भाषा

ENहिગુ
ग्रंथ पाठ

शङ्खायन-आरण्यक · अध्याय 1

1.8

शाङ्खायनारण्यकम्
शा 1,1
प्रजापतिर् वै संवत्सरः । तस्यैष आत्मा यन् महाव्रतम् । तस्माद् एनत् परस्मै न शंसेन् नेत् सर्वेषां भूतानाम् आत्मानं परस्मिन् दधानीति ॥ अथो इन्द्रस्यैष आत्मा यन् महाव्रतम् । तस्माद् एनत् परस्मै न शंसेन् नेद् इन्द्रस्यात्मानं परस्मिन् दधानीति ॥ अथो यम् एवैतम् ऋङ्मयं यजुर्मयं साममयं पुरुषं संस्कुर्वन्ति तस्यैष आत्मा यन् महाव्रतम् । तस्माद् एनत् परस्मै न शंसेन् नेत् सर्वेषां छन्दसाम् आत्मनं परस्मिन् दधानीति ॥ कामं तु सत्त्रिणां होता शंसेत् । पित्रे वाचार्याय वात्मने हैवास्य तच्छन्दस्तं भवति । आत्मनैव तद् यज्ञं समर्धयति । तस्य पञ्चविशः स्तोमः । चतुर्विंशतिर् वै संवत्सरस्यार्धमासाः, संवत्सरस्यैवाप्त्यै । अथो प्रजापतिर् वै संवत्सरः पञ्चविंशः । अथो चतुर्विंशो वै पुरस्तात् कृतो भवति तस्यैष गतिर् यत् पञ्चविंशः । ऐन्द्रश्च ऋषभः प्राजापत्यश्चाज उपालभ्यौ । ऐन्द्रं वा एतद् अहः । इन्द्र उ वै प्रजापतिः । तत् प्राजापत्यं रूपम् । अथो एतद् एव पशुष्वैन्द्रं रूपं यद् ऋषभः ॥
शा 1,2
तस्य विशोविशो वो अतिथिम् इति द्वादशर्चम् आज्यम् । द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाप्त्यै । तस्मिन् वै द्वे छन्दसी भवतो गायत्र्यश्चानुष्टुभश्च । अग्निं नरो दीधितिभिररण्योर् इत्येतत् पञ्चविंशत्यृचम् उपसंशंसति । पञ्चविंशो हि स्तोमः । तद् वै शस्त्रं समृद्धं यत् स्तोमेन संपद्यते । तस्मिन् वै द्वे छन्दसी भवतो विराजश्च त्रिष्टुभश्च । तानि चत्वारि संपद्यन्ते । चतुष्टयं वा इदं सर्वम् अस्यैव सर्वस्याप्त्यै । त्रैष्टुभः प्रüगः । इन्द्रस्यैवैतच्छन्दो यत् त्रिष्टुप् । यद् एनं स्वेन छन्दसा समर्धयति । कुविद् अङ्ग नमसा ये वृधास इत्य् वायव्यं महद्वद् वृधवत् । महद्वत् - महद्वद् ध्येतद् अहः । अत एवोत्तरं तृचम् ऐन्द्रवायवं यावत्तरस्तन्वो यावदोज इति यावन्नरश्चक्षसा दीध्याना इत्येतेन रूपेण । उद् वां चक्षुर्वरुण सुप्रतीकम् इति मैत्रावरुणं देवयोरेति सूर्यस्ततन्वान् इत्येतेन रूपेण । क उ श्रवत् कतमो यज्ञियानाम् इत्याश्विनं यं सुर्यस्य दुहितावृणीतेत्येतेन रूपेण । कथा महाम् अवृधत् कस्य होतुर् इत्यैन्द्रं महद्वद् वृधवत्
। महद्वद् - महद्वद् ध्येतद् अहः । को वस्त्रात वसवः कौ वरूतेति वैश्वदेवं सहीयसो वरुण मित्र मर्ताद् इत्येतेन रूपेण । उत स्या नः सरस्वती जुषाणेति सरस्वतं द्वारावृतस्य सुभगो व्यावर् इत्येतेन रूपेण । एष वा उ कद्वांस्त्रैष्टुभस् तृचक्ल्̥प्तो वामदेव्यः प्रüगः । प्रजापतिर् वै वामदेवः प्रजापतावेव तत् सर्वान् कामन् ऋध्नुवन्ति । तद् आहुर् न त्रैष्टुभं प्रातःसवनं स्यात् । मोहयति क्ल्̥प्तछन्दसो यज्ञमुखम् । ऐकाहिकम् एव स्यात् । ब्रह्म वा एकाहः । ब्रह्मैतद् अहः । ब्रह्मणैव तद् ब्रह्म समर्धयति ॥
शा 1,3
आ त्वा रथं यथोतय इति मरुत्वतीयस्य प्रतिपत् । इदं वसो सुतम् अन्ध इत्यनुचरः । एष एव नित्य एकाहातानः । तस्योक्तं ब्राह्मणम् । असत् सु मे जरितः साभिवेग इति वासुक्रं पूर्वं शस्त्वा महां इन्द्रो नृवद् आ चर्षणिप्रा इत्येतस्मिंस्त्रैष्टुभे निविदं दधाति । तद् यद् वासुक्रं पूर्वं शंसति । इन्द्र उ वै वसुक्रः । अथ यद् महां इन्द्रो नृवद् आ चर्षणिप्रा इति महद्वत् । महद्वद् ध्येतद् अहः ॥
शा 1,4
अथैता आज्याहुतीर् जुहोति । स्वस्त्ययनम् एव तत् कुरुते । यज्ञस्यैव शान्त्यै यजमानानां च भिषज्यायै । ता वा अष्टौ भवन्ति । एताभिर् वै देवाः सर्वा अष्टीर् आश्नुवत । तथो एवैतद् यजमाना एताभिर् एव सर्वा अष्टीर् अश्नुवते । अथैतान् परिसादाञ् जपाञ् जपति । परिमादः - आपो वै परिमादः । अद्भिर् हीदं सर्वं परिमत्तम् । अथ वै परिमादः । अन्नम् एतद् उक्थम् । आपो वा अन्नस्यायतः पूर्वा आयन्ति, आपः परिमादः । अथ वै परिमादो यन् नखानि दन्तास् तनूर् लोमानीति । तस्मात् कृत्याः संपद्वत्यो हि भवन्ति । पञ्चविंशतिर् निधनम् । आङ्गिरसं प्रतिष्ठायैः तद्रूपम्, भूतच्छन्दां साम प्रियम् इन्द्रस्य धामोपजगामेति; क्रोशानुक्रोशे, अरात्सुः; अप्येषां पयः, अरात्सुः; अर्कं चार्कपुष्पं च । अयं वा अग्निरर्कः । असावादित्यो ऽर्कपुष्पम् । तेषु यदा पर्यायं सामगाः स्तुवते, अथ होतारम् आहुर् अनुजपेति । ते यदि स्तुवीरन् अथानुजपेत् । यदि
चैवं स्तुवीरन् यदि च स्तुवीरन् अन्वेव जपेत् ॥
शा 1,5
तानि वा एतनि सप्त देवच्छन्दांसि भवन्ति । तस्माद् एनान् +अनुजपेत् । अथो ऐन्द्रं वा एतद् अहः । ऐन्द्रा जपाः । तस्माद् एनान् अनुजपेत् । अथात्रैव तिष्ठन्न् अग्निं यथाङ्गम् उपतिष्ठते नमो नम इति । नहि नमस्कारम् अति देवाः । समिद्धस्यैवैतान् भागान् उपतिष्ठेत यद्युत्तरवेदौ भवति । अथात्रैव तिष्ठन्न् आदित्यम् उपतिष्ठते । आकाशं शालायै कुर्युर् इति हैक आहुः । देशेन त्वेवोपतिष्ठेत तिरोहितो ह वा एष एतस्मिन् परम उक्थे परम आशिषो वदति - सं महान् महत्यादधाद् इति । अग्निर् वै महन् इयं पृथिवी महती । एतौ हि समधत्ताम् । सं देवो देव्यादधाद् इति । वायुर् वै देवो ऽन्तरिक्षं देवी । एतौ हि समधत्ताम् । सं ब्रह्म ब्राह्मण्यादधाद् इति । असाव् आदित्यो ब्रह्मासौ द्यौर् ब्राह्मणी । एतौ हि समधत्ताम् । तद् इमांल् लोकान्त् संदधाति
। एतद् उक्थं शंसिष्यते ॥
शा 1,6
विश्वामित्रो ह वा इन्द्रस्य प्रियं धामोपजगाम शस्त्रेण च व्रतचर्यया । तं हेन्द्र उवाच विश्वामित्र वरं वृणीष्वेति । स होवाच विश्वामित्रस् त्वाम् एव विजानीयाम् इति । द्वितीयम् इति । त्वाम् एवेति । तृतीयम् इति । त्वाम् एवेति । तं हेन्द्र उवाच महांश्च महती चास्मि । देवश्च देवी चास्मि । ब्रह्म च ब्राह्मणी चास्मीति । तत उ ह विश्वामित्रो विजिज्ञासाम् एव चक्रे । तं हेन्द्र उवाचैतद् वा अहम् अस्मि यद् एतद् अवोचं यद् वा ऋषे ऽतो भूयो ऽतपास् तदेव तत् स्याद् यद् अहम् इति । तद् वा इन्द्रो व्याहृतीर् ऊचे ता उपाप्ता आसन्न् इति । अथोपनिधाय प्रेङ्खफलकं त्रिर् अभ्यन्य त्रिर् अभ्यवान् इति ॥
शा 1,7

तद् वा औदुम्बरं भवति । ऊर्ग् वा अन्नाद्यम् उदुम्बर ऊर्जो ऽन्नाद्यस्योपाप्त्यै । अथैनद् उरसा संस्पृश्य दक्षिणं भागम् आत्मनो ऽतिहरञ् जपति - अर्को ऽसि वसवस्त्वा गायत्रेण च्छन्दसारोहन्तु ते त आरोळ्हार इत्येव तद् आह । तान् अहम् अन्वारोहामि राज्यायेति । राज्यं ह वा इदम् उ हैव चक्षते । अथोत्तरं भागम् आत्मनो ऽतिहरञ् जपति - रुद्रास्त्वा त्रैष्टुभेन छन्दसारोहन्तु ते त आरोळ्हार इत्येव तद् आह । तान् अहम् अन्वारोहामि स्वाराज्यायेति । स्वाराज्यं ह वै राज्याद् अधितराम् इव । अथ दक्षिणं भागम् आत्मनो ऽतिहरञ् जपति - आदित्यास्त्वा जगतेन च्छन्दसारोहन्तु ते त आरोळ्हार इत्येव तद् आह । तान् अहम् अन्वारोहामि साम्राज्यायेति । साम्राज्यं ह वै स्वाराज्याद् अधितराम् इव । अथोत्तरं भागम् आत्मनो ऽतिहरञ् जपति - विश्वे त्वा देवा आनुष्टुभेन छन्दसारोहन्तु ते त आरोळ्हार इत्येव तद् आह । तान् अहम् अन्वारोहामि कामप्रायेति । कामप्रं ह वै सर्वेषां परार्ध्यम् । अथ समधिसृप्य प्राञ्चौ पादा उपावहृत्य भूमौ प्रतिष्ठापयति । उद्यततरो ह वा एषो ऽस्माल् लोकाद् भवति । तद् यत् प्रतिष्ठापयति । तद् अस्मिंल् लोके प्रतितिष्ठति प्रतिष्ठायाम्
अप्रच्युत्याम् । अथ त्रित् अभन्य त्रिर् अभ्यवान् इति । अथोपरि प्रेङ्खफलके दक्षिणोत्तरिणम् उपस्थं कृत्वा दक्षिणेन प्रादेशेन पश्चात् प्राङ् प्रेङ्खफलकम् उपस्पृशति । प्रजापतिष् ट्वा रोहतु वायुः प्रेङ्खयत्व् इति । प्रजापतिर् वा एतद् आरोहति वायुः प्रेङ्खयति यज् जीवम् । अथ त्रिर् अभन्य त्रिर् अभवान् इति । अथ प्राञ्चौ पाणी परिगृह्य जपति ॥
शा 1,8
सं वाक् प्राणेन, सम् अहं प्राणेन, सं चक्षुर् मनसा सम् अहं मनसा, सं प्रजापतिः पशुभिः सम् अहं पशुभिर् इत्याशिषम् एव तद् वदते । सुपर्णो ऽसि गरुत्मान् इति । प्राणो वै सुपर्णः । प्रेमां वाचं वदिष्यामीति प्रवदिष्यन् ह्येष एतां वाचं वदति बहु करिष्यन्तीं बहु करिष्यन्न् इति । बहु ह्येषा वाक् करिष्यन्ती भवति । बह्वयं य एतस्याह्नः शस्त्रं प्राप्नोति । बहोर् भूयः करिष्यन्तीं बहोर् भूयः करिष्यन्न् इति बहोर् भूयो ह्येषा वाक् करिष्यन्ती भवति बहोर् भूयो ऽयं य एतस्याह्नः शस्त्रं प्राप्नोति । स्वर् गमिष्यन्तीं स्वर् गमिष्यन्न् इति स्वर् ह्येषा वाग् गमिष्यन्ती भवति स्वर् अयं य एतस्याह्नः शस्त्रं प्राप्नोति । स्वर् इमान् यजमानान् वक्ष्यन् इत्य् एव ब्रूयात् । यं द्विष्यात् तं ब्रूयान् ना नामुं नामुम् इति । स यावतो ह वा एष एतस्माद् देवस्थात् प्रतिसंख्याय निर्धूनुते निष् टद् धूनुते । तौ ह न भोग्यायैव भवतः । तम् एवैतत् प्रधर्षयति । तम् एवैतत् प्रधर्ष्यात्मन् धत्ते । वायुर् वा एष प्राणो भूत्वैतद् उक्थं शंसति । तम् एवैतत् प्रधर्षयति । तम् एवैतत्
प्रधर्ष्यात्मन् धत्ते । गुरौ वा एष युक्तो भवति य एतस्याह्नः शत्रं प्राप्नोति, तस्य गुरौ युक्तस्येश्वरः प्राणो यदि नापपराजेतोः । तम् एवैतत् प्रधर्सयति । तम् एवैतत् प्रधर्ष्यात्मन् धत्ते । न ह वा एतस्यै देवतायै दिग्धेन नासिना न परशुना न केनचनावतर्दो ऽस्ति । तद् य एवं विद्वांसम् अपवदति स एव पापीयान् भवति । न स य एवं वेद । नैवं विदुषो ऽवतर्दो नैवं विदुषो ऽवतर्दः

मूल पाठ: Śaṅkhāyana-Āraṇyaka · Edition: Bhim Dev, Hoshiarpur 1980 (Vishveshvaranand Indological Series, 70), and the ed. of Adhyāyas 7-15 published as an appendix to A.B. Keith: Aitareya Āraṇyaka, Oxford 1909, pp. 305-328 · Data entry Martin Joachim Kümmel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc