । निर्वाणे वा पुद्गलनैरात्म्यज्ञानात् । अत एव च विना प्रज्ञापारमितया बोधिसत्त्वो बोधिसत्त्वाख्यां न लभते । तद्यथा सम्यगभिषिक्तोपि चक्रवर्तिनः पुत्रश्चक्रवर्तिशब्दं विना सप्तभी रत्नैरित्यधिगमन्यूनताविकल्पः ॥
सरणं सारः । कर्म धर्मः । गम्यता सुधर्षणतेत्यर्थः । विपर्ययादसारो दुर्द्धर्षणता । अतः पारमितानां दुर्द्धर्षणत्वे स चरति यश्चरति प्रज्ञापारमितायाम् । सा हि तासां परिग्रहसमर्था । तद्यथा स्त्रीणां सधूर्तके नगरमार्गे शस्रपाणिपुरुष इति प्रतिपक्षः । अन्यथा सुधर्षणाः स्युरिति परिग्रहाभावविकल्पः ॥
एतदभवदिति नमस्कर्तव्या इत्याद्यथ खल्वित्यतः प्राक् । नमस्कर्तव्यास्त इति कुतः? प्रतिपत्तिसाकल्यादपराधीनत्वादुद्देशानिवृत्तेश्च । अत एवाहुः यैरित्यादि । सर्वमभिनिर्हृतानीति प्रतिपत्तितः पञ्चभिः पारमिताभिः । इहेत्युभयनैरात्म्यवेदिन्याम् । अत एव गम्भीरायामिति प्रतिपक्षः । तस्यामचरतां प्रतिपत्तिवैकल्यं स्यात् । ततस्ते मारादिभिः सुयोधनाः स्युः । अक्षतकवचा इव योधाः प्रतियोधैरिति प्रतिपत्तिवैकल्यविकल्पः ॥
तथेत्यादि । ये चेति वर्तते । तथेति प्रज्ञापारमिताप्रधानासु पारमितासु चरन्त इति हेतौ शतृप्रत्ययः । तथा चरणादित्यर्थः । ततः किमित्याह । भूतकोटिरित्यादि । यथा हि चक्रवर्ती प्रधानं महाप्रभावत्वात्, कोद्रारातीः (? कोट्टराजानः) ( र्स्त्_143 ) तदनुवर्तिनस्तथैव प्रज्ञापारमिता प्रधानं तया संसारनिर्वाणयोरनुपलम्भात् । यथा ते पारमिताभिः संसारे न पात्यन्ते तथा पुद्गलनैरात्म्यज्ञानवशेन भूतकोटिं न साक्षात्कुर्वन्ति । यदि तु प्रज्ञापारमिता प्रधानं न स्यात् तदा हीनबोधिं भूतकोटिं साक्षात्कुर्युरेवेति परप्रत्ययगामित्वविकल्पः ॥
अनेनापीत्यादि । अनेनेति वक्ष्यमाणेन । तमेवाहुर्य इत्यादिना न साक्षात्कुर्वन्तीति । कुतः? उद्देशः सम्यक्संबोधौ लित्सा । कुतस्तस्मादनिवृत्तिः? यतो न तावत्प्रज्ञापारमिता ततो निवर्तते तदर्थमेव तस्यां चरणात् । नापीतराः । तदनुप्रविष्टानां तासामप्यनिवृत्तेः । तद्यथा सर्वाः कुनद्यो महानदीमनुप्रविश्य समुद्रमेव गच्छन्ति न निवर्तत इत्युद्देशनिवृत्तिकल्पः ॥
नवाप्येते विकल्पा महत्योर्भगवत्यो स्वार्थसम्पत्तिमधिकृत्य योजिताः । अतः प्रादेशिकत्वनानात्वविकल्पौ यथा तयोरुक्तौ तथा तावद् ब्रूमः । पारमितापञ्चकं वामहस्तवत् । षष्ठी दक्षिणहस्तवत् । उभाभ्यां सर्वकृत्येषु व्यापारसिद्धेरिति प्रतिपक्षः । यदि तु दक्षिणहस्तप्राया षष्ठी न स्यात्तदा प्रादेशिकः स्याद्व्यापार इति प्रादेशिकविकल्पः ॥
यथा हि नानारसाः कुनदीमहानद्यो महासमुद्रमनुप्रविश्यैकरसा भवन्ति तथा नानारसाः पञ्च पारमिताः षष्ठीमनुप्रविश्यैकरसा भवन्तीति प्रतिपक्षः । नानारसाः तथैव ताः सम्यक्सम्बोधावपीति नानात्वविकल्पः । अस्यां तु भगवत्यां परार्थसन्नाहमधिकृत्य द्वाविमौ विकल्पौ सुभूतिराहेत्यादिना । अथ खल्वित्यादिना तत्र सन्नह्यन्त इत्यनेन दुष्करत्वं दर्शितमनन्तानां सत्त्वानामर्थस्य कर्तुमशक्यत्वात् । तथाप्येवमेव सन्नाहः कर्तव्य ईदृशीं महाशयतामन्तरेण स्वपरार्थयोः कर्तुमशक्यत्वादिति प्रतिपक्षः । सर्वसत्त्वानामर्थस्य केनचिदकरणादात्मविनेयानामर्थाय सन्नाहः कर्तव्य इति प्रादेशिकत्वविकल्पः ॥
नानात्वविकल्पप्रतिपक्षः समता । तामेव विवक्षुः परमदुष्करत्वमाह ते चेत्यादिना । वैनयिका इति विनयार्हाः सत्त्वाः । तथापि कस्य दुष्करतेत्यत आह । एवं चेत्यादि । दृष्टान्तेन दृढीकर्तुमाह । आकाशमित्यादि । तत्कस्य हेतोरिति कुतः साधर्म्यादित्यर्थः । अत उत्तरं आकाशेत्यादि । अनेनेत्युपसंहारः । पुनद्र्दृढीकर्तुमाह । आकाशेनेत्यादि । आकाशोपमैः सत्त्वैरित्यर्थः । कुतो विवाद इत्याह । अयं चेत्यादि वेदितव्यान्तम् । चशब्दो हेतौ । विवादः कलहः । सत्त्वानयं विनेतुकामस्ते चासत्त्वात्परिहरन्तीति कलहः । वैनयिकेत्यादि । यथा च विनेया न सन्ति तथा विनयितापि । तत उभयासत्तया सुतरां परमदुष्करता । एवमियं बोधिसत्त्वेन सर्वसत्त्वात्मसमता द्रष्टव्या यतः शक्नुयात् ( र्स्त्_144 ) स्वपरार्थौ कर्तुम् । स पुनरस्यां चरन् कथं ज्ञेय इत्याह । स चेदित्यादि । न संसीदतीति न खिद्यते सुतरां प्रीयत इत्यर्थः । तत्कस्य हेतोरिति । मत्तस्य प्रज्ञापारमितायां चरणं कस्य हेतोर्नैव कस्यचित् । धर्मनैरात्म्यादर्शनादिति भावः । अत उत्तरं सत्त्वविविक्ततयेत्यादि । एवमित्यादिना द्रष्टव्यान्तेनोपसंहारः । विविक्तता हि सर्वधर्माणां समतेति विस्तरेण प्रतिपक्षः । नाना सत्त्वा नाना धर्मास्ततो नास्त्येकरसा प्रज्ञापारमितेति नानात्वविकल्पः ॥
एवं देवपुत्रा इत्यादि । एव भाष्यमाणायामिति । एवमिदानीं मया देश्यमानायां सर्वधर्मविविक्ततायामिति चर्याकाले देश्यमानायां बोधिसत्त्वो न संसीदतीति सम्बन्धः । न संसीदतीति स्थानप्रस्थानयोर्न मुह्यति । केन गन्तव्यं क्व वा स्थातव्यमिति । तयैव सर्वधर्मसमतासंवेदिन्या प्रज्ञापारमितयोरसंमोहात् । तथाहि । येन बोधिस्तेन गन्तव्यं बोधौ स्थातव्यम् । ते च गतिस्थिती तस्या एव स्वाधी ने हेतुफलावस्थे । ततो येन सा गच्छति यत्र वा तिष्ठति तत्परिणामिता अपि पञ्च पारमितास्तेनैव गच्छन्ति तत्रैव तिष्ठन्ति । तद्यथा चक्रवर्तिनश्चक्ररत्नं येन गच्छति यत्र वा तिष्ठति सर्वो बलकायस्तेनैव गच्छति तत्रैव तिष्ठतीति प्रतिपक्षः । अविज्ञाः पञ्चपारमिताः षष्ठी निराभासा । ततः स्थानप्रस्थानयोरनिश्चयः स्थानप्रस्थानं(न)सम्मोहविकल्पः ॥

यत इत्यादि न संसीदतीति प्रसादितमेतत् । यतश्च न संसीदति ततो गम्यते चरति प्रज्ञापारमितायां पूर्वमेवेति शेषः । अन्यथा कुतो न संसीदेत् । तद्यथा चक्रवर्तिनश्चक्ररत्नमग्रतो गच्छति पश्चाद्बलकाय इति प्रतिपक्षः । उदारविषयत्वात्पञ्चपारमिताः प्राक् प्रवर्तन्ते । सूक्ष्मविषयत्वात् पृष्ठतः षष्ठीति पृष्ठतो गमनविकल्पः ॥
इत्युक्तो द्वितीयो ग्राह्यविकल्पो नवविधः ॥
प्रथमं ग्राहकविकल्पमधिकृत्य शास्त्रम्-
[138] ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षण ।
मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च ॥ 5-13 ॥
[139] स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः ।
श(स)क्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ ॥ 5-14 ॥
द्रव्यसन्नात्मा ऽप्रथमो ग्राहकःऽ । स चास्ति प्रज्ञापारमितावत् । सा हि किञ्चिद्गृण्हाति किञ्चिन्मुञ्चतीति ग्रहणमोक्षणविकल्पः । सापि न गृण्हाति न मुञ्चतीति प्रतिपक्षः ॥
गृह्यन्त एव धर्मास्तेषां मनसिकारादिति मनसिकारविकल्पः । न स धर्मान्मनसिकरोतीति प्रतिपक्षः ॥
मनसिकरोत्येव धर्मास्त्रैधातुके श्लेषादिति त्रैधातुकश्लेषविकल्पः । नासौ त्रैधातुके श्लिष्यतीति प्रतिपक्षः ॥
त्रैधातुके स्थितः कथं तत्र न श्लिष्यतीति स्थानविकल्पः । नासौ क्वचित्तिष्ठतीति प्रतिपक्षः ॥
सत्यभिनिवेशे कथं न तिष्ठतीति अभिनिवेशविकल्पः । नासौ किञ्चिदभिनिविशत इति प्रतिपक्षः ॥
अस्ति बोधिसत्त्वस्य धर्मवस्तूनां प्रज्ञप्तिः । दानपारमिता शीलपारमिता यावत् सर्वाकारज्ञतेति सर्ववस्तुप्रज्ञप्तिविकल्पः । साप्यस्य नास्तीति प्रतिपक्षः ॥
श(स)क्त एव सम्यक्सम्बोधौ तामभिसम्बुध्यते । अन्यथा वैमुख्यादिति श(स)क्तिविकल्पः । अश(स)क्ताः सर्वधर्मा अपरिगृहीताः । न चाश(स)क्तः किञ्चिदभिसम्बुध्यते । स चेदेवं चरति चरति प्रज्ञापारमितायामिति प्रतिपक्षः ॥
दानपारमिताशून्या शीलपारमिताशून्येत्येवमादि प्रतिपक्षविकल्पः । सोपि बोधिसत्त्वस्य नास्तीति प्रतिपक्षः ॥
सर्वाकारैः सर्वधर्माणामनुपलम्भे यथेच्छगमनं तस्य क्षतिः । सा बोधिसत्त्वस्यास्तीति यथेच्छगमनव्याघातविकल्पः । सोपि तस्य नास्तीति प्रतिपक्षः ।
अमी नव प्रभेदा महत्योर्भगवत्योरुक्ताः । अस्यां तु सामान्येन द्रव्यसद्ग्राहकविकल्पं सप्रतिपक्षमाह । अथ खल्वित्यादिना नापीत्यतः प्राक् । जानन्नेवेति न हि भगवतः किञ्चिदज्ञातमस्ति । बोधिसत्त्वो महासत्त्व इति लोकप्रसिद्धितो द्रव्यसत्पुद्गलरूपः स केन कारणेन न संसीदतीति द्रव्यसद्ग्राहकविकल्पः । तस्य प्रतिपक्षो ऽनुपलम्भः । तमेवाह । विविक्तत्वादित्यादिना । असत्त्वादित्यर्थः । स हि स्वयमसत् कुतः संसीदतीति ।
द्वितीयं ग्राहकविकल्पमधिकृत्य शास्त्रम्-
[140] यथोद्देशमनिर्याणे मार्गामार्गावधारणे ।
सनिरोधे समुत्पादे वस्तुयोगवियोगयोः ॥ 4-15 ॥
[141] स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः ।
प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहको ऽपरः ॥ 4-16 ॥
एते नव विकल्पाः पृथग्जनानां प्रथमस्यैव भावान्न तेषां धर्माः । तैरप्रहेयत्वात् । तेषां प्रतिपक्षः षष्ठी यथा सूत्रम् । यथा सारथिरश्वानां सन्मार्गेण यथोद्देशं नेता तथा षष्ठी पञ्चानामिति प्रतिपक्षः । षष्ठ्यभावान्नियन्तुरभावाद्यथोद्देशानिर्याणविकल्पः ।
सर्वाकारज्ञतामार्गो बोधिसत्त्वानां मार्गः । हीनबोधिमार्गस्तेषाममार्गः । तयोरवधारणं षष्ठ्यैवेति सैव प्रतिपक्षः । तदभावे मार्गामार्गावधारणविकल्पः ।
नैषा कस्यचिद्धर्मस्योत्पादिका निरोधिका वा धर्मतां प्रमाणीकृत्येति प्रतिपक्षः । उत्पादिका बुद्धधर्माणां निरोधिका तदावरणानामित्युत्पादनिरोधविकल्पः ।
सर्वधर्मा न संयुक्ता न विसंयुक्त इति प्रतिपक्षः । संयुक्ता विसंयुक्ता वेति संयोगवियोगविकल्पः ।
रुपादौ यावत्सर्वाकारज्ञतायां न स्थास्यतीति योगः करणीयः । सर्वधर्माणां क्वचिदप्यस्थितत्वादिति प्रतिपक्षः । रूपे यावत्सर्वाकारज्ञतायां स्थास्यतीति स्थानविकल्पः ॥
यथा हि फलकामो बीजमवरोप्य सम्यक् सवर्ध्य यावत्फलानि परिपाच्य भक्षयति । एवं महाबोधिकामः पारमितासु शिक्षित्वा ताभिः सत्त्वाननुगृह्य संसारान्मोचयतीति प्रतिपक्षः । बोधौ चित्तमुत्पाद्य सत्त्वानुपेक्षत इति गोत्रविप्रणाशविकल्पः ॥
प्रार्थितो ऽर्थः प्रार्थना । सर्वधर्मवशवर्तितामनुप्राप्तुकामेन षष्ठ्यां शिक्षितव्यमिति प्रतिपक्षः । तच्च शिक्षमाणे सा न स्यादिति प्रार्थनाभावविकल्पः ॥

षष्ठी हेतुः सर्वधर्माणां समुद्र इव सर्वरत्नानां तया परिभाविता हि शुक्लधर्मा बुद्धधर्मा भवन्तीति प्रतिपक्षः । षष्ठ्यभावे हेतुर्न स्यादिति हेत्वभावविकल्पः ॥
प्रज्ञापारमितायां चरन्तं त्रैयध्विका बुद्धाः समन्वाहरन्ति । न च रूपादितो यावन्न सर्वाकारज्ञतातः । अपि तु यत्र न रूपादि यावद्यत्र न सर्वाकारज्ञता तथा समन्वाहरन्तीति प्रतिपक्षः । रूपादितो यावत्सर्वाकारज्ञतातः समन्वाहरन्तीति प्रत्यर्थिकधर्मोपलम्भविकल्पः ॥
एतेपि न व प्रभेदाः महत्योर्भगवत्योरुक्ताः । अस्यां तु सामान्येनैव प्रज्ञप्तिसंग्राहकविकल्पं सप्रतिपक्षमाह । नापीत्यादिना अपि तु खल्वित्यतः प्राक् । कश्चिद्धर्म इति आत्मप्रज्ञप्तिविषयः स्कन्धादिः । न संसीदतीति स्वयमसत्त्वात् । अत एवाह । तत्कस्येत्यादि । कश्चिद्धर्म इति स्कन्धादि चित्तं वा । ( र्स्त्_147 ) सोपीत्यादि । येन धर्मेणेति चित्तेन यो धर्म इति बोधिसत्त्वः । एवमेतदित्यादिरभ्युपगमः । इयता प्रतिपक्ष उक्तः ।
मा भूद् द्रव्यसत्सत्त्वः । अहंकारविषयः स्कन्धादिश्वत्तं वा बोधिसत्त्व इति प्रज्ञप्तिसंग्राहकविकल्पश्चतुर्थः ॥
एवं भगवता चतुर्विधाविकल्पप्रतिपक्षभूता भगवती विस्तरेण देशिता । बोधिसत्त्वस्तु तस्यां चरन् यथा ज्ञेयस्तदाह । अपि तु खल्वित्यादि । भाष्यमाणे ग्रन्थतः । देश्यमाने अर्थतः । निर्देश्यमाने निर्विशेषं कथनात् । उपदिश्यमाने रहस्यकथनात् । न संसीदति न मन्दीभवति । न विषीदति खेदात् । न विषादमापद्यते सन्ततखेदात् । नावलीयते चित्तनमनात् । न संलीयते सन्ततं तन्नमनात् । विपृष्ठं वैमुख्यात् । भग्नपृष्ठं पुनरसांमुख्यात् । नोत्त्रस्यति त्रासोन्मुखत्वात् । न संत्रस्यति सम्यक् त्रासात् । नैनमापद्यते सातत्येन । तदा वेदितव्यं चरत्यस्यां प्रज्ञापारमितायामिति । अस्यामचरतः संसीदनादीनामवश्यंभावात् ।
सुभूतिराहेत्यादिना पारमितान्तेन सुभूतेरभ्युपगमः । एवमित्यादिना । अस्यां चरतो ऽनुशंसातिशयानाह । अनुगृण्हन्ति विशेषाधानतः । समन्वाहरन्ति स्मरणतः । तेपि तस्य बुद्धा भगवन्तो धर्म देशयन्तीति सम्बन्धः । कीदृशा इत्याह । भिक्षुसंघेत्यादि । कीदृशस्येत्याह । प्रज्ञापारमितायां चरत इत्यादि । नाम चेत्यादि । नाम संज्ञा । गोत्रं गार्ग्यादि । बलं कायबलं बुद्धिबलं च । वर्णः परिशिष्टा गुणाः । रूपं वर्णसंस्थाने । एतानि परिकीर्तयमानाः प्रकर्षेण प्रकर्षरूपम् । उदानमिति गुणहर्षोभ्दवां गाथां उदानयन्त्युदाहरन्ति । कस्य गुणा इत्याह तस्येत्यादि । तद्यथापीत्यादिना दृष्टान्तमाह । एवमेवेत्यादिना दार्ष्टान्तिकम् । किं सर्वेषामित्यादिना प्रश्नः । उत्तरं नो हीदमित्यादिना । सर्वसंगाः सर्वे ऽभूतोपलम्भाः । सन्ति भगवन्नित्यादिना पुनः प्रश्नः । उत्तरं सन्तीत्यादिना । इमे त इत्यादिनोपसंहारः । अपरानप्याह येपीत्यादिना । इमेपीत्यादिनोपसंहारः ।
पुनरपरमित्यादिना अविनिवर्तनीयानां वशिता तस्याः प्राप्तिः । तामवक्रान्ताः प्रविष्टाः । बुद्धैर्नामादिपरिकीर्तनस्यानुशंसमाह । येषां खल्वित्यादिना पुनरपरमित्यादि । कथमधिमोक्ष्यन्तीत्याह । एवमेतदित्यादि । तेषां चेति न केवलमक्षोभ्यस्य केषामित्याह । ये चेत्यादि तेषां चेति । अक्षोभ्य-तब्दोधिसत्त्वानाम् । एवमित्यादिना श्रवणानुशंसमुपसंहृत्य तथात्वप्रतिपत्त्यादीनामनुशंसोत्कर्षमाह । एवमनुशंसातिशयेषूक्तेषु प्रकृतायाः प्रज्ञापारमिताया विशेषनिर्देश आपरिवर्तान्ताभ्दविष्यति । तं ( र्स्त्_148 ) प्रस्तोतुं सुभूतिराह यदा भगवन्नित्यादि । तथताविनिर्मुक्त इति । तथतामात्रस्येव प्रख्यानात् । परिकल्पितस्य नानाविधस्याप्रतिभासनात् । न कश्चिद्धर्म उपलभ्यते । तदा कोयमित्यादि सुगमम् । तथतैव तावन्नोपलभ्यत इति तस्या अग्राह्यत्वात् । यः स्थास्यतीति बोधिसत्त्वः ।
सज्जतीति विहन्यत इत्यर्थः । आरभ्येति अधिकृत्य । धर्मवादीति युक्तिवादी । धर्मस्येति बुद्धनिर्वाणस्य । अनुधर्ममनुकूलं मार्गः । व्याकुर्वन् आचक्षाणः । व्याकरोम्याचक्षे । सर्वधर्माणां विविक्तं विवेकः शून्यता । तस्मिन्विहारः समाधिः सर्वधर्माणां अनुपलम्भः । तस्मिन्विहारः यः खलु पुनरित्यादिना सुभूतेर्विहाराद्वोधिसत्त्वविहारस्योर्त्ष दर्शयति । उपपत्तिमाह । तथागतविहारं हीत्यादिना । चरतः समाधिनिष्पत्तये । विहरतो निष्पन्नेन समाधिना । शेषं सुबोधम् । दुर्बोधं तु प्रागेव व्याख्यातम् ॥
सारादिः परिवर्तः सारपरिवर्त्तः ।
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तविंशतितमः परिवर्तः ॥
28. अवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः ।
मायोपमसारपरिवर्ताभ्यां दर्शनहेया विकल्पा उक्ताः । दर्शनमार्गादेश्च प्रज्ञापारमिताविहारस्यावश्यकं बोधिप्रापकत्वमुक्तम् । ततस्तस्य तथाभावे कारणत्रयमनेन परिवर्तेन प्रथमं वक्ष्यति पश्चाद्वोधिलक्षणम् । अतः कारणत्रयमधिकृत्य शास्त्रम्-
[142] बोधौ संदर्शनान्येषां तद्धेतोश्च परीन्दना ।
तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः ॥ 5-17 ॥
तस्या बोधेर्यथोक्तात् प्रज्ञापारमिताविहारादवश्यं प्राप्तिः ऽतत्प्राप्तिःऽ । तस्या ऽअनन्तरो ऽ ऽविनाभावी ऽहेतुःऽ ज्ञापकस्त्रिविध उक्तः सूत्रे । ऽबोधौ सन्दर्शनाऽ व्याकरणं यद् ऽअन्येषांऽ स प्रथमो हेतुः । भाविनां बोधिहेतोरार्यानन्दाय ऽपरीन्दनाऽ द्वीतीयो हेतुः । ऽपुण्याबाहुल्यलक्षणःऽ तृतीयः । अतः सूत्रम् ॥ अथ खल्वित्यादि अवकीर्णकुसुमनामानो व्याकर्तव्याः । ततो देवैः पुष्पमानीतं व्याकर्तव्यैरवकीर्णं ततो रश्मीनां निश्चारप्रवेशौ । आनन्दपृष्टेन ( र्स्त्_149 ) भगवता तेषां व्याकरणम् । तत्तेषां व्याकरणमन्यस्मिन्विशिष्टे लोकधातावितिलक्ष्यते लोकधातोरनिर्देशात् । आयुःसद्धर्मशितिकालयोश्चयतत्वात् । तदनु तस्मात्तर्हीत्यादिना उपसंहारो विहर्तव्यान्तः । इति प्रकृतेन विहारेण बोधिप्राप्तेः प्रथमं कारणम् ॥

ततो ये हीत्यादिना सम्यक्सम्बुद्धानामित्येतदन्तेन प्रज्ञापारमिताचारिणां गुणानाह । ततो ये चैनामित्यादिना वेदितव्यान्तेन येप्येनां श्रुत्वा न प्रतिक्षिपन्ति तेषां गुणमाह । अत्र प्रतिक्रोशणं मानसी निन्दा । प्रतिवहनं मनसा त्यागः । प्रतिकोपनं तस्मै कोपः । प्रतिसंहरणं गुप्तौ स्थापनम् । प्रतिषेधनं निःसारताख्यापनम् । प्रतिक्षेपो ऽसभ्दूतबाधकाभिधानम् । तदव्यवसायः सप्तमः । ततः किञ्चापीत्यादिना चरितवतेत्येतदन्तेन हीनयानापतने कारणद्वयमाह । प्रणिधानादिनाविसंवादितां कृतज्ञतां चेति । तदेवं ये हि केचिदित्यादिना विस्तरेणोपोद्घातं कृत्वा तस्मात्तर्हीत्यादिना परीन्दनामाह । परीन्दना समर्पणा सैवानुबन्धिनी अनुपरीन्दना । अक्षरसन्निपातादिति । अक्षरसन्निपातो व्यञ्जनकायः । तमधिकृत्येति ल्यप् लोपे पञ्चमी । किमर्थमित्याह । उद्ग्रहणायेत्यादि । कथं परीन्दनेत्यत आह । यथेयं नान्तर्द्धीयेतेति । यथेयमन्तर्हिता न स्यात्तथा त्वया करणीयमित्यर्थः । अत ऊर्ध्वं स चेदित्यादिना आहारिकेत्येतदन्तेन द्वितीयमुपोद्घातं कृत्वा तस्मात्तर्हीत्यादिना द्वितीया परीन्दना । अत्र पुनरेवेति पश्चात् । नाशयेरिति हारयेः । शीघ्रमननुश(स)रणात् उत्सृजे । स्मर्तुमशक्यत्वात् विस्मरेः । अपराद्धः कृतापराधः । आराधनमारागणं च तोषणम् । माता बीजधा[र]ना(णा)त् । जननी बीजपृष्टेः । जनयित्री उत्पादनात् । तत उर्ध्वं उद्ग्रहीतव्येयमित्यादिना तादृशी प्रज्ञापारमिता सदेवकस्य लोकस्य शास्तेत्येतदन्तेनोपोद्धातं कृत्वा तस्मात्तर्हीत्यादिनानुशा नीत्येतदन्तेन तृतीया परीन्दना ।
अत्र सुनिरुक्ता सुपठिता धर्मकायतेति प्रज्ञापारमितैव धर्मः काय एषां तत्तदिति वक्ष्यमाणेन कर्तव्यादिना सम्बध्यते । तत्र कर्तव्यमुपस्थानादि दातव्यं पुष्पादि समन्वाहर्तव्यं देशनादि । कल्याणत इति पुण्यकामतया । स्पर्शविहारत इति तेनैव सुखीभावात् । गुणवत्तयेति कल्याणादिना । भाषेये(यमि)ति वदेयम् । कल्पं वा यावत्ततो वा उपरि यदि विस्तर इष्टः स्यात् । किन्तर्हि संक्षेपेणानन्द भाषये(भाषे) । यादृश इत्यादि । ततो योपि कश्चिदित्यादिना सम्यक्सम्बोधिरित्येतदन्तेनोपोद्घातं कृत्वा चतुर्थी परिन्दनामाह । तमात्तर्हीत्यादिना नान्तर्धीयेत्येतदन्तेन । ( र्स्त्_150 ) चतुर्थकमिति वक्तव्ये द्वितीयकमित्युक्तम् । उ(अनु)क्तानामुक्तसामान्येनैकीकरणात् । परिददामि परिन्दामि समर्पयामीत्येको ऽर्थः । एवं चतुराकारा परिन्दना द्वितीयं कारणम् ॥
तत एषा ह्यानन्देत्यादिनोपाद्घातं कृत्वा स चेत् त्वमित्यादि नैतत्स्थानं विद्यत इति यावत् । अत्र अध्वपर्यन्तः क्षणः । विंशं क्षणशतं तत्क्षणः । तत्क्षणाः षष्टिर्लवः । लवास्त्रिंशन्मुहूर्तः । नालिका घटिका । इति पुण्यबहुत्वं तृतीयं कारणम् ॥
ततो ऽथ खलु भगवानित्यादिना अक्षोभ्यस्य भगवतः सबुद्धक्षेत्रस्य सपरिषदः सन्दर्शनमन्तर्धायनं च दृष्टान्तः । अत्र सागरोपमत्वमतिविस्तीर्णत्वात् । गम्भीरत्वं ध्यानसम्पदा । अक्षोभ्यत्वं प्रज्ञासम्पदा । दार्ष्टान्तिके योजयितुमाह । एवमानन्द सर्वधर्मा इत्यादि । सर्वधर्मा हीत्यादिना युक्तिमाह । न कार्यसमर्था इति प्रतिज्ञान्तरम् । निरीहका हीत्यादिना युक्तिमाह । एवं चरन्त इत्यादिनानुशंसामाह । महाबोधिशब्दात् प्राक् । असङ्गतामिति निरुपल[म्भ]ताम् । अप्रतिहतज्ञानतां वा । प्रमाणं वैपुल्यनियमः । क्षयः कालनियमः । पर्यन्तः संख्यानियमः । प्रमाणबद्धेति प्रमाणपरिच्छिन्ना । अप्रमेयत्वादित्यनुपलम्भात् । क्षयो ऽपचयः । परिक्षयो ऽभावः । आकाशाक्षयत्वादिति आकाशवदक्षयत्वात् । कुत इत्याह सर्वधर्मानुत्पादत इति । अनुत्पन्ना सर्वधर्माः । अतस्तेषामनुपलम्भलक्षणा प्रज्ञापारमिताप्याकाशवदक्षयेति । अभिनिर्हर्तव्येति प्रत्यक्षीकर्तव्या । रूपादीनामक्षयत्वेनेति तेषामनुत्पादतः । एवमविद्यादीनाम् । इयं सेति या स्कन्धादीनामविद्यादीनां चाक्षयत्वेन । अन्तद्वयमुत्पत्तिविनाशौ मध्यमुत्पन्नस्य स्थितिः । आवेणिको ऽन्यैरसाधारणः । न च किञ्चिद्धर्ममिति स्कन्धैः संगृहीतम् । कुतः? प्रतीत्योत्पाददर्शनात् । नित्यमित्यनादिनिधनम् । ध्रुवमिति स्थिरम् । शाश्वतमित्यनिधनम् । कारकं वेदकं वेति । ईहतुर्गृहीतुश्चाभावात् । इत उत्तरो ग्रन्थः सुबोधः सम्यक्सम्बोधरिति यावत् । इयता क्षयानुत्पादज्ञानलक्षणा बोधिरुच्यते । अत्र शास्त्रम्-
[143] क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते ।
क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् ॥ 5-18 ॥
मलाः क्लेशविकल्पाः । तेषां ऽक्षयानुत्पादयोःऽ ये ऽज्ञाने ऽ सा बोधिः । ऽते ऽ च ज्ञाने तेषां ऽक्षयाभावादनुत्पादाच्च यथाक्रमंऽ वेदितव्ये । क्षयस्यात्यन्तमसत्तया ज्ञानं क्षयज्ञानम् । अनुत्पादस्यो(स्यानु)त्पत्तिकत्वेन ज्ञानमनुत्पादज्ञानमिति भावः । ( र्स्त्_151 ) अथ बोधेर्लक्षणान्तरसम्भवेपि किमर्थमिदं लक्षणमुक्तम्? दर्शनमार्गेण क्षीणानां विकल्पानामक्षयतो ऽनुत्पादतश्च व्यवलोकनार्थम् । तदेवाह-
[144] प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना ।
विकल्पजातं किं क्षीणं किं वानुत्पत्तिमागतम् ॥ 5-19 ॥
विकल्पानां प्रकृतिस्तथता । न कदाचित्तस्याः क्षय उत्पादो वा । जातिरेव ऽजातंऽ प्रकारः । ततो न कश्चिद्विकल्पप्रकारो दर्शनमार्गेण क्षीण उत्पादं वा त्याजित इति ॥
अन्ये त्वाहुः-
"क्षयज्ञानं तु सत्येषु परिज्ञातादिनिश्चयः ।
न पुनर्ज्ञेयमित्यादिरनुत्पादगतिर्मता" ॥ इति ॥
ते हि शस्यन्ते- सन्ति स्कन्धाः सन्ति चत्वारि सत्यानि । तत्र संक्षेपतः क्लेशदुःखयोः क्षयः पुनरनुत्पादश्च प्राप्यते । ततोः प्राप्तयोर्ये ज्ञाने ते क्षयानुत्पादज्ञाने । प्राधान्येन तथागतानां तु ज्ञेयावरणमपि क्षीयते तेषामक्लिष्टस्याप्यज्ञानस्य क्षयादिति । तन्निरासाय शास्त्रम्-
[145] सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः ।
कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया ॥ 5-20 ॥
[146] नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन ।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ 5-21 ॥
ऽनामऽ शब्दो ऽमर्षे । ऽअत्र विस्मीयते मयाऽ इति विपक्षप्रतिपक्षयोरयोगादिति भावः । ऽअतःऽ कारणात् ऽनापनेयं किञ्चित्ऽ पुद्गलस्य धर्माणां च स्वयमभावात् । ऽप्रक्षेप्तव्यं न किञ्चनंऽ पुद्गलधर्मनैरात्म्ययोरनादिनिधनत्वात् । किं तर्हि? तदुभयं ऽभूतंऽ भूतत्वेन ऽद्रष्टव्यम्ऽ । यतो भूतं पुद्गलनैरात्म्यं दृष्ट्वा क्लेशावरणाद्विमुच्यते । भूतं धर्मनैरात्म्यं दृष्ट्वा ज्ञेयावरणाद् ऽविमुच्यते ऽ । तस्मादभूतानां पुद्गलधर्माणां दृष्टिर्विपक्षः । तेषां नैरात्म्यदर्शनं प्रतिपक्षः । उभयोस्तु नैरात्म्ययोर्भूतत्वं महारथैः क्षुण्णम् । तत इह नोच्यते ॥

तस्मात्तर्हीत्यादि । क्षयानुत्पादलक्षणा बोधिसतस्या अवश्यलभ्यता कारणत्रयं च प्रसङ्गादागतम् । प्राकृतं तु मायोपमसारपरिवर्ते निर्दिष्टं दर्शनहेयानां विकल्पानां प्रहाणम् । अतो यस्माद्दर्शनमार्गेण दर्शनहेयानां विकल्पानां प्रहाणं तस्माद्धेतोः । तर्हीति दर्शनकाले प्रज्ञापारमितायां दर्शनमार्गात्मिकायां चरितव्यम् ॥
तत्कस्य हेतोरिति । हेतुमुखेन दर्शनमार्गस्य लक्षणप्रश्नः । प्रज्ञापारमितायामिति । अत्रत्ये दर्शनमार्गे ध्यानपारमितेत्यत्र चार्थो गम्यते । तेनानुक्तसमुच्चयः । प्रज्ञापारमिता चेति । कुत इत्याह । प्रज्ञापारमितायां हीत्यादि । भावनापरिपूरिं षट्पारमिता गच्छन्तीति सम्बन्धः । सर्वा इति प्रत्येकं समग्राः सत्यः । एकैकया षण्णामपि संग्रहादिति भावः । अतश्च षडेव पारमिताषट्का दर्शनमार्गः । संक्षिप्ता चेयं भगवती । अतो लक्षणमात्रमस्यामुक्तम् । यथा त्वेकैकया सर्वसंग्रहस्तद्विस्तरेण महत्योर्भगवत्योरुक्तम् । अत्र शास्त्रम्-
[147] एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः ।
स एकक्षणिकः क्षान्तिसंगृहीतो ऽत्र दृक्पथ ॥ 5-22 ॥
एकैकमेव एकैकशः स्वार्थ शस् । तस्य भाव एकैकस्य । अव्ययत्वाद्धि लोपः । तेन ऽएकैकस्यैव दानादौऽ इति दानादिषु । ऽतेषांऽ दानादीनां ऽमिथःऽ अन्योन्यं ऽयः सङ्ग्रहःऽ । सो ऽस्मिन् मूर्धाभिसमये दर्शनमार्गः । स च ऽएकक्षणीकःऽ न तु षोडशक्षणाः(णः) । स च क्षान्त्या ऽसंगृहीतःऽ न पुनरष्टाभिः क्षान्तिभिरष्टाभिर्ज्ञानैः । इति मूर्धाभिसमये दर्शनमार्गः ॥
ततो भावनामार्गः । तमाह । सर्वाणि चेत्यादिना । उपायौ च कौशल्यं चेति उपत्यकौशल्यानि । तत्र निश्रयत्वादुपायौ सिंहविजृम्भितावस्कन्धकौ समाधी । कौशल्यं प्रतीत्यसमुत्पादस्यानुलोमं च व्यवलोकनम्- "अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं यावज्जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः सम्भवन्तीत्यनुलोमम् । अविद्यानिरोधात्संस्कारनिरोधः । संस्कारनिरोधाद्विज्ञाननिरोधो यावज्जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते" इति प्रतिलोमम् ।

तत्र सिंहविजृम्भितः समाधिः । तद्यथा- "प्रथमं ध्यानं समापद्यते । द्वितीयं तृतीयं चतुर्थम् । आकाशानन्त्यायतनं विज्ञानानन्त्यायतनं आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं निरोधसमापत्तिं च समापद्यते । निरोधसमापत्तेर्व्युत्थितो नैवसंज्ञानसंज्ञायतनं समापद्यते । तत आकिञ्चन्यायतनं विज्ञानानन्त्यायतनं आकाशानन्त्यायतनं चतुर्थं ध्यानं तृतीयं द्वितीयं प्रथमं ध्यानं समापद्यत" इति ।
अवस्कन्दकसमाधिः । तद्यथा- "प्रथमं ध्यानं समापद्यते द्वितीयं तृतीयं चतुर्थम् । आकाशानन्त्यायतनं विज्ञानानन्त्यायतनं आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं ( र्स्त्_153 ) निरोधसमापत्तिं च । ततो व्युत्थाय प्रथमं ध्यानम् । ततो निरोधम् । ततो द्वितियं ध्यानम् । ततो निरोधम् । ततस्तृतीयं ध्यानम् । ततो निरोधम् । ततश्चतुर्थ ध्यानम् । ततो निरोधम् । तत आकाशानन्त्यायतनम् । ततो निरोधम् । ततो विज्ञानानन्त्यायतनम् । ततो निरोधम् । तत आकिञ्चन्यायतनम् । ततो निरोधम् । नैवसंज्ञानासंज्ञायतनम् । ततो निरोधम् । ततो ऽसमाहितचित्ते पतति । ततो निरोधं समापद्यते । ततो ऽसमाहिते चित्ते तिष्ठति । ततो नैवसंज्ञानासंज्ञायतनम् । ततो ऽसमाहिते । तत आकिञ्चन्यायतनम् । ततो ऽसमाहिते । ततो विज्ञानानन्त्यायतनम् । ततो ऽसमाहिते । तत आकाशानन्त्यायतनम् । ततो ऽसमाहिते । ततश्चतुर्थं ध्यानम् । ततो ऽसमाहिते । ततस्तृतीयम् । ततो ऽसमाहिते । ततो द्वितीयम् । ततो ऽसमाहिते । ततः प्रथमम् । ततो ऽसमाहिते चित्ते तिष्ठति" इति ।
तत्र प्रथमायां गतौ नव स्थानानि । द्वितीयायां सप्तदश । आगमने ऽष्टादश । अत्र शास्त्रम्-
[148] समाधिं [स] समापद्यः ततः सिंहविजृम्भितम् ।
अनुलोमं विलोमं च प्रतीत्योत्पादमीक्षते ॥ 5-23 ॥
[149] कामाप्तमवधीकृत्य विज्ञानमसमाहितम् ।
सनिरोधाः समापत्तीर्गत्वागम्य न व द्विधा ॥ 5-24 ॥
[150] एकद्वित्रिचतुष्पञ्चपट्सप्ताष्टव्यतिक्रमात् ।
अवस्कन्दसमापत्तिरानिरोधमतुल्यगा ॥ 5-25 ॥
सिंहविजृम्भितो यथा सूत्रमेव । अवस्कन्दस्तु गहनम् । तेन तस्य लक्षणमाह । ऽअवस्कन्दसमापत्तिःऽ भवति । कथमित्याह । ऽनव समापत्तीर्द्विधा गत्वाऽ पश्चाद् ऽआगम्यऽ । आदौ कथं गत्वेत्यत आह ऽआनिरोधम्ऽ इति । निरोधसमापत्तिमन्ते कृत्वा । इतरा अष्टौ क्रमेण प्रागित्यर्थः । पुनः कथं गत्वेत्यत आह ऽएकद्वित्रिचतुष्पञ्चषट्सप्ताष्टव्यतिक्रमात्ऽ । ऽसनिरोधाःऽ कृत्वा । काः? इतरा अष्टौ ऽसमापत्तीःऽ । कामावचरं च ऽअसमाहितंऽ चित्तं ऽअवधीकृत्यऽ । अन्ते गन्तव्यं कृत्वेत्यर्थः । पश्चात् कथमागत्येत्यत आह ऽअतुल्यगाऽ इति । अतुल्यगा सती । असमाहितादसमाहितः । समाहिताच्च समाहितमगच्छन्तीत्यर्थः । इहापि ऽकामाप्तमवधीकृत्य विज्ञानमसमाहितंऽ इति सम्बध्यते । ( र्स्त्_154 ) तेनेयसमाहिताच्चित्तात्प्रभृत्यागच्छति । अन्तेप्यसमाहित एव चित्ते गत्वा तिष्ठति । इति मूर्धाभिसमये भावनामार्गः ॥
सर्वाणि चोपायकौशल्यानि परिपूरिं गच्छन्तीत्युक्तम् । कथं च तेषां भावनापरिपूरिभवेत् । यदि भावनाहेयाश्चत्वारो विकल्पनवकाः क्षीयेरन् । तेषां च प्रतिपक्षा एव महत्योर्भगवत्योः पठ्यन्ते । ते तु सामर्थ्याद्गम्यन्ते । वयमपि तमेव पाठमभिसंक्षिप्य तान् वक्ष्यामः । तत्राद्यं विकल्पनवकमधिकृत्य शास्त्रम्-
[151] संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे ।
त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि ॥ 5-26 ॥
[152] एको ग्राह्यविकल्पो ऽयं प्रयोगाकारगोचरः ।
ऽएकःऽ इति प्रथमः । ऽप्रयोगाकारगोचरःऽ इति प्रज्ञापारमिताप्रयोगविशेषः विषयः । ऽविस्तरे ऽ ऽसंक्षेपे ऽ चेति पठितव्यम् । वृत्तानुरोधात् त्वन्यथा पठितम् । विस्तरे सम्मोहो विस्तरविकल्पः । तस्य प्रतिपक्षः । बहुषु स्थानेषु बोधिसत्त्वेन शिक्षितव्यं दानादिषु यावद्वलेषु वैशारद्येष्विति ॥
संक्षेपे सम्मोहः संक्षेपविकल्पः । तस्य प्रतिपक्षः न च क्वचन् शिक्षितव्यमिति । बहुनामपि तेषां न च क्वचनेति शून्यतैकरसत्वात् । सम्बुद्धैःऽसानाथ्येनऽ यः परिग्रहः । तदभावे विकल्पः कल्पना । तस्य प्रतिपक्षः । यः प्रज्ञापारमितायां शिक्षित्वा दानपारमितां यावत्सर्वाकारज्ञतामनुप्राप्स्यति । तेनैवं ज्ञातव्यं- दशदिक्सर्वबुद्धैः सानाथ्येनाहं परिगृहीतः स्वस्यां मातरि तेषां कृतज्ञतयेति ॥
ऽगुणाभावो ऽ ऽनुशंसाभावः । प्रयोगदर्शनभावानाकालभावितत्वात् ऽत्रैकालिकःऽ । तस्मिंस्त्रयो विकल्पास्त्रिस्रः कल्पनाः । तेषां प्रतिपक्षाः । अनुशंसान् विस्तरेणोक्त्वा यथाह- ऽइतीमे ऽनुशंसाः प्रज्ञापारमितायां चरतः प्रज्ञापारमितामभिनिर्हरतः प्रज्ञापारमितां भावयतः ।" इति यथाक्रमं प्रयोगदर्शनभावनामार्गकालिकगुणाभावे त्रयो विकल्पाः ।
ऽश्रेयसः पथिऽ इति निर्वाणमार्गे । प्रयोगादिभेदात् त्रिविधा सम्मोहास्त्रयो विकल्पाः । तेषां प्रतिपक्षा यथाक्रमं- "रूपवेदनादीनां शान्तवशिकतुच्छासारकतया तस्यां चरितव्यम् । ( र्स्त्_155 ) आकाशशून्यताभिनिर्हारतयाभिनिर्हर्तव्या । आकाशशून्यता भावनयेयं भावयितव्या" इति । इति त्रयः प्रयोगादिबोधिमार्गसंमोहविकल्पाः ॥
इत्युक्तो नवविधः प्रथमो ग्राह्यविकल्पः ॥
द्वितीयं विकल्पनवकमधिकृत्य शास्त्रम्-
द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः ॥ 5-27 ॥
[153] अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया ।
हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः ॥ 5-28 ॥
[154] भावने ऽभावने चैव तद्विपर्यय एव च ।
अयथार्थश्च विज्ञेयो विकल्पो भावनापथे ॥ 5-29 ॥
द्वितीयो ग्राह्यविकल्पश्चित्तचैत्तानां या प्रवृत्तिस्तद्विषयः । कियच्चिरं चरन्नस्यां चीर्णो भवतीति प्रश्नः । उत्तरम् । प्रथमचित्तोत्पादमुपादायेति चित्तोत्पादविकल्पः ॥
यावब्दोधिमण्डल मनसिकरोति । कथमियं चरितव्याभिनिर्हर्तव्या भावयितव्येति । आबोधिमण्डा मनसिकारविकल्पः ॥
हीनयानमनसिकाराणां चावकाशं न ददातीति हीनयानयोर्मनसिकारविकल्पौ ॥
सर्वाकारज्ञता मानसिकाराविप्रणाश एव चास्यां चर्या । तथा चरितव्यं यथा चित्तचैतसिका न प्रवर्तन्त इति संबोध्यमनसिकारविकल्पः ॥
किं भावयन् सर्वाकारज्ञतामनुप्राप्स्यति नेति भावनाविकल्पः ॥
अभावयंस्तामनुप्राप्स्यति नेति [अ]भावनाविकल्पः ॥
नेति भावयन्नाभावयन्ननुप्राप्स्यति । नेति नैव भावनानाभावनाविकल्पः ॥
तत्कथं तामनुप्राप्स्यति यथा तथता भूतकोटीर्धर्मधातुरित्ययथात्वविकल्पः ॥
इति द्वितीयो ग्राह्यविकल्पः ॥
तृतीयं विकल्पनवकमधिकृत्य शास्त्रम्-
[155] ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः ।
धर्मप्रज्ञप्त्यशून्यत्वे शक्तिप्रविचयात्मकः ॥ 5-30 ॥
[156] कृतेन वस्तुनो यानत्रितये च स कीर्तितः ।
दक्षिणाया अशुद्धौ च चर्यायाश्च विकोपने ॥ 5-31 ॥

अप्रज्ञपनीयाः सत्त्वाः अनुपलम्भादिति सत्त्वप्रज्ञप्तिविकल्पः ॥

अप्रज्ञपनीयाः सर्वधर्मा इति धर्मप्रज्ञप्तिविकल्पः ॥
अलक्षणशून्यान् सर्वधर्मान् पश्यतीत्यशून्यत्वविकल्पः ॥
धर्माश्च धर्मानुपलम्भश्च यश्चाभ्यां चरति सोपि नोपलभ्यत इति शक्तिविकल्पः ॥
धर्माणां प्रविचयः कर्तव्यः । स चानुपलम्भयोगेनेति प्रविचयात्मको विकल्पः ॥
न च वस्तुनः कृते सो ऽस्यां चरति । यतो ऽकृताविकृतानभिसंस्कृता सर्वधर्मा इति वस्तूद्देशविकल्पः ॥
यद्यप्यकृताविकृतानभिसंस्कृताः सर्वधर्मास्तथापि यथा कश्चित्तथागतनिर्मितो ऽभिसंबुध्य धर्मचक्रं प्रवर्त्य त्रिभिर्यानैः सत्त्वान् परिमोचयति लोकव्यवहारेण न परमार्थेन तथैव च तथागतोपीति यानत्रयविकल्पः ॥
यद्यपि तथागतो निर्मितान्न विशिष्यते तथापि दक्षिणापरिशुद्धिः । यथा हि तथागते प्रतिष्ठापिता दक्षिणा आनिरुपधिशेषान्निर्वाणान्न क्षीयते तथाः निर्मितेपि । तथा तथागतायाकाशे पुष्पाणि क्षिपतस्तथा नमो बुद्धायेति ब्रुवतो मनसि कुर्वतो वा संज्ञां च प्रमाणीकृत्य या हि धर्मता तथागतस्य सैव विनिर्मितस्यापीति दक्षिणापरिशुद्धिविकल्पः ॥
चर्या पारमितादिः । तस्या विकोपनं भेदनम् । कुतः? धर्मतातः । दानपारमिताया यावत् प्रज्ञापारमिताया वा । एवं यावत्सर्वधर्माणां धर्मतेति । कथं तर्हि भगवता धर्मा विकोपिताः? नामनिर्मिता हि ते धर्मा निर्दिष्टा धर्माणां सूचनाय । कथं परो ऽवतरेदिति । न तु धर्माणां धर्मता विकोपितेति चर्याविकोपनविकल्पः ॥
चतुर्थं विकल्पनवकमधिकृत्य शास्त्रम्
[157] सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः ।
भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः ॥ 5-32 ॥
[158] सर्वज्ञतानां तिसृणां यथास्वं त्रिविधाबृत्तौ ।
शान्तिमार्गे तथतादिसम्प्रयोगवियोगयोः ॥ 5-33 ॥
[159] असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि ।
द्वयाभावे च सम्मोहे विकल्पः पश्चिमो मतः ॥ 5-34 ॥
यैराकारैर्लिङ्गैर्निमित्तैर्धर्माः सूच्यन्ते तानि तथागतेनानुबुद्धानि । तेनोच्यते तथागतस्य सर्वाकारज्ञतेति सर्वाकारज्ञतासम्मोहविकल्पः ॥
यौ च श्रावकप्रत्येकबुद्धमार्गौ ये च बोधिमार्गास्ते सर्वे बोधिसत्त्वेन परिपूरयितव्याः । तैश्च मार्गकरणीयं कर्तव्यम् । न च भूतकोटिः साक्षात्कर्तव्यापरिपूर्य प्रणिधानमपरिमुच्य सत्त्वानपरिशोध्य बुद्धक्षेत्रं तेनोच्यते बोधिसत्त्वस्य मार्गज्ञतेति मार्गज्ञतासम्मोहविकल्पः ॥
एतावदेव सर्वं यदाध्यात्मिकबाह्या धर्माः । ते च श्रावकप्रत्येकबुद्धानां सर्वज्ञतेति सर्वज्ञतासम्मोहविकल्पः ॥
सर्वधर्माणां पारं निर्वाणं गता सर्वार्था वा गतानयेति प्रज्ञापारमिता । सर्वधर्माणां वा पारं परमो ऽर्थो ऽभिन्नं तत्त्वं सो ऽस्यां तथागतैर्दुष्टः । अपि चास्यां तथता भूतकोटिर्धर्मधातुरन्तर्गतस्तेनोच्यते प्रज्ञापारमितेति शान्तिमार्गसम्मोहविकल्पः ॥
नेयं तथतादिभिः संयुक्ता न विसंयुक्ता । तथाहीयमरूपानिदर्शनाप्रतिघा, एकलक्षणा यदुतालक्षणात्वादिति तथतादिसंयोगवियोगविकल्पः ॥
नेयं कैश्चिदाच्छेत्तुं(?) शक्यते । तस्मादसाधारणीकृत्य समत्वसम्मोहविकल्पः ॥
अस्यां चरता दुःखसमुदयनिरोधमार्गाद्यर्थेषु चरितव्यमिति दुःखादिसम्मोहविकल्पः ॥
रागादयो नार्थो नानर्थ इति प्रकृतिसम्मोहविकल्पः ॥
यथा न द्वयो नाद्वयो धर्म उपलभ्यते तथा नद्वयं नाद्वयं धर्ममनुप्राप्नोतीति द्वयाभावसम्मोहविकल्पः ॥
इत्युक्ताः षट्त्रिंशभ्दावनाहेयाः विकल्पाः ॥
एवं तावभ्दवतु दोषाणां क्षयो गुणानां पुनः कथमुदय इत्यत आह-
[160] आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव ।
सर्वाकारजगत्सौख्यसाधना गुणसम्पदः ॥ 5-35 ॥
[161] सर्वाः सर्वाभिसारेण निकामफलशालिनम् ।
भजन्ते तं महासत्त्वं महोदधिमिवापगाः ॥ 5-36 ॥
प्रकृतिसिद्धा गुणाः केवलमाक्रान्ता [अ]गुणैराशान् चिरेण । दोषक्षयात् प्रशता (? प्रकटा?) इ(ए)व तं बोधिसत्त्वं भजन्ते सर्वदोषप्रहाणशालिनम् । ऽअभिसारःऽ संदोहः । शेषं गतार्थम् ॥
तस्येत्यादि विवर्जयिष्यतीनि यावत् । इति भावनामार्गस्यानुशंसः ॥
आनन्तर्यसमाधिर्वक्तव्यः । तमधिकृत्य शास्त्रम्-
[162] त्रिसाहस्रजनं शिष्यखड्गाधिगसम्पदि ।
बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः ॥ 5-37 ॥
[163] कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः ।
आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् ॥ 5-38 ॥
अन्तरयितुं शक्तो ऽन्तर्यः । न तथा अनन्तर्यः स्वार्थऽण् । आनन्तर्यः समाधिः स उक्तः सूत्रे । कथमानन्तर्यः? यथा ऽबुद्धत्वाप्तेरनन्तरःऽ । अव्यवहितौ हेतुः कथमुक्तः? ऽपुण्यबहुत्वेनऽ । तदपि कथमुक्तम्? शुभं पुण्यं तदेवोपमा । तां कृत्वा । कथं तच्छुभम्? त्रिसाहस्रजनं त्रिसाहस्रलोकधातवीर्या(या)न् सत्त्वान् ऽप्रतिष्ठाप्यऽ । क्व? ऽशिष्यखड्गाधिगमसम्पदि बोधिसत्त्वनियामे च । ऽ शिष्याः श्रावकाः खड्गाः प्रत्येकबुद्धास्तेषाम् । अर्थाद्गम्यते बोधिसत्त्वस्य च प्राङ्नियामावक्रान्तेरधिगमसम्पत्तौ बोधिसत्त्वनियामे च । क्व पुनरेवमुक्तं पुण्यबहुत्वम्? महत्योर्भगवत्यो । अस्यां कथमुक्तम्? औपलम्भिकबोधिसत्त्वोयां (त्त्वस्य) गंगानदीवालुकोपमकल्पकृताद्दानमयात्पुण्यादेनं समाधिमन्तशो ऽच्छटासंघातमात्रमपि समापद्यमानस्य बहुतरपुण्यत्वेन । एतत्कारिकायां कथमुक्तम्? विनापि तेन चार्थगतेश्चकारस्यानुक्तसमुच्चयार्थत्वात् । ऽसर्वाकारज्ञता च तत्ऽ इति । तच्च बुद्धत्वं सर्वाकारज्ञतालक्षणम् ॥
[164] आलम्बनमभावोस्याः (स्य) स्मृतिश्चाधिपतिर्मतः ।
आकारः शान्तता चा [त्र]

आनन्तर्यसमाधेः ऽआलम्बनमभावःऽ सर्वधर्माणां स्मृतिरधिपतिप्रत्ययः । ऽआकारः शान्तताऽ सर्वधर्माकारास्तगमः । ऽअत्रऽ सर्वाकारज्ञतायाम्-
जल्पाजल्पिप्रवादिनाम् ॥ 5-39 ॥
वादिनां जल्पैश्च जल्पैश्च प्रहृत्य युद्धं वृत्तं ऽजल्पाजल्पिऽ । यथा दण्डादण्डि । अतः सूत्रम् । सर्वोपायकौशल्यानि परिग्रहीतुकामेनेत्यादि । ( र्स्त्_159 ) उपेयत इत्युपायः सर्वाकारज्ञता । तस्मिं कौशल्यानि विप्रतिपत्तीनामपोहनानि । तानि लब्धुकामेन प्रज्ञापारमितायामिति । आनन्तर्यसमाधिलक्षणायाम् । चरितव्यं प्रयोगतो निर्हारतश्च । निर्हृत्य भावयितव्या । भावितायां तस्यामनन्तरमेव सर्वाकारज्ञतालाभे सर्वविप्रतिपत्तीनां क्षयादिति भावः । अभिनिर्हरतीति यथालम्बनं यथाधिपति यथाकारं च संमुखीकरोति । अभिनिर्हर्तव्या इति स्वरसवाहिनः कर्तव्याः । अत्ययेनेति । अत्ययो ऽवधिः । अभव्यश्चेत्यादिना तथागतसमन्वाहृतस्यानुशंसमाह नन्त्वानन्तर्यसमाधिसमापन्नस्य । न हि तस्य भूयो दुर्गतिः सुगतिर्वा । अनन्तरमेव बोधिप्राप्तैः । शेषं सुगममापरिवर्तसमाप्तेः ।
विप्रतिपत्तीरधिकृत्य शास्त्रम्-
[165] आलम्बनोपपत्तौ च तत्स्वभावावधारणे ।
सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ ॥ 5-40 ॥
[166] प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः ।
विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥ 5-41 ॥
[167] लक्षणे भावनायां च मता विप्रतिपत्तयः ।
सर्वाकारज्ञताधाराः षोढा दश च वादिनाम् ॥ 5-42 ॥
ऽषोढा दशऽ चेति षट्दश च षोडशेत्यर्थः । कुतः षोडश? यतस्ताः षोडशस्वर्थेषु आलम्बनोपपत्त्यादिषु । कथं तर्हि ऽसर्वाकारज्ञताधाराःऽ आलम्बनादिस्तासां विषयः? विषयसम्बन्धात्तु सर्वाकारज्ञतायां विषयत्वोपचारः । तद्यथा राजपुत्रे ऽपराद्धो राजन्यपराद्धो भवति । विप्रतिपत्तयोपि प्रायेण प्रतिपक्षपाठादुन्नेतव्याः ।
तत्राद्या विप्रतिपत्तिः । यदि सर्वाकारज्ञताया अभाव आलम्बनं स तर्हि कतमः? यदि धर्माणां परिकल्पितः स्वभावस्तदेवं भ्रान्तिः स्याद्वालविज्ञानवत् । अथ परतन्त्रः स कथमभावः? अत्र परिहारः । यस्य स्वभावो नास्ति सो ऽभावः । नास्ति सांयोगिकः स्वभावो धर्माणां स्वयमभावात् । अपि च तथता स्वभावो धर्माणां सा चाभाव इत्यालम्बनोपपत्तौ विप्रतिपत्तिः ॥
यद्यभावाः सर्वधर्माः केनोपायकौशल्येनादिकर्मिको दानादिषु चरति? देयदायकदानादीनामभावस्वभावावधारणमेव तस्योपायकौशल्यमिति तत्स्वभावावधारणे विप्रतिपत्तिः ॥
दृष्टसत्यस्य तर्हि किमुपायकौशल्यम्? स आर्येण चक्षुषा धर्मान् व्यवलोकयन् भावमपि परतन्त्रं स्वभावं नोपलभते । संयोगिकेन स्वभावेन परिकल्पितेन वा तस्याप्यभावात् । किं पुनरभावं परिकल्पितं स्वभावं, तस्यात्यन्तमसत्त्वात् । स दानादौ चरन् देयदायकदानादीन् प्रत्येकमभाव इति संजानीते । भावाभावानुपलम्भे कथमभावं संजानीते? संवृत्या न तु परमार्थेन । इह दानादयः सर्वे मार्गप्रकाराः सर्वाकाराः । तेषु ज्ञाता(तो) भावाभावानुपलम्भः । ततो ज्ञानं कोटिष्वभावसंज्ञेति सर्वाकारज्ञताज्ञाने विप्रतिपत्तिः ॥
या संवृतिः स एव परमार्थः । एत एकैव तयोस्तथता । अपि तु स्कन्धेषु भावसंज्ञिनां तत्परिहारार्थमभाव इति संवृत्या निर्दिश्यते ऽभावसंज्ञिनां भाव इति । परमार्थतो न भाव उपलभ्यते नाप्यभाव इति सत्यद्वये विप्रतिपत्तिः ॥
प्रयोगश्चर्या । कथं चर्या? शून्याः सर्वधर्मा इति । सर्वासु च शून्यतासु दानादौ च सर्व त्रकोटित्रयानुपलम्भेनेति प्रयोगे विप्रतिपत्तिः ॥
बुद्ध इति कर्मणि निष्ठा । ततो ज्ञातः सर्वो बुद्धः स्यात् । अथ बुद्धवानिति बुद्धः केन कर्तरि क्तः? सर्वश्च चेतनो बुद्धः स्यात् । अत्रोत्तरम् । भूतार्थ इति बुद्धः । भूता न्य(य)स्य धर्मा अभिसंबुद्धा इति वा । भूतो अस्यार्थः प्रतिविद्ध इति वा । अभिसंबुद्धा यथावत् सर्वधर्मा अस्येति वा । चतुर्ष्वपि पक्षेषु बहुव्रीहौ कृते नैरुक्तविधिः कर्तव्यः । भूतार्थ इत्यर्थो ज्ञेयः । तत्सम्बन्धाद्वोधः । समासार्थः- भूतमेवार्थो यस्य बोधस्य स बुद्धः । अन्येषामवश्यं क्वचिद्भ्रान्तेः । भूतार्थः कथं बुद्धः? भूतस्य बुभ्दावो अर्थस्य सत्त्वं इति भावः । भूता अस्य धर्मा अभिसम्बुद्धा इति भूताः । भूतैरर्थैः पुरुषस्य सम्बन्धो ज्ञानकृत एव । इह तु प्रकर्षगतेरभिसम्बोधः कृत इति प्रदर्शनार्थमभिसम्बुद्धग्रहणम् । अस्येति समासार्थः । समासस्तु द्वयोरेव पदयोः । तत्र भुतशब्दस्य बुभ्दावो ध्रमस्य द्वितीयाक्षरलोपः । भूतो ऽस्यार्थः प्रतिविद्ध इति । प्रतिविद्धः प्रत्यक्षार्थः । त्रिपदो बहुव्रीहिः । द्धशब्दात्पूर्वस्य शब्दस्य चुरादेशः । अभिसम्बुद्धा यथावत्सर्वधर्मा अस्येति । मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने क्तः । क्तस्य च वर्तमान इति ( र्स्त्_161 ) कर्तरि षष्ठी । अत्राद्यस्य पदस्य बुशब्दः । अथ द्वितीयस्य तकारः । तृतीयस्य धशब्द इति बुद्धरत्ने विप्रतिपत्तिः ॥

अथ धर्मरत्नं कतमत्? बोधिः । सर्वधर्मोत्कृष्टत्वात् । तत्र यदि धर्मता धर्मात्पृथगेव गण्यते, ऽद्वयमिदं धर्मधर्मतासंग्रहात्ऽ इति वचनात्, तदा ताथागतं ज्ञानं बोधिः । इणजादिभ्य इति बुधेर्भाव इण । अथ धर्मतापि धर्माधर्मप्रकृतित्वात् । तदास्यैव धर्मरत्नं भूतकोटित्वात् तत्त्वशिखरत्वादित्यर्थः । तदा च कर्मणि बुधेरिण । उभयथापि बुद्धिस्ताथागते ज्ञाने प्रवर्तते प्रकर्षगतेः । तत्र धर्मतापक्षमधिकृत्याह । "बोधिः शून्यता तथता भूतकोटिर्धर्मता धर्मधातुः" इति । तत्र शून्यता लक्षणतः । तथता निर्विकारत्वात् । भूतकोटिस्तत्त्वशिखरत्वात् । धर्मता धर्मप्रकृतित्वात् । धर्मधातुरार्यधर्माणां हेतुत्वात् । पुनराह । "नामधेयमात्रमेतत् बोधिरिति" इति । इतिशब्दो भिन्नक्रमः । नामधेयमात्रमेतदिति यो ऽर्थः सो ऽर्थो बोधिरित्यर्थः । नामधेयानामर्थशून्यता बोधिरिति यावत् । पुनराह । "अभेदार्थो बोध्यर्थः" इति । सर्वज्ञज्ञानतथतामात्रप्रख्यानात् । ज्ञानपक्षमधिकृत्याह । "बोधिस्तथतावितथतानन्यतथतानन्यथाभावो बोधेः" इति । तत्र बोधेस्तथतेति बोधस्य तथता । तथैव बोधरूपेणैव भावो नालीकेन रूपेण । अवितथतेत्यभ्रान्तता । अनन्यतथतेति बोधादन्यो ऽलीकस्तस्य तथता बोधरूपता । असता तेन रूपेण बोधस्यैव प्रख्यानात् । तद्विरहो ऽनन्यतथता । अनन्यथीभाव इति । बोधस्य प्रकृतिः स्वेनात्मना प्रकाशः । तस्यान्यथीभावो ऽलीकेनात्मना प्रकाशः । तद्विरहो ऽनन्यथीभावः । सर्वविभ्रमविवेको ज्ञानस्य बोधिरित्यर्थः । पुनराह । "नामनिमित्तमात्रमेतद्वोधिरिति" इति । इतिशब्दो भिन्नक्रमः । नामनिमित्तमात्रमेतदिति यो बोधः सा बोधिरित्यर्थः । प्रयोग एष बोधेर्बोधिं सूचयति । न त्वयं बोधिरविकल्पत्वात्तस्याः । तत्र नामेत्यरूपिणः स्कन्धाः । तेषामलीको ऽर्थसदृश आकारो निमित्तम् । पुनराह । "बुद्धानां बोधस्तस्मद्वोधिः" इति । प्रकर्षगतेरिति भावः । पुनराह "बुद्धैरभिसम्बुद्धा तस्माद्वोधिः" इति । अर्थः प्रधानमस्मिन्वचने न शब्दः । बुद्धानामधिगतस्तस्माद्वोधिरित्यर्थः । षष्ठीसमासे कृते पूर्वपदस्य बोभावः । उत्तरपदस्य धिशब्दः शेषः । उमाशब्दवन्नियोग इति धर्मरत्ने विप्रतिपत्तिः ॥
संहतत्वात् संघः । अभेद्यो ऽच्छेद्य इत्यर्थः । कस्मादभेद्यः । केन वा । सम्यक्सम्बोधेरभेद्यः । सदेवकेन समारकेन लोकेन हीनबोधेराहारकैर्धर्मैरकुशलैश्चेति संघरत्ने विप्रतिपत्तिः ॥
ऽसोपाये समये मुनेः इति कारिकापाठे उपायकौशलमुपाय उक्तः । विषयेण विषयिणो निर्देशात् । अभिसमयः समयः इत्युक्तः । अयो बोधः । स(सं)शब्दः संमुखार्थः । मिथ्याज्ञानमज्ञानमेवेति भावः । मुनेरिति भावप्रधानम् । बुद्धत्वस्येत्यर्थः । उपायकौशल्यं बोधेरभिसमयं चेति समुदायार्थः । "अविरहितसर्वज्ञताचित्तो दानादिषु चरति कोटीत्रयानुपलम्भेन । न च दानादीनां विपाकमात्मनि स्पृहयति । किन्तु सर्वसत्त्वपरिमोचनाय सम्यक्सम्बोधौ परिणामयति" इत्यादिकमुपायकौशल्यं विस्तरेणेत्युपायकौशल्ये विप्रतिपत्तिः ॥
अस्त्यभिसमयो निःप्रपञ्चेत्यत्र न भावो नाभाव इत्यभिसमये विप्रतिपत्तिः ॥
सूत्रे प्रपञ्चशब्दः पठ्यते । शास्त्रे विपर्यासशब्दः । उभयोरेकार्थत्वात् । रूपं नित्यमनित्यं रूपं सुखं दुःखं रूपमात्मानात्मेत्यादयो विपर्यासस्यातिबहवः । संक्षेपतो यावान्विकल्पः स सर्वः प्रपञ्चः । अप्रपञ्चान्न प्रपञ्चयतीति प्रतिपक्षः । अप्रपञ्चो धर्मधातुर्निर्विकल्पत्वात् । तन्न प्रपञ्चयतीति न विकल्पयतीति विपर्यासे विप्रतिपत्तिः ॥
इह बोधिसत्त्वेन दुर्गतिमार्गा ज्ञातव्याः सहेतुफलैस्तेभ्यश्च सत्त्वा निवारयितव्याः । एवं नरकिनन्नरगरुडगन्धर्वादिमार्गाः । एवं चातुर्महाराजिकानां त्रायस्त्रिंशानां यावन्नैवसंज्ञानासंज्ञायतनानाम् । एवं श्रोतआपन्नमार्गो यावदर्हन्मार्गः प्रत्येकबुद्धमार्गो बोधिसत्त्वमार्गो बुद्धमार्गश्च ज्ञातव्यः सहेतुः सफलः । ये च यस्मिन् पले व्यवस्थापनीयास्तांस्तेषु व्यवस्थापयति यावबुद्द्धत्वे । स्वयं तु हीनयानभूमीः सर्वा (र्व?) ज्ञानेन चातिक्रम्य बोधिसत्त्वयानमवक्रामतीति मार्गे विप्रतिपत्तिः ॥
इह सर्व एवार्यपुद्गलाः क्लेशोपक्लेशैः कामरूपारूप्यधातुभिर्बोधिपक्षैः पारमितादिभिस्तत्फलैश्च सर्वार्यधर्मेर्न संयुक्त्वा न विसंयुक्त्वा अरूपिणो ऽनिदर्शना एकलक्षणा यदुतालक्षणाः । य एवं न जानन्ति तान् प्रति संवृस्या निर्दिश्यते बोधिपक्षा धर्मा बोधेराहारका बोध्यावरणानामपहारका इति विपक्षप्रतिपक्षयोर्विप्रतिपत्तिः ॥
विस्तरेण भगवता धर्माणां लक्षणं देशितं सत्त्वानामवतारणाय संवृत्या परमार्थतस्तेन लक्षणे शिक्षितव्यं नालक्षणे । यतः स्थित एवैष नित्यं लक्षणधातुरिति लक्षणे विप्रतिपत्तिः ॥
यद्यलक्षणाः पारमितादयो धर्माः कथमलक्षणानां तेषां भावना भवति? "नास्ति सुभूते ऽभावस्वभावेषु धर्मेषु भावसंज्ञिनः प्रज्ञापारमिता भावनाविपर्यासात् । अपि तु सर्वासां धर्मसंज्ञानां भावनाविभावने प्रज्ञापारमिता । एवं यावन्नास्ति भावसंज्ञिनो दानपारमिता भावना । एषोहमस्मै इदं ददामीत्येवं संज्ञिनः । " एवं बोधिपक्षादिषु वक्तव्यम् । दृष्टसत्यास्तु धर्माणां केवलमभावस्वभावतां भावयन्ति न भावसंज्ञया नान्यभावसंज्ञया । संज्ञा हि प्रपञ्चः प्रज्ञापारमिता तु निःप्रपञ्चेति भावनायां विप्रतिपत्तिः ।
अवकीर्णकुसुमनामानो बोधिसत्त्वा इह परिवर्ते बोधौ व्याकृताः । अतस्तैरुपलक्षितः परिवर्तस्तत्परिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामष्टविंशतितमः परिवर्तः ॥
29. अनुगमपरिवर्तो नामैकोनत्रिंशत्तमः ।
अनुपूर्वाभिसमय इदानीं वक्तव्यः । तमधिकृत्य शास्त्रम्-
[168] दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा ।
धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥ 6-1 ॥
ऽअनुपूर्विक्रियाऽ अनुपूर्वशिक्षा अनुपूर्वप्रतिपद्या पूर्वमुद्दिष्टा संप्रति निर्देष्टव्या । सा ऽमताऽ इष्टा । कथमित्याह । दानेनेत्यादि । ऽदानेनऽ इति दानपारमितया । ऽप्रज्ञया यावद्ऽ इति प्रज्ञापारमितया । यावद्ग्रहणाच्छीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया च । ऽबुद्धादौ स्मृतिभिश्चऽ इति बुद्धादिविषयाभिरनुस्मृतिभिः । चकारो भिन्नक्रमः । ऽधर्माभावस्वभावेनऽ चेति भावप्रधानो निर्देशः । धर्माणामभावस्वभावत्वेन चेत्यर्थः । ऽइतिऽ एवं ऽसा मताऽ ।

अतः सूत्रं पुनरपरमित्यादि । एवमिति वक्ष्यमाणेन वाक्यत्रयेण । प्रज्ञापारमितेत्युनुपूर्वक्रिया । अनुगन्तव्येति वेदितव्या । कथमित्याह । सर्वधर्मासङ्गतः प्रज्ञापारमितानुगन्तव्या । सर्वधर्मासम्भेदतः प्रज्ञापारमितानुगन्तव्या । सर्वधर्मासम्भवतः प्रज्ञापारमितानुगन्तव्येति । तत्रादौ सर्वधर्माः ( र्स्त्_164 ) षट्पारमिताः । तासामेव बोधिमार्गत्वात् । धर्मशब्दस्य चेह मार्गवाचित्वात् । सर्वधर्माणामसङ्गता निःसङ्गता निर्विघ्नता । बोधिसत्त्वैरनुक्रमकरणीयेषु प्रथमचित्तोत्पादादिषु सत्त्वपरिमोचनान्तेषु तया(था?)सानुगन्तव्या । तद्यथा- "प्रथमचित्तोत्पादमुपादाय दानपारमितायां चरन्नात्मना च दानं ददाति परांश्च दानपारमितायां प्रतिष्ठापयति दानस्य च वर्ण भाषते । ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः । स तेन दानेन महान्तं भोगस्कन्ध प्रतिलभ्य दानं ददाति विगतमत्सरेण चित्तेन अन्नं पानं वस्त्रं विलेपनं शयनमुपाश्रयमन्यद्वा परिष्कारोपकरणं ददाति तदर्थिनाम् । स तेन दानेन सत्त्वान् शीले समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति । स तैरेव शीलादिस्कन्धैः समन्वागतः श्रावकादिभूमिमतिक्रामति बोधिसत्त्वानियाममवक्रामति बुद्धक्षेत्रं परिशोधयति सत्त्वान् परिपाचयति सर्वाकारज्ञतामनुप्राप्नोति धर्मचक्रं प्रवर्तयति । सत्त्वांस्त्रिषु यानेषु प्रतिष्ठाप्य संसारात्प्रतिमोचयति । एवं खलु दानेनानुपूर्वक्रिया । तां च सर्वान्नोपलभते । तथा ह्यस्याः स्वभावो नास्ति । यस्य च स्वभावो नास्ति सो ऽभाव इति दानपारमितयानुपूर्वक्रिया । एवं शीलादिभिरपि" इति षड्भिः पारमिताभिः षडनुपूर्वक्रियाः ॥
सर्वधर्मासम्भेदतः प्रज्ञापारमितानुगन्तव्येति । सर्वधर्माः षडनुस्मृतयः । ताः कथं धर्माः? चित्तधारणात् । अपि च पुण्यमपि लोके धर्म उच्यते । ताश्च भावनामयं पुण्यम् । सर्वधर्माणामसंभेदतो ऽभिन्नता समता । अभावस्वभावत्वात् । तयानुगन्तव्येति पूर्ववत् । तथाहि- "बोधिसत्त्वः प्रथमचित्तोत्पादमुपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैरभावस्वभावान्सर्वधर्मानधिमुच्य षडनुस्मृतीर्भावयति । ताः स्वयं च भावयति परांश्च तासु प्रतिष्ठापयति तासां च वर्ण भाषते । ये चान्ये तासु चरन्ति तेषां वर्णवादि भवति समनुज्ञः । स तास्तथा भावयन्नभावस्वभावयोगेन सप्तत्रिंशतं(तः) बोधिपक्षान् यावत्सर्वाकारज्ञतां परिपुरयति । सो ऽभावस्वभावेनैव सर्वधर्मानभिसंबुध्य धर्मचक्रं प्रवर्त्य यावत्सर्वसत्त्वान् परिमोचयति । तत्र बुद्धं भगवन्तं न रूपादिस्कन्धैर्न लक्षणानुव्यञ्जनैर्न शीलादिस्कन्धैर्न दशबलवैशारद्यप्रतिसंविभ्दिर्न महाकरुणया न महामैत्र्या नाष्टादशभिरावेणिकैर्नापि प्रतीत्यसमुत्पादतो मानसिकरोति । तत्कुतः? अभावस्वभावत्वात्तेषामित्यनुस्मृतिरमनसिकारो बुद्धानुस्मृतिः ।
स प्रज्ञापारमितायां चरन्न कुशला[कु]शलान् धर्मान् मनसिकरोति । तेषामभावस्वभावत्वादित्यमनसिकारो धर्मानुस्मृतिः ।
योसौ भगवतः स्रावकसंघश्चत्वारः पुरुषयुगा अष्टौ महापुरुषपुद्गलाः स्वभावस्तस्य नास्ति । यस्य धर्मस्य स्वभावो नास्ति सो ऽभाव इत्यमनसिकारो संघानुस्मृतिः ।
तेन प्रज्ञापारमितायां चरताखण्डे ऽच्छिद्रे ऽकल्माषे ऽपरामृष्टे भुजिष्ये विज्ञप्रशस्ते समाधिसंवर्तनीये शीले स्थित्वा तच्छीलमभावस्वभावतो मनसिकर्तव्यमित्यमनसिकारो शीलानुस्मृतिः ।
स प्रज्ञापारमितायां चरन्नामिषं वा अङ्गप्रत्यङ्गानि वा त्यजन् सर्वं तदभावस्वभावतो मनसिकरोतीत्यमनसिकारो यो(त्या)गानुस्मृतिः ।
ये ते देवाः श्रोतआपन्नाश्चातुर्महाराजकायिकेषु यावत्परनिर्मितवशवर्तिषु देवेषूपपन्नास्ते सर्वे ऽभावस्वभावा इत्यनुस्मृतिरमनसिकारो देवतानुस्मृतिः ।"

इति षड्भिरनुस्मृतिभिः षडनुपूर्वक्रियाः ॥
सर्वधर्मासम्भवतः प्रज्ञापारमितानुगन्तव्येति । स्वलक्षणधारणात् धर्माः । स्कन्धा धातव आयतनानि बोधिपक्षाः पारमिता यावत्सर्वाकारज्ञतेति सर्वधर्माः । तेषामसंभवत इत्यसंभवज्ञानतो ऽनुपूर्वक्रिया वेदितव्या । असंभवो ऽभावस्वभावता । तथा हि- "तेषां नास्ति स्वभावः । यस्य स्वभावो नास्ति सो ऽस्वभावः । स प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादमुपादाय सर्वधर्माणामभावस्वभावतामधिमुच्य चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि यावत्सर्वाकारज्ञतां भावयति । सो ऽभावस्वभावान् सर्वधर्मानभिसंबुध्य धर्मचक्रं प्रवर्तयति । त्रिभिश्च यानैः सत्त्वान् संसारात्परिमोचयति" इति धर्माणामभावस्वभावतया त्रयोदश्यानुपूर्वक्रियाः ॥
इत ऊर्ध्वं चोद्यानि स्वयमूह्यानि परिहारास्तु वक्तव्याः । यद्यभावस्वभावाः पारमिता भाव्यन्ते तदा तभ्दावना निष्फला तुरगविषाणभावनावदिति चोद्यम् । परिहारमाह । सर्वधर्मा निर्विकारसमा इतीत्यादि । निर्विकारो धर्मधातुस्तेन समाः सर्वधर्मा नाभावमात्रेण । धर्मधातुश्चालम्ब्यमान आर्यधर्माणां हेतुर्भवति । अत एव धर्मधातुरितुच्यते । तत्कुतो वैफल्यम्?
ननु प्रत्यात्मवेद्य आत्मा विज्ञप्तिश्च । अतः सति ग्राहके ग्राह्यमप्यस्तीति न युक्तः सर्वधर्माणामभाव इति चोद्यम् । परिहारमाह । सर्वधर्माणाममनात्मविज्ञप्तितः प्रज्ञानुबोधनत इत्यादि । अनात्मविज्ञप्तित इत्यात्मविलक्षणत्वादनात्माकारेण ग्राह्यग्राहकवैधुर्यादविज्ञप्त्याकारेण च । ( र्स्त्_166 ) प्रज्ञानुबोधनत इति प्रमाणेन प्रतीतेः । आत्मा हि नित्यैकरूपो ज्ञाता न च स्कन्धादय इथम्भूताः । तस्मादनात्मत्वेन सिद्धाः । ग्राह्यग्राहकवैधुर्याच्च । अत एव च विज्ञप्त्याकारेणापि सिद्धाः । ग्राहकलक्षणत्वात्तस्याः । ग्राहकाभावाद्ग्राह्यमपि नास्तीति सिद्धः सर्वधर्माणामभावः ।
रूपादिशब्दैर्येभिलप्यन्ते त एव रूपादयः । अस्ति च लोके तैस्तेषामभिलापः । श्रोतॄणां व्यवहारः संवादश्च । तत्कुतो ऽभावः सर्वधर्माणामिति चोद्यम् । परिहारमाह । नाममात्रेणेत्यादिना । अर्थशून्यं नाम नाममात्रम् । तेन ते सर्वधर्मा अभिलप्यन्ते । न हि बुद्ध्याकार एषामर्थो बाह्यत्वेन प्रति [य]ते, बाह्ये च प्रवृत्तेः । नापि बाह्य एवार्थः, असत्यपि बाह्ये शब्दादर्थगतेः । बुद्धिरेव बाह्यरूपेण शब्दार्थ इति चेत् । न चैतस्या अर्थो रूपं, अत्यन्तभेदात् । अभेदे वा न विसंवादः स्यात् । बुद्धिमन्तश्चार्थवन्ता भवेयुः । तस्मादर्थाभावान्नाममात्रेण व्यवहारमात्रेणाभिलप्यन्ते । व्यवहारस्तावदस्तीति चेदाह । व्यवहारश्चेत्यादि । न क्वचिदित्यर्थाभावत् । न कुतश्चिदिति वाचकाभावात् । नापि कश्चिदिति न वाचिको न च कायिको नापि मानसः । वाच्यवाचकयोरभावात् । सर्वधर्मा इत्यादिनोपसंहारः । अव्यवहारा अव्याहारा इति तेषु तयोरभावात् । अत एव चाव्याहृताः ।
ननु रूपादीनां प्रमाणवत्त्वात् तच्छून्यता अपि प्रमाणवत्य इति तदालम्बना प्रज्ञापारमिता प्रमाणवती स्यात् । न चेष्यत इति चोद्यम् । परिहारमाह । सर्वधर्माणां अप्रमाणत इति । अप्रमाणत्वात् । तथा हि सर्वधर्माणां नास्ति प्रमाणमभावलक्षणत्वात् । आकाशस्येव रूपाभावलक्षणस्य, ततस्तच्छून्यतानामपि नास्ति प्रमाणमवच्छेदकाभावात् । ततः प्रज्ञापारमिताया अप्यालम्बनाभेदात् ।
यदि तर्हि रूपादयो न सन्ति कैत्य(किमिति) नीलादयः प्रख्यान्ति । धर्मनिमित्तान्येतानि न धर्मवस्तूनि । एकानेकस्वभावविरहात्, अप्रकाशात्मनः प्रकाशायोगाच्च । धर्मनिमित्तानि तु धर्मभ्रान्तीनामाकाराः । ता हि प्रकाशरूपत्वात् प्रकाशमानास्तैरसभ्दिरपि रूपैः प्रख्यान्ति । असत्ख्यातिलक्षणत्वाद भ्रान्तीनाम् । यद्येव, न सिद्धयति प्रज्ञापारमिता । सा खल्वभ्रान्ता साकारा तु बुद्धिर्भ्रान्तैव । न च निराकारा बुद्धिः स्वप्नेप्यनुभूयत इति चोद्यम् । परिहारमाह । सर्वधर्मानिमित्तत इत्यादिना । सर्वधर्मेष्वानिमित्तं निमित्तास्तमयाज्ज्ञानस्य निराभासता निराकारता । ततः प्रज्ञापारमिता वेदितव्या । आकारपरिवर्जनादारूप्यसमापत्तिवदिति भावः ।
नन्वयं विकल्पनिमित्तानां परिवर्जनाद्धर्मधातोः सम्यङ्मनसिकारो न पुनः प्रज्ञापारमितेति चोद्यम् । परिहारमाह सर्वधर्मनिर्वेधत इत्यादि । ( र्स्त्_167 ) निर्वेधशब्देनात्र प्रतिवेध उक्तः । सर्वधर्माणां परिनिष्पन्नेन रूपेण प्रतिवेधो ज्ञानसाक्षात्क्रिया स तेषां निर्वेधः । तत इति तेन लक्षणेन प्रज्ञापारमिता इत्यर्थः । पूर्वत्र हेतौ तृतीया । तदन्तात्तम् । तथा हि तस्यैव सम्यङ्मनसिकारस्य श्रुतचिन्ताभावनान्वयादनाभोगतो ऽनभिसंस्कारतः सर्वधर्मतथताया निष्प्रपञ्चज्ञानमुत्पद्यते । स तस्याः प्रतिवेधः । अथ को ऽर्थः प्रज्ञापारमिता(त)या शुद्धिः? नैतद्युक्तम् । तथा हि । कस्तया शुद्ध्यति? नात्मा तस्यानिष्टेः, न चित्तं प्रतिक्षणभेदात् । अथ चित्तसन्तानः । सोप्यशुद्धः शुद्धो वा प्रकृत्या भवेत् । पूर्वस्मिन् पक्षे न तस्य शुद्धिरङ्गारस्येव घृष्यमान(ण)स्य । द्वितीयपक्षे वैयर्थ्यम् । अथ चित्तधर्मता तया शुद्ध्यति । तदप्ययुक्तं निर्विकारत्वात्तस्या इति चोद्यम् । परिहारमाह । सर्वधर्मप्रकृतिपरिशुद्धित इत्यादि । सर्वधर्माणां प्रकृतिस्तस्याः परिशुद्धिस्ततस्तेन प्रयोजनेन प्रज्ञापारमितानुगन्तव्या । अनुष्ठातव्येत्यर्थः ॥
ननूक्तं तदप्ययुक्तं निर्विकारत्वात्तस्या इति । उक्तमेतत्किन्तु न युक्तम् । हेतोरनैकान्तिकत्वात् । सा हि प्रकृत्यैव परिशुद्धा अतन्मयत्वात्, आगन्तुकेनावरणमलैर्मलिनीक्रियते नभ इवात्र तमस्तुहिनादिभिः । पश्चात्प्रज्ञापारमितयैव तेषां निरासाद्धिशुद्धयति पवनादिभिरभ्रादिमोचनादिव नभः ।
ननु प्रज्ञापारमितापि भगवतैव देशिता । देशना च सनिमित्तमेव ज्ञानमुत्पादयति । ततः प्रज्ञापारमितापि निर्मिमित्ता न युक्तेति चोद्यम् । परिहारमाह । सर्वधर्मावचनत इत्यादिना । सर्वधर्माणामवचनात् । वाचास्वरूपमप्रकाश्य केवलं सूचनात् । परमार्थदर्शनाय प्रज्ञापारमितानुगन्तव्या ।

ननु केयं विशुद्धिः? क्लैशपक्ष (क्षय) इति चेत् । पुनर्भवः स्यादेव । अथ हेतुक्षयाज्जन्मापि क्षीयते तदा परिशिष्टा संस्कारा यावदायुरवस्थाय स्वयमेव निरुध्यन्ते । इति श्रावकबोधिरेव स्यान्नानुत्तरा सम्यक्सम्बोधिः । सत्यां वा विशेषो वक्तव्य इति चोद्यम् । परिहारमाह त्रिभिर्वाक्यैः । सर्वधर्माणामनिरोधत इति । अनाश्रवाणां धर्माणामक्षयात् प्रज्ञापारमितानुगन्तव्या । कथमनिरोधः? प्रहाणसमतया । निर्देशत्वेन प्रहाणादविशेषात् । सर्वधर्माणामिति सांक्लेशिकानां सर्वधर्माणां निर्वाणप्राप्तितः प्रज्ञापारमितानुगन्तव्या । यथा तेषां तथता तथैव त इति ज्ञानं तथतासमता । तया कथं तथतासमतेत्याह । सर्वधर्मा इत्यादि । नागच्छन्त्यनागतादध्वनः, न गच्छन्त्यतीतमध्वानं, यत आगन्तव्यं यत्र च गन्तव्यं तयोरसत्त्वात् । यतश्च अजानानाः स्वसंविन्मात्रे ऽध्वनामज्ञानात् । ज्ञानपूर्वकत्वाच्च गत्यागमनयोः । तस्मात् अजाता अत्यन्ताजातित इति ॥
इयता बोधिसत्त्वानां स्वार्थसम्पत् प्रसाधिता । अस्तु नामैषां स्वार्थसम्पत्स्वार्थस्य लोके प्रकृत्यैव प्रियत्वात्तदर्थ दुष्करस्यापि व्यवसायात् । ( र्स्त्_168 ) परार्थस्तु दुष्करत्वानामानन्त्यात् परत्वाद्विप्रतिपत्तिः बहुलत्वादिति चोद्यम् । परिहारमाह आत्मेत्यादिना । आत्मा पर इति यो च भेद [:] तस्यादर्शनात्सर्वसत्त्वानामात्मसमतादर्शनादित्यर्थः । तथा चोक्तमार्यविमलकीर्तिनिर्देशे "सुमेरुसमां सत्कायदृष्टिमुत्पाद्य बोधिचित्तमुत्पाद्यते । ततः सर्वधर्मा विरोहन्ति" इति ।
इत ऊर्ध्वं दुष्करसंज्ञाप्रतिपक्षेण यथा यथा प्रवेक्षणीयं तदाह समुद्रशब्दादर्वाक् । तत्रादौ सत्त्वानामर्हत्त्वदिषु दुष्कर संज्ञानिरासार्थमाह । सर्वधर्माः सत्त्वव्यहारविषयाः । आर्यार्हन्तः यतः प्रकृतिपरिशुद्ध । धर्मतामात्रत्वात् । भारानारोपणतयेति निःस्वभावत्वात् भावस्य । सत्त्वविनयाय दशदिग्बुद्धक्षेत्रगमनेन दुष्करसंज्ञानिरासायाह । सर्वधर्माणां अदेशाप्रदेशत इति । अदेशत्वाच्च प्रकृतिस्वभावत इति । रूपादीनां प्रतिस्तस्याः स्वभावतः । न हि तस्यादेशो ऽपतनधर्मत्वात् । नापि प्रदेशो निरंशत्वादाकाशवत् । संसारसुखे दुस्त्यजसंज्ञानिरासायाह । सर्वधर्माणां सांसारिकाणां निरोधे प्रहलादनत्वं सुखसंज्ञोत्पादनत्वं ततः प्रज्ञापारमितानुगन्तव्या ।
"अनित्या वत संस्कारा उत्पादव्ययधर्मिणः ।
उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखमिति ॥"
इतिशब्दः श्रावकविनयनसमाप्त्यर्थः । बोधिसत्त्वविनयनमधिकृत्याह । अरत्यविरतित इति । रतिरत्यन्तमुत्कण्ठा निर्वाणे । तदभावो बोधिसत्त्वानां अरतिः । विरतिरत्यन्तमुद्वेगः संसारे । तदभावो बोधिसत्त्वानामरति । ताभ्यां प्रज्ञापारमिता । इति संसारनिर्वाणाप्रतिष्ठानाय प्रत्यवेक्षा । अरक्ताविरक्ततयेत्यादिना वैराग्याय प्रत्यवेक्षा । सर्वधर्मा अश(स)क्ता इत्यनभिनिविष्टाः । सङ्गासङ्गा सङ्गतत्प्रतिपक्षौ । तद्विगतास्तयोरनुपलम्भादिति विकल्पप्रहाणाय प्रत्यवेक्षा । सर्वधर्माः सर्वमार्गाः सप्ताभिसमयाः । त एव बोधिः । बोधिप्रापकत्वात् । अत एवाह । बोधिः । बुद्धज्ञानावबोधनतयेति । अवबोधन प्रापण इति बोधिः । सुलभावबोधनाय प्रत्यवेक्षा । सर्वधर्मास्वलक्षणधारणात् । ते शून्यानिमित्ताप्रणिहिता विज्ञानमात्रत्वेनार्थविरहात् सर्वनिमित्तास्तमयात् । भ्रान्तिशरीरे त्रैधातुकप्रणिधानाभावाच्च यथाक्रमम् । इति मार्गसंक्षेपः ।
यदि विमोक्षमुखान्यपि तेषां मार्गस्तदा तानि भावयन्तो हीनबोधौ पतेयुः । इत्यत आह । सर्वत्यादि । सर्वधर्माः सर्वबोधिसत्त्वमार्गाः । भैषज्यमिति हीनयानस्पृहामहाव्याधिहराः । कुत इत्याह । मैत्रीपूर्वङ्गमतयेति । यतो मैत्री तेषां पुरःसरी । अपि च । सर्वचतुर्भिरप्रमाणैः सह विहरणात् मत्रीविहारिणः । ब्रह्मभूता इति ब्रह्मणा तुल्याः । तद्वदेव दोषानुत्पादनादित्युद्देशः । सर्वदोषानुत्पादनत इति निर्देशः । सर्वदोषा मैत्र्यादीनां विपक्षो यथाक्रमं व्यापादो विहिंसा अरतिः प्रतिघानुनयौ च । अप्रणिहितत इति निर्वानोत्कण्ठाविरहात् । अप्रतिहतित इति संसारे अत्यन्तानुद्वेगात् । इति त्रयोदशविधो ऽपूर्वाभिसमयः सानुषङ्गः ॥
एकक्षणाभिसमयो वक्तव्याः ।
एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः ॥ 1-16 ॥
इति यः पूर्वमुद्दिष्टः स कथं चतुर्विधः? सर्वानाश्रवधर्मैकचित्तक्षणाभिसमयः । विपाकजसर्वसाश्रवानाश्रवधर्मैकचित्तक्षणाभिसमयः । अलक्षणसर्वधर्मैकचित्तक्षणाभिसमयः । अद्वयसर्वधर्मैकचित्तक्षणाभिसमयश्चेति ॥
तत्र प्रथममधिकृत्य शास्त्रम्-
[169] अनाश्रवाणां सर्वेषामेककेनापि संग्रहात् ।
एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः ॥ 7-1 ॥
[170] अरघट्टं यथैकापि पदिका पुरुषेरिता ।
सकृत्सर्व चलयति ज्ञानमेकक्षणे तथा ॥ 7-2 ॥
प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य ऽएकैकेनापि दानादिनाऽ चित्तक्षणेन प्रवृत्तेन ऽसर्वेषांऽ अनाश्रवाणां धर्माणां ऽसङ्ग्रहात्ऽ आक्षेपात् ऽएक्षणावबोधःऽ एकचित्तक्षणाभिसमयः । ऽअयंऽ इति प्रथमः । तथा हि ऽयथैकापि परि(द)काऽ ऽपुरुषप्रेरिता सर्वमरघटं(ट्टं) सकृच्चलयतिऽ तथैकपदमपि दानादिचित्तं प्रयुक्तं सर्वमनाश्रवधर्मसन्दोहं सकृदेवाकर्षयतीत्यर्थः । अतः सूत्रं समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । अत्र प्रज्ञापारमिता परिगृहीतत्वात्, सर्वाकारज्ञता मनसिकाराविरहितत्वाच्च । गम्भीरोदार एकैको दानादिचित्तक्षणः ( र्स्त्_170 ) प्रज्ञापारमितेत्युच्यते । तस्यापर्यन्तता अनाश्रवधर्माकर्षकत्वम् । तेषामन्योन्यसम्बन्धस्य चिरपरिशीलितत्वात् सानुगन्तव्या वेदितव्या । कथमित्याह । समुद्रापर्यन्ततयेति । गम्भीरोदारस्य समुद्रस्यापर्यन्तता सकृदपर्यन्तनिम्नगाजलाकर्षकत्वम् । तासां परस्परसंसर्गात् । तया समुद्रापर्यन्ततया उपमया । तद्वदित्यर्थः । इति सर्वानाश्रवधर्मैकचित्तक्षणाभिसमयः ॥
द्वितीयमधिकृत्य शास्त्रम्-
[171] विपाकधर्मतावस्था सर्वशुक्लमयी यदा ।
प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥ 7-3 ॥

विपाकजो धर्मो विपाकधर्मस्तभ्दावस्तत्तासां ऽअवस्थाऽ अस्या इति यथोक्ता प्रज्ञापारमिता । ऽसर्वशुक्लमयीऽ इति सर्वे कुशला धर्माः साश्रवा अनाश्रवाः । ये पुर्वमनेन निःस्वभावतया भावितास्ते पश्चाद्विपाकजाः । अतः प्रकृत्यैव तेषां नैःस्वाभाव्यसंवेदिनी । तस्मात्सर्वशुक्लमयी । ईदृशी सा यदा ऽजाताऽ सम्पन्ना ऽतदाऽ ऽज्ञानंऽ चित्तं ऽएकक्षणे ऽ तेषु सर्वेष्वनाभोगेन । अनाश्रवेषु सर्वेषु साभोगः प्रथमः । अयं तु द्वितीयः साश्रवानाश्रवनिराभोगश्च । अतः सूत्रम् । गगनापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । प्रज्ञापारमितायाः विपाकधर्मतावस्था सर्वशुक्लमयी च । अत एवापर्यन्तता । तेषु सर्वेषु भावाभावैकरसा । निराभोगश्च विपाकजत्वात् । तस्या अपर्यन्तता वेदितव्या । कथमित्याह । गगनापर्यन्ततया दृष्टान्तेनेति । गगनमाकाशम् । तच्च रूपिद्रव्याभावैकरसमपर्यन्तं निराभोगं च परिस्पन्दाभावात् । अत उभयोरपि अपर्यन्तता सदृशीति विपाकजसर्वशुक्लधर्मैकचित्तक्षणाभिसमयो द्वितीयः ॥
तृतीयमधिकृत्य शास्त्रम्-
[172] स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिवर्यवा ।
अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति ॥ 7-4 ॥
ऽस्वप्नोपमेषु धावद्गन्धर्वनगरोपमेषु" इति महत्योर्भगवत्योः पठ्यते । शास्त्रे त्वेकमेव पदं सर्वेषामेकार्थत्वात् । स पुनरर्थो विचित्रैरपि लक्षणैः प्रतिभासमानानामेषां यथालक्षणमसत्त्वादलक्षणता । ततो मायोपमत्वादलक्षणेषु सर्वधर्मेषु ऽस्थित्वाऽ षट्पारमिताः परिपूरयन् ऽसर्वधर्माणामलक्षणत्वमेककक्षणेनैव ऽविन्दतिऽ जानाति । धातूनामेकार्थत्वेन विन्दतेर्ज्ञानवृत्तेः । एतदाह । मेरुविचित्रया प्रज्ञापारमिताविचित्रतानुगन्तव्येति । मायोपमेषु ( र्स्त्_171 ) सर्वधर्मेष्वलक्षणत्वेन यदेकरसं ज्ञानं सेह प्रज्ञापारमिता । अतस्तस्या एकरसत्वेपि मायोपमैः सर्वधर्मप्रतिभासैर्या विचित्रता सा मेरुविचित्रतया दृष्टान्तेन वेदितव्या । यथा ह्याकाशस्य नीरूपत्वादसती मेरुणा विचित्रतावभाति । मेरुपार्श्वानां चतुर्वर्णानां दिक्षु तत्सर्ववर्णतया प्रख्यानात् । तथा तस्या इत्यलक्षणसर्वधर्मैकचित्तक्षणाभिसमयस्तृतीयः ॥
चतुर्थमधिकृत्य शास्त्रम्-
[173] स्वप्नं तद्दर्शिनं चैव द्वययोगादनीक्षकः ।
धर्माणामद्वयं तत्त्वं क्षणेनकेन पश्यति ॥ 7-5 ॥
ऽस्ननं तद्दर्शिनं चैवऽ इति कुद्योगे कथं द्वितीया? कर्तव्यो ऽत्र यत्नः । अथवा । अनीक्षितेति तृन् पठितव्यः । तृतीये सर्वधर्माणां स्वप्नमायोपमैराकारैर्विचित्रः प्रतिभासः । चतुर्थे तु तेषामस्तमयाच्छरन्मध्यान्हगगनसमो विगतसमस्तविप्लवः । तत्र स्वप्नदृश्यं नरकचित्तरङ्गादिस्वप्नः । तद्दर्शी आत्मैव तयोरस्तमयात् । यस्तौ विकृते(तौ) ऽयोगेनऽ [अ]भेदेन सो ऽद्वयंऽ ग्राह्यग्राहकशून्यं ऽधर्माणां तत्त्वऽ परमार्थं ऽएकक्षणेनैव पश्यतिऽ । एनमाह । रूपापर्यन्ततयेत्यादिना । इह चतुर्थ एकक्षणाभिसमयः । प्रज्ञापारमिता तस्या अपर्यन्तता । सर्वधर्मपरमार्थस्य केवलस्य केवलविमलनभोनिभस्य तेन संवेदनात् । सा वेदितव्या । कथमित्याह । रूपादीनामपर्यन्तयेति । कथं तेषामपर्यन्तता? द्वयप्रतिभासास्तमयात् । यावत्खलु द्वयं तावत्पर्यन्तः परिमितत्वात् ।
ननु रूपतद्ग्राहकयोरस्तमयेनापि पर्यन्तता? क आह रूपस्यैवेति? किन्तर्हि? रूपस्य यावद्विज्ञानस्य । ननु तथापि ग्राहकस्यास्तमयो नोक्त इति चेत् । न तस्यापि स्कन्धैरेव संग्रहात् । अप्रकाशात्मनो ग्राहकत्वायोगादिति सर्वधर्माद्वयतत्त्वैकचित्तक्षणाभिसमयश्चतुर्थः ॥
एकक्षणाभिसमयः सप्तमो ऽभिसमयः ॥

अष्टमो ऽभिसमयो धर्मकायः । तस्य चत्वारि वस्तूनि । त्रयः कायाः कारित्रं च । तथाहि पूर्वमुद्देशः कृतः-
[174] स्दाभाविकः ससांभोगो नैर्माणिक इति त्रिधा ।
धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥ 1-17 ॥
इति ॥ धर्मो मार्गः । स चेह प्रकर्षगतेः प्रकरणाच्च सप्ताभिसमयलक्षणो गृह्यते । धर्मलभ्यः कायो ऽधर्मकायःऽ । कायः शरीरम् । त्रीणि शरीराणि बुद्धानां त्रयः कायाः । उक्तं हि महत्योर्भगवत्योः- "सर्वाकारपरिशुद्धानामनाश्रवाणां सर्वधर्माणां या प्रकृतिः स तथागतो ऽर्हन्सम्यक्सम्बुद्धो वेदितव्यः ॥ पुनरपरं तेषामेव धर्माणामधिगमादनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य द्वात्रिंशता लक्षणैरशीत्यानुव्यञ्जनैरलङ्कृतकायस्तथागतो ऽर्हन्सम्यक्सम्बुद्धो बोधिसत्त्वानां परमं महायानधर्ममनुत्तररतिप्रीतिप्रामोद्यसुखोपभोगाय देशयति ॥ पुनरपरं तेषामेव सर्वधर्माणामधिगमादनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य तथागतो ऽर्हन्सम्यक्सम्बुद्धो दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु सर्वकालं नानानिर्माणमेघेन सर्वसत्त्वानामर्थं करोति" इति ॥ उक्तं च सूत्रालंकारे-
"त्रिभिः कायैश्च विज्ञेयो बुद्धानां कायसङ्ग्रहः ।
साश्रयः स्वपरार्थो ऽयं त्रिभिः कायैर्निदर्शितः" ॥
इति ।
तस्मात् त्रिभिरेव कायैः कारित्रेण च परिच्छेदेन चतुर्धा धर्मकाय उक्तः ।
तत्र स्वभावः प्रकृतिः । स्वभाव एव ऽस्वाभाविकःऽ । विनयादिभ्यष्ठगिति स्वार्थे ठक् । अथवा तस्मिन्नेव स्वभावे भवो विशुद्धः परः प्रकर्षः स्वाभाविकः कायः । सम्भोगाय प्रभवतीति ऽसाम्भोगिकःऽ । निर्माण निर्मितिः । तेन निर्वृत्तः कायो ऽनैर्माणिकःऽ ।
तत्र स्वाभाविकमधिकृत्य शास्त्रम्-
[175] सर्वाकारां विशुद्धिं ये प्राप्ता धर्मा निराश्रवाः ।
स्वाभाविको मतः कायस्तेषां प्रकृतिलक्षणः ॥ 8-1 ॥
तेषां प्रकृतिधर्मता धर्मधातुः । ननु न धर्मधातुस्तथागतो ऽतिप्रसङ्गात् । किं तर्हि? धर्मधातुविशुद्धिः । तथा चोक्तमार्य बुद्धभूमिसूत्रे- "पञ्चभिराकारैः सुसमुदितबुद्धभूमेः सङ्ग्रहो वेदितव्यः । कतमैः पञ्चभिः? धर्मधातुविशुद्धया आदर्शज्ञानेन समताज्ञानेन प्रत्यवेक्षणाज्ञानेन कृत्यानुष्ठानज्ञानेन च" इति ।
धर्मधातुविशुद्धिः सुविशुद्धो धर्मधातुः । सुविशुद्धानां धर्माणां धर्मतेति नार्थभेदः कश्चित् । अतः सूत्रम् । सूर्यरश्मिमण्डलापर्यन्तावभासनतया प्रज्ञापारमितापर्यन्तावभासनतानुगन्तव्येति । सर्व एव त्रासादिदोषरहिताः स्फाटिकाः शुद्धाः । तत्र चन्द्रसूर्याभ्यामन्ये श्रावकप्रत्येकबुद्धानां विमुक्तिकायस्योपमाः । सूर्याचन्द्रमसावपि शुद्धस्फाटिकौ । तयोरेतदधिकं यत्तौ दशदिग्व्यापिरश्मिजालं जनयतः । ततस्तावनन्तज्ञेयविषयमनन्तं ज्ञानमुत्पादयतो बुद्धानां विमुक्तिकायस्योपमाने । अत एवासौ धर्मकाय इत्यभिधीयते । अनन्तधर्माश्रयत्वात् । तदिह धर्मधातुविशुद्धिजमनन्तं ज्ञानं प्रज्ञापारमिता । तस्या अपर्यन्तज्ञेयावभासनता वेदितव्या सूर्यरश्मिमण्डलापर्यन्तावभासनतया दृष्टान्तेन । तथा हि बुद्धधर्माणां सुविशुद्धो धर्मधातुः सूर्यवत् । तज्जा प्रज्ञा प्रज्ञपारमिता सूर्यरश्मिण्डलवत् । तया यदपर्यन्तावभासनं तद्रविरश्मिमण्डलेनापर्यन्तावभासनवत् । तदनेन बुद्धानां सुविशुद्धो धर्मधातुः स्वाभाविकः कायस्तस्य च सर्वत्र ज्ञेये ज्ञानवशिता दर्शिता ।
तस्यैव सत्त्वार्थवशितां व्यापिनित्यत्वं चाधिकृत्य शास्त्रम्-
[176] परिपाकं गते हेतौ यस्य यस्य यदा यदा ।
हितं भवति कर्तव्यं प्रथते तस्य तस्य सः ॥ 8-9 ॥
[177] वर्षत्यपि हि पर्जन्ये नैवाबीजं प्ररोहति ।
समुत्पादेपि बुद्धानां नाभव्यो भद्रमश्नुते ॥ 9-10 ॥
[178] इति कारित्रवैपुल्याद्बुद्धो व्यापी निरुच्यते ।
अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते ॥ 8-11 ॥
ऽसःऽ इति स्वाभाविकः कायः । ऽप्रथते ऽ निर्माणप्रथनात् । तदा तदेति गम्यते ऽयदा यदाऽ इति वचनात् । तस्य हितस्य करणायेत्यर्थाद्गम्यते । तस्मात्तदा तदैवेत्यत आह । ऽवर्षत्यपिऽ इत्यादि । ऽइतिऽ इत्यादि । ऽकारित्रवैपुल्यंऽ सर्वभव्येषु कारित्रम् । तस्यैवऽ इति कारित्रस्य । इति स्वाभाविकः कायः ॥
साम्भोगिकस्य कायस्य बहुवक्तव्यम् । तत्र सम्भोगमधिकृत्याह । सर्वशब्दापर्यन्ततया प्रज्ञापारमितापयन्ततानुगन्तव्येति । शास्तुर्देशयतः श्रृण्वतां च बोधिसत्त्वानां यः परममहायानधर्मसंबोधः सा प्रज्ञापारमिता । स एव सम्भोगः सम्भोगकारणत्वात् । यः पुनस्तज्जानां मृदुमध्याधिमात्रसौमनस्यलक्षणानां रतिप्रीतिप्रामोद्यानां सुखस्य चानुभवः स मुख्यः सम्भोगः । तस्याः प्रज्ञापारमिताया अपर्यन्तता वेदितव्या । कथमित्याह । सर्वशब्दापयन्ततयेति । ( र्स्त्_174 ) हेतौ तृतीया । यतस्तयोः सम्बोधयोर्यथाक्रममपर्यन्ता देशनाः शब्दजन्या जनकाश्च ते कथं सर्वे? नाना विनेयानुरूपैः सर्वैराकारैः प्रथनात् । कथमपर्यन्ताः? अनिधनेन तेन कायेन देशनाया निरवधिकत्वात् । ताथागतस्यापि सम्बोधस्यापर्यन्तता । कुत इत्याह । सवबुद्धधर्मसमुदागमापर्यन्ततया प्रज्ञापारमितापर्यन्तता । यथोक्तः शास्तुरेव महायानधर्मसम्बोध इह प्रज्ञापारमिता । तस्या अपर्यन्तता । तत्कारणस्य सर्वबुद्धधर्माणां समुदागमस्यापर्यन्ततयेत्यर्थः । ते पुनर्धर्मा महत्योभगवत्योः पठ्यन्ते । सप्तत्रिंशब्दोधिपक्ष्या धर्माः । अष्टौ विमोक्षाः । नवानुपूर्वविहारसमापत्तयः । दश कृत्स्नायतनानि । अष्टवभिभ्वायतनानि । अरणा समाधिः । प्रणिधिज्ञानम् । चतस्रः प्रतिसम्विदः । सर्वाकाराश्चतस्रः परिशुद्धयः । दश वशिताः । दश बलानि । चत्वारि वैशारद्यानि । त्रीण्यरक्ष्याणि । त्रीणि स्मृत्युपस्थानानि । असंमोषधर्मता । वासनासमुद्घातः । महाकरुणा । अष्टादशावेणिकाः बुद्धधर्माः । सर्वाकारज्ञता चेति ॥ अतः शास्त्रम्-
[179] बोधिपक्षाप्रमाणानि विमोक्षाश्चानुपूर्वेशः ।
नवात्मिका समापत्तिः कृत्स्न दशविधात्मकम् ॥ 8-2 ॥
[180] अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः ।
अरणाप्रणिधिज्ञानमभिज्ञाः प्रतिसम्विदः ॥ 8-3 ॥
[181] सर्वाकाराश्चतस्रो ऽथ शुद्धयो वशिता दश ।
बलानि दश चत्वारि वैशारद्यान्यरक्षणम् ॥ 8-4 ॥
[182] त्रिविधं स्मृत्युपस्थानं त्रिधासंमोषधर्मता ।
वासनायाः समुद्घातो महती करुणा जने ॥ 8-5 ॥
[183] आवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः ।
सर्वाकारज्ञता चेति धर्मकायो ऽभिधीयते ॥ 8-6 ॥
बोधिपक्ष्याश्चाप्रमाणानीति द्वन्द्वः । ऽअनुपूर्वशऽ इति । अनुपूर्व परेण संबध्यते । ऽअरक्षणऽ इत्यकरणीयरक्षणम् । अरक्ष्यमित्यर्थः । तत् त्रिविधम् । ऽधर्मकायऽ इति । अनाश्रवो बुद्धानां धर्मराशिः । यथावसरमस्माभिर्बहवो व्याख्याताः । शेषानिह व्याचक्षीमहि ।

ऽअष्टौ विमोक्षाऽ इति । रूपी रूपाणि पश्यति सुवर्णदुर्वर्णानि नीलपीतलोहितावदातानीति प्रथमो विमोक्षः । अध्यात्ममरूपसंज्ञी रूपाणि पश्यति पूर्ववदिति ( र्स्त्_175 ) द्वितीयः । शुभं विमोक्षं कायेन साक्षात्कृत्वोपसम्पद्य विहरतीति तृतीयः । आकाशानन्त्यायतनादिविमोक्षाश्चत्वारः । संज्ञावेदितनिरोधो ऽष्टमः ।
आवरणाद्विमुच्यन्त एभिरिति विमोक्षाः । तत्र त्रयो निर्माणावरणविमोक्षाः । शेषाः शान्तविहारसमापत्त्यावरणविमोक्षाः । त्रयो रूपिणः । पञ्चारूपिणः । परमप्रशान्तो ऽष्टमः । रूपीति आत्मनि रूपसंज्ञी । पश्यतीति अधिमोक्षनिर्मितानि मनसा पश्यति । अध्यात्ममरूपसंज्ञी । आत्मनि नामसंज्ञी । शुभो विमोक्षः । शुभाशुभानि रूपाणि निर्माय तेष्वेकतरसंज्ञालाभात् । यथाक्रममाभोगप्रातिकूल्यप्रहाणाय । संज्ञावेदितानिरोधो ऽस्थावराणां चित्तचैतसिकानां क्लिष्टमनःसंगृहीतानां च निरोधः प्राग् व्युत्थानात् ॥
अष्टावभिभ्वायतनानि । आलम्बनाभिभवनादभिभूतानि आयतनानि चित्तस्थितयो ऽभिभ्वायतनान्यष्टौ । तत्र प्रथमाद्विमोक्षात् द्वे अभिनिर्ह्रियेते । द्वितायादपि द्वे । तृतीयाच्चत्वारि । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि हीनप्रणीतानि । तानि खलु रूपाण्यभिभूय जानाति, अभिभूय पश्यति, तथा संज्ञी च भवतीति प्रथमम् । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि सुवर्णदुर्वर्णानि यावत्तथासंज्ञी च भवतीति द्वितीयम् । अध्यात्ममरूपसंज्ञी च बहिर्धा रूपाणि पश्यति परीत्तानीत्यादि तृतीयम् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणीत्यादि चतुर्थम् । तृतीयाद्विमोक्षाच्चत्वार्यभिनिर्ह्रियन्ते । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणी पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि । तद्यथा उमकापुष्पं सम्पन्नं वाराणसेयकं वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं निलनिर्भासम् । तानि च रूपाण्यभिभूय जानाति, अभिभूय पश्यति, तथासंज्ञी च भवतीति पञ्चमम् । एवं पीतानीत्यादि । तद्यथा कर्णिकारपुष्पमित्यदिकं षष्ठम् । एवं लोहितानित्यादि । तद्यथा बन्धुजीवपुष्पमित्यादि सप्तमम् । एवमवदातानीत्यादि । तद्यथा उषसि तारकारूपमित्यादि चाष्टमम् ॥
तत्र परीत्तानि सत्त्वसख्यातानि स्वल्पप्रमाणत्वात् । सुवर्णदुर्वर्णानि शुभाशुभत्वात् । हीनप्रणीतानि भौमदिव्यत्वात् । तानि विमोक्षैरधिमुच्याभिभ्वायतनैरभिभवति । पुनः पुनरन्तर्द्धाप्य दर्शनात् । अभिभूय जानाति शमथेन पश्यति विपश्यनया तथासंज्ञी भवति निरभिमानत्वात् । अधिमात्राणीति । असत्त्वसंख्यातानि गृहविमानपर्वतादीनि महाप्रमाणत्वात् । नीलानीति उद्देशः । शेषैर्निर्देशः । नीलवर्णानीति स्वाभाविकेन वर्णेन । नीलनिदर्शनानीति सांयोगिकेन वर्णेन । नीलनिर्भासानीति । उभयथापि भास्वरत्वात् । उमकातशी(सी?) । कर्णिकारः प्रसिद्धः । बन्धुजीवो बन्धूकः । उषा रात्रेरन्तः ॥
ऽकृत्स्नंऽ दशविधात्मकंऽ इति । अभिभ्वायतनैरभिभूय पृथिव्यादीनां कृत्स्नं समन्तादिभिः सफरणात्कृत्स्नान्युच्यन्ते । कदाचित्तान्येवायतनानीति कृत्स्नायतनान्युच्यन्ते । कदाचित्तु पृथिव्यादिभिर्विशिष्य निर्दिश्यन्ते । पृथिवीकृत्स्नं अप्कृत्स्नं तेजःकृत्स्नं वायुःकृत्स्नं नीलकृत्स्नं पीतकृत्स्नं लोहितकृत्स्नं अवदातकृत्स्नं आकाशानन्त्यायतनकृत्स्नं विज्ञानानन्त्यायतनकृत्स्नं चेति ॥
ऽसर्वाकाराश्चतस्रः परिशुद्धयऽ इति । आश्रयपरिशुद्धिरालम्बनपरिशुद्धिश्चित्तपरिशुद्धिर्ज्ञानपरिशुद्धिश्च ।

तत्र सवासनानां सर्वक्लेशपक्षाणां दौर्बल्यानामाश्रयादत्यन्तोपरमः स्वस्यचात्मभावस्य यथेच्छमादानस्थानच्यवनेषु वशवर्तिता सर्वाकारा आश्रयपरिशुद्धिः । सर्वालम्बनानां निर्माणपरिणामसंप्रख्यानेषु वशवर्तिता सर्वाकारा आलम्बनपरिशुद्धिः । पूर्ववत्सर्वचित्तदौष्ठुल्यापगमश्चित्ते च सर्वाकारकुशलमूलोपचयः सर्वाकारां चित्तपरिशुद्धिः । पूर्ववत्सर्वाविद्यापक्षदौष्ठुल्यापगमः सर्वज्ञेयज्ञाने च वशवर्तिता सर्वाकारा ज्ञानपरिशुद्धिः ॥
ऽवशिता दशऽ इति । दश वशिताः । अयुर्वशिता यथेच्छमायुषस्थापनात् त्यजनाच्च । चित्तवशिता यथेच्छध्यानादिसमापत्तेः । परिष्कारवशिता यथेच्छमुपकरणप्रत्युपस्थानात् । कर्मवशिता यथेच्छं कायवाक्कर्मसिद्धेः । उपपत्तिवशिता सर्वोपपत्त्यायतनेषु यथेच्छमुपपत्तेः । ऋद्धिवशिता यथेच्छमभिज्ञाः । प्रणिधानवशिता सर्वप्रणिधानसमृद्धेः । अधिमुक्तिवशिता यद्यथाधिमुच्यते तत्तथैव भवति । ज्ञानवशिता यदेव ज्ञातुमिच्छति तदेव जानाति । धर्मवशिता सूत्रादिधर्मव्यवस्थानेषु कौशलम् ॥
ऽत्रीण्यरक्ष्याणिऽ इति । परिशुद्धकायसमुदाचारस्तथागतो नास्ति तस्यापरिशुद्धकायसमुदाचारता यां तथागतः प्रतिच्छादयितव्यां मन्येत कच्चित्परे न जानीयुरित्येतत्प्रथममरक्ष्यम् एवं वाक्कर्म द्वितीयम् । एवं मनःकर्म तृतीयम् ॥
ऽत्रीणि स्मृत्युपस्थानानिऽ यथापाठम्- "तथागतस्य धर्म देशयत एकत्याः शुश्रूषन्ते । श्रोत्रमवदधति । आज्ञाचित्तमुपस्थापयन्ति प्रतिपद्यन्ते धर्मस्यानुधर्मम् । न तेन तथागतस्य नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वम् । अपरे न शुश्रूषन्ते । न श्रोत्रमवदधतीत्यादि । न तेन तथागतस्याघातो नाक्षान्तिर्नाप्रत्ययः न चेतसो ऽनभिराद्धिः । एकत्याः शुश्रूषन्ते । एकत्या न सुश्रूषन्ते । न तेन तथागतस्य द्वयं भवति नन्दी आघातश्च । सर्वत्रोपेक्षको विहरति स्मृतिमान सम्प्रजानन्" इति ॥
ऽअसम्मोषधर्मताऽ सत्त्वार्थक्रियाकालानतिक्रमाद्बुद्धानाम् । अत एवैषा लक्षणविधानतोपपन्ना भवति ॥
ऽवासनासमुद्धातऽ इति । प्रहीणक्लेशस्यापि यदप्रहीणक्लेशस्येव चेष्टितं सा क्लेशवासना । सापि तथागतस्यास्तङ्गतेति समुद्घातक्लेशवासनः स भगवानुच्यते ॥
ऽमहाकरुणाऽ हिताशयता । यया भगवान्सर्वकालं षट्कृत्वो लोकं व्यवलोकयति "को हीयत को वर्द्धत" इत्यादि ॥
ऽसर्वाकारज्ञताऽ इति सर्वधर्माणां स्वभावविशेषलक्षणप्रभेदपर्यन्तज्ञानमित्यर्थः ॥
रणं विवादकलहादि । इह तु रणहेतुः क्लेशो रणः । तमालम्ब्य रणमुत्पादयतीति । यं समाधिं समापद्यते, यतो व्युत्थाय ग्रामादौ प्रविष्टं तमालम्ब्य तत्रत्यानां रणं नोत्पद्यते सा ऽअरणाऽ । सा श्रावकस्यापि भवति बुद्धस्यापि । तयोः कारित्रविशेषः । तमधिकृत्य शास्त्रम्-
[184] श्रावकस्यारणादृष्टेर्न क्लेशपरिहारिता ।
तत्क्लेशस्त्रोतौच्छित्त्यै ग्रामादिषु जिनारणा ॥ 8-7 ॥
श्रावकीयारणा क्लेशहेतोर्दर्शनस्य परिहारिता । न साक्षात्क्लेशस्य । सौगती तु परकीयक्लेशस्रोतस उच्छेदाय न दर्शनस्येत्यर्थः ॥
इदं जानीयामिति प्रणिधाय ध्यानं समापन्नस्य लोकवृत्तान्तादौ यज्ज्ञानमुत्पद्यते तत् ऽप्रणिधिज्ञानंऽ श्रावकाणाम् ।
तथागतमधिकृत्य शास्त्रम्-
[185] अनाभोगमानासङ्गमव्याघातं सदा स्थितम् ।
सर्वप्रश्नापनुद्धौद्धं प्रणिधिज्ञानमिष्यते ॥ 8-8 ॥
ऽअनाभोगंऽ निर्विकल्पत्वात् । ऽअनासङ्गंऽ निरपेक्षत्वात् । ऽअव्याघातंऽ सर्वत्राप्रतिहतत्वात् । ऽसदा स्थितंऽ इत्यसमाहिते चेतसि स्थितत्वात् । सर्वप्रश्नान् छेदयतीति ऽसर्वप्रश्नापनुत्ऽ ।
स च सम्भोगकायः परिशुद्धे स्वबुद्धक्षेत्रे जायते यावदाकाशस्थितिरवतिष्ठते । तत्कुतो बुद्धक्षेत्रम्? प्राधान्येन तस्यैव तत्रोपपत्तेः ।
लुज्यते प्रलुज्यतेति लोकः । प्रजातं भाजनं च । तस्मात् द्विधा लोकधातुः सत्त्वलोको भाजनलोकश्च । तत्र सत्त्वलोकपरिशुद्धिमधिकृत्याह । सर्वसत्त्वधातुपुण्यज्ञानसम्भारापर्यन्ततया प्रज्ञापारमितापयन्ततानुगतव्येति । यया भगवतः प्रज्ञया परिपाचिताः सत्त्वास्तत्र यावदाकाशमुत्पद्यन्ते । उत्पन्नाश्च यया बोधये परिप्राच्यन्ते । सेह प्रज्ञापारमिता । तस्या अपर्यन्ततानुगन्तव्या । कथमित्याह । सर्वेत्यादि । ये केचित्तत्र सत्त्वा उत्पद्यन्ते । सर्वे ते लब्धार्यभूमयो बोधिसत्त्वाः । ते सर्वे । सर्वः सत्त्वधातुः सत्त्वराशिः । तस्य पुण्यज्ञानसम्भारः । तयोरपर्यन्ततया । पृथिवीधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्या । एवमब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । तथा हि भाजनलोकस्तत्र करतलसमं भूतलम् । प्रासादोद्यानवापीकल्पद्रुमादिपरिकरश्च सत्त्वावासः परमोज्ज्वलसप्तरत्नमयो ऽनेकलोकधात्वन्तरस्फुरणमहारश्मिप्रमोक्ष उपरिष्ठाच्च गगनमनुरूपसनिर्भासं षड्धातुकाश्च सत्त्वाः । "षड्धातुरयं भिक्षो पुरुषः" इति वचनात् । अतस्तेषामपि कायः कान्तिमान् प्रभामण्डलीभूम्यनुरूपवर्णसंस्कारः । तत्राभोगपरिभोगाश्च सत्त्वानां सर्वदेवलोकप्रतिविशिष्टाः । येषामुपभोग एकान्तसुख एकान्तानवद्य एकान्तवशवर्ती च । ईदृशी षड्धातुपरिशुद्धिरपर्यन्ता निरवधिकत्वादतिविशालत्वाच्च । अतस्तस्या अपर्यन्तया तत्कारणभूताया भगवतः प्रज्ञाया अपर्यन्ततानुगन्तव्या । तत्र चोत्पन्ना बोधिसत्त्वा अनन्तान् लोकधातून् गत्वा तत्रत्यानां सत्त्वानामकुशलं(ल)सञ्चयान् हन्तध्या(व्या?)न(न्) तत्प्रतिपक्षांश्च कुशलसञ्चयान् प्रजानन्ति । तेषामप्रमाणतया तत्परिच्छेदिकायास्तेषां प्रज्ञाया अप्रमाणता वेदितव्येत्येतदाह । कुशलाकुशलधमसञ्चयाप्रमाणतया प्रज्ञापारमिताप्रमाणता वेदितव्येति । यावन्तश्च ते बोधिसत्त्वास्तेषां कुशलधर्मोत्पादनाय धर्म देशयन्ति स सर्वः सर्वधर्मसञ्चयः । तस्याप्रमाणतया तद्व्यवस्थापिकायास्तेषां प्रज्ञाया अप्रमाणता वेदितव्येत्येतदाह । सर्वधर्मसञ्चयाप्रमाणतया प्रज्ञपारमिताप्रमाणता वेदितव्येति ॥
सर्वधर्मसमाध्यपर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । धर्मा धारण्यः समाधयश्चित्तस्थितयः । धर्माश्च समाधयश्च सर्वे च ते धर्मसमाधयश्च । तेषामपर्यन्तता । तत्प्रतिलम्भिता तल्लाभिता या तत्र बोधिसत्त्वानां तया तज्जनिकाया भगवतः प्रज्ञया अपर्यन्तता वेदितव्येत्यर्थः ।

सर्वबुद्धर्मापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । तत्र बुद्धः सम्भोगकायः । तस्य सर्वे धर्माः सर्वबुद्धधर्माः । द्वात्रिंशन्महापुरुषलक्षणान्यशीति ( र्स्त्_179 ) चानुव्यञ्जनानि । तेषामपर्यन्तता अपरिच्छेद्यता । केनापरिच्छेद्यता? तुलया । तथागतादन्यस्य तादृशानामभावात् । तया भगवतः प्रज्ञायास्तादृश्येवापर्यन्तता वेदितव्या । कतमस्याः प्रज्ञायाः? यया तेषां समग्राणि कारणानि सम्यक् परिज्ञाय सम्यगनुष्ठितानि । अतः शास्त्रम्-
[186] द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् ।
सम्भोगिको मतः कायो महायानोपभोगतः ॥ 8-12 ॥
चतुर्थेन पादेन सम्भोगिकत्वे कारणमाह ।
तत्रादौ पञ्चभिरिन्द्रवज्राभिर्लक्षणान्याह ।
[187] चक्राङ्कहस्तक्रमकूर्मपादो जालावनद्वाङ्गुलिपाणिपादः ।
करौ सपादौ तरुणौ मृदू च समुच्छ्रयैः सप्तभिराश्रयो ऽस्य ॥ 8-13 ॥
[188] दीर्घाङ्गुलित्वायतपार्ष्णिगात्रम् प्राज्यमृजूच्छङ्खपदोर्ध्वरोमा ।
एणेयजङ्घश्च पटूरुबाहुः कोशावधानोत्तमवस्तिगुह्यः ॥ 8-14 ॥
[189] सुवर्णवर्णः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजातरोमा ।
ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः ॥ 8-15 ॥
[190] हिनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः ।
उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः ॥ 8-16 ॥
[191] तुल्याः प्रमाणे ऽविरलाश्च दन्ता अन्यूनसंख्यादशिकाश्चतस्रः ।
नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥ 8-17 ॥
क्रमः पादः चक्राङ्कौ हस्तौ चास्येति ऽचक्राङ्कहस्तक्रमःऽ । सुप्रतिष्ठितत्वात् कूर्माविव पादावस्येति ऽकूर्मापादःऽ । स चासौ स चेति समासः । जालावनद्धाङ्गली पाणी च पादौ चास्येति ऽजालावनद्धाङ्गलिपाणिपादःऽ । ऽकरौ सपादौ तरुणौ मृदू चऽ अस्येति परेण सम्बन्धः । ऽसमुच्छ्रयैः सप्तभिराश्रयो ऽस्यऽ । लक्षणे तृतीया । आश्रयः कायः सप्तभिरुच्छयैर्लक्षितः कायो ऽस्येत्यर्थः । एतेन पञ्चलक्षणान्युक्तानि । चक्राङ्कितपाणिपादता सुप्रतिष्ठितपादता जालपाणिपादता मृदुतरुणहस्तपादता सप्तोच्छ्रयता चेति ।
ऽदीर्घाङ्गुलित्वायतपार्ष्णिगात्रम् प्राज्यमृजूच्छङ्खपदोर्ध्वरोमा ।
एणेयजङ्घश्च पटूरूबाहुः कोषा(शा)वधानोत्तमवस्तिगुह्यः ॥
दीर्घाङ्गुलित्वं च आयतपार्ष्णिश्चेति समाहारद्वन्द्वः । ऽगात्रं प्राज्यं ऋजुऽ इति बृहदृजुगात्रम् । उच्छङ्खपादश्चासौ ऽऊर्ध्वरोमाऽ च । उच्चैः सुनिगूढजानुगुल्फत्वादुच्छङ्खपाद इति सूत्रम् । अतश्च उत्कर्षनिगूढार्थ उच्छब्दः । जानुगुल्फास्थिवाची शङ्खशब्दः । उरू मूलादधश्च सर्व पाद इति गम्यते । वस्तौ गुह्यं वस्तुगुह्यम् । कोशावधानमुत्तम वस्तिगुह्यमस्येति तथोक्तः । अनेनाष्टौ लक्षणानि । दीर्घाङ्गुलिता । आयतपार्ष्णिता । बृहदुजुगात्रता । उच्छङ्खपादता । ऊर्ध्वाङ्गरोमता । ऐणेयजङ्घता । पटूरुबाहुता । कोशावहितवस्तिगुह्यता चेति ।
ऽसुवर्णवर्णः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजातरोमा ।

ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः ॥ ऽ
हरेरिव पूर्वकायो ऽस्येति ऽहरिपूर्वकायःऽ । ऽवृत्तौऽ इति सुसंवृत्तौ । सुश्लिष्टपरिमण्डलग्रीवत्वात् । असंयोरंतरं उत्तरांसमुरः । तदुपचितमस्येति ऽचितान्तरांसःऽ । अनेन सप्तलक्षणानि । सुवर्णवर्णता । श्लक्षणच्छविता । एकैकप्रदक्षिणावर्तरोमता । ऊर्णाङ्कितमुखता । सिंहपूर्वकायता । सुसंवृतस्कन्धता । चितान्तरांसता चेति ।
ऽहीनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः ।
उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः ॥
तुल्याः प्रमाणे विरलाश्च दन्ता अन्यूनसंख्यादशिकाश्चतस्रः ।
नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥ ऽ
अनेन श्लोकद्वयेन द्वादशलक्षणान्युक्तानि । रसरसज्ञता । न्यग्रोधपरिमण्डलता । उष्णीषशिरस्कता । पृथुतनुजिव्हता । ब्रह्मस्वरता । सिंहहनुता । सुशुक्लदन्तता । समदन्तता । अविरलदन्तता । समचत्वारिंशद्दन्तता अभिनीलनेत्रता । गोपक्ष्मनेत्रता चेति । दशपरिमाणमस्याः संहतेरिति ऽदशिकाऽ । ताश्चतस्रः । चत्वारिंशदित्यर्थः । गोवृषौ गोबलीवर्दौ । अथवा ऽगोवृषःऽ पुङ्गवः । सर्वैकत्वेन ऽद्वांत्रिशदेतानि हि लक्षणानिऽ । एषां व्याख्यानं च हेतुश्च पूर्वनिमित्तता च धर्मदान (?) सूत्रे ।
[192] यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः ।
तस्य तस्य प्रपूर्यायं समुदागमलक्षणः ॥ 8-18 ॥
अत्र
ऽयस्य यस्य लक्षणस्य यो यो हेतुः प्रसाधकः ।
तस्य तस्य प्रपूर्यायं समुदागमलक्षणःऽ ॥
अयं साम्भोगिकः कायः । कस्य पुनः को हेतुरित्याह ।
[193] गुरूणामनुयानादि दृढता संवरं प्रति ।
संग्रहासेवनं दानं प्रणीतस्य च वस्तुनः ॥ 8-19 ॥
[194] वध्यमोक्षाः समादानं विवृद्धिः कुशलस्य च ।
इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः ॥ 8-20 ॥
तत्र गुरूणामनुगमनप्रत्युद्गमानाभ्यां धर्मश्रवणमाल्योपहारचैत्यानुपानप्रभृतिषु च परिचारदानाच्चक्राङ्कहस्तपादता । दृढसमादानत्वात् सुप्रतिष्ठितपादता । संग्रहवस्तूनामासेवनाज्जालहस्तपादता । प्रणीतान्नपानादिदानान्मृदुतरुणहस्तपादता ( र्स्त्_182 ) सप्तोच्छदता च । ऽवध्यमोक्षाःऽ इति बहुवचनामाद्यर्थम् । वध्यमोक्षणाज्जीवितानुग्रहकरणात् । प्राणातिपातविरतेश्चासेवनाद्दीर्घाङ्गुलिता आयतपार्ष्णिता बृहदृजुगात्रता च । कुशलधर्मसमादानस्य विवर्धनादुच्छंखपादता । ऊर्ध्वाङ्गिरोमता च । ऽइत्यादिकऽ एवमादिकः । ऽयथासूत्रंऽ इति यथा पठिष्यति धर्मदाने । महापुरुषकारत्वात् महापुरुषास्तथागता महाबोधिसत्त्वाश्च । तेषां द्योतकानि महापुरुषलक्षणानि द्वात्रिंशत् । तेषामेव शोभाकरणादशीत्यनुव्यञ्जनानि । तान्यधिकृत्य द्वादशश्लोकाः-
[195] ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः ।
वृत्ताश्चितानुपुर्वाश्च गूढा निर्ग्रन्थयः शिराः ॥ 8-21 ॥
अनेनाष्टावनुव्यञ्जनान्युक्तानि । ताम्रनखता स्निग्धनखता तुङ्गनखता च । वृत्ताङ्गुलिता चिताङ्गुलिता अनुपूर्वाङ्गुलिता च गूढशिरता निर्ग्रन्थिशिरता चेति ।
[196] गूढौ गुल्फौ समौ पादो सिंहेभद्विजगोपतेः ।
विक्रान्तं दक्षिणं चारु गमनमृजुवृत्तते (ता) ॥
[197] मुष्टानुपूर्वते
इति षडक्षराधिकेन श्लोकेन द्वादश । गूढगुल्फता । अविषमपादता । सिंहविक्रान्तगामिता । हंसविक्रान्तगामिता । वृषभविक्रान्तगामिता । प्रदक्षिणावतंगामिता । चारूगामिता । अवक्रगात्रता । वृत्तगात्रता । मृष्टगात्रता अनुपूर्वगात्रता चेति ॥
मेध्यमृदुत्वे शुद्धगात्रता ।
पूर्णव्यञ्जनता चारूपृथुमण्डलगात्रता ॥ 8-23 ॥
इति षडिंवशत्याक्षरैः पञ्चानुव्यञ्जनानि । शुचिगात्रता मृदुगात्रता विशुद्धगात्रता परिपूर्णव्यञ्जनता चारुपृथुमण्डलगात्रता चेति ।
[198] समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता ।
अदीनोच्छदगात्रत्वं सुसंहतनगात्रता ॥ 8-24 ॥
अनेन षट् । समक्रमता विशुद्धनेत्रता सुकुमारगात्रता उत्सदगात्रता सुसंहतनगात्रता चेति ॥
[199] सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता ।
वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता ॥ 8-25 ॥
[200] दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता ।
अनेन सार्धश्लोकेन नव । सुविभक्ताङ्गप्रत्यङ्गता वितिमिरशुद्धालोकता मृष्टकुक्षिता अभग्नकुक्षिता अक्षामकुक्षिता गम्भीरनाभिता दक्षिणावर्तनाभिता समन्तप्रासादिकता चेति ॥
समाचारः शुचिः कालतिलकापगता तनुः ॥ 8-26 ॥
[201] करौ तूलमृदुस्निग्धगम्भीरायतलेखता ।
नात्यायतं वचो बिम्बप्रतिबिम्बोदयास्यता ॥ 8-27 ॥
बिम्बानां प्रतिबिम्बोदयो ऽस्मिन्निति तथोक्तमास्यं मुखमस्येति ऽबिम्बप्रतिबिम्बोदयास्यःऽ । अनेन सार्धश्लोकेनाष्टौ । शुचिसमाचारता व्यपगततिलकगात्रता तूलसदृशसुकुमारपाणिता स्निग्धपाणिलेखता गम्भीरपाणिलेखता आयतपाणिलेखता नात्यायतवदनता बिम्बप्रतिबिम्बदर्शनवदनता चेति ।
[202] मृद्वी तन्वी च रक्ता च जिव्हा जीमूतघोषता ।

चारुमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः ॥
[203]अनुपूर्वोदगतास्तुङ्गा नासिका परमं शुचिः ॥ 8-28 ॥
ऽपरमंऽ अत्यन्तम् । अनेन सार्धश्लोकेन द्वादश । मृदुजिव्हता तनुजिव्हता रक्तजिव्हता च । गजगर्जितजीमुतघोषता । मधुरचारुमञ्जुस्वरता वृत्तदंष्ट्रता तीक्ष्णदंष्ट्रता शुक्लदंष्ट्रता समदंष्ट्रता अनुपूर्वदंष्ट्रता तुङ्गनासिकता शुचिनासिकता चेति ॥
विशाले नयने पक्ष्म चित्तं पद्मदलाक्षिता ॥ 8-29 ॥
[204] आयतश्लक्ष्णसुस्निग्धसमरोमे भ्रुवौ भुजौ ।
पीनायतौ समौ कर्णावुपघातविवर्जितौ ॥ 8-30 ॥
[205] ललाटमपरिम्लानं पृथु पूर्नोत्तमाङ्गता ।
समरोमे इति स्त्रियां डाप् । अनेन श्लोकद्वयेन त्रयोदश । विशालनयनता चितपक्ष्मता सितसितकमलदलनयनता आयतभ्रूता श्लक्ष्णभ्रूता स्निग्धभ्रूता समरोमभ्रूता पीनायतभुजता समकर्णता अनुपहतकर्णता सुपरिणामितललाटता पृथुललाटता परिपूर्णोत्तमाङ्गता चेति ॥
भ्रमराभ्राश्चिताः श्लक्ष्णा असंलुडितमूर्तयः ॥ 8-31 ॥
[206] केशा अपरुषाः पुंसां सौरभ्यादपहारिणः ।
श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम् ॥ 8-32 ॥
अनेन सार्धश्लौकेन सप्त । भ्रमरसदृशकेशता चितकेशता श्लक्ष्णकेशता असंलुडितकेशता अपरुषकेशता श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादता चेति ॥
सर्वैकत्वेन बुद्धानामशीतिरनुव्यञ्जनानि ॥
इति साम्भोगिकः कायः ॥
नैर्माणिकं कायमधिकृत्य शास्त्रम्-
[207] करोति येन चित्राणि हितानि जगतः समम् ।
आ भवात्सो ऽनुपच्छिन्नः कायो नैर्माणिको मुनेः ॥ 8-33 ॥
[208] तथा कर्माप्यनुच्छिन्नमस्या संसारमिष्यते ।
अतः सूत्रम् । सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । यावन्तः स्थलजलान्तरिक्षचराणां स्थावरजङ्गमानां सत्त्वानां कायवाक्संगृहीता धर्माः सत्त्वानां विनयनाय भगवता अनन्तेषु लोकधातुषु निर्मिताः ते सर्वधर्मास्तेषामपर्यन्ततया भगवतः प्रज्ञाया अपर्यन्तता वेदितव्या । कतमस्याः ते निर्मिताः? शून्यतापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । यथा तथागतेन निर्मिताः काया अनन्तास्तथा तेषां शून्यताप्यनन्ता । केन शून्यता? स्वाधीनैश्चिचैतसिकैर्मायापुरुषवत् । अतस्तस्यापि अपर्यन्ततयापर्यन्ततेति पूर्ववत् । यथा तेषां कायवाचौ निर्मिते तथा चित्तचैतसिका अपि किन्न निर्मीयन्ते? तदुपादानाभावात्, अपूर्वसत्त्वाप्रादुर्भावाच्च । ननु चित्तचैतसिकनिर्माणमपीष्यते बुद्धानां ।
"कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः ।"
इति वचनात् । सत्यमिष्यते । किन्तु सत्युपादाने देवताधिष्ठानेन स्वप्नदर्शनवत् । वाचा वागर्थन्नि(र्थनि)वेदनवच्च । अत आह । चित्तचरितापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । तेषां च सत्त्वानां यथा देशितं धर्ममालम्ब्य प्रातिपक्षिकाः कुशला धर्मा उत्पद्यन्ते । तैश्च तेषां विक्षेपका अकुशला धर्माः प्रहीयन्ते । अत आह । कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमितापरिमाणतानुगन्तव्येति ।
अथ ये निर्मितास्ते कथं भगवतः कायाः? भगवता निर्मितत्वादिति चेत् । मायाकारनिर्मिता गजादयस्तर्हि मायाकारस्य कायाः स्युः, स्वकायत्वेनाधिष्ठाय तेन निर्माणात् । स्वकायवच्च गमनव्याहारादिषु दुष्करेषु व्याप[आ]रणात्तेपि काया इत्ययं भगवतो नैर्माणिकः कायः ।
उक्तास्त्रयः कायाः । कारित्रमिदानीं वक्तव्यम् । तत्समासत आह । सिंहनादनदनतया प्रज्ञापारमितानुगन्तव्येति । मृगाणामुत्तमः सिंहः । तत्साधर्म्यात् पुरुषोत्तमाः पुरुषसिंहा इत्युच्यन्ते । इह तु प्रकर्षगतेर्देवमनुष्यादिसर्वपुरुषोत्तमस्तथागतः सिंह इत्युच्यते । तस्य धर्मः सर्वाशापरिपूरणतया सर्वपरप्रवादिमृगभीषणतया च सिंहनाद इत्युच्यते । सिंहध्वजवत् । तस्य नदनो देशकः । तभ्दावस्तत्ता । तया भगवतः प्रज्ञा गन्तव्या पारगमनात् पारमिता वेदितव्येत्यर्थः । स पुनः सिंहनादनदनः सप्तविंशतिविधस्य कारित्रदेशना । सा विस्तरेण महत्योर्भगवत्योर्द्रष्टव्या । तामधिकृत्य शास्त्रम्-
गतीनां शमनं कर्म संग्रहे च चतुर्विधे ॥ 8-34 ॥
[209] निवेशनं ससंक्लेशे व्यवदानावबोधने ।
सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥ 8-35 ॥
[210] बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये ।
संकेते ऽनुपलम्भे च परिपाके च देहिनाम् ॥ 8-36 ॥
[211] बोधिसत्त्वस्य मार्गे ऽभिनिवेशस्य च वारणे ।
बोधिप्राप्तौ जिनक्षेत्रविशुद्धो नियतिं प्रति ॥ 8-37 ॥
[212] अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे ।
बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥ 8-38 ॥
[213] विपर्यासप्रहाणे च तदवस्तुकतानये ।
व्यवदाने च सम्भारे संस्कृतासंस्कृते प्रति ॥ 8-39 ॥
[214] व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् ।
धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् ॥ 8-40 ॥
भगवांस्तान्विग्रहान्निर्मिमीते ये नारकाणां नरकाग्निनिर्वापणेन धर्मदेशनया च तथा तिरश्चां स्वमांसरुधिरादिदानेन तथा प्रेतानामन्नपानादिदानेन धर्मदेशनया च चित्तमभिप्र साद्य तेन चाभिप्रसादेन स्वगतिभ्यश्च्युतानां देवमनुष्येषूपपादयन्ति । देवानपि हीनयानाधिमुक्तिकान् धर्मदेशनयाभिप्रसाद्य मनुष्येषूपपन्नान् यावच्छ्रावकबोधौ प्रत्येकबोधौ च प्रतिष्ठापयिष्यन्तीति गतिप्रशमनकर्म ॥
ये च मनुष्यान् बाह्याध्यात्मिकेष्वामिषदानेषु लौकिकलोकोतरेषु च धर्मदानेषु, अर्थचर्यायां समानार्थतायां च शिक्षयन्तीति सङ्ग्रहवस्तुनिवेशनकर्म ॥
संक्लेशः क्लेशावरणं ज्ञेयावरणं च । व्यवदानं तयोरस्तमयः । स च पुद्गलधर्मनैरात्म्यज्ञानादिति संवृतिः । परमार्थस्तु [न] धर्मधातोरन्यदस्तीति संक्लेशव्यवदानज्ञाननिवेशनकर्म ॥
यथा हि मायाकारो विचित्राणि वस्तूनि यावभ्दक्ष्यभोज्यानि निर्माय लोकं तोषयति । स च लोको न जानाति सर्वमेतदद्रव्यकमिति । यश्च प्रज्ञापारमितायां चरति न स धर्मधातुव्यतिरिक्तं किञ्चित्पश्यति न सत्त्वं नापि सत्त्वप्रज्ञप्तिं धर्माणामपि नैरात्म्यादिति सत्त्वार्थयाथात्म्यनिवेशनकर्म ॥

स आत्मना च दानं ददाति परांश्च दाने नियोजयति दानस्य च वर्णं भाषते । ये चान्ये दानं ददति तेषा च वर्णवादी भवति समनुज्ञः । एवमात्मना च शीलं रक्षतीत्यादि वाच्यमिति षट्पारमितानिवेशनकर्म ॥
आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते । आत्मना च पञ्चशिक्षापदानि यावदात्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि निष्पादयतीति वाच्यमिति बुद्धमार्गनिवेशनकर्म ॥
इह बोधिसत्त्वः सत्त्वानां पारमितादीन् सर्वधर्मान् देशयति । तेषां कोटित्रयस्य फलस्य च प्रकृतिशून्यतां देशयति । ते तथा भावयन्तो विशेषमधिगच्छन्ति । ( र्स्त्_187 ) ततस्ते भूयस्या मात्रया प्रकृतिशून्यतां भावयन्ति यावदनुत्तरां सम्यक्सम्बोधिमधिगच्छन्तीति प्रकृतिशून्यतानिवेशनकर्म ॥
प्रकृतिशून्याः सर्वधर्माः न चान्या प्रकृतिशून्यता अन्ये धर्माः । किं तर्हि? प्रकृतिशून्यतैव धर्माः । त एव प्रकृतिशून्यतेत्यद्वयधर्मनिवेशनकर्म ॥
न सम्यक्सम्बोधौ भगवता कश्चिद्धर्म उपलब्धः । यत्पुनरभिसम्बुध्य धर्मा देशिताः स्कन्धधात्वादयो वा यावत्सर्वाकारज्ञता वा तत्सर्वं लोकव्यवहारेणेति साङ्केतिकज्ञाननिवेशनकर्म ॥
यदि पारमितादिषु सर्वधर्मेषु शिक्षते तथापि सम्यक्सम्बोधये न शक्नोति । यदि पुनस्तेष्वेव चरति तेषां च कोटित्रयं फलं च नोपलभते । तदा सम्यक्सम्बोधये शक्नोतीत्युपलम्भनिवेशनकर्म ॥
यद्यपि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सत्त्वं सत्त्वप्रज्ञप्तिं च नोपलभते तथापि संवृत्या पश्यति सत्त्वान् वस्तूपलम्भेन संक्लिष्यमानान् । स तांस्तत्प्रहाणाय त्रिषु यानेषु परिपाचयतीति सत्त्वपरिपाकनिवेशनकर्म ॥
स एवमुपपरीक्षते । शून्याः सर्वधर्माः । न च शून्यता शून्यतामभिनिविशते । तस्मात्सर्वधर्मेष्वनभिनिविष्टेन भवितव्यम् । दानादिषु चरितव्यम् । न च तेषु तत्फलेषु वा गन्तव्यमिति सर्वाभिनिवेशप्रहाणनिवेशनकर्म ॥
न मार्गेण बोधिः प्राप्यते नामार्गेण । यतो बोधि एव मार्गः मार्ग एव बोधिः । बोधिसत्त्व एव तर्हि बुद्धः स्यादिति चेत् । यदा सर्वबुद्धधर्मान् परिपूर्य वज्रोपमसमाधौ स्थित्वा बोधिसत्त्व एकक्षणसमायुक्तया प्रज्ञया सम्यक्सम्बोधिमधिगच्छति तदा स एव तथागतः सर्वदर्शी सर्वज्ञ इति निर्दिश्यत इति बोधिप्राप्तिनिवेशनकर्म ॥
स आत्मनः परेषां च दशाकुशलसंगृहीतानि दौःशील्यानि षट्पारमिताविपक्षांश्च हीनयानफलानां च पञ्चानां साक्षात्क्रियास्पृहयोरवकाशं, स्कन्धधात्वादिसाश्रवानाश्रवसर्वधर्मसंज्ञादौष्ठुल्यानि च निवार्य स्वयं च पारमितादिषु सर्वकुशलधर्मेषु प्रतिष्ठितो भवति परानपि प्रतिष्ठापयति । तच्च कुशलमूलं सर्वसत्त्वसाधारणकृत्वा आत्मनः सम्यक्सम्बोधौ च सर्वाकारायां च स्वबुद्धक्षेत्रपरिशुद्धौ परिणामयति । प्रणिधानानि च बुद्धक्षेत्रपरिशुद्धये यथा सूत्रं करोतीति बुद्धक्षेत्रपरिशुद्धिनिवेशनकर्म ॥
प्रथमचित्तोत्पादिक एव बोधिसत्त्वः सम्यक्सम्बोधौ नियतो भवति । नियतस्य कथमपायेषूपपत्तिरिति चेत् । यः सम्यक्सम्बोधौ चित्तमुत्पाद्य षट्सु पारमितासु चतुर्षु वाप्रमाणेषु चरति दश चाकुशलान् धर्मान् प्रहाय तिष्ठति । ( र्स्त्_188 ) अष्टौ तस्याक्षणा न सम्भवन्ति किं पुनरपायोपपत्तिः । कथं तर्हि तिर्यग्योनौ जातकानि? तानि साश्रवानाश्रवसर्वकुशलधर्मसमन्वागतस्य सत्त्वार्था(र्थ) वशितया संचिन्त्योपपत्तयो न च तिर्यग्दुःखवेदनाः । तद्यथा तथागतः परमवशित्वलाभात्सर्वलोकधातुषु युगपदनन्तानात्मभावान् परार्थाय निर्मिमीत इति सम्यक्सम्बोधिनियतनिवेशनकर्म ॥
स हि प्रज्ञापारमितायां स्थित्वा दशसु दिक्षु गङ्गानदीवालुकोपमेषु सत्त्वानामर्थ करोति न च लिप्यते । तथा हि यः स्पृशेत्, येन स्पृशेत्, यं च स्पृशेत्, त्रीनिमान्धर्मानसौ नोपलभते शून्यतायां च स्थितः सर्वशुक्लधर्मेषु स्थितो भवति । तयैव तेषां सङ्ग्रात् । तथाहि सर्वधर्माः सर्वधर्मैः शून्याः । ततः शून्यतायामन्तर्भूता इत्यप्रमेयसत्त्वार्थनिवेशनकर्म ॥
स एवं निरूपयति । ये ते दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवो ये च तेषु तथागताः सर्वे ते स्वभावेन शून्याः केवलं नामसङ्केतेन प्रज्ञप्यते । सापि प्रज्ञप्तिः स्वभावेन शून्या । यदि तु कस्यचिच्छून्यता न स्यात् प्रादेशिकी स्यात् । यतस्तु न प्रदेशिकी ततः सर्वधर्माः सर्वधर्मशून्या इति । स एवं प्रज्ञापारमितायां स्थित्वा षडभिज्ञा अभिनिर्हरति । यासु स्थित्वा दशदिक्सर्वतथागतानुपसंक्रामति पर्युपास्ते तेभ्यश्च धर्म शृणोति तेषु च कुशलमूलान्यवरोपयत्यनभिनिविष्टः । न हि शून्यतां शून्यतायामभिनिविशते । स दिव्येन चक्षुषा दशदिग्लोकधातुषु सत्त्वान् दृष्ट्वा सद्यो ऽभिज्ञया तत्र गत्वा तेभ्यो धर्मं देशयति । दिव्येन श्रोत्रधातुना दशदिक्सर्वबुद्धानां धर्मदेशनां श्रुत्वोद्गृह्य सत्त्वेभ्यो देशयति । चेतःपर्यायज्ञानेन सत्त्वानां चित्तानि विदित्वा यथाचित्तमेभ्यो धर्म देशयति । सो ऽनेकविधं पूर्वनिवासमात्मनः परेषां चानुस्मरति । पूर्वतथागतदेशितांश्च धर्माननुस्मृत्यतद्विनेयेभ्यः सत्त्वेभ्यो देशयति । स आश्रवक्षयज्ञानेन सत्त्वानामनुरूपं धर्मं देशयति । स ताभिरभिज्ञाभिर्यं यमेवाकांक्षत्यात्मभावं सत्त्वानामर्थाय प्रतिग्रहीतुं तं तमेव प्रतिगृण्हाति । न च तत्र सुखदुःखानुनयप्रतिघैरूपलिप्यत इति दशदिग्बुद्धोपासनादिनिवेशनकर्म ॥
कानि पुनर्बोधिसत्त्वस्य बोध्यङ्गानि? षट्पारमिताश्चत्वारि ध्यानानि यावदावेणिका बुद्धधर्माः । यदि तेषु चरति कोटित्रयं च तेषां नोपलभते । यदि चात्मनः सम्यक्सम्बोधये सर्वसत्त्वानां चाग्रतायै तान् सम्यक्परिणामयति । यद्यमी बोधिसत्त्वधर्माः कतमे तर्हि बुद्धधर्माः? एत एव । यद्योभः सर्वाकारज्ञतामभिसम्बुध्यते प्रहीणसर्ववासनानुसन्धिश्च भवति, एकक्षणसमायुक्तया च प्रज्ञया सर्वबुद्धधर्मानभिसम्बुध्यते । न चैवं बोधिसत्त्व इति बोध्यङ्गनिवेशनकर्म ॥
यद्यपि स्वलक्षणशून्याः सर्वधर्मास्तथाप्यस्ति कर्म, अस्ति तेषां फलम् । न हि सत्त्वाः स्वलक्षणशून्यान् धर्मान् जानन्ति । अजानन्तः पुद्गलं धर्मांश्च कल्पयन्तः कर्माभिसंस्कुर्वन्ति सुचरितं दुश्चरितं वा । दुश्चरितेन त्रिष्वपायेषु पतन्ति । सुचरितैर्देवमनुष्येषूपपद्यन्ते । केचित्पुनः पुद्गलनैरात्म्यं परिज्ञाय सुगतिदुर्गतीः प्रहाय निर्वाणमधिगच्छन्ति । बोधिसत्त्वाः पारमितादीन् कुशलान् धर्मान्परिपूरयन्तः क्रमेण दशभूमीनधिगम्यैकक्षणसमायुक्तया प्रज्ञाया सर्वधर्मानभिसम्बुध्य बुद्धा भगवन्तो भवन्तीति कर्मफलसम्बन्धाविप्रणाशननिवेशनकर्म ॥

न बोधिसत्त्वः सत्यैः सत्यज्ञानैर्वा निर्वाति । किन्तर्हि? चतुःसत्यसमतया । या तेषां समता तथता निःस्वभावता सा न कश्चिद्धर्ममुपलभते सत्यपर्यापन्नमन्यं वा । ततः सर्वधर्माः शून्या इति पश्यन्नियायममवक्रम्य गोत्रभूमौ स्थितो भवति ध्यानान्युत्पादयत्यप्रमाणान्यारूप्यसमापत्तीश्च । स इह शमथभूमौ स्थित्वा दुःखं परिजानाति समुदयं प्रजहाति निरोधं साक्षात्करोति मार्गं भावयति । न च सत्यारम्बणं चित्तमुत्पादयति । केवलं बोधिनिम्नेन चित्तेन स्वलक्षणशून्यान्सर्वधर्मान् पश्यति । सो ऽनया विपश्यनया सर्वधर्मशून्यतां पश्यति । उपायकौशल्येन च धर्मं देशयतीति चतुःसत्यदर्शननिवेशनकर्म ॥
"मैत्रेय आह । यदि भगवन्नभावस्वभावाः सर्वधर्मा कथं बोधिसत्त्वेन रूपादौ शिक्षितव्यं यावद्बुद्धधर्मेषु? भगवानाह । नाममात्रतया । आह । संस्कारनिमित्तेन वस्तुना अवस्तुकं नामकथनं नाममात्रम् । संस्कारो विकल्पः । तस्य निमित्तं विषयः । यत्रैवं भवति । इदं रूपमियं वेदना यावदमी बुद्धधर्मा इति भावः ॥ भगवानाह ॥ आगन्तुकमेतन्नामधेयमत्र प्रक्षिप्तम् । इदं रूपं यावदमी बुद्धधर्मा इति । नामाभेदेन नामा च (? नाम्यर्थ)प्रतीतेः । तस्मादलीकः शब्दार्थो व्यवहारमात्रं न वस्तु ॥ आह ॥ व्यवहारमात्रतापि रूपस्य स्वभाव एवेति । रूपस्वभाव उपलब्ध एव भवति । भगवानाह । न रूपस्य स्वभाव एवेति । रूपस्वभाव उपलब्ध एव भवति । भगवानाह । न तस्योत्पादनिरोधौ ततो न स स्वभावः ॥ आह ॥ किं पुनर्भगवन् सर्वशः स्वलक्षणेन न सन्त्येव रूपादयो यावद्बुद्धधर्माः? भगवानाह । सन्ति लोकसङ्केतव्यवहारतो न नु परमार्थतः ॥ आह ॥ यथाहं भगवतो भाषितस्यार्थमाजानामि । अनभिलाप्य एष धातुः परमार्थतः । सचेत्सस्कारनिमित्तं वस्तु स एवानभिलाप्यो धातुरिति व्याहतमेतत् ॥
भगवानाह ॥ यदाते ऽनभिलाप्ये धातौ प्रज्ञाप्रचारो भवत्युपलभसे । तदा संस्कारनिमित्तं वस्तु । आह । नोहीति ॥ भगवानाह ॥ अत एव न तत्तस्मादन्यन्नाप्यनन्यत । अद्यन्यत् कुतस्तदा विनष्टम् । अथानन्यत् कुतो नोपलभ्यते । अपि च । यद्यसौ संस्कारनिमित्तादन्यः स्यादपीदानी सर्वबालपृथग्जनाः परिनिर्वायुः सम्यक्सम्बोधिं ( र्स्त्_190 ) चाभिसम्बुध्येरन् । अथानन्यः स्यादपीदानीं तदपि निमित्तं नोपलभ्येत ॥ आह ॥ अनभिलाप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमाने यदि संस्कारनिमित्तं नोपलभ्यते तत्किमसन्नोपलभ्यते सद्वा? भगवानाह । यदि विकल्पतो ग्रहणमेति न विकल्पेष्वपगतेषु तदा परिकल्पमात्रं तदिति न तस्य सत्त्वमसत्त्वं वा । आह । कतिभिराकारैर्भगवन् धर्माणां प्रज्ञप्तिः? त्रिभिर्मैत्रेय । यदुत परिकल्पितं रूपं विकल्पितं रूपं धर्मता रूपम् । यावत्परिकल्पिता बुद्धधर्माः । विकल्पिता बुद्धधर्माः । धर्मता बुद्धधर्मा इति । तत्र या संस्कारनिमित्ते वस्तुनि रूपमिति नामसङ्केतव्यवहारं निश्रित्य रूपस्वभावतया परिकल्पना तत्परिकल्पितं रूपम् । यत्तस्य संस्कारनिमित्तस्य विकल्पमात्रतायामवस्थानं तद्विकल्पितं रूपम् । या पुनस्तेन परिकल्पितेन रूपेण तस्य विकल्पितरूपस्य नित्यकालं निःस्वभावता नैरात्म्यं तथता भूतकोटिस्तद्धर्मतारूपम् । एवं यावत्परिकल्पितविकल्पितधर्मताख्या बुद्धधर्माः । तत्र परिकल्पितं रूपमद्रव्यम् । विकल्पितं सद्रव्यं विकल्पितसद्रव्यतया, न स्वतन्त्रवृत्तितः । धर्मतारूपं नैवाद्रव्यं न सद्रव्यं धर्मताप्रभावितम् । एवं यावद्बुद्धधर्माः । आह । यदुक्तं भगवता । अद्वयस्यैषा गणना कृता यदुत रूपमिति यावद्बुद्धधर्मा इति तत्कथम्? भगवानाह । यत्कल्पितं रूपं न तद्रूपं निःस्वभावत्वात् । न चारूपं व्यवहारतः । यद्विकल्पितं रूपं न तद्रूपं स्वतन्त्रवृत्तितः । न चारूपं विकल्पितरूपत्वात् । यद्धर्मतारूपं न तद्रूपं रूपविवेकत्वात् । न चारूपं रूपपरमार्थत्वात् । तस्मादद्वयस्यैषा गणना रूपमिति यावद्बुद्धधर्मा इति ॥ आह ॥ एवमन्तद्वयं प्रहाय मध्यमाप्रतिपदं प्रतिपन्नस्य रूपे यावद्बुद्धधर्मेषु कथं लक्षणपरिज्ञा लक्षणप्रहाण लक्षणसाक्षात्क्रिया लक्षणभावना च? भगवानाह ॥ रूपस्य यन्न परिज्ञानं नापरिज्ञानं तदेवास्य परिज्ञानम्

। एवं यावद्या भावना नाभावना सैव भावना । एवं यावद्बुद्धधर्माणाम् ॥ आह ॥ एवं परिज्ञादिसमन्वागतस्य बोधिसत्त्वस्य कतमन्निर्वाणम्? भगवानाह । गम्भीरमेषां निर्वाणं यतो न तन्निर्वाणं नानिर्वाणम् । तत्कथम्? यतः परानारभ्य संसारापरित्याग एषां न निर्वाणम् । आत्मानमारभ्य निर्वाणापरित्याग एषां निर्वाणम् । एकात्याग इतरत्यागादयुक्त उभयोरत्याग इति चेत् । उभयोरविकल्पनादुभाभ्यां नोद्विजते । ततो युक्त उभयोरत्यागः । स तर्हि संसरति निर्वाति चेति न युक्तम्? यद्वोधिसत्त्वस्य चित्तवशिताप्राप्तस्योपायकौशल्येन संसारसंदर्शनं सो ऽस्य संसारापरित्यागः । या शून्यता या चानुपलम्भप्रतिष्ठानता सो ऽस्य निर्वाणापरित्यागः ॥ आह ॥ अविकल्पनायाः समस्तं लक्षणं कतमत्? भगवानाह । ये च रूपादयः सर्वधर्माः । या च तेषां शून्यता । या च तेषां तस्याश्च भावाभावाद्वयता । या चाप्रपञ्चना । ( र्स्त्_191 ) इदमविकल्पनायाः समस्तं लक्षणम् ॥ आह ॥ किन्नु भगवन् सर्वेषां श्रावकाणामेकान्तेन निर्वाणप्रतिष्ठा भवति? भगवानाह । नानाधातुके लोके नानाभूताः सत्त्वा नानागोत्रप्रकृउतयः । अस्ति सा गोत्रजातिर्या आदित एव प्रणीतं विशेषं प्रार्थयते । तमेवाधिगच्छति । अस्ति या हीनं विशेषं प्रार्थयते । तमेवाधिगच्छति । तेनैव सन्तुष्यति । स शमैकायनः श्रावकः । अस्ति यो हीनं विशेष प्रार्थयते । तमेवाधिगच्छति न च तावता सन्तुष्यति । उत्तरिप्रणीतं विशेषं प्रार्थयते । स बोधिपरिणतिकः श्रावकः । सो ऽर्हत्त्व प्राप्य चिरेण सम्यक्सम्बोधिं प्राप्नोति । तस्य तत्प्राप्तये या उपपत्तयो न ताः कर्मक्लेशवशेन । अपि त्वचिन्त्यां निर्वाणपारगामिनीमर्हतो ऽप्युपपत्तिं प्रज्ञपयामि या प्रथमा गोत्रजातिः सा बोधिसत्त्वानाम् ॥ आह ॥ आश्चर्यं भगवन् यावदुदाराशया बोधिसत्त्वा माहात्म्याशयाश्च ॥ भगवानाह ॥ यदमी शक्रत्वलोकपालत्वचक्रवर्तित्वादिभिः सर्वलोकसम्पत्तिभिरनर्थिनो ऽनुत्तरायां बोधौ कुशलं परिणामयन्ति । तासु च निःसङ्गता निरवग्रहता च । इयमेषानुदाराशयता । यत्पुनस्तदश(स)क्तिसुखमनवग्रहसुखं निर्वृतिसुखं च तत्सर्व सर्वसत्त्वसाधारणमिच्छन्तो ऽनुत्तरायां बोधौ कुशलमूलं परिणामयन्ति संसारापरित्यागतया । इयमेषां माहात्म्याशयता ॥ आह ॥ आश्चर्याद्भूता भगवन् बोधिसत्त्वधर्माः । तान् प्राप्तुकामैरनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयितव्यम् । इत ऊर्ध्वम् ॥ सुभूतिराह ॥ अभावस्वभावेषु सर्वधर्मेषु कथं कर्मफलव्यवस्थेति ॥ भगवानाह ॥ धर्माणामभावस्वभावमजानन्तः सत्त्वा विपर्याससमुत्थितैर्विकल्पैः कर्माणि कृत्वा यथाकर्मफलानि प्राप्नुवन्ति । " तत्र चत्वारो विपर्यासाः पुद्लनैरात्म्यविपक्षः । भावेष्वभिनिवेशो धर्मनैरात्म्यविपक्षः । अत्र च मैत्रेयप्रश्नोत्तरैर्वहवो विपर्यासा निरस्ताः
। सुभूतिप्रश्नोत्तरैः कतिचित् । इति विपर्यासप्रहाणनिवेशनकर्म ॥
विपर्यासेन सत्त्वाः कर्माभिसंस्कुर्वन्ति । ततः संक्लिश्यन्ते च लोकव्यवहारेण न परमार्थतः । न हि किञ्चिद्वस्त्वस्ति वालाग्रकोटीनिक्षेपमात्रकमपि यत्र स्थित्वा कर्म कुर्युः । तद्यथा स्वप्नमायादिष्विति विपर्यासनिर्वस्तुकताज्ञाननिवेशनकर्म ॥
या सर्वधर्माणां समता तथता भूतकोटिस्तनिर्वाणम् । तच्च लोकव्यवहारेण व्यवह्रियते न परमार्थतो ऽनभिलाप्यत्वादिति व्यवदाननिवेशनकर्म ॥
यद्यपि स्वप्नमायोपमाः सर्वधर्मा निर्वस्तुकास्तथापि तदजानन्तः सत्त्वा वस्त्वभिनिवेशेन कर्माणि कृत्वा सुगतिदुर्गति गच्छन्ति । अतस्तेषां विपर्यासप्रहाणाय बोधिसत्त्वो बोधौ चित्तमुत्पाद्य संसारे चरति । यावदभिसम्बुध्य सत्त्वान् परिमोचयतीति व्यवदानसम्भारनिवेशनकर्म ॥
"भगवानाह ॥ न द्वयेनाभिसमयो नाद्वयेन ! एष एवात्राभिसमयो यत्र न द्वयं नाद्वयम् ॥ तत्कस्य हेतोः? प्रपञ्चो एष यो ऽयमेषामभिसमयः । न च धर्मसमतायां प्रपञ्चोस्ति । निष्प्रपञ्चा धर्मसमता । सैव सर्वधर्माः । सैव सर्वपृथग्जनार्यपुद्गलाः । सैव बुद्धरत्नं संघरत्नं च । समता हि धर्मता । न च धर्मताया नानात्वमस्ति ॥ सुभूतिराह । किं धर्मता संस्कृता किं असंस्कृता ॥ भगवानाह ॥ न संस्कृता नासंस्कृता । यश्च संस्कृतो धातुर्यश्चासंस्कृत उभावेतौ न संयुक्तौ न विसंयुक्तौ न रूपिणौ अनिदर्शनावप्रतिघावेकलक्षणौ यदुतालक्षणौ" इति संस्कृतासंस्कृताव्यतिभेदेन ज्ञाननिवेशनकर्म ॥
"भगवानाह ॥ सर्वधर्माः सुभूते स्वभावेन शून्याः । ते न श्रावकैर्न प्रत्येकबुद्धैर्न तथागतैः कृताः । या च स्वभावशून्यता तन्निर्वाणं" इति निर्वाणनिवेशनकर्म ॥
कारित्रस्यैव व्यापित्वं दर्शयितुमाह । सर्वधर्माकोप्यतया प्रज्ञापारमिताकोप्यतानुगन्तव्येति । कारित्रमाचारः । आचारो धर्मः । "न्यायो हि साचारो धर्मः स्वभावश्च धर्माख्यः" इति वचनात् । सर्वो धर्मः सप्तविंशतिविधं कारित्रम् । तस्याकोप्यता अवध्यता । दशदिक्सर्वलोकधातुस्थितेषु सर्वसत्त्वेषु सर्वैराकारैः यथा भाजनमविच्छेदेन यावदाकाशं प्रवृत्तिः । तया तज्जनिकया भगवतः प्रज्ञापारमिताया अकोप्यता तादृश्येव वेदितव्या । इत्युक्तं धर्मकायस्य कारित्रम् ॥

समुद्रापर्यन्ततावाक्यादिभिरकोप्यतावाक्यपर्यन्तैः प्रज्ञापारमिताया ये विशेषा उक्तास्तेषां पारमार्थिकं ज्ञानमानुपूर्व्या दर्शयितुकामः पृच्छति तत्कस्य हेतोरिति । एकक्षणाभिसमयधर्मकायसम्बन्धिभिरनुगमवाक्यैर्यदुक्तं तत्सर्वं कस्य हेतोः केन कारणेनेत्यर्थः । रूपं हीत्यादिकमुत्तरम् । इह समुद्रो ऽपर्यन्तः शून्यतामात्रत्वात् । तस्याश्च प्रमाणाभात् । एवं रूपादयोपि पञ्चस्कन्धाः समुद्रसमाः । तद्वत्प्रज्ञापारमितापि । तथा हि ये च रूपादयो या च तेषां शून्यता या च प्रज्ञापारमिता सर्व एते न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना एकलक्षणा यदुतालक्षणा इति भावः । एवं गगनसमतादयोपि ज्ञातव्याः । यावदनुपलब्धिरिति । अक्लिष्टमज्ञानम् । एवं हीत्यादि । एवं हीति । यथैते ऽष्टावभिसमयाः सपरिच्छदा निर्दिष्टस्तथैवेत्यर्थः । अनुगन्तव्येति अनुसर्तव्या । ततः किं करणीयमित्याह यदेत्यादि । अनुगमिष्यतीति व्यञ्जनकायेन श्रोष्यति । ( र्स्त्_193 ) व्यवचारयिष्यतीत्यर्थशरीरेण ज्ञास्यति । अवतरिष्यतीति श्रद्धास्यति । अवभोत्स्यत इति प्रज्ञास्यति । चिन्तयिष्यतीति चतसृभिर्विचारणायुक्तिभिश्चिन्तयिष्यति विचारयिष्यति । एवमेवैतन्नान्यथेति । यानि पुनः स्थानानि चिन्तयन् बालः शक्तिक्षयात् खिन्न उन्माद्येत् मूर्च्छेत् मरणं वा निगच्छेत् तानि स्थानान्यचिन्त्यानि तेषु तुलयिष्यति । यथैतानि भगवता परमयोगीश्वरेण दृष्टानि तथैव निर्दिष्टानि । अस्माकमेतान्यचिन्ता(न्त्या)नि तर्कागोचरत्वादिति उपपरीक्षिष्यत इति । एतावतैव सर्वसंशयानां छेदनादवधारयिष्यत्येवमेवैतदिति । एवमतीव च्छिन्नेषु संशयेषु भवनाया अधिकारः । अत आह । भावयिष्यतीति । चतुर्विधा भावना । शमथो विपश्यना शमथविपश्यने शमथविपश्यनाभिरतिश्च । कीदृशैर्मनसिकारैरित्याह । सर्वमायेत्यादि । अहमिति ममेति रूपमिति वेदनेत्येवमादिकः सर्वाभिनिवेशः सर्वमन्यना । मन्याशब्दाण्णिजन्ताद्यच् मन्यना । सर्वपरप्रवादिभिर्मारादिभिः क्लेशैश्च याः कम्पनाः ताः सर्वेञ्जनाः । तदा नास्य दुर्लभेत्यादि । सर्वगुणानामिति बोधिसत्त्वगुणानाम् । बुद्धक्षेत्रस्येति गुणानां परिपूरिरिति
वर्तते । शेषं सुगमम् ॥
सूत्रस्यार्थो ऽष्टवभिसमयाः शास्त्रे प्रथममुद्दिष्टाः । त इयता विस्तरेण निर्दिष्टाः । पुनः शास्त्रम्-
ऽलक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः ।
तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थसंग्रहः ॥ ऽ
अथवा षडर्थाः सूत्रस्य । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता चेति त्रयमेतल्लक्षणं प्रज्ञापारमितायाः । यतस्त्रिविधैव सा । चतुर्थः सर्वाकाराभिसम्बोधिः । सो ऽस्यां प्रयोगः । चर्येत्यर्थः । पञ्चमो मूर्धाभिसमयः । सो ऽस्यां प्रयोगप्रकर्षः । षष्ठो ऽनुपूर्वाभिसमयः सो ऽस्यां प्रयोगानुक्रमः । अनुपूर्वप्रयोग इत्यर्थः । सप्तम एकक्षणाभिसमयः । सो ऽस्यां प्रयोगनिष्ठाः । अष्टमो धर्मकायः । सो ऽस्यां विपाकः । प्रधानफलमित्यर्थः । पुनः शास्त्रम्-
ऽविषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः ।
धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः ॥ ऽ
अथवा त्रयोर्थाः सुत्रस्य । हेतुः प्रयोगः फलं च । तत्र त्रिविधः प्रयोगविषयो हेतुः । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता च । चत्वारो ऽर्थाः प्रयोगः प्रयोगसामान्यात् । सर्वाकाराभिसम्बोधो मूर्धाभिसमयो ऽनुपूर्वाभिसमय एकक्षणाभिसम्बोधश्चेति । ( र्स्त्_194 ) फलं धर्मकायः कर्म च । विनापि तेनार्थगतेः । अर्थसंग्रहः सकलसूत्रार्थस्य संक्षेपः । तत्र प्रथमो ऽष्टधा । द्वितीयः षोढा । तृतीयस्त्रेधा ॥
अनुगमस्य वाचकः परिवर्तो ऽनुगमपरिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचिताया एकोनत्रिंशत्तमः परिवर्तः ॥
30. सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः ।
अष्टाभिरभिसमयैर्भगवती निर्दिष्टा । सा यथा वेदितव्या तन्नोक्तम् । अतस्तभ्दगवान् विच(व)क्षुराह पुनरपरमित्यादिना । पर्येष्टव्येति इच्छतेः प्रयोगः । पर्येषिता पर्येषमाणेनेति । एषृ इत्यस्य भौवादिकस्य प्रयोगः । कायक्लमथादिमनसिकाराणां प्रतिषेधो वीर्यातिशयार्थः । मा च क्वचिदित्यादिना विक्षेपप्रतिषेधः । मा प्रणिधा इति मा निवेशय । क्वचित इत्युद्देशः । अध्यात्मं बहिर्धा वेति निर्देशः । अधिशब्दो ऽधिकरणार्थः । ततो वितर्क्यार्थे ऽव्ययीभावः । अन इत्यच् समासान्तः टिलोपः । बहिर्धेति बहिरित्यर्थः । मा गा इति सम्बन्धः । माङि लुङ्, इणो गा लुङि, गातिस्थेत्यादिना सिचो लुक् । न माङ्योग इत्यडागमप्रतिषेधः । वामेन दक्षिणेनेति पार्श्वेनेति भावः । पूर्वेणेत्यादिना दिशां निर्देशः । अनुविदिशमिति विदिशाम् । अनुशब्दो वीप्सायाम् । विदिशि विदिशीत्यनुविदिशम् । अव्ययीभावे शरत्प्रभृतिभ्य इत्यच् समासान्तः । तथा च कुलपुत्रेत्यादिना अतत्त्वमनसिकाराणां प्रतिषेधः । नात्मतो न सत्कायत इति । सीदतीति सत् । राशित्वात्कायः । अनित्यो रूपादिराशिः सत्काय इत्युच्यते । सत्काये पुद्गलः प्रज्ञप्यते । अतश्च नात्मतो न सत्कायतश्चलसीति । न द्रव्यसता पुद्गलरूपेण नापि प्रज्ञप्तिसता । उभयोरनुपलम्भादित्यर्थः । न रूपतश्चेत्यादि । नापि रूपादिभिः स्कन्धैः । धर्माणामप्यनुपलब्धेरिति भावः । अतश्चलतीति एभिश्चलति । एषां समारोपेण वितिष्ठत् इति निवर्तते । शेषं सुगमम् ।

वैशब्दो ऽवधारणे । एवमेवेत्यर्थः । आलोकमिति मोक्षमार्गस्य देशनाम् । समुदानेतुकाम इति । आत्मनि सम्यगुत्पादयितुकामः । अधिमुक्तिमिति । एवमेवैतदित्यवधारणम् । क्व? सर्वधर्मेषु । कीदृशेषु? शून्यानिमित्ताप्रणिहितेषु । यथाप्रतिभासमर्थाभावाच्छून्येषु । तस्य च प्रतिभासस्य भ्रान्तिनिमित्तस्य प्रकृतिनिरोधादनिमित्तेषु । ( र्स्त्_195 ) अतश्च भ्रान्तिमात्रतया दृष्टे त्रैधातुके प्रणिधानाभावादप्रणिहितेषु । शून्यताशब्दः क्वचित्पठ्यते । तत्र स्वार्थे तल् । निमित्तपरिवर्जितेनेत्युद्देशः । भ्रान्तिनिमित्तयोर्वस्त्वभिनिवेशस्तदिह निमित्तम् । तत्परिवर्जितेन भावपरिवर्जितेन सत्त्वदृष्टिपरिवर्जितेन चेति निर्देशः । भावो धर्मदृष्टि सत्त्वदृष्टिरात्मदृष्टिः । ताभ्यां परिवर्जितेनेत्यर्थः । यानीत्यादि । यानि धर्म देशयन्तीति सम्बन्धः । शून्यानिमित्ताप्रणिहिताः पूर्ववत् । निःस्वभावस्य नोत्पादो न जातिर्न निरोधः । यस्य नोत्पादनिरोधौ सो ऽभावः । तस्माद् अनुत्पादा अजाता अनिरोधा अभावाः सर्वधर्मा इत्येवं यानि धर्मं देशयन्ति तानि कल्याणमित्राणि । अर्थाद्गम्यते तद्विपरीतं धर्म यानि देशयन्ति तानि पापमित्राणि । प्रतिपद्यमानो अनुतिष्ठन् । कृतज्ञ श्रुतज्ञानात् । कृतवेदी श्रुतफलज्ञानात् । परितुलयमानेनेति चिन्तयता । लोकामिषं अन्नपानवस्त्रादि । तेन प्रतिसंयुक्ता तदभिलाषिणी । अनुबद्धव्यो ऽनुगन्तव्यः । अस्ति हीति । अस्ति खल्वेतत् । सेवितुमित्यादेः पदत्रयस्य परिभोक्तुमित्यर्थः । अभिभूयेति निर्दोषीकृत्य । सत्त्वविनयेनेति सत्त्वानां चित्तरक्षार्थम् । परिग्रहमुपादायेति परिग्रहार्थम् । सङ्गस्तृष्णा । आरम्बणमुपलम्भः । भूतनय परमार्थप्रभेदः । संक्लेशाभावाद् असंक्लेशाः । व्यवदानाभावाद् अव्यवदानाः । निःसत्त्वादिपदैः पुद्गलनैरात्म्यमाह । मायोपमादिपदैर्धर्मनैरात्म्यम् । प्रतिवाणिः प्रतिवचनम् । अनिविण्णमखिन्नम् ।

अनुशासनी उपदेशः । औणादिको ऽनिर्धरणीवत् । रुदन् अश्रुपातेन । क्रन्दन् दीनस्वरैः । शोचन् उत्कण्ठमानः । परिदेवमानो विलपन् अनुबद्ध इति समन्वितः । क्वचिल्ल्यपः पाठः । तस्यापि पूर्वादिक्कर्म । अनुपरिक्षिप्ता परिवेष्टिता । परिखाः खातयः । ऋद्धा धनसम्पत्त्या । स्फीता गृहोद्यानादिशोभया । क्षेमा निरुपद्रवत्वात् । सुभिक्षा सुलभान्नपानत्वात् । आकीर्णो विस्तीर्णः । बहु नानाविधो जनः परिवारो येषां ते तथा । तादृशा मनुष्या यस्यां सा तथा । अन्तरस्यान्तरे आपणः क्रयविक्रयस्थानम् । तस्मिन् विथीशतानि । तैः पञ्चभिः निर्विद्धा निःशेषं विद्धा । विथीनामा प्रकारान्तमुभयतो गमनात् । आलेख्येन विचित्राणि च तानि चित्राणि चाद्भूतत्वात् । सदृशानि च पुरानुरूपत्वात् । तैः अनुत्पीडमसंबाधं जनयुग्ययानानां संक्रमस्थानानि संभूय गमनस्थानानि विस्तीर्णरथ्याः । तेषां स्थापितानि स्थापनानि । भावे क्तः । तैः सुमापिता सुरचिता । तत्र जनः पदिकादिलोकाः । ( र्स्त्_196 ) युग्यानि वाहनानि । यानानि रथाः । अनन्तरत्वात्परस्परतुल्यत्वाच्च समसमैः । खोडकशीर्षाणि क्रमशीर्षाणि । उपोद्गतानीति प्राकारादतिविस्तीर्णात् किञ्चिन्निर्गत्योद्गतानि । प्रमाणवन्तीति पृथूनि तुङ्गानि च । नानाविचित्ररित्यन्यथान्यथा विचित्रैः । सर्वतश्च खोडकवृक्षान्निर्गता वृक्षान्तरम् । यथाभवति तथावसक्तम् । सर्वमस्यामस्तीति सर्वावनी । किङ्किणीजालेनेति चतुष्प्राकारखोडकवृक्षावसक्तमणिसूत्रचतुष्टयाववद्धानेकमणिसूत्रवलम्बिना । वल्गुः । श्रोत्रसुखत्वात् । रञ्जनीयो मनोहरत्वात् । पञ्चाङ्गानि वीणावंशादीनि । गन्धर्वा गायनाः । क्रीडन्ति श्रोत्रेण, रमन्ते मनसा, परिचारयन्ति कायवाक्परिस्पन्दैः । परिखाः खातयः । अनुसारिवारिवाहिन्य इति वाताद्यनुसारिणा जलप्रवाहेण युक्ताः । पद्मं रक्तकमलम् । पुण्डरीकं सितपद्मम् । अभिजाताभिजातरिति प्रणीतप्रणीतैः । सुगन्धशब्दः सुरभिपर्यायः । तत्पुष्करिणीनामित्युद्यानपुष्करिणीनां प्रमाणम् । समन्तादिति सर्वपार्श्वेषु । क्रोशः क्रोश इति वीप्सा । नीलादिपदानि प्राग्व्याख्यातानि । उपनिकूजिता बुद्धनेत्री प्रज्ञापारमिता । तस्या चित्रीकारः परः प्रसादः । तेनानुगतं सुगतेभ्यः श्रुतचित्तं येषां ते तथा । तेषां मध्ये श्रृङ्गाटकस्येति
सम्बन्धः । समन्तादिति प्रतिपार्श्वम् । गृहपरिभोग इति गृहस्य परिवेष्टः । किमर्थमित्याह । उपभोगरिभोगायेति । उपभोगः फलपुष्पादीनाम् । परिभोगः साकल्येन भोगो वनविहारादिना । विवरं सन्धिः । तस्मिन्नन्तरं अवकाशः । समर्पितः सङ्गमितः । तैरवकाशगुणैः । सर्वेन्द्रियाणामनुग्रहः समन्वङ्गः । तद्योगात् समन्वङ्गी क्रीडति वाचा । रमते मनसा । परिचारयति कायेन । तावत्कालमिति परिमितकालम् । तत इति क्रीडादिकालादूर्ध्वम् । त्रिकालमिति प्राण्हमध्यान्हापरान्हेषु । आसनस्य विशेषणं सुवर्णपादकमित्यादि । अर्धक्रोशमुच्चस्त्वेनेति यावत् । तूलिकया वा आस्तीर्णं गोणिकया वा गर्भोलिकाचीनांशुकप्रत्यास्तरणम् । उपरि सा अस्येति उपरिगर्भोलिकम । काशिकवस्त्रं वाराणसेयकं दिव्यं वा । तत् प्रत्यास्तरणमस्येति तथोक्तम् । समं यथा भवति न विषमं तथा धारयन्ति प्रमाणवभ्दिः स्तम्भैः । सहिताः समग्राः । निरताः सावधानाः । कथमित्याह । किमयं संस्थित इति । कुत इत्याह । सुसंस्थितेत्यादि । मुक्ताविचित्रितं पर्यन्तेषु हारार्द्धहाराणां प्रलम्बनात्, मध्ये च स्थूलमुक्ताकलापस्य । अभ्यवकिरन्ति पुरस्तात् । प्रकरन्ति त्रिषु पार्श्वेषु । संप्रविकिरन्ति पुनश्चतुर्ष्वपि ( र्स्त्_197 ) पार्श्वेषु । धर्माशयविशुद्ध्येति धर्मे या तेषां श्रद्धाच्छन्दयोः शुद्धिः । धर्माय गौरवं कल्याणमित्रत्वात् । सन्निश्रयता भाजनता । श्रद्धार्हे या श्रद्धधानता तया । विनिपातो दुर्गतिगमनम् । अविष्टितं अविच्छिन्नम् । तुष्ट इति प्रीतः । उदग्र इति तया प्रीत्या उन्नतपूर्वकायः । तदेकतानत्वात् आत्तमनस्कः । प्रीतेरुत्कर्षात् प्रमुदितः । प्रीतिसहगतः प्रसादः प्रीतिसौमनस्यम् । तज्जातमस्येति तथोक्तः । तस्य श्रृणोति स्मेति सम्बन्धविवक्षयापादाने षष्ठी ।
सर्वधर्मेष्वनिश्रितसंज्ञामिति । यथैतर्हि मे धर्मोद्गतदेशनया प्रतिभासः सनिधा(दा)नमनाश्रितः । एवं हेतुनियममनाश्रिताः सर्वधर्मा इत्येनां संज्ञामत्यन्तसमाहिताम् । अस्याः संज्ञायाः प्रभावात्किमभूदित्याह । तस्येत्यादि । समाधय एव मुखानि महोपायत्वात् । सर्वधर्माणां स्वभावाः स्वलक्षणानि । तेषां व्यवलोकनो द्रष्टा । तेषां अनुपलब्धिरसत्तानिश्चयः । सर्वधर्माणां निर्नानात्वं समता स्वलक्षणानामभावात् । तदालम्बनः समाधिस्तथोक्तः । सा च समता तथता । तया निर्विकारान्सर्वधर्मान् पश्यतीति सर्वधमनिर्विकारदर्शी । एवं यावत्सर्वतथागतदर्शी समाधिर्वेदितव्यः । एषु समाधिष्विति क्रमेण सर्वेषु स्थितः सन् । दशदिशो ऽस्मिन्निति दशदिग्लोकः सर्वलोकधातव इत्यर्थः । तत्र बुद्धान् भगवतो ऽप्रमेयासंख्येयान् पश्यति स्म । नैकस्मिन् काले ऽनेकस्तथागत एकस्यैव सर्वसत्त्वार्थक्रियासु शक्तेरिति चेत् । नित्यमेक एव बुद्धस्तस्यैवानन्तमायुरधिष्ठातुं शक्तेरिति किन्नेष्यते? हेतुबलादन्येपि भवन्तीति चेत् । हेतुबलादेव तर्हि युगपदनन्तेषु लोकधातुष्वनन्तास्तथागता जायन्त इति को विरोधः? यथा बुद्धौ चक्रवर्तिनौ सकृदेकत्र चतुर्द्वीपके लोकधातौ नोत्पद्येते निःसपत्नकर्मकारित्वात् तथा तथागतौ त्रिसाहस्रे लोकधाताविति महारथैः क्षुण्णमेतत् ।
गतिं गता इति । गतिरप्रतिद्यातः । तां प्राप्ताः । शिक्षापित इति शिक्षां प्रापितः । तत्कृतमिति । यदेव तेन पुर्व कृतम् । धारयितव्यं चेतसि न विस्मर्तव्यम् । चेलं वस्त्रम् । तस्य उण्डुकः शिरशाटक इत्यर्थः । उत्कण्ठा शोकः । परितसनं दुःखासिका । काष्ठागता प्रीतिः प्रेम । गुणवत्सु चेतसो ऽकालुष्यं प्रसादः । तद्गुणेषु विस्मयः चित्रीकारः । अर्भ्यहणं गौरवम् । कतमं शब्दमित्यत आह । घोषमित्यादि । कतमं भोषमिंत्याह । कः पुरेषेणेत्यादि । अतिक्रामयिष्यतीति मितां ह्रस्वो न भवति । "वा चित्तविरागे" ( र्स्त्_198 ) इत्यतो वाशब्दानुवृत्तेर्व्यवस्थितविभाषा । विज्ञानाच्च । अतिशब्दश्चात्र अपशब्दार्थे वर्तते । अतः पञ्चमी युक्ता भवति । यन्नुशब्दस्तस्मादर्थे । पर्युत्थापयामासेति व्यग्रीकृतवान् । यथेति यतः । अस्थिमज्जयाश्चेति । मज्जन्शब्दस्य लिङ्गव्यत्ययेन स्त्रियां डाप् सीमावत् । कल्यचित्त इति तेनैव हर्षेण कर्मण्यचित्तः । ततश्च द्विगुणीभूतहर्षत्वात् प्रमुदितचित्तः । गुणजातिः मनुष्यसामान्यो गुणः । विशेषस्तु मनुष्यातिक्रान्तो गुणः । क्षमन्ते चेति स्वयं कर्तव्यतयापि रोचनात् । विषयितेति शक्तिः ।

विदिताभिप्राय आह । अल्पोत्सुक इत्यादि । उत्सुक औत्सुक्यम् । यत्तत् क्षणं लवमपि तत् । तन्मुहूर्तमपि तत् । त्रयाणामुपादानं तु श्रोतृणां श्रद्धभेदात् । निष्प्रतिभान इत्युद्देशः । सदाप्ररुदितस्येत्यादिनिर्देशः । उत्तर इति उत्तरनिमिउत्तम् । अप्रतिपद्यमानो ऽलभमानः । दद्ध्वमिति दद् दाने । वाद्यप्रकृतयो वाद्यप्रकाराः । प्रभूताः प्रकारबाहुल्यात् । विपुलाः प्रतिप्रकारमानन्त्यात् । भोगा अर्थाः । सर्वलोकविशिष्टा इति सर्वलोकातिक्रान्ताः ।
उपरिष्टान्मूर्ध्न इति उपरि शिरसः । प्रातिष्ठत इति प्रशब्दः प्रतेरर्थे । विहायसीत्यन्तरिक्षे । प्राञ्चो ऽञ्जलयः प्राञ्जलयः । स्फुट इति प्राप्तः । सहदर्शनादिति दर्शनात्कारणाद्दर्शनेन सहैवैत्यर्थः ॥
सदाप्ररुदितोपलक्षितः परिवर्तस्तत्परिवर्तः ॥ आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां त्रिशत्तमः परिवर्तः ॥
31. धर्मोद्गतपरिवर्तो नामैकत्रिशत्तमः ।
एवमुक्त इत्यादि । न खल्वित्यादि प्रतिज्ञा । अचलिता हि तथतेति हेतुः । तथागतानां किमागतमिति चेदाह । या चेत्यादि । एवमुत्तरेपि हेतवः ससमर्थना वेदितव्याः । सर्वे चैते हेतवः शून्यतापर्याया निमित्तभेदात्तु भेदः । आकाशधातुराकाशसाधर्म्यात्तथतैव । ननु द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनविराजितविग्रहस्तथागतो न पुनस्तथतादय इत्यत आह । न हि कुलपुत्रान्यत्रेत्यादि । तथतैव सुविशुद्धा तथागत इति भावः । स हि तेषां स्वाभाविकः काय इति न्यायः । एवं तथतादितथागतयोरभेदमुक्त्वात्यन्ताभेदं दर्शयितुमाह । या चेत्यादि । एषामेव धर्माणामिति तथतादीनां तथतेति परिकल्पितरूपशून्यता । या च सर्वधर्माणामिति स्कन्धधात्वादीनां या च तथागतस्य । एकैवेत्यादिरुद्देशः । पुनरेकैवेत्यादि निर्देशः । हेतुमाह । यदुतासत्त्वादिति । अद्रव्यत्वान्न ( र्स्त्_199 ) पुनर्यथालक्षणमभावादिति भावः । पुनस्तथागतानामगतिगत्योरभावं यथाकल्पनमसत्त्वात् । भावकल्पना तु संज्ञाविपर्यासादिति दृष्टान्तैः प्रतिपादयितुमाह । तद्यथापीत्यादि । मध्यान्हकालसमय इति । मध्यान्हश्चासौ कालश्च । तस्य समयः । आगमनं यथा च ग्रामं प्रविष्ट इति विशतेरर्थस्य गतिविशेषत्वात् कर्तरि क्तः । तथेहापि तथागतम् अभिनिविष्टा इति । धर्माकाया इति धर्मताकायाः । हस्तिकायस्येत्यादौ कायः समूहः । परिनिष्पत्तिरिति भूतत्वम् । मुषावादस्तत्साधर्म्यान् वञ्चक इत्यर्थः । अत एवाह अभूत इति । अमोघं दायकस्य महाफलहेतुत्वात् । अत एव दक्षिणीयाः ।
प्रभाव्यन्ते उपलभ्यन्ते । कायपरिनिष्पत्तिः चरमभवसंगृहीता । नापि क्वचिद्गच्छतीति परिनिर्वाणकाले । न क्वचिदस्तीति परिनिर्वाय यत्र गच्छति । हेतरूपादानकारणं प्रत्ययाः सहकारिणः । तत्र शब्दस्योपादानं शब्दपरमाणव इत्येके । वायुपरमाणव इत्यपरे । तत्र उपधानी तन्त्रीवेष्टनं चकुलिका । उपवाण्यो अप्रधानतन्त्रयः । आद्यन्तयोः न शब्दो निश्चरतीति वचनं मध्ये सर्वत्र सम्बन्धनार्थम् । निर्हेतुकाशब्दात् स्वार्थे ऽण नैर्हेतुकी ।
संक्षोभितानि संप्रचलितानि । जिह्मीभूतानि नष्टच्छायानि । उत्सृजन्ति स्मेति मुञ्चन्ति स्म । विहायसमिति आकाशम् । स्वकेन कायेन धर्मोद्गतमभिच्छादयति स्मेति तस्याग्रतः सर्वकायेन भूमौ पतति स्मेत्यर्थः । कियन्तं कालमित्यत आह सप्तवर्षाणीति । अवक्रामणं प्रवेशनम् । यद्वयमिति यदा वयम् । अनुवर्तमाना इत्यनुकुर्वत्यः । दिव्यमित्याकाशभवम् । चित्तस्यान्यथात्व पृथिवीसेकवैमुख्यम् । इति प्रतिसंख्यायेति एवं निरूप्य सर्वाणि तानीति दारिकाशतानि । तानि तानीति शस्त्रविशेषणम् । अवतारमवकाशः । अध्यतिष्ठदित्यकरोत् । गन्धमित्यत्र अध्यतिष्ठदिति चकारेणानुकृष्यते । परीष्टिः पर्येषणा ।
कीदृशी तत्रार्यस्य धर्मोद्गतस्य धर्मदेशनाभूदित्यत आह । तत्रेयं धर्मोद्गतस्येत्यादि सुगमम् । यदुतशब्दः सामान्येनोद्दिष्टस्य विशेषं द्योतयति । एभिस्त्रिंशता आकारैरित्यर्थः । अत एवास्याः श्रुतबलेनोत्पन्ना । ( र्स्त्_200 ) एभिरेव त्रिंशताकारैः सदाप्ररुदितस्य बोधिसत्त्वस्योत्पन्नास्त्रिंशत्समाधयः पठिष्यन्ते । प्रज्ञापारमितायाः समता सर्वधर्मेषु । कुतः? सर्वधर्मसमतया । सा हि धर्मधात्वालम्बना । स च समानः सर्वधर्मेषु । प्रज्ञापारमिताया विविक्तता । कुतः? सर्वधर्मविविक्ततया । यतः सर्वधर्माः स्वलक्षणैर्विविक्ताः । अतः सापि विविक्ता स्वलक्षणप्रतिभासैः । सा कदाचिदस्माद्विवेकाच्चलतीति चेदाह । प्रज्ञापारमिताया अचलनता । कुतः? सर्वधर्माचलनतया । यतः सर्वधर्मा न विवेकाच्चलन्ति । ततः सापि न विवेकाच्चलति । मननाच्चलतीति चेदाह । प्रज्ञापारमिताया अमननता । कुतः? सर्वधर्मामननतया । अमनना हि सर्वधर्माः । न ते किञ्चिन्मन्यन्ते निःस्वभावत्वात् । ततः साप्यमनना । किमसौ केनापि स्तम्भिता यतो न चलतीति चेदाह । प्रज्ञापारमिताया अस्तम्भितता । कुतः? सर्वधर्मास्तम्भिततया । न हि विवेकाच्चलन्ति सर्वधर्माः केनापि स्तम्भिताः । किं तर्हि? प्रकृत्यैव विवेके स्थिरास्ततः प्रज्ञापारमितापि स्थिरा । आदौ समतामात्रमुक्तं नैकरसता । तामप्याह । प्रज्ञापारमिताया एकरसता सर्वधर्मेषु । कुतः? सर्वधर्माणामेकरसतया तथतैकरसा हि सर्वधर्माः स्वलक्षणानामभावात् । तद्वत्प्रज्ञापारमितापि स्वलक्षणानामप्रतिभासात् । प्रज्ञापारमिताया अपर्यन्तता । कुतः? सर्वधर्माणामपर्यन्ततया । तथा हि द्वौ पर्यन्तौ पूर्वा च कोटिरपरा च । तौ च न स्तः सर्वधर्माणाम् । अतीतानगतयोरसत्त्वात् । तस्मादपर्यन्ताः सर्वधर्माः । तद्वत्प्रज्ञापारमितापि । प्रज्ञापारमिताया अनुत्पादता । कुतः? सर्वधर्मानुत्पादतया । तथाहि निःस्वभावाः सर्वधर्माः । तस्मान्नोत्पद्यन्ते खरविषाणवत् । तस्मादनुत्पादाः । तद्वत्प्रज्ञापारमितापि । अनिरोधा प्रज्ञापारमिता । कुतः? सर्वधर्माणामनिरोधतया । न ह्यमी निरुध्यन्ते ऽसत्त्वात् खरविषाणवत् । तद्वत्प्रज्ञापारमितापि । प्रज्ञापारमिताया अपर्यन्तता । केनोपमानेन? गगनापर्यन्ततया । तथाहि गगनस्य नास्ति पर्यन्तो दशसु दिक्षु त्रिषु चाध्वेषु । एवं प्रज्ञापारमितायाः । [या] दशदिक्त्रैयध्विका सर्वधर्मतथतामात्रप्रथनात् । समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति । यथा ह्याकाशस्य नास्त्यन्तस्तथैव दशदिग्लोकधातूनां किम्पुनरनन्तेषु लोकधातुषु समुद्राणाम् । ततः सिद्धा समुद्रापर्यन्तता । तद्वत्प्रज्ञापारमितायाः । तथा हि या तेषां समुद्राणां तथता या च सर्वधर्माणां या च प्रज्ञापारमितायाः, एकैवैषा तथता । तथतालम्बना च प्रज्ञापारमिता । तस्मात्समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति सिद्धम् ।

ननु स्वप्नोपमतयापि ज्ञानं प्रज्ञापारमिता गगनोपमतयापि । तत्र पूर्वा विचित्रप्रतिभासा उत्तरा निराभासा । कथमनयोरेकार्थतेत्यत आह । मेरुविचित्रतया प्रज्ञापारमिताविचित्रतेति । यथा ह्येकरसमाकाशं प्रकृत्या तथापि ( र्स्त्_201 ) मेरुपार्श्वानां विचित्राणामाधिपत्यात्तद्वदेव विचित्रं ख्याति । एवमेकरसैव तथता न विचित्रा । तथतालम्बना च प्रज्ञापारमिता । यस्तु स्वप्नोपमादिज्ञाने विचित्रप्रतिभासः सो ऽभूतपरिकल्पधर्मः । तस्मात्स्वप्नोपममायोपमादिज्ञानं संवृतिः । निराभासे या च परिमार्थिके ज्ञाने सत्त्वनामवतारणाय निर्दिश्यते, निराभासपृष्ठभावी चाविकल्पोयं तदनुभूतनिश्चयार्थः । तस्मात्सिद्धमिदं मेरुविचित्रतया प्रज्ञापारमिताविचित्रतेति ।
ननु सैव निराभासा प्रज्ञापारमिता स्वयमनुभूयमानं परमार्थमित्थं निश्चिनोति निःस्वभावाः सर्वधर्मा इति । तत्कथमसौ निर्विकल्पेत्यत आह । गगनाकल्पनतया प्रज्ञापारमिताकल्पनतेति । प्रज्ञापारमिताया याकल्पनता न सा किञ्चिद्विकल्पयति विकल्पपारगतत्वात् । तद्यथा गगनं न किञ्चिद्विकल्पयति जडत्वात् । अजडा प्रज्ञापारमिता किन्न विकल्पयतीति चेत् । उक्तमत्र । विकल्पश्च भ्रान्तिरभ्रान्ता च सा । तस्मान्न विकल्पयतीति सिद्धम् ।
रूपापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति । यथा ह्याकाशमपर्यन्तं तथारूपस्कन्धोपि । यत्रान्यद्रूपं नास्ति तत्रावश्यं तमः प्रकाशो वास्ति । तद्वत्तदीयतथताप्रतिभासिनी प्रज्ञापारमिताप्यपर्यन्तता । यथैव समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततास्माभिर्व्याख्याता तथैव सत्त्वानामानन्त्यात् वेदनापर्यन्ततयापि संस्कारपर्यन्ततयापि विज्ञानापर्यन्ततयापि पृथिवीधात्वपर्यन्ततयापि अप्धात्वपर्यन्ततयापि तेजोधात्वपर्यन्ततयापि वायुधात्वपर्यन्ततयापि आकाशधात्वपर्यन्ततयापि विज्ञानधात्वपर्यन्ततयापि व्याख्यातव्या । अथ या विज्ञानस्कन्धापर्यन्ततया या च विज्ञानधात्वपर्यन्ततया तयोः को विशेषः? स्कन्धधातुशब्दाभ्यां प्रयोगकृतः ।
वज्रोपमधर्मसमतया प्रज्ञापारमितासमतेति । चित्तधारणाद्धर्मः समाधिः । तस्य या सर्वधर्मेषु समता तयोमानेन प्रज्ञापारमितायाः समता सर्वधर्मेषु सर्वधर्मासम्भेदनतया प्रज्ञापारमितासम्भेदनतेति सर्वधर्माणामसम्भेदो अभेदः । भेदकानां स्वलक्षणानामभावात् । तद्वत्प्रज्ञापारमिताया अपि न भेदः । सम्वेद्यमानेनैव रूपेण तेषां तस्यामभावात् । सर्वधर्मानुपलब्धितया प्रज्ञापारमितानुपलब्धितेति । सर्वधर्मा न किञ्चिदुपलभन्ते । रूपस्य जडत्वात् । शेषाणामप्यात्मनि परत्र वा ग्राहकत्वायोगात् । नाप्युपलभ्यन्ते ग्राहकाभावात् । तद्वत्प्रज्ञापारमितापि नोपलभते नाप्युपलभ्यते । तस्मात्तेषां तस्याश्चानुपलब्धिता । सर्वधर्माविभावनासमतया प्रज्ञापारमिताविभावनासमतेति । विभावनां परेभ्यो ( र्स्त्_202 ) वाचा देशना । सा सर्वधर्माणां न विद्यते तस्मादविभावनया समता तेषाम् । तद्वत्सर्वालम्बनेषु प्रज्ञापारमिताया अविभावनासमता । सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टतेति । चेष्टा ईहाव्यापारः । अव्यापारः सर्वधर्माः । कथं तर्हि कश्चित्कुतश्चिदुत्पद्यते? इदंप्रत्ययमात्रेण । अस्मिन् सतीदं भवति, असति न भवतीत्येतावता हेतुफलभावः । तस्मादमी निश्चेष्टाः तद्वत्प्रज्ञापारमितापि । सर्वधर्माचिन्त्यतयापि प्रज्ञापारमिताचिन्त्यतेति । यथा हि धर्माः परेभ्यो न देश्यन्ते निर्विषयत्वाद्वाचः । तथा स्वयमपि न चिन्त्यन्ते न निरूप्यन्ते वाग्विकल्पयोरेकार्थत्वात् । तद्वत्प्रज्ञापारमिताप्यचिन्त्या । वेदितव्येत्यन्ते यत् पठ्यते तत्सर्वधर्मसमतादिवाक्येषु सर्वेषु सम्बध्यते ऽन्तर्दीपकत्वात् ।
अथ खल्वित्यादि । अथेति देशनापरिसमाप्तौ । तथा निषण्णस्वंवेति श्रुतासनादनुत्थितस्य । अथेत्युद्देशः । कृतः । तस्यैव निर्देशः तस्यां वेलायामिति । येनैव क्रमेण यैरेवाकारैः प्रज्ञापारमिता देशिता तेनैव क्रमेण तैरेवाकारैस्त्रिंशत्समाधय उत्पन्ना इति समुदायार्थः । तत्र सर्वधर्मसमताद्याकारत्वात्समाधयस्तथा व्यपदिश्यन्ते । कथममी आकाराः? एभि प्रकारैर्वस्तुज्ञानात् । यथोक्तम्-
वस्तुज्ञानप्रकाराणामाकार इति लक्षणम् ।
इति । किं तर्ह्यालम्बनम्? तदेव वस्तु यथास्वम् । अथवा सर्वधर्मसमतादिरेवालम्बनम् । तदालम्बनत्वात्समाधयस्तथोक्ताः । वस्तून्यधिष्ठानि । आकारो यथास्वं निर्निमित्ततादिः । एवं प्रमुखानीति त्रिंशत्समाधिप्रमुखानि । कथमेषां प्रमुखत्वम्? एभिरवशेषाणामाक्षेपात् । शतसहस्राणीति लक्षाणि ॥
धर्मोद्गतेन लक्षितः परिवर्तस्तत्परिवर्तः ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकत्रिंशत्तमः परिवर्तः ॥
32. परीनन्दनापरिवर्तो नाम द्वात्रिंशत्तमः ।
सहप्रतिलब्धानामित्यादि । अनेन लब्धानां समाधीनां तत्कालजमनुशंसमाह । अत एव सहशब्दः समानकालतार्थः । प्रतिलब्धानामिति ( र्स्त्_203 ) प्रतिलब्धेषु सत्सु । एभिरेव नयेरिति यथोक्तवस्तुभिरष्टाभिरभिसमयैः । एभिरेव नामभिरिति सर्वाकारज्ञतादिभिः । सर्वासु च जातिषु न जातु बुद्धविरहितो ऽभूदित्युद्देशः । अस्य निर्देश उत्तरो ग्रन्थः स्वप्नान्तरगतोपीति यावत् ।
तत्र खल्वित्यादिरुपोद्घातः परीन्दनायाः । तदनेनापि पर्यायेणैति सदाप्ररुदितवृत्तान्तेनापि । तस्मात्तर्हीत्यादिना अनुशासनीशब्दपर्यन्तेन प्रथमा परीन्दना । अत्र च तथागताधिष्ठानेनेति वचनं किमर्थम्? महार्थत्वाभ्दगवती बव्हन्तराया च विना बुद्धाधिष्ठानेन लिखितुमपि [न] शक्येति प्रदर्शनार्थम् । इयमस्माकमनुशासनीतीयमस्माकं परीन्दना । यथा अस्याः श्रवणादिकं न विच्छिद्यते तथा त्वया कर्तव्यमित्यर्थः । तत्कस्य हेतोरिति । तत्परीन्दनं केन प्रयोजनेनेत्यर्थः । अत आह । अत्र हीत्यादि ।
तत्कथमित्यादिना द्वीतीयपरीन्दनाया उपोद्घातः । अस्मिन् मम समुच्छय इति मम शरीरे । तथतदिति । एतत्प्रेमादिकम् । एतेनोपाद्घातेन द्वे परीन्दने । यत आह द्विरपि त्रिरपीति । परीन्दामीति समर्पयामि । अनुपरीन्दमीत्यानुकूल्यं समर्पयामि । कथं परीन्दनेत्यत आह यथेयमित्यादि । अन्यः पुरुष इत्यभक्तः । कस्मादस्यामेतावद्गौरवमित्यत आह । यावदित्यादि बहुविधाश्च पूजाभिरिति यावत् ।

भगवत्याः परिसमाप्तिमुद्योतयन् सङ्गीतिकार आह । इदमवोचदित्यादि । इदमिति प्रज्ञापारमितासूत्रम् । अवोचदिति भाषितवान् । भगवानिति शास्ता । परार्थरसिकास्तथागताः । परार्थ च परार्थक्रिया भगवत्या देशना । तत आह । आत्तमना इति । निरुत्तरधर्मदेशनया प्रीतः सन्नित्यर्थः । श्रोतारः किमुकुर्वन्नित्याह । भगवतो भाषितमभ्यनन्दन्निति । अभिपूर्वो नन्दिः सकर्मकः । स कदाचिदभिलाषे वर्तते । कदाचित्प्रीतौ । यदा प्रीतौ तदा तदालम्बनमेवास्य कर्म भवति । तत्पुनः कर्म भगवतो भाषितम् । एषैव देशना । के पुनस्ते श्रोतार इत्याह । ते चेत्यादि । लोकः सत्त्वसमूहः । स च श्रोतॄणां राजगृहस्य च प्रकृतत्वान्मनुष्यसमूह एव केवलो गम्येत । तथा मा भूदिति विशेषणं क्रियते । सदेवमानुषासुरगन्धर्वश्चेति । ते च बोधिसत्त्वादयः सदेवादिश्च लोक इति समुच्चयः ॥
परीन्दनाभिधायी परिवर्तः परीन्दनापरिवर्तः ॥
नानाविभ्रमलाञ्छनव्यपगमादग्राह्यमग्राहकम् ।
भात्येतत्तथतात्मना समरसं यस्यामशेषं जगत् ॥
प्रज्ञापारमिता विकल्पतरणी सा बोधिसत्त्वस्य धीः ।
धीरैः सैव विशुद्धिपारगमने ताथागती कथ्यते ॥
स(श)सत्यष्टौ यदभिसमयान् यत्सहस्राणि चाष्टौ ।
सूत्रं तत्ते भगवति मया यश्च लब्धो विभज्य ॥
पुण्यस्कन्धः फलतु स यथा युक्तिमुक्तिं प्रजानाम् ।
निःसीमानां मम च वशितां विश्वकार्यक्रियासु ॥
अनुपमगुणमृष्टा निर्मलाशेषवर्णा ।
हरति भवरतिं वो भारती गौतमस्य ।
भवति महति(?) वर्तिर्या दया स्नेहपूर्णे
जनमनसि तदन्तर्ज्ज्योतिषः संक्रमाय ॥
प्रज्ञापारमितायाः प्रमिताया दशशतीभिरष्टाभिः ।

सारतमेत्यभिसमये स्फुटा घना पञ्जिकेयं मे ॥
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥
?(?) सम्वत् आ तो राज्ञः श्रीहर्षदेवराज्ये श्रीगण्डिगुल्मविषये ।
कुलपुत्रकायस्थः (? स्थस्य) पण्डितश्रीजीवन्धरशिं(सिं)हस्य पुस्तको(? स्तिके)यमिति ॥ 0 ॥

मूल पाठ: Sāratama · Edition: Padmanabha S. Jaini: Sāratamā. A Pañjikā on the Aṣṭasāhasrikā Prajñāpāramitā Sūtra by Ratnākaraśānti. Patna : Kashi Prasad Jayaswal Research Institute, 1979. (Tibetan Sanskrit Works Series, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc