भाषा

ENहिગુ
ग्रंथ पाठ

शङ्खायन-आरण्यक · अध्याय 2

2.1

इति शाङ्खायनारण्यके प्रथमो ऽध्यायः ॥
शा 2,1
हिंकारेण प्रतिपद्यत एतद् उक्थम् । प्राणो वै हिंकारः प्राणेनैवैतद् उक्थं प्रतिपद्यते । अथो ऊर्ग् वै रसो हिंकार ऊर्जम् एव तद् रसम् एतस्मिन् उक्थे दधाति । अथो अमृतत्वं वै हिंकारो ऽमृतत्वम् एव तद् आत्मन् धत्ते । राजनं पृष्ठं भवति । एतद् वै प्रत्यक्षं साम यद् राजनम् । तद् एनत् स्वेन साम्ना समर्धयति । तद् अनिरुक्तासु भवति । अनिरुक्त उ वै प्रजापतिः । तत् प्राजापत्यं रूपम् । कवतीषु स्याद् इति हैक आहुः । को वै प्रजापतिः । तत् प्राजापत्यं रूपम् । अथैतं तूष्णींशंसम् उपांशु शंसति । वाग् वा एतद् अहर् मनस् तूष्णींशंसः । मनसैव तद् वाचं समर्धयति । तद् इद् आस भुवनेषु ज्येष्ठम् इति स्तोत्रियस्तृचः । वावृधानः शवसा भूर्योजा इति वृधवन् महद्वत् । महद्वद् ध्येतद् अहः ।
स एष आत्मा पञ्चविंशः । तन् नदेनुपसृष्टं शंसति । आत्मा वै पञ्चविंशः प्रजा पशव उपसर्गः । प्रजयैव तत् पशुभिः प्रेष्यैर् अन्नाद्येनेत्यात्मानम् उपसृजते । नदं व ओदतीनाम् इति त्रैष्टुभानि पूर्वाणि पदानि करोति नदस्योत्तराणि । प्रथमेन त्रैष्टुभेन पदेन प्रथमं नदस्य पदम् उषसमाधायावस्यति । द्वितीयेन त्रैष्टुभेन द्वितीयं संधाय प्रणौति । तृतीयेन त्रैष्टुभेन तृतीयं संधायावस्यति । चतुर्थेन त्रैष्टुभेन चतुर्थं संधाय प्रणौति । एवं विहृतां प्रथमां त्रिः शंसति, पराचीर् उत्तरा एवं विहृता एव । या तृतीया सूक्तस्य तस्या उत्तरम् अर्धर्चम् उत्सृजति नदस्य चोत्तरम् । सो ऽयं मुखस्य विवरस् तेन वाचं वदति मुखेन वै वाचं वदति । तौ पुरस्ताद् द्विपदानां शंसति तथा हास्य स्तोत्रियानन्तर्हिता भवत्यात्मानं शस्त्वा ।
अथ सूददोहसं पर्वाणि संहितानि भवन्ति । अथो आपो वै सूददोहा अद्भिर् वा इमानि पर्वाणि संहितानि भवन्ति । अथो अमृतत्वं वै सूददोहा अमृतत्वं एव तद् आत्मन् धत्ते । अथ वै सूददोहास्यैतद् रूपम् । तद् यथा ह वै दारुणः श्लेष्म संश्लेषणं स्यात् परिचर्मण्यं वैवम् तृचाशीतिर् एवसूददोहाः सर्वेषां वेदानां शंश्लेषिणी ॥
शा 2,2
अथेतानि शीर्ष्ण्यानि शंसति । तानि वै त्रीणि तृचानि भवन्ति । त्रीणि वा अस्य शीर्ष्णः कपालानि भवन्ति । तान्येवैतैः संदधाति । तानि त्रीणि पुनरेवैकं त्रेधा त्रेधा ता नव ऋचो भवन्ति । नव वै शिरसि प्राणाः । तान्यर्कवन्ति भवन्ति । तद् एतस्याह्नो रूपम् ॥
शा 2,3
अथैतं ग्रैवं शंसति । ता वै तिस्र ऋचो भवन्ति । त्रीणि वा आसां ग्रीवाणां पर्वाणि भवन्ति । तान्येवैताभिः संदधाति । उष्णिग् उत्तमा । सो ऽयं स्कन्धो विदलो ऽव्यूळ्हः (लः) ॥
शा 2,4
अथैतां अक्षां शंसति । सा वै त्रिष्टुब् भवति । तस्माद् अक्षः स्थविष्ठः । ऋष्वा त इन्द्र स्थविरस्य बाहू इति बाह्वोर् अभिरूपा । अथ रथन्तरस्य स्तोत्रियानुरूपौ शंसति । तयोर् उक्तं ब्राह्मणम् । अथ धाय्यां शंसति । इयं वै धाय्या । इयं हि सर्वेषु भूतेषु हिता । सा वै दक्षिणे भागे धीयते । तस्माद् दक्षिणं भागं पुंसः स्त्र्यधिशेते । अथ राथन्तरं प्रगाथं शंसति । तस्योक्तं ब्राह्मणम् । स एक इद् धव्यश् चर्षणीनाम् इति सूक्तं तत् पच्छः । तस्य द्वितीयाम् उद्धृत्य विश्वो ह्यन्यो अरिराजगामेति । यैतस्य द्वितीया ताम् इह द्वितीयां करोति । तद् इमौ पक्षौ व्यतिषजत्यविवर्हाय ॥
शा 2,5
अथैतं प्रहस्तकं शंसति । ता वै तिस्र ऋचो भवन्ति । त्रीणि वा अस्य पाणेः पर्वाणि भवन्ति । तान्येवैताभिः संदधाति । अतिच्छन्दाः प्रथमा सो ऽयम् अङ्गुष्ठः । तस्माद् अयम् अङ्गुष्ठः सर्वा अङ्गुलीः प्रत्येति । दक्षिणः पक्षो राथन्तरः । अथ वा उत्तरः पक्षो बार्हतः । एतेनैवोक्तो ब्राह्मणः । तौ वा एतौ पक्षौ बार्हतराथन्तरौ चतुर्विंशौ । चतुर्विंशतिर् वै संवत्सरस्यार्धमासाः संवत्सरस्याप्त्यै ॥
शा 2,6
अथैतानि चतुरुत्तराणि शंसति तद् अनूकम् । ता एकविंशतिर् ऋचो भवन्ति । एकविंशतिर् वा अस्यानूकस्य पर्वाणि भवन्ति । तान्येवैताभिः संदधाति । तानि वै सप्त तृचानि भवन्ति । सप्त वै छन्दांसि सर्वेषाम् एव छन्दसाम् आप्त्यै । तान्यर्कवन्ति भवन्ति । तद् एतस्याह्नो रूपम् ॥
शा 2,7
अथैता अशीतीः शंसति । स्तोत्रियान् एवैताभिर् अनुशंसति गायत्र्या गायत्रम् औष्णिह्या च बार्हत्या च बृहद्रथन्तरे । इयम् एव दक्षिणं पार्श्वं गायत्री सव्यम् औष्णिही मध्यं बार्हती । मध्ये वा इदम् आत्मनो ऽन्नं धीयते । त्रिष्टुभावन्तरेण त्रिष्टुम् नैविदी । वैश्वामित्र्यावर्कवत्यावभिरूपे । विश्वामित्रो ह्येनद् अपश्यत् । महद्वत्यो वृधवत्यः प्रतिपदो भवन्ति । महद्वद् वृधवत् । महद्वत् - महद्वद् ध्येतद् अहः ॥
शा 2,8
महां इन्द्रो य ओजसेत्येतया गायत्रीम् अशीतिं प्रतिपद्यते स्तोमैर् वत्सस्य वावृध इति महद्वत्या वृधवत्या । महद्वद् वृधवत् । महद्वत् - महद्वद् ध्येतद् अहः ॥
शा 2,9
या इन्द्र भुज आभर इत्येतया बार्हतीम् अशीतिं प्रतिपद्यते स्तोतारम् इन् मघवन्न् अस्य वर्धयेति महद्वत्या वृधवत्या । महद्वद् वृधवत् । महद्वत् - महद्वद् ध्येतद् अहः । अयं ते अस्तु हर्यत आ मन्द्रैर् इन्द्र हरिभिः सूक्ते । तद् यद् एते अन्ततः शंसति संसिद्धाभिर् बृहतीभिर् औष्णिहीम् अशीतिं समारोहाणीति ॥
शा 2,10
इन्द्रः सुतेषु सोमेष्व् इत्येतयौष्णिहीम् अशीतिं प्रतिपद्यते विदे वृधस्य दक्षसो महान् हि ष इति वृधवत्या महद्वत्या । वृधवन् महद्वत् । महद्वद् ध्येतद् अहः । ता वा एता अशीतयः संशस्ताः सप्तविंशतिशतान्यृचां संपद्यन्ते । सप्त वै विंशति शतानि संवत्सरस्याहोरात्राणां तद् अशीतिभिः संवत्सरस्याहोरात्राण्याप्नोति । सामनिधनैर् हैके गायत्रीर् उष्णिहः संपादयन्ति । चतुरक्षराण्यु हैके पुनर् आददते । बार्हत्या अशीत्या अशीतिं चतुरक्षराण्युद्धरति काकुभेभ्यः प्रगाथेभ्यश् चतुर्विंशतिं चतुरक्षराणि तानि चतुःशतं चतुरक्षराणि चतुःशते गायत्रीषूपदधाति । तथा ता गायत्रीर् उष्णिहः संपद्यन्ते । नाद्रियेत । अत्रैव संपन्नम् । इन्द्राय साम गायतेति । तद् यद् एतद् अन्ततः शंसति संसिद्धाभिर् उष्णिग्भिर् वशं समारोहाणीति ॥
शा 2,11
अथ वशं शंसति । उदरं वै वशः । तेन संसिद्धेनानन्तर्यं जिगमिषेत् । यद् अतः किंच बहिर्धा तत एव तच् छ्रपयति यद् अन्तर् उदरे । तस्माद् बह्व्यो देवता बहूनि च्छन्दांसि वशे शस्यन्ते । तस्माद् इदं बहु विश्वरूपम् उदरे ऽन्नम् अवधीयते । अथैतौ विहृतावर्धर्चौ । अथ सूददोहसम् । सा तत एवोत्सृज्यते । अत्र चतुर्विंशतिकृत्वः शस्ता भवति ॥
शा 2,12
अथैता द्विपदाः शंसति । प्रतिष्ठानीयं वै छन्दो द्विपदाः प्रतिष्ठित्या एव ॥
शा 2,13
अथैतद् ऐन्द्राग्नं सूक्तं गायत्रीशंसं शंसति । प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव ॥
शा 2,14
अथैतद् आवपनं शंसति । प्रतिष्ठा वा आवपनं प्रतिष्ठित्या एव । अथौ एतान्येव पुनरर्वाचीनि भवन्ति ॥
शा 2,15

अथैतम् आनुष्टुभं समाम्नायं शंसति । वाग् वा एतद् अहर् वाग् अनुष्टुब् वाच्येव तद् वाचं प्रतिष्ठापयति । दिवं ययेति देवान् एवैतेन सूक्तेनैति । स प्रत्नथा कविवृध इति तृचम् अर्कवत् तेन समृद्धम् । गायत्र्युत्तमा तया समृद्धम् । शास इत्था महां असीति महद्वत् । महद्वद् ध्येतद् अहः ॥
शा 2,16
अथैतं त्रिष्टुप्छतं शंसति । +इन्द्रस्यैवैतच् छन्दो यत् त्रिष्टुप् तद् एनं स्वेन छन्दसा समर्धयति । हैरण्यस्तूपीयं च यातऊतीयं च बार्हतराथन्तरे बृहद्रथन्तरे हि पुरस्तात् कृते भवतः । सजनीयं चाध्वर्यवो भरतेन्द्राय सोमम् इति च ताः सप्तविंशतिर् ऋचो भवन्ति । सप्तविंशतिर् वै नक्षत्राणि । तन् नक्षत्रियां विराजं आप्नोति । विश्वामित्रस्य शंसेत् । विश्वामित्रो ह्येनद् अपश्यत् । वामदेवस्य शंसेद् वामं ह्येतद् देवानाम् । वसिष्ठस्य शंसेद् वसिष्ठं ह्येतद् देवानाम् । तत्र पुरस्ताद् उद्ब्रह्मीयस्य पदानुषङ्गाञ् छंसति । सर्वे वै कामा एतस्मिन् अन्तरुक्थे । तद् यथा व्रजे पशून् अवसृज्यार्गलेषीके परिव्ययेत् । एवम् एवैतैः पदानुषङ्गैः सर्वान् कामान् उभयतः परिगृह्यात्मन् धत्ते । अथो उद्ब्रह्मीयस्यार्कवत्युत्तमा । तद् एतस्याह्नो रूपम् । त्रिः शस्तया परिदधाति । परिधायोक्थवीर्यं जपति । ऐकाहिकं पूर्वं । प्रतिष्ठा वा एवाहः प्रतिष्ठित्या एव । माहाव्रतिकम् उत्तरम् । महद् असीति महद्वत् ।
महद्वद् ध्येतद् अहः ॥
शा 2,17
तद् एतत् सकृच्छस्तायां सूददोहसि, यावच्छस्त्रं उपसर्जन्यां संख्यायमानायाम् ऋते तूष्णींशंसं बृहतीसहस्रं संपद्यते । तस्य वा एतस्य बृहतीसहस्रस्य षट्त्रिंशद् अक्षराणां सहस्राणि भवन्ति । तावन्ति शतसंवत्सरस्याहानि भवन्ति । तच् छतसंवत्सरस्याहान्याप्नोति । अनुष्टुप्संपन्नम् उ हैके । वाग् वा एतद् अहः । वाग् अनुष्टुप् । वाग् +घ सर्वाणि भूतानि । अथो वाग् इदं सर्वम् इति । बृहतीसंपन्नम् इति त्वेव स्थितम् । बार्हतो वा एष य एष तपति । तद् एनं स्वेन छन्दसा समर्धयति । त्रिर् एवाह्वयते । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति । एकाहिकी याज्या प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । अननुवषट्-कृत एव प्रेङ्खं श्रथ्नन्ति । सग्रहम् एवायं तं प्राङ् उपावरोहति प्रत्यङ् प्रेङ्खफलकम् अपोहति । परामृशन् ग्रहं जपति - यम् इमं प्रजयं प्राजैषं तम् अन्वसानीति नेद् अस्मात् प्रजयाद् आत्मानम् अपादधानीति । वैश्वकर्मणो ऽतिग्राह्यः । प्राजापत्यं वा एतद् अहः । प्रजापतिर् विश्वकर्मा तद् एनं स्वेन रूपेण समर्धयति । तद् धैतद् अहर् इन्द्रो ऽगिरसे
प्रोवाचाङ्गिरा दीर्घतमसे । तत उ ह दीर्घतमा दश पुरुषायुषाणि जिजीव । तद् अप्येतद् ऋषिर् आह दीर्घतमा मामतेयो जुजुर्वान् दशमे युग इति । तद् एतय् आयुष्कामस्य शस्त्रम् इति ह स्माह कौषीतकिः । तद् य एवं विद्वान् एतद् अहः शंसति सर्वम् आयुर् अस्मिंल् लोक एति । आप्नोत्यमृतत्वम् अक्षितिं स्वर्गे लोके ॥
शा 2,18
तत् सवितुर् वृणीमह इति वैश्वदेवस्य +प्रतिपत् । वृणीमह इति महद्वती । महद्वत् - महद्वत् ध्येतद् अहः । अद्या नो देव सवितर् इत्यनुचरः । विश्वा वामानि धीमहीति महद्वत् । महद्वद् ध्येतद् अहः । तद् देवस्य सवितुर् वार्यं महद् इति सावित्रं महद्वत्। महद्वद् ध्येतद् अहः । ते हि द्यावापृथिवी विश्वशंभुव इति द्यावापृथिवीयम् उरुव्यचसो महिनी असश्चतेति महद्वत् । महद्वद् ध्येतद् अहः । किम् उ श्रेष्ठः किं यविष्ठो न आजगन्न् इत्यार्भवम् । न निन्दिम चमसं यो महाकुल इति महद्वत् । महद्वद् ध्येतद् अहः । अस्य वामस्य पलितस्य होतुर् इति सलिलं वैश्वदेवम् । सलिलं ह्येतद् देवानाम् । ऐकाहिके निविदं दधाति । प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । ऐकाहिकं वैश्वानरीयम् ।
प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । प्रयज्यवो मरुतो भ्राजदृष्टय इति मारुतम् । बृहन् महान्त उर्विया वि राजथेति बृहद्वत् । महद्वत् - महद्वत् ध्येतद् अहः । बळ इत्या तद् वपेषु धायि दर्शितम् इति जातवेदसीयं तस्य अस्ताव्यग्निः शिमीवद्भिर् अर्कैर् इत्य् अर्कवत्युत्तमा । तद् एतस्याह्नो रूपम् इत्यग्निमारुतसूक्तानीति । एतस्याह्नः सूक्तानि । तद् अग्निष्टोमः संतिष्ठते । ब्रह्म वा अग्निष्टोमः । ब्रह्मैतद् अहः । ब्रह्मन्येव तद् ब्रह्म प्रतिष्ठाप्यन्ति । ते ऽमृतत्वम् आप्नुवन्ति य एतद् अहर् उपयन्ति य एतद् अहर् उपयन्ति ॥
इति शाङ्खायनारण्यके द्वितीयो ऽध्यायः ॥
शा 3,1 = कु 1,1
चित्रो ह वै गाङ्ग्यायनिर् यक्ष्यमाण आरुणिं वव्रे । स ह पुत्रं श्वेतकेतुं प्रजिघाय याजयेति । तं हाभ्यागतं पप्रच्छ - गोतमस्य पुत्र, अस्ति संवृतं लोके यस्मिन् मा धास्यसि, अन्यतमो वाध्वा, तस्य मा लोके धास्यसीति । स होवाच - नाहम् एतद् वेद हन्ताचार्यं पृच्छानीति । स ह पितरम् आसाद्य पप्रच्छ - इतीति माप्राक्षीत् कथं प्रतिब्रवाणीति । स होवाच - अहम् अप्येतन् न वेद । सदस्येव वयं स्वाध्यायम् अधीत्य हरामहे यन् नः परे ददति । एह्युभौ गमिष्याव इति । स हि समित्पाणिश् चित्रं गाङ्ग्यायनिं प्रतिचक्रम उपायानीति । तं होवाच - ब्रह्मार्हो ऽसि गोतम यो न मानम् उपागाः । एहि व्येव त्वा ज्ञपयिष्यामीति ॥
शा 3,2 = कु 1,2
स होवाच ये वै के चास्माल् लोकात् प्रयन्ति चन्द्रमसम् एव ते सर्वं गच्छन्ति । तेषां प्राणैः पूर्वपक्ष आप्यायते । तान् अपरपक्षेण प्रजनयति । एतद् वै स्वर्गस्य लोकस्य द्वारं यच् चन्द्रमाः । तं यः प्रत्याह तम् अतिष्र्जते । अथ यो न प्रत्याह तम् इह वृष्टिर् भूत्वा वर्षति । स इह कीटो वा पतङ्गो वा मत्स्यो वा शकुनिर् वा सिंहो वा वराहो वा परश्वा वा शार्दूलो वा पुरुषो वान्यो वा तेषु तेषु स्थनेषु प्रत्याजायते यथाकर्म यथाविद्यम् । तम् आगतं पृच्छति, को ऽसीति । तं प्रतिब्रूयात् - विचक्षणाद् ऋतवो रेत आभृतं पञ्चदशात् प्रसूतात् पित्र्यावतः । तन् मा पुंसि कर्तर्येरयध्वं पुंसा कर्त्रा मातरि मासिषिञ्च ॥ स जायमान उपजायमानो द्वादशोत्रयोदशोपमासः । द्वादशत्रयोदशेन पित्रा सं तद् विदे ऽहं प्रति तद् विदे ऽहं तन् म ऋतवो ऽमृत्यव आरम्भध्वम् ॥ तेन सत्येन तेन तपसा ऋतुर् अस्मि आर्तवो ऽस्मि । को ऽसि त्वम् अस्मीति तम् अतिसृजते ॥
शा 3,3 = कु 1,3
स एतं देवयानं पन्थानम् आपद्याग्निलोकम् आगच्छति । स वायुलोकम् । स वरुणलोकम् । स इन्द्रलोकम् । स प्रजापतिलोकम् । स ब्रह्मलोकम् । तस्य वा एतस्य ब्रह्मलोकस्यारोहदः, मुहूर्ता यष्टिहाः, विजरा नदी, इल्यो वृक्षः, सालज्यं संस्थनम्, अपराजितम् आयतनम्, इन्द्रप्रजापती द्वारगोपौ, विभु प्रमितम्, विचक्षणासन्दी, अमितौजाः पर्यङ्कः, प्रिया च मानसी, प्रतिरूपा च चाक्षुषी, पुष्पाण्यादायावयतो वै च जगानि, अम्बाश् चाम्बायवीश् चाप्सरसः, अम्बया नद्यः । तम् इत्थंविद् आगच्छति । तं ब्रह्माह - अभिधाव त मम यशसा । विजरां वा अयं नदीं प्रापत् । न वा अयं जरयिष्यतीति ॥
शा 3,4 = कु 1,4

तं पञ्च शतान्यप्सरसां प्रतियन्ति - शतं फलहस्ताः, शतम् आञ्जनहस्ताः, शतं माल्यहस्ताः, शतं वासोहस्ताः, शतं चूऋनहस्ताः । तं ब्रह्मालङ्कारेणालङ्कुर्वन्ति । स ब्रह्मआलङ्कारेणालङ्कृतो ब्रह्म विद्वान् ब्रह्माभिप्रैति । स आगच्छत्यारं ह्रदम् । तं मनसात्येति । तम् इत्वा संप्रतिविदो मज्जन्ति । स आगच्छति मुहूर्तान् यष्टिहान् । ते ऽस्माद् अपद्रवन्ति । स आगच्छति विजरां नदीम् । तां मनसैवात्येति । तत् सुकृतदुष्कृते धुनुवाते । तस्य प्रिया ज्ञातयः सुकृतम् उपयन्ति, अप्रिया दुष्कृतम् । तद् यथा रथेन धावयन् रथचक्रे पर्यवेक्षेत । एवम् आहोरात्रे पर्यवेक्षेत । एवं सुकृतदुष्कृते सर्वाणि च द्वन्द्वानि । स एष विसुकृतो दुष्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति ॥
शा 3,5 = कु 1,5
स आगच्छतील्यं वृक्षम् । तं ब्रह्मगन्धः प्रविशति । स आगच्छति सालज्यं संस्थानम् । तं ब्रह्मरसः प्रविशति । स आगच्छत्यपराजितम् आयतनम् । तं ब्रह्मयशः प्रविशति । स आचच्छतीन्द्रप्रजापती द्वारगोपौ । ताव् अस्माद् अपद्रवतः । स आगच्छति विभु प्रमितम् । तं ब्रह्मतेजः प्रविशति । स आगच्छति विचक्षनाम् आसन्दीम् । बृहद्रथन्तरे सामनी पूर्वौ पादौ । श्यैतनौधसे चापरौ । वैरूपवैराजे अनूच्ये । शाक्वररैवते तिरश्ची । सा प्रज्ञा प्रज्ञया हि विपश्यति । स आगच्छत्यमितौजसं पर्यङ्कम् । स प्राणः । तस्य भूतं च भविष्यच् च पूर्वौ पादौ । श्रीश् चेरा चापरौ । भद्रयज्ञायज्ञीये शीर्षण्ये । बृहद्रथन्तरे अनूच्ये । ऋचश् च सामानि च प्राचीनातानानि । यजूंषि तिरश्चीनानि । सोमांशवः उपस्तरणम् । उद्गीथो ऽपश्रयः । श्रीर् उपबर्हणम् । तस्मिन् ब्रह्मास्ते । तम् इत्थंविद् पादेनैवाग्र आरोहति । तं ब्रह्मा पृच्छति । - को ऽसीति । तं प्रतिब्रूयात्
॥
शा 3,6 = कु 1,6
ऋतुर् अस्मि । आर्तवो ऽस्मि । आकाशाद् योनेः संभूतो भार्यायै रेतः, संवत्सरस्य तेजोभूतस्य भूतस्यात्मा । भूतस्य भूतस्य त्वम् आत्मासि । यस् त्वम् असि सो ऽहम् अस्मि । तम् आह - को ऽहम् अस्मीति । सत्यम् इति ब्रूयात् । किं तद् यत्सत्यम् इति । यद् अन्यद् देवेभ्यश्च प्राणेभ्यश् च तत् सत् । अथ यद् देवाश् च प्राणाश् च तत् सत्यम् । तद् एकया वाचाभिव्याह्रियते सत्त्यम् इति । एतावद् इदं सर्वम् । इदं सर्वम् अस्मीत्येवैनं तद् आह । तद् एतच् छ्लोकेनाभ्युक्तम् ॥
शा 3,7 = कु 1,7
यजूदरः सामशिरा असाव् ऋङ्मूर्त्तिर् अव्ययः । स ब्रह्मेति विज्ञेय ऋषिर् ब्रह्ममयो महान् ॥ इति । तद् आह - केन मे पौंस्नानि नामान्याप्नोषीति । प्राणेनेति ब्रूयात् । केन नपुंसकानीति । मनसेति । केन स्त्रीनामानीति । वाचेति । केन गन्धान् इति । घ्राणेनेति । केन रूपाणीति । चक्षुषेति । केन शब्दान् इति । श्रोत्रेणेति । केनान्नरसान् इति । जिह्वयेति । केन कर्माणीति । हस्ताभ्याम् इति । केन सुखदुःखे इति । शरीरेणेति । केनानन्दं रतिं प्रजातिम् इति । उपस्थेनेति । केनेत्या इति । पादाभ्याम् इति । केन धियो विज्नातव्यं कामान् इति । प्रज्ञयैवेति ब्रूयात् ।
तम् आह - आपो वै खलु मे लोको ऽयं ते ऽसाव् इति । सा या ब्रह्मणो जितिर् या व्यष्टिः, तां जितिं जयति, तां व्यष्टिं व्यश्नुते य एवं वेद य एवं वेद ॥
इति शाङ्खायनारण्यके तृतीयो ऽध्यायः ॥
शा 4,1 = कु 2,1
प्राणो ब्रह्मेति ह स्माह कौषीतकिः । तस्य वा एतस्य प्राणस्य ब्रह्मणो मनो दूतम्, चक्षुर् गोप्तृ, श्रोत्रं श्रावयितृ, वाक् परिवेष्ट्री । स यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वेद दूतवान् भवति । यश् चक्षुर् गोप्तृ गोप्तृमान् भवति । यः श्रोत्रं श्रावयितृ संश्रावयितृमान् भवति । यो वाचं परिवेष्ट्रीं परिवेष्ट्रीमान् भवति । तस्मै वा एतस्मै ब्रह्मण एता देवता अयाचमानाय बलिं हरन्ति । एवं हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद । तस्योपनिषन् न याचेद् इति । तद् यथा ग्रामं भिक्षित्वालब्ध्वुपविशेन् नाहम् अतो दत्तम् अश्नीयाम् इति । त एवैनम् उपमन्त्रयन्ते ये पुरस्तात् प्रत्याचक्षीरन् । एष धर्मो ऽयाचतो भवति । अन्नदास् त्वेवैनम् उपमन्त्रयन्ते - ददाम त इति ॥
शा 4,2 = कु 2,2
प्राणो ब्रह्मेति ह स्माह पैङ्ग्यः । तस्य वा एतस्य प्राणस्य ब्रह्मणो वाक् परस्ताच् चक्षुर् आरुन्धते । चक्षुः परस्तात्च् छ्रोत्रं आरुन्धते । श्रोत्रं परस्तान् मन आरुन्धथे । मनः परस्तात् प्राण आरुन्धते । तस्मै वा एतस्मै प्राणाय ब्रह्मण एता देवता अयाचमानाय बलिं हरन्ति । एवं हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति । य एवं वेद तस्योपनिषन् न याचेद् इति । तद् यथा ग्रामं भिक्षित्वालब्ध्वुपविशेन् नाहम् अतो दत्तम् अश्नीयाम् इति । त एवैनम् उपमन्त्रयन्ते ये पुरस्तात् प्रत्याचक्षीरन् । एष धर्मो ऽयाचतो भवति । अन्नदास् त्वेवैनम् उपमन्त्रयन्ते - ददाम त इति ॥
शा 4,3 = कु 2,3
अथात एकधनावरोधनम् । य एकधनम् अभिध्यायात् पौर्णमास्यां वामावास्यायां वा शुद्धपक्षे वा पुण्ये नक्षत्र एतेषाम् एकस्मिन् पर्वण्यग्निम् उपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणं आन्वाच्य स्रुवेणायहुतीर् जुहोति । वाङ् नाम देवतावरोधिनी सा मे ऽमुष्माद् इदम् अवरुन्ध्यात् तस्यै स्वाहा । प्राणो नाम देवतावरोधिनी सा मे ऽमुष्माद् इदम् अवरुन्ध्यात् तस्यै स्वाहा । श्रोत्रं नाम देवतावरोधिनी सा मे ऽमुष्माद् इदम् अवरुन्ध्यात् तस्यै स्वाहा । मनो नाम देवतावरोधिनी सा मे ऽमुष्माद् इदम् अवरुन्ध्यात् तस्यै स्वाहा । प्रज्ञा नाम देवतावरोधिनी सा मे ऽमुष्माद् इदम् अवरुन्ध्यात् तस्यै स्वाहा । अथ धूमगन्धं प्रजिघ्रायाज्यलेपनेनाङ्गान्यनुविमृज्य वाचंयमो ऽभिप्रव्रज्यार्थं +ब्रूयाद् दूतं वा प्रहिणुयात् । लभते हैव ॥
शा 4,4 = कु 2,4
अथातो दैवः स्मरः । यस्य प्रियो बुभूषेद् यस्यै येषां वा यासां वैतेषाम् एवैकस्मिन् पर्वण्येतयैवावृतैता आज्याहुतीर् जुहोति । वाचं ते मयि जुहोम्यसौ स्वाहा । प्राणं ते मयि जुहोम्यसौ स्वाहा । मयि चक्षुस् ते जुहोम्यसौ स्वाहा । श्रोत्रं ते मयि जुहोम्यसौ स्वाहा । मनस् ते मयि जुहोम्यसौ स्वाहा । प्रज्ञां ते मयि जुहोम्यसौ स्वाहेति । अथ धूमगन्धं प्रजिघ्रायाज्यलेपनेनाङ्गान्यनुविमृज्य वाचंयमो ऽभिप्रव्रज्य् संस्पर्शं जिगमिषेत् । अभिवाताद् वा तिष्ठेत् संभाषमाणः । प्रियो हैव भवति । स्मरते हैवास्य ॥
शा 4,5 = कु 2,5
अथातः सांयमनं प्रातर्दनम् । आन्तरम् अग्निहोत्रम् इत्याचक्षते । यावद् वै पुरुषो भाषते न तावत् प्राणितुं शक्नोति । प्राणं तदा वाचि जुहोति । यावद् वै पुरुषः प्राणिति न तावद् भाषितुं शक्नोति । वाचं तदा प्राणे जुहोति । एते अनन्ते अमृते आहुती जाग्रच्च स्वपंश्च संततं जुहोति । अथ या अन्या आहुतयो ऽन्तवत्यस् ताः कर्ममय्यो हि भवन्ति । तद् ध स्मैतत् पूर्वे विद्वांसो ऽग्निहोत्रं न जुहवाञ्चक्रुः ॥
शा 4,6 = कु 2,6

उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गारः । तद् ऋग् इत्युपासीत । सर्वाणि हास्मै भूतनि श्रैष्ठ्यायाभ्यच्यन्ते । तद् यजुर् इत्युपासीत । सर्वाणि हास्मै भूतानि श्रैष्ठ्याय युज्यन्ते । तत् साम इत्युपासीत । सर्वाणि हास्मै भूतानि श्रैष्ठ्याय संनमन्ते । तच् छ्रीर् इत्युपासीत् । तद् यश इत्युपासीत । तत् तेज इत्युपासीत । तद् यथैतच् छ्रीमत्तमं यशस्वितमं तेजस्वितमम् इति शस्त्रेषु भवति । एवं हैव स सर्वेषु भूतेषु श्रीमत्तमो यशस्वितमस् तेजसितमो भवति य एवं वेद । तद् एतद् ऐष्टिकं कर्म यम् आत्मानम् अध्वर्युः संस्करोति । तस्मिन् यजुर्मयं प्रवयति । यजुर्मय ऋङ्मयं होता । ऋङ्मये साममयम् उद्गाता । स एष त्रय्यै विद्याया आत्मा । एष उ एवैतद् इन्द्रस्यात्मा भवति य एवं वेद ॥
शा 4,7 = कु 2,7
अथातः सर्वजितः कौषीतकेस् त्रीण्युपासनानि भवन्ति । सर्वजिद् ध स्म कौषीतकिर् उद्यन्तम् आदित्यम् उपतिष्ठते यज्ञोपवीतं कृत्वोदकम् आनीय त्रिः प्रसिच्योदकपात्रम् । वर्गो ऽसि पाप्मानं मे वृङ्धीति । एतयैवावृता मध्ये सन्तम् । उद्वर्गो ऽसि पाप्मानं म उद्वृङ्धीति । एतयैवावृतास्तं यन्तम् । संवर्गो ऽसि पाप्मानं मे संवृङ्धीति । तद् यद् अहोरात्राभ्यां पापं करोति सं तद् वृङ्क्ते । तथो एवैवं विद्वान् एतयैवावृतादित्यम् उपतिष्ठते । यद् अहोरात्राभ्यां पापं करोति सं तद् वृङ्क्ते ॥
शा 4,8 = कु 2,8
अथ मासिमास्यावास्यायां वृत्तायां पश्चाच् चन्द्रमसं दृश्यमानम् उपतिष्ठेतैतयैवावृता । हरिततृणे वा प्रत्यस्य - यन् मे सुसीमं हृदयं दिवि चन्द्रमसि श्रितम् । मन्ये ऽहं मां तद् विद्वांसं माहं पुत्र्यम् अघं रुदम् ॥ इति । न ह्यस्मात् पूर्वा प्रजा प्रैतीति नु जातपुत्रस्य । अथाजातपुत्रस्य - आप्यायस्व समेतु +ते, सं ते पयांसि सम् उ यन्तु वाजाः, यम् आदित्या अंशुम् आप्याययन्तीत्येतास् तिस्र ऋचो जपित्वा - मास्माकं प्राणेन प्रजया पशुभिर् आप्याययिष्ठाः । योऽ स्मान् द्वेष्टि यं च वयं द्विष्मस् तस्य प्राणेन प्रजया पशुभिर् आप्याययस्वेत्यैन्द्रीम् आवृतम् आवर्त आदित्यस्यावृतम् अन्वावर्त इति दक्षिणं बाहुम् अन्वावर्तते ॥
शा 4,9 = कु 2,9
अथ पौर्णमास्यां पुरस्ताच् चन्द्रमसं दृश्यमानम् उपतिष्ठैतयैवावृता । सोमो राजासि विचक्षणः पञ्चमुखो ऽसि प्रजापतिः । ब्राह्मणस् त एकं मुखं तेन मुखेन राज्ञो ऽत्सि । तेन मुखेन मां अन्नादं कुरु । राजा त एकं मुखं तेन मुखेन विशो ऽत्सि । तेन मुखेन मां अन्नादं कुरु । श्येनस् त एकं मुखं तेन मुखेन पक्षिणो ऽत्सि । तेन मुखेन मां अन्नादं कुरु । अग्निष् ट एकं मुखं तेन मुखेनेमं लोकम् अत्सि । तेन मुखेन मां अन्नादं कुरु । मास्माकं प्राणेन प्रजया पशुभिर् अपक्षेष्ठाः । योऽ स्मान् द्वेष्टि यं च वयं द्विष्मस् तस्य प्राणेन प्रजया पशुभिर् अपक्षीयस्वेति दैवीम् आवृतम् आवर्त आदित्यस्यावृतम् अन्वावर्त इति दक्षिणं बाहुम् अन्वावर्तते ॥
शा 4,10 = कु 2,10
अथ संवेक्ष्यन् जायायै हृदयम् अभि मृशेत् - यत् ते सुसीमे हृदयं श्रितम् अन्तः प्रजापतौ । तेनामृतत्वस्येशाने मा त्वं पुत्र्यम् अघं नि गा इति ॥ न ह्यस्याः पूर्वा प्रजा प्रैतीति ॥
शा 4,11 = कु 2,11
अथ प्रोष्यायन् पुत्रस्य मूर्धनम् अभिजिघ्रेत् - अङ्गाद् अङ्गात् संभवसि हृदयाद् अधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् इति नामास्य दधाति । अश्मा भव परशुर् भव, हिरण्यम् अस्तृतं भव । तेजो वै पुत्रानामासि स जीव शरदः शतम् इति नामास्य गृह्णाति । अथैनं परिगृह्णाति । येन प्रजापतिः प्रजाः पर्यगृह्णात् तद् अरिष्ट्यैतेन त्वा परिगृह्णामि, असाव् इति । अथास्य दक्षिणे कर्णे जपति - अस्मे प्रयन्धि मघवन्न् ऋजीषिन् इति । इन्द्रं श्रेष्ठानि द्रविणानि धेहीति सव्ये । मा भेत्था मा व्यथिष्ठाः शतं शरद आयुषः । जीवस्व पुत्र ते नाम्ना मूर्धानम् अभिजिघ्रामीति त्रिर् अस्य मूर्दानम् अभिजिघ्रेत् । गवां त्वां हिंकारेणाभिहिंकरोमीति त्रिर् अस्य मूर्धानम् अभिहिंकरोति ॥
शा 4,12 = कु 2,12
अथतो दैवः परिमरः । एतद् वै ब्रह्म दीप्यते यद् अग्निर् ज्वलति । अथैतन् म्रियते यन् न ज्वलति । तस्यादित्यम् एव तेजो गच्छति वायुं प्राणः । एतद् वै ब्रह्म दीप्यते यद् आदित्यो दृश्यते । अथैतन् म्रियते यन् न दृश्यते । तस्य चन्द्रमसम् एव तेजो गच्छति वायुं प्राणः । एतद् वै ब्रह्म दीप्यते यच् चन्द्रमा दृश्यते । अथैतन् म्रियते यन् न दृश्यते । तस्य विद्युतम् एव तेजो गच्छति वायुं प्राणः । एतद् वै ब्रह्म दीप्यते यद् विद्युद् विद्योतते । अथैतन् म्रियते यन् न विद्योतते । तस्यादिश एव तेजो गच्छति वायुं प्राणः । ता वा एता सर्वा देवता वायुम् एव प्रविश्य वायौ मृत्वा न मृच्छन्ते । तस्माद् एव पुनरुदीरते । इत्यधिदैवम् । अथाध्यात्मम् ॥
शा 4,13 = कु 2,13
एतद् वै ब्रह्म दीप्यते यद् वाचा वदति । अथैतन् म्रियते यन् न वदति । तस्य चक्षुर् एव तेजो गच्छति । प्राणं प्राणः । एतद् वै ब्रह्म दीप्यते यच् चक्षुषा पश्यति । अथैतन् म्रियते यन् न पश्यति । तस्य श्रोत्रम् एव तेजो गच्छति । प्राणं प्राणः । एतद् वै ब्रह्म दीप्यते यच् छ्रोत्रेण शृणोति । अथैतन् म्रियते यन् न शृणोति । तस्य मन एव तेजो गच्छति । प्राणं प्राणः । एतद् वै ब्रह्म दीप्यते यन् मनसा ध्यायति । अथैतन् म्रियते यन् न ध्यायति । तस्य प्राणम् एव तेजो गच्छति । प्राणं प्राणः । ता वा एता सर्वा देवता प्राणम् एव प्रविश्य प्राणे मृत्वा न मृच्छन्ते । तस्माद् एव पुनर् उदीरते । तद् यद् इह वा एवं विद्वांसम् उभौ पर्वताव् अभिप्रवर्तेयातां दक्षिणश्चोत्तरश् च तुस्तूर्षमाणौ न हैनं स्तृण्वीयाताम् । अथ य एनं द्विषन्ति यांश् च स्वयं द्वेष्टि त एवैनं परिम्रियन्ते ॥
शा 4,14 = कु 2,14
अथातो निःश्रेयसादानम् । एता ह वै देवता अहंश्रेयसे विविदमाना अस्माच् छरीराद् उच्चक्रमुः । तद् ध पपात, शुष्कं दारुभूतं शिश्ये । अथैनद् वाक् प्रविवेश । तद् वाचा वदच् छिश्य एव । अथैनच् चक्षुः प्रविवेश । तद् वाचा वदच् चक्षुषा पश्यच् छिश्य एव । अथैनच् छ्रोत्रं प्रविवेश । तद् वाचा वदच् चक्षुषा पश्यच् छ्रोत्रेण शृण्वच् छिश्य एव । अथैनन् मनः प्रविवेश । तद् वाचा वदच् चक्षुषा पश्यच् छ्रोत्रेण शृण्वन् मनसा ध्यायच् छिश्य एव । अथैनत् प्राणः प्रविवेश । तत् तत एव समुत्तस्थौ । ता वा एता सर्वा देवता प्राणे निःश्रेयसं विदित्वा प्राणम् एव प्रज्ञात्मानम् अभिसंभूय +सहैवैतैः सर्वैर् अस्माच् छरीराद् उच्चक्रमुः । ते वायुप्रतिष्ठा आकाशात्मानः स्वर् ईयुः । तथो एवैवं विद्वान् प्राणे निःश्रेयसं विदित्वा प्राणम् एव प्रज्ञात्मानम् अभिसंभूय +सहैवैतैः सर्वैर् अस्माच् छरीराद् उत्क्रामति । स वायुप्रतिष्ठ आकाशात्मा स्वर् एति । स तद् गच्छति यत्रैते देवाः । तत् प्राप्य यद् अमृता देवाः । तद् अमृतो भवति य एवं वेद ॥
शा 4,15 = कु 2,15

अथातः पितापुत्रीयं संप्रदानम् इति चाचक्षते । पिता पुत्रं प्रेष्यन्न् आह्वयति । नवैस् तृणैर् अगारं संस्तीर्याग्निम् उपसमाधायोदकुम्भं सपात्रम् उपनिधायाहतेन वाससा संप्रच्छन्नः पिता शेते । एत्य पुत्र उपरिष्टाद् अभिनिपद्यत इन्द्रियैर् इन्द्रियाणि संस्पृश्य । अपि वास्मा आसीनायाभिमुखायैव संप्रदद्यात् । अथास्मै संप्रयच्छति । वाचं मे त्वयि दधानीति पिता । वाचं ते मयि दध इति पुत्रः । प्राणं मे त्वयि दधानीति पिता । प्राणं ते मयि दध इति पुत्रः । चक्षुर् मे त्वयि दधानीति पिता । चक्षुस् ते मयि दध इति पुत्रः । श्रोत्रं मे त्वयि दधानीति पिता । श्रोत्रं ते मयि दध इति पुत्रः । अन्नरसान् मे त्वयि दधानीति पिता । अन्नरसांस् ते मयि दध इति पुत्रः । कर्माणि मे त्वयि दधानीति
पिता । कर्माणि ते मयि दध इति पुत्रः । सुखदुःखे मे त्वयि दधानीति पिता । सुखदुःखे ते मयि दध इति पुत्रः । आनन्दं रतिं प्रजातिं मे त्वयि दधानीति पिता । आनन्दं रतिं प्रजातिं ते मयि दध इति पुत्रः । इत्यां मे त्वयि दधानीति पिता । इत्यां ते मयि दध इति पुत्रः । धियो विज्ञातव्यं कामान् मे त्वयि दधानीति पिता । धियो विज्ञातव्यं कामांस् ते मयि दध इति पुत्रः । मनो मे त्वयि दधानीति पिता । मनस् ते मयि दध इति पुत्रः । प्रज्ञां मे त्वयि दधानीति पिता । प्रज्ञां ते मयि दध इति पुत्रः । यद् उ वा उपाभिगदः स्यात् समासेनैव ब्रूयात् । प्राणान् मे त्वयि दधानीति पिता । प्राणांस् ते मयि दध इति
पुत्रः । अथ दक्षिणावृद् उपनिष्क्रामति । तं पित्रानुमन्त्रयते । यशो ब्रह्मवर्चसं कीर्तिस् त्वा जुषताम् इति । अथेतरः सव्यम् अन्वंसम् अभ्यवेक्षते । पाणिनान्तर्धाय वसनान्तेन वा प्रच्छाद्य स्वर्गांल् लोकान् कामान् आप्नुहीति । स यद्युगदः स्यात् पुत्रस्यैश्वर्ये पिता वसेत् । परि वा व्रजेत् । यद्यु वै प्रेयात् तथैवैनं समापयेयुः । यथा समापयितव्यो भवति यथा समापयितव्यो भवति ॥
इति शाङ्खायनारण्यके चतुर्थो ऽध्यायः ॥
शा 5,1 = कु 3,1
प्रतर्दनो ह वै दैवोदासिर् इन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च । तं इन्द्र उवाच प्रतर्दनं वरं वृणीष्वेति । स होवाच प्रतर्दनः - त्वम् एव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यस इति । तं इन्द्र उवाच - न वै वरो ऽवरस्मै वृणीते । त्वम् एव वृणीष्वेति । अवरो वै किल मेति होवाच प्रतर्दनः । अथो खल्विन्द्रः सत्याद् एव नेयाय । सत्यं हीन्द्रः । तं हेन्द्र उवाच - माम् एव विजानीहि । एतद् एवाहं मनुष्याय हिततमं मन्ये यो मां विजानीयात् । त्रिशीर्षाणं त्वाष्ट्रम् अहनम् । अरुर्मुखान् यतीन् सालावृकेभ्यः प्रायच्छ्हम् । बह्वीः संधा अत्रिक्रम्य दिवि प्रह्लादीयान् अतृणहम् अन्तरिक्षे, पौलोमान् पृथिव्यां कालखञ्जा । तस्य मे तत्र न लोमचनामीयत । स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयते । न स्तेयेन न भ्रूणहत्यया न मातृवधेन न पितृवधेन । नाद्य पापं चक्रुषो मुखान् नीलं व्येतीति ॥
शा 5,2 = कु 3,2
स होवाच प्राणो ऽस्मि प्रज्ञात्मा । तं माम् आयुर् अमृतम् इत्युपास्व । आयुः प्राणः । प्राणो वा आयुः । यावद् +ध्यस्मिन् शरीरे प्राणो भवति यावद् आयुः । प्राणेन ह्येवास्मिंल् लोके ऽमृतत्वम् आप्नोति । प्रज्ञया सत्यं संकल्पं । स यो माम् आयुर् अमृतम् इत्युपास्ते । सर्वम् आयुर् अस्मिल् लोक एति । आप्नोत्यमृतत्वम् अक्षितिं स्वर्गे लोके । तद् धैक आहुर् एकभूयं वै प्राणा गच्छन्तीति । न हि कश्चन शक्नुयात् सकृद् वाचा नाम प्रज्ञापयितुं चक्षुषा रूपं श्रोत्रेण शब्दं मनसा ध्यातुम् । एकभूयं वै प्राणा भूत्वैवैकैकम् एतानि सर्वाणि प्रज्ञापयन्तीति । वाचं वदन्तीं सर्वे प्राणा अनुवदन्ति । चक्षुः पश्यत् सर्वे प्राणा अनुपश्यन्ति । श्रोत्रं शृण्वत् सर्वे प्राणा अनुशृण्वन्ति । मनो ध्यायत् सर्वे प्राणा अनुध्यायन्ति । प्राणं प्राणन्तं सर्वे प्राणा अनुप्राणन्ति । एवम् उ हैतद् इति हेन्द्र उवाच । अस्ति त्वेव प्राणानां निःश्रेयसम् इति ॥
शा 5,3 = कु 3,3
जीवति वागपेतः । मूकान् हि पश्यामः । जीवति चक्षुरपेतः । अन्वान् हि पश्यामः । जीवति श्रोत्रापेतः । बधिरान् हि पश्यामः । जीवति मनोऽपेतः । बालान् हि पश्यामः । जीवति बाहुच्छिन्नः । जीवत्यूरुच्छिन्नः । इत्येवं हि पश्याम इति । अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति । तस्माद् एतद् एवोक्थम् उपासीतेति । सैषा प्राणे सर्वाप्तिः । यो वै प्राणः सा प्रज्ञा । या वा प्रज्ञा स प्राणः । तस्यैषैव दृष्टिः । एतद् विज्ञानम् । यत्रैतत् पुरुषः सुप्तः स्वप्नं न कंचन पश्यति । अथास्मिन् प्राण एवैकधा भवति । तद् एनं वाक् सर्वैर् नामभिः सहाप्येति । चक्षुः सर्वै रूपैः सहाप्येति । श्रोत्रं सर्वैः शब्दैः सहाप्येति । मनः सर्वैर् ध्यानैः सहाप्येति । स यदा प्रतिबुध्यते । यथाग्नेर् ज्वलतः सर्वा दिशो
विस्फुलिङ्गा विप्रतिष्ठेरन् एवम् एवैतस्माद् आत्मनः प्राणा यथायतनं विप्रतिष्ठन्ते । प्राणेभ्यो देवाः । देवेभ्यो लोकाः । स एष प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति । तस्माद् एतद् एवोक्थम् उपासीतेति । सैषा प्राणे सर्वाप्तिः । यो वै प्राणः सा प्रज्ञा । या वा प्रज्ञा स प्राणः । तस्यैषैव सिद्धिः । एतद् विज्ञानम् । यत्रैतत् पुरुष आर्तो मरिष्यन्न् आबल्यम् एत्य संमोहम् एति । तम् आहुः - उदक्रमीच् चित्तम् । न शृणोति । न पश्यति । न वाचा वदति । न ध्यायति । अथास्मिन् प्राण एकैकधा भवति । तद् एनं वाक् सर्वैर् नामभिः सहाप्येति । चक्षुः सर्वै रूपैः सहाप्येति । श्रोत्रं सर्वैः शब्दैः सहाप्येति । मनः सर्वैर् ध्यातैः सहाप्येति । स यदास्माच् छरीराद् उत्क्रामति सहैवैतैः सर्वैर् उत्क्रामति ॥
शा 5,4 = कु 3,4
वाग् एवास्मिन् सर्वाणि नामान्यभिविसृज्यन्ते । वाचा सर्वाणि नामान्याप्नोति । प्राण एवास्मिन् सर्वे गन्धा अभिविसृज्यन्ते । प्राणेन सर्वा गन्धान् आप्नोति । चक्षुर् एवास्मिन् सर्वाणि रूपाण्यभिविसृज्यन्ते । चक्षुषा सर्वाणि रूपाण्याप्नोति । श्रोत्रम् एवास्मिन् सर्वे शब्दा अभिविसृज्यन्ते । श्रोत्रेण सर्वाञ् छब्दान् आप्नोति । मन एवास्मिन् सर्वाणि ध्यातान्यभिविसृज्यन्ते । मनसा सर्वाणि ध्यातान्याप्नोति । सह ह्येतावस्मिञ् छरीरे वसतः सहोत्क्रामतः । अथ यथास्मै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति । तद् व्याख्यास्यामः ॥
शा 5,5 = कु 3,5

वाग् एवास्या एकम् अङ्गम् उदूळ्हम् । तस्यै नाम परस्तात् प्रतिविहिता भूतमात्रा । प्राण एवास्या एकम् अङ्गम् उदूळ्हम् । तस्य गन्धः परस्तात् प्रतिविहिता भूतमात्रा । चक्षुर् एवास्या एकम् अङ्गम् उदूळ्हम् । तस्य रूपं परस्तात् प्रतिविहिता भूतमात्रा । श्रोत्रम् एवास्या एकम् अङ्गम् उदूळ्हम् । तस्य शब्दः परस्तात् प्रतिविहिता भूतमात्रा । जिह्वैवास्या एकम् अङ्गम् उदूळ्हम् । तस्या अन्नरसः परस्तात् प्रतिविहिता भूतमात्रा । हस्तावेवास्या एकम् अङ्गम् उदूळ्हम् । तयोः कर्म परस्तात् प्रतिविहिता भूतमात्रा । शरीरमेवास्या एकम् अङ्गम् उदूळ्हम् । तस्य सुखदुःखे परस्तात् प्रतिविहिता भूतमात्रा । उपस्थ एवास्या एकम् अङ्गम् उदूळ्हम् । तस्यानन्दो रतिः प्रजातिः परस्तात् प्रतिविहिता भूतमात्रा । पादावेवास्या एकम् अङ्गम् उदूळ्हम् । तयोर् इत्याः परस्तात् प्रतिविहिता भूतमात्रा । मन एवास्या एकम् अङ्गम् उदूळ्हम् । तस्य धीः कामाः परस्तात् प्रतिविहिता भूतमात्रा ॥
शा 5,6 = कु 3,6
प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति । प्रज्ञया प्राणं समारुह्य प्राणेन सर्वान् गन्धान् आप्नोति । प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति । प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वाञ् छब्दान् आप्नोति । प्रज्ञया जिह्वां समारुह्य जिह्वया सर्वान् रसान् आप्नोति । प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति । प्रज्ञया शरीरं समारुह्य शरीरेण सुखदुःखे आप्नोति । प्रज्ञयोपस्थं समारुह्युपस्थेनानन्दं रतिं प्रजातिम् आप्नोति । प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा इत्या आप्नोति । प्रज्ञया मनः समारुह्य मनसा सर्वाणि ध्यातान्याप्नोति ।
शा 5,7 = कु 3,7
न हि प्रज्ञापेता वाङ् नाम किंचन प्रज्ञापयेत् । अन्यत्र मे मनो ऽभूद् इत्याह । नाहम् एतन् नाम प्राज्ञासिषम् इति । न हि प्रज्ञापेतः प्राणो गन्धं कंचन प्रज्ञापयेत् । अन्यत्र मे मनो ऽभूद् इत्याह । नाहम् एतं गन्धं प्राज्ञासिषम् इति । न हि प्रज्ञापेतं चक्षू रूपं किंचन प्रज्ञापयेत् । अन्यत्र मे मनो ऽभूद् इत्याह । नाहम् एतद् रूपं प्राज्ञासिषम् इति । न हि प्रज्ञापेतं श्रोत्रं शब्दं कंचन प्रज्ञापयेत् । अन्यत्र मे मनो ऽभूद् इत्याह । नाहम् एतं शब्दं प्राज्ञासिषम् इति । न हि प्रज्ञापेता जिह्वान्नरसं कंचन प्रज्ञापयेत् । अन्यत्र मे मनो ऽभूद् इत्याह । नाहम् एतम् अन्नरसं प्राज्ञासिषम् इति । न हि प्रज्ञापेतौ हस्तौ कर्म किंचन प्रज्ञापयेताम् । अन्यत्र नौ मनो ऽभूद् इत्याहतुः । नावाम् एतत् कर्म प्राज्ञासिष्वेति । न हि प्रज्ञापेतं शरीरं न सुखं न दुःखं किंचन प्रज्ञापयेत् । अन्यत्र मे मनो ऽभूद् इत्याह । नाहम् एतं न सुखं न दुःखं प्राज्ञासिषम् इति । न हि प्रज्ञापेत उपस्थ आनन्दं न रतिं न प्रजातिं कांचन प्रज्ञापयेत् । अन्यत्र मे मनो ऽभूद् इत्याह । नाहम् एतम् आनन्दं न रतिं प्रजातिं प्राज्ञासिषम् इति
। न हि प्रज्ञापेतौ पादाव् इत्यां कांचन प्रज्ञापयेत् । अन्यत्र नौ मनो ऽभूद् इत्याह । नावाम् एताम् इत्यां प्राज्ञासिष्वेति । न हि प्रज्ञापेता धीः कांचन सिध्येत्,न प्रज्ञातव्यं प्रज्ञायेत् ॥
शा 5,8 = कु 3,8
न वाचं विजिज्ञासीति । वक्तारं विद्यात् । न गन्धं विजिज्ञासीति । घ्रातारं विद्यात् । न रूपं विजिज्ञासीति । द्रष्टारं विद्यात् । न शब्दं विजिज्ञासीति । श्रोतारं विद्यात् । नान्नरसं विजिज्ञासीति । अन्नरसस्य विज्ञातारं विद्यात् । न कर्म विजिज्ञासीति । कर्तारं विद्यात् । न सुखदुःखे विजिज्ञासीति । सुखदुःखयोर् विस्तारं विद्यात् । नानन्दं न रतिं न प्रजातिं विजिज्ञासीति । आनन्दस्य रतेः प्रजातेर् विज्ञातारं विद्यात् । नेत्यां विजिज्ञासीति । एतारं विद्यात् । न मनो विजिज्ञासीति । मन्तारं विद्यात् । ता वा एता दशैव भूतमात्रा अधिप्रज्ञम् । दश प्रज्ञामात्रा अधिभुतम् । यद् धि भूतमात्रा न स्युर् न प्रज्ञामात्राः स्युः । यद् वा प्रज्ञामात्रा न स्युर् न भूतमात्राः स्युः ।
न ह्यन्यतरतो रूपं किंचन सिध्येत् । नो एत नाना । तद् यथा रथस्यारेषु नेमिर् अर्पितः । नाभावरा अर्पिताः । एवम् एवैता भूतामात्राः प्रज्ञामात्रास्वर्पिताः । प्रज्ञामात्राः प्राणे ऽर्पिताः । स एष प्राण एव प्रज्ञात्मानन्तो ऽजरो ऽमृतो न साधुना कर्मणा भूयान् भवति न्प् एवासाधुना कनीयान् । एष ह्येव साधु कर्म कारयति तं यम् एभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यम् अधो निनीषते । एष लोकपालः । एष लोकाधिपतिः । एष लोकेशः । स म आत्मेति विद्यात् स म आत्मेति विद्यात् ॥
इति शाङ्खायनारण्यके पञ्चमो ऽध्यायः ॥
शा 6,1 = कु 4,1
अथ गार्ग्यो बालाकिर् अनूचानः संस्पष्ट आस । सो ऽवसद् उशीनरेषु सो ऽवसन् मत्स्येषु कुरुपञ्चालेषु काशिविदेहेष्विति । स हाजातशत्रुं काश्यम् आव्रज्योवाच - ब्रह्म ते ब्रवाणीति । तं होवाचाजतशत्रुः - सहस्रं दद्मि त इत्येतस्यां वाचि । जनको जनक इति वा उ जना धावन्तीति ॥
शा 6,2 = कु 4,2
आदित्ये बृहत्, चन्द्रमस्यन्नम्, विद्युति सत्यम्, स्तनयित्नौ शब्दः, वायाविन्द्रो वैकुण्ठः, आकाशे पूर्णम्, अग्नौ विषासहिः, अप्सु तेजः । इत्यधिदैवतम् । अताध्यात्मम् - आदर्शे प्रतिरूपः, छायायां द्वितीयः, प्रतिश्रुत्कायाम् असुरिति, शब्दे मृत्युः, स्वप्ने यमः, शरीरे प्रजापतिः, दक्षिणेऽ क्षिणि वाचः, सव्ये ऽक्षिणि सत्यस्य ॥
शा 6,3 = कु 4,3
स होवाच बालाकिः - य एवैष आदित्ये पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । बृहन् पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते ऽतिष्ठाः सर्वेषां भूतानां मूर्धा भवति ॥
शा 6,4 = कु 4,4
स होवाच बालाकिः - य एवैष चन्द्रमसि पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । अन्नस्यात्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते ऽन्नस्यात्मा भवति ॥
शा 6,5 = कु 4,5
स होवाच बालाकिः - य एवैष विद्युति पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । सत्यस्यात्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते सत्यस्यात्मा भवति ॥
शा 6,6 = कु 4,6
स होवाच बालाकिः - य एवैष स्तनयित्नौ पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । शब्दस्यात्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते शब्दस्यात्मा भवति ॥
शा 6,7 = कु 4,7
स होवाच बालाकिः - य एवैष वायौ पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । इन्द्रो वैकुण्ठो ऽपराजिता सेनेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते जिष्णुर् ह वा अपराजिष्णुर् अन्यतस्त्यजायी भवति ॥
शा 6,8 = कु 4,8

स होवाच बालाकिः - य एवैष आकाशे पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । पूऋनम् अप्रवर्ति ब्रह्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते पूर्यते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 6,9 = कु 4,9
स होवाच बालाकिः - य एवैषो ऽग्नौ पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । विषासहिर् इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते विषासहिर् हैवान्येषु भवति ॥
शा 6,10 = कु 4,10
स होवाच बालाकिः - य एवैषो ऽप्सु पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । तेजस आत्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते तेजस आत्मा भवति । इत्यधिदैवतम् । अथाध्यात्मम् ॥
शा 6,11 = कु 4,11
स होवाच बालाकिः - य एवैष आदर्शे पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । प्रतिरूप इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते प्रतिरूपो हैवास्य प्रजायाम् आजायते नाप्रतिरूपः ॥
शा 6,12 = कु 4,12
स होवाच बालाकिः - य एवैष च्छायायां पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । द्वितीयो ऽनपग इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते विन्दते द्वितीयात् । द्वितीयवान् भवति ॥
शा 6,13 = कु 4,13
स होवाच बालाकिः - य एवैष प्रतिश्रुत्कायां पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । असुर् इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते न पुरा कालात् संमोहम् एति ॥
शा 6,14 = कु 4,14
स होवाच बालाकिः - य एवैष शब्दे पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । मृत्युर् इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते न पुरा कालात् प्रैति ॥
शा 6,15 = कु 4,15
स होवाच बालाकिः - येनैतत् पुरुषः सुप्तः स्वप्नया चरति तमु एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । यमो राजेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते सर्वं हास्मा इदं श्रैष्ठ्याय यम्यते ॥
शा 6,16 = कु 4,16
स होवाच बालाकिः - य एवैष शरीरे पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । प्रजापतिर् इति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते प्रजायते प्रजया पश्भिर् यशसा ब्रह्मवरचसेम स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 6,17 = कु 4,17
स होवाच बालाकिः - य एवैष दक्षिणे ऽक्षिणि पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । वाच आत्माग्नेर् आत्मा ज्योतिष आत्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते एतेषां सर्वेषाम् आत्मा भवति ॥
शा 6,18 = कु 4,18
स होवाच बालाकिः - य एवैष सव्ये ऽक्षिणि पुरुषस् तम् एवाहम् उपास इति । तं होवाचाजातशत्रुः - मा मैतस्मिन् संवादयिष्ठाः । सत्यस्यात्म् विद्युत आत्मा तेजस आत्मेति वा अहम् एतम् उपास इति । स यो हैतम् एवम् उपास्ते एतेषां सर्वेषाम् आत्मा भवति ॥
शा 6,19 = कु 4,19
तत उ ह बालाकिस् तूष्णीम् आस । तं होवाचाजातशत्रुः - एतावान् नु बालाका3 इति । एतावद् इति होवाच बालाकिः । तं होवाचाजातशत्रुः - मृषा वै खलु मा संवादयिष्ठा ब्रह्म ते ब्रवाणीति । स होवाच - यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्म स वै वेदितव्य इति । तत उ ह बालाकिः समित्पाणिः प्रतिचक्रम उपायानीति । तं होवाचाजातशत्रुः - प्रतिलोमरूपम् एव तन् मन्ये यत् क्षत्रियो ब्राह्मणम् उपनयेत । एहि व्येव त्वा ज्ञपयिष्यामीति । तं ह पाणावभिपद्य प्रवव्राज । तौ ह सुप्तं पुरुषम् आजग्मतुः । तं हाजातशत्रुर् आमन्त्रयाञ्चक्रे - बृहन् पाण्डरवासः सोम राजन्न् इति । स उ ह शिश्य एव । तत् उ हैनं यष्ट्या विचिक्षेप । स तत एव समुत्तस्थौ । तं होवाचाजातशत्रुः - क्वैष एतद् बालाके पुरुषो ऽशयिष्ट, यत्रैतद् अभूत्, यत एतद् आगाद् इति । हिता नम पुरुषस्य नाड्यो हृदयात् पुरीततम् अभिप्रतन्वन्ति तद् यथा सहस्रधा केशो विपाटितस्त्वावद् अण्व्यः ।
पिङ्गलस्याणिम्न्यस् तिष्ठन्ति शुक्लस्य कृष्णस्य पीतस्य लोहितस्य च । तासु तदा भवति यदा सुप्तः स्वप्नं न कंचन पश्यति ॥
शा 6,20 = कु 4,20
अथास्मिन् प्राण एकैकधा भवति । तद् एनं वाक् सर्वैर् नामभिः सहाप्येति । चक्षुः सर्वै रूपैः सहाप्येति । श्रोत्रं सर्वैः शब्दैः सहाप्येति । मनः सर्वैर् ध्यातैः सहाप्येति । स यद प्रतिबुध्यते, यथाग्नेर् ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन् एवम् एवैतस्माद् आत्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवाः देवेभ्यो लोकाः । स एष प्राण एव प्रज्ञात्मेदं शरीरम् अत्मनम् अनुप्रविष्ट आ लोमभ्य आ नखेभ्यः । तद् यथा क्षुरः क्षुरधाने वोपहितो विश्वंभरो वा विश्वंबरकुलाय एवम् एवैष प्रज्ञात्मेदं शरीरम् आत्मानम् अनुप्रविष्ट आ लोमभ्य आ नखेभ्यः । तम् एतम् आत्मानम् एत आत्मानो ऽन्ववस्यन्ते यथा श्रेष्ठिनं स्वाः । तद् यथ श्रेष्ठी स्वैर् भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्ति । एवम् एवैष प्रज्ञात्मैतैर् आत्मभिर् भुङ्क्ते । एवम् एवैत आत्मान एतम् आत्मानं भुञ्जन्ति । स यावद् ध वा इन्द्र एतम् आत्मानं न विजज्ञे तावद् एनम् असुरा अभिबभूवुः । स यदा विजज्ञे ऽथ हत्वासुरान् विजित्य सर्वेषां च देवानां श्रैष्ठ्यं स्वाराज्यम् आधिपत्यं पर्यैत् ।
तथौ एवैवं विद्वान् सर्वान् पाप्मनो ऽपहत्य् सर्वेषां च भूतानाम् श्रैष्ठ्यं स्वाराज्य आधिपत्यं पर्येति । य एवं वेद य एवं वेद ॥
इति शाङ्खायनारण्यके षष्ठो ऽध्यायः ॥
शा 7,1
ओम् ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन् माम् अवतु तद् वक्तारम् अवत्ववतु माम् अवतु वक्तारम् । मयि भर्गो मयि महः । वाङ् मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविर् आविर् मय्याभूः । वेदस्य म आणीः । ऋत मा मा हिंसीः । अनेनाधीतेनाहोरात्रान् त्संवसामि । अग्ने इळा नम इळा नमः । ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो ऽस्तु देवेभ्यः । शिवा नः शटमा भव सुमृडीका सरस्वति मा ते व्योम संदृशि । अदब्धं मन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठः । दीक्षे मा मा हिंसीः ॥
शा 7,2

अथातः संहिताया उपनिषत् । पृथिवी पूर्वरूपं द्यौर् उत्तररूपं वायुः संहितेति शौरवीरो माण्डूकेयः । आकाशः संहितेत्यस्य माण्डव्यो वेदयाञ् चक्रे - स हाविपरिहृतो मेने न मे ऽस्य पुत्रेण समगाद् इति । परिहृतो मेन इत्य् आगस्त्यः । समानं ह्यत्र पितुश्च पुत्रस्य च वायुश् चाकाशश् च । इत्यधिदैवतम् । अथाध्यात्मम् । वाक् पूर्वरूपं मन उत्तररूपं प्राणः संहितेति शौरवीरो माण्डूकेयः । अथ ह स्मास्य पुत्र आह दीर्घः - मनसा वा अग्रे कीर्तयति तद् वाचा वदति । तस्मान् मन एव पूर्वरूपं वाग् उत्तररूपं मनो वाक् प्राणस् त्वेव संहितेति । स एषो ऽश्वरथः प्रष्टिवाहनो मनोवाक्प्राणसंहितः स्वर्गं लोकं गमयति । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एतीति नु माण्डूकेयानाम् ॥
शा 7,3
शाकल्यस्य पृथिव्यग्निः पृथिवी वाग् अनुव्याहाराः । स यदि निर्भुजः खलु वै वयं मध्यमो वाक् प्राणेन माता जाया प्रज्ञा वाग् बृहद्गतिर्वालिसर्वमुत्तमम् ॥
शा 7,4
अथ शाकल्यस्य । पृथिवी पूर्वरूपं द्यौर् उत्तररूपं वायुः संहिता वृष्टिः संधिः संधाता । तद् उतापि यत्रैतद् बलवद् अनुगृह्णन् महामेघो वृष्टिं वर्षति । द्यावापृथिव्यौ समधाताम् इत्यधिदैवतम् । अथाध्यात्मम् । पुरुषो ऽयं सर्वम् आण्डम् । द्वे विदले भवतः । तत्रेदम् एव पूर्वरूपम् इदम् उत्तररूपम् । तत्रायम् अन्तरेणाकाशः । यथासौ द्यावापृथिव्योर् अन्तरेणाकाश एतस्मिन्न् आकाशे प्राण आयत्तो भवति यथामुष्मिन्न् आकाशे वायुर् आयत्तो भवति । यथामूनि त्रीणि ज्योतींष्येवम् इमानि पुरुषे त्रीणि ज्योतींषि । यथासौ दिव्यादित्य एवम् इदं शिरसि चक्षुः । यथासावन्तरिक्षे विद्युद् एवम् इदम् आत्मनि हृदयम् । यथायम् अग्निः पृथिव्यम् एवम् इदम् उपस्थे रेतः । एवमिव ह स्म सर्वत आत्मानम् अनुविधायाह - इदम् एव पूर्वरूपम् इदम् उत्तररूपं मनो वाक् प्राणस् त्वेव संहितेति । स एषो ऽ श्वरथः प्रष्टिवहनो मनोवाक्प्राणसंहितः स्वर्गं लोकं गमयति । स य एवम् एतां संहितां +वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन
सर्वम् आयुर् एति ॥
शा 7,5
पृथिवी पूर्वरूपं द्यौर् उत्तररूपं वायुः संहिता दिशः संधिर् आदित्यः संधातेति वैश्वामित्रः । इत्यधिदैवतम् । अथाध्यात्मम् । वाक् पूर्वरूपं मन उत्तररूपं प्राणः संहिता श्रोत्रं संधिश् चक्षुः संधाता । स य एवम् एतां एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,6
अग्निः पूर्वरूपं चन्द्रमा उत्तररूपं विद्युत् संहितेति सूर्यदत्तः । इत्यधिदैवतम् । अथाध्यात्मम् - वाक् पूर्वरूपं मन उत्तररूपं सत्यं संहिता । स य एवम् एतां एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,7
पृथिवी पूर्वरूपं द्यौर् उत्तररूपं कालः संहितेति राधेयः । इत्यधिदैवतम् । अथाध्यात्मम् - वाक् पूर्वरूपं मन उत्तररूपं आत्मा संहिता । स य एवम् एतां एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,8
वाक् पूर्वरूपं मन उत्तररूपं विद्या संहितेति पौष्करसादिः । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,9
अथातो ऽनुव्याहाराः । प्राणो वंश इति विद्यात् । स य एनं प्राणं वंशं ब्रुवन् परम् उपवदेत् शक्नुवन् कश्चिच् चेन् मन्येत - प्राणं वंशं +समधाम् । प्राणं वंशं संधित्सितुं न शक्नोषीत्यात्थ । प्राणस् त्वा वंशो हास्यतीत्येवैनं ब्रूयात् । अथ चेद् अशक्नुवन् मन्येत प्राणं वंशं समधित्सीः तं नाशकः संधातुं प्राणस् त्वा वंशो हास्यतीत्येवैनं ब्रूयात् । यथा नु कथा च ब्रुवन् वाब्रुवन् वा ब्रूयाद् अभ्याशम् एव यत् तत् तथा स्यात् । न त्वेवान्यत् कुशलाद् ब्राह्मणं ब्रूयाद् अतिद्युम्न एव ब्राह्मणं ब्रूयान् नातिद्युम्ने च न ब्राह्मणं ब्रूयान् नमो ऽस्तु ब्राह्मणेभ्य इति शौरवीरो माण्डूकेयः ॥
शा 7,10
स यदि प्राणं वंशं ब्रुवन्तं परम् उपवदेत् शक्नुवन्तं चेन् मन्येत - प्राणं वंशं समधित्सिषम् प्राणं वंशं संधित्सितुं न शक्नोषीत्यात्थ । प्राणस् त्वा वंशो हास्यतीत्येवैनं ब्रूयात् । अथ चेद् अशक्नुवन्तं मन्येत - प्राणं वंशं समधित्सीस् तन् नाशकः संधातुम् । प्राणस् त्वा वंशो हास्यतीत्येवैनं ब्रूयात् । यथा नु कथा च ब्रुवन्तं वाब्रुवन्तं वा ब्रूयाद् अभ्याशम् एव यत् तत् तथा स्यात् । न त्वेवान्यत् कुशलाद् ब्राह्मणं ब्रूयाद् अतिद्युम्न एव ब्राह्मणं ब्रूयान् नातिद्युम्ने च न ब्राह्मणं ब्रूयान् नमो ऽस्तु ब्राह्मणेभ्य इति शौरवीरो माण्डूकेयः ॥
शा 7,11
अथातो निर्भुजप्रवादाः । पृथिव्यायतनं निर्भुजं दिवायतनं प्रतृण्णम् अन्तर्तिक्षायतनम् उभयम् अन्तरेण । स य एनं निर्भुजं ब्रुवन् परम् उपवदेत् । पृथिवीं देवताम् आरः पृथिवी त्वा देवतारिष्यतीत्येनं ब्रूयात् । अथ यदि प्रतृण्णम् ब्रुवन् परम् उपवदेद् दिवं देवताम् आरो द्यौस् त्वा देवतारिष्यतीत्येनं ब्रूयात् । अथ यद्युभयम् अन्तरेण ब्रुवन् परम् उपवदेद् अन्तरिक्षं देवताम् आर अन्तरिक्षं त्वा देवतारिष्यतीतियेनं ब्रूयात् । यद् धि संधिं विवर्तयति तन् निर्भुजस्य रूपम् । अथ यच् छुद्धे अक्षरे अभिव्याहरति तत् प्रतृण्णस्याग्र उ एव । उभयम् अन्तरेणोभयं व्याप्तं भवति । अन्नाद्यकामो निर्भुजं ब्रूयात् स्वर्गकांअः प्रतृण्णम् उभयकाम उभयमन्तरेण । स य एनं निर्भुजं ब्रुवन् परम् उपवदेद् अच्योष्ठा अवराभ्यां स्थानाभ्याम् इत्येनं ब्रूयात् । अथ यदि प्रतृण्णम् ब्रुवन् परम् उपवदेद् अच्योष्ठा उत्तराभ्यां स्थानाभ्याम् इत्येवैनं ब्रूयात् । यस्त्वेवोभयम् अन्तरेणाह तस्य तस्य नास्त्युपवादः । यथा नु कथा च ब्रुवन् वाब्रुवन् वा ब्रूयाद् अभ्याशम् कुशलाद् ब्राह्मणं ब्रूयाद् अतिद्युम्न एवं ब्राह्मणं ब्रूयान् नातिद्युम्ने च न ब्राह्मणं ब्रूयात् । नमो ऽस्तु ब्राह्मणेभ्य इति शौरवीरो माण्डूकेयः ॥
शा 7,12
अथ खल्वाहुर् निर्भुजवक्त्राः । पूर्वम् एवाक्षरं पूर्वरूपम् उत्तरम् उत्तररूपम् । यकारवकारावन्तरेण सा संहितेति । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,13
अथ वै वयं ब्रूमो निर्भुजवक्त्राः स्म इति ह स्माह ह्वस्त्रो माण्डूकेयः । पूर्वम् एवाक्षरं पूर्वरूपम् उत्तरम् उत्तररूपम् । तद् यासौ मात्रा पूर्वरूपोत्तरूपे अन्तरेण येन संधिं विवर्तयति येन मात्रामात्रं विभजति येन स्वरात् स्वरं विज्ञापयति सा संहितेति । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,14

अथ ह स्मास्य पुत्र आह मध्यमः प्रातियोधीपुत्रो मगधवासी पूर्वम् एवाक्षरं पूर्वरूपम् उत्तरम् उत्तररूपम् । तद् यासौ मात्रा संधिविज्ञापनी साम तद् भवति सामैहावं संहितां मन्य इति । तद् एतद् ऋचाभ्युदितम् - मा नः स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो ऽन्नेषु जागृधुः । आ देवानाम् ओहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥ इति । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,15
वाक् प्राणेन संधीयत इति कौण्ठरव्यः । प्राणः पवमानेन पवमानो विश्वैर् देवैर् विश्वे देवाः स्वर्गेण लोकेन स्वर्गो लोको ब्रह्मणा सैषावरपरा संहिता । स य एवम् एताम् अवरपरां संहितां वेद एवं हैव स प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन संधीयते यथैषावरपरा संहिता । स यदि परेण वोपसृष्टः स्वेन वार्थेनाभिव्याहरेद् अभिव्याहरन्न् एव विद्यात् - दिवं संहितागमद् विदुषो देवान् अभिव्याहारार्थम् एवं भविष्यतीति । एतेनावरपरेण तथा हैव तद् भवति ॥
शा 7,16
माता पूर्वरूपं पितोत्तररूपं प्रजा संहितेति भार्गवः । तद् एतद् एकम् एव सर्वं अभ्यनूक्तम् । माता च ह्येवेदं पिता च प्रजा च सर्वम् । सैषादितिसंहिता । अदितिर् हेवेदं सर्वं यद् इदं किंचिद् विश्वभूतम् । तद् एतद् ऋचाभ्युदितम् - अदितिर् द्यौर् अदितिर् अन्तरिक्षं अदितिर् माता सा पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥ स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,17
जाया पूर्वरूपं पतिर् उत्तररूपं पुत्रः संहिता रेतः संधिः प्रजननं संधानम् इति स्थविरः शाकल्यः । सैषा प्रजापतिसंहिता । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,18
प्रज्ञा पूर्वरूपं श्रद्धोत्तररूपं कर्म संहिता सत्यं संधानम् इति काश्यपः । सैषा सत्यसंहिता । तद् आहुर् यत् सत्यसंधा देवा इति । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,19
वाक् संहितेति पञ्चालचण्डः । वाचा वै वेदाः संधीयन्ते वाचा छन्दांसि वाचा मित्राणि संदधति । तद् यत्रैतद् अधीते वा भाषते वा वाचि तदा प्राणो भवति । वाक् तदा प्राणं रेळ्हि । अथ यत् स्वपिति वा तूष्णीं वा भवति प्राणे तदा वाग् भवति प्राणस्तदा वाचं रेळ्हि. ताव् अन्योन्यं रीळ्हः । तद् एतद् ऋचाभ्युदितम् - एकः सुपर्णः स समुद्रम् आविवेश, स इदं विश्वं भुवनं विचष्टे । तं पाकेन मनसापश्यम् अन्तितस्, तं माता रेळ्हि स उ रेळ्हि मातरम् ॥ इति । वाग् वै माता प्राणो वत्सः । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,20
बृहद्रथंतरेण रूपेण संहिता संधीयत इति तार्क्ष्यः । वाग् वै रथंतरस्य रूपं प्राणो बृहतः । उभाभ्याम् उ खलु संहिता संधीयते वाचा च प्राणेन च । एतस्यां ह स्मोपनिषदि संवत्सरं गा रक्षयत इति तार्क्ष्यः । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,21
गतिः पूर्व्वरूपं निवृत्तिर् उत्तररूपं स्थितिः संहितेति जारत्कारव आर्तभागः । तस्याम् एतस्यां संहितायां ध्वंसयो निमेषाः काष्ठाः कलाः क्षणा मुहूर्ता अहोरात्रा अर्धमासा मासा ऋतवः संवत्सराश् च संधीयन्ते । सैषा संहितैनान् कालान् संदधाति । कालो गतिनिवृत्तिस्थितीः संदधाति । गतिनिवृत्तिस्थितिभिर् इदं सर्वं संधीयते । इत्यधिदैवतम् । अथाध्यात्मम् - भूतं पूर्वरूपं भविष्यद् उत्तररूपं भवत् संहितेति कालसंधिः । तद् एतद् ऋचाभ्युदितम् - महत् तन् नाम गुह्यं पुरुस्पृग् येन भुतं जनयो येन भव्यम् । प्रत्नं जातं ज्योतिर् यद् अस्य प्रियं प्रियाः समविशन्त पञ्च ॥ इति । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,22
अथातो वालिशिखायनेर् वचः । पञ्चेमानि महाभूतानि भवन्तीति ह स्माह वालिशिखयनिः । पृथिवी वायुर् आकाशम् आपो ज्यौतींषि तानि मिथः संहितनि भवन्ति । अअथ यान्यन्यानि क्षुद्राणि महाभूतैः संधीयन्ते सैषा सर्वविभूतसंहिता । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति ॥
शा 7,23
सर्वा वाग् ब्रह्मेति ह स्माह लौहिक्यः । ये तु केचन शब्दा वाचम् एव तां विद्यात् । तद् अप्येतद् ऋषिर् आह - अहं रुद्रेभिर् वसुभिश् चरामीति । सैषा वाक् सर्वशब्दा भवति । स य एवम् एतां संहितां वेद संधीयते प्रजया पशुभिर् यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वम् आयुर् एति । यता चैतद् ब्रह्म कामरूपि कामचारि भवत्येवं हैव स सर्वेषु भूतेषु कामरूपी कामचारी भवति । य एवं वेद य एवं वेद ॥
इति शाङ्खायनारण्यके सप्तमो ऽध्यायः ॥
शा 8,1
प्राणो वंश इति ह स्माह स्थविरः शाकल्यः । तदु यथा शालावंशे सर्वे ऽन्ये वंशाः समाहिताः स्युर् एवम् एवैतस्मिन् प्राणे सर्व आत्मा समाहितः । तस्यैतद्यात्मनः प्राण ऊष्मरूपम् अस्थीनि स्पर्शरूपं मज्जानः स्वररूपं मांसं लोहितम् इत्येतच् चतुर्थम् अन्तस्थारूपम् इति । त्रेयं त्वेव न एतत् प्रोक्तम् इति ह स्माह ह्वस्त्रो माण्डूकेयः । तस्यैतस्य त्रयस्य त्रीणीतः षष्टिशतानि भवन्ति संधीनां त्रीणीतस् तानि सप्तविंशतिशतानि भवन्ति । सप्त वै विंशतिशतानि संवत्सरस्याहोरात्राणाम् । तत् संवत्सरस्याहोरात्राण्याप्नोति । स एष संवत्सरसंमानश् चक्षुर्मयश् श्रोत्रमयश् छन्दोमयो मनोमयो वाङ्मय आत्मा । स य एवम् एतं संवत्सरसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वामयम् आत्मानं वेद संवत्सरस्य सायौज्यं सलोकतां सरूपतां सभक्षताम् अश्नुते । पुत्री पशुमान् भवति सर्वम् आयुर् एत्यस्यारुणिकेयो देवयाञ्चक्रे ॥
शा 8,2

अथ कौष्ठरव्यः । त्रीणि षष्टिशतान्यक्षराणाम् । त्रीणि षष्टिशतान्यूष्मणाम् । त्रीणि षष्टिशतानि संधीनाम् । यान्यक्षराण्यवोचामाहानि तानि । यान् ऊष्मणो रात्रयस्ताः । यान् संधीन् अवोचामाहोरात्राणां ते संधयः । इत्यधिदैवतम् । अथाध्यात्मम् - यान्यक्षराण्यधिदैवतम् अवोचामास्थीनि तान्यध्यात्मम् । यान् ऊष्मणो ऽधिदैवतम् अवोचाम +मज्जानस् ते ऽध्यात्मम् । एष उ ह वै संप्रतिप्राणो यन् मज्जा एतद् रेतः न वा ऋते प्राणाद् रेतसः सिद्धिर् अस्ति । यद् वा ऋते प्राणाद् रेतः सिच्येत तत् पूयेन् न संभवेत् । यान् संधीन् अधिदैवतम् अवोचाम पर्वाणि तान्यध्यात्मम् । तस्यैतस्यास्थ्नां +मज्जा पर्वणाम् इति पञ्चेतश्चत्वारिंशच्छतानि भवन्ति । संधीनां पञ्चेतस्तदशीतिसहस्रं भवति । अशीतिसहस्रं वार्कलिनो बृहतीर् अहरहनि संपादयन्ति । स एषो ऽहःसंमानश् चक्षुर्मयश् श्रोत्रमयश् छन्दोमयो मनोमयो वाङ्मय आत्मा । स य एवम् एतद् अहःसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वामयम् आत्मानं वेद अह्नां सायौज्यं सलोकतां सरूपतां सभक्षताम् अश्नुते । पुत्री पशुमान् भवति सर्वम् आयुर् एति ॥
शा 8,3
चत्वारः पुरुषा इति वास्त्यः - शरीरपुरुषश् छन्दःपुरुषो वेदेपुरुषो महापुरुष इति । शरीरपुरुष इति यम् अवोचम् य एवायं दैविक आत्मा तस्यैतस्य यो ऽयम् अशरीरः प्रज्ञात्मा स रसः । छन्दःपुरुष इति यम् अवोचामाक्षरसमाम्नाय एव । तस्यैतस्याकारो रसः । वेदपुरुष इति यम् अवोचाम येन देवान् वेदर्ग्वेदं यजुर्वेदं सामवेदम् इति तस्यैतस्य ब्रह्मरसः । तस्माद् ब्रह्मिष्ठं ब्रह्माणम् ऋत्विजं कुर्वीत यो यज्ञस्योल्वणं विद्यात् । महापुरुष इति यम् अवोचाम संवत्सर एव तस्यैतस्यासाव् आदित्यो रसः । स यश् चायम् अशरीरः प्रज्ञात्मा यश् चासाव् आदित्य एकम् एतद् इति विद्यात् । तद् एतद् ऋचाभ्युदितम् ॥
शा 8,4
चित्रं देवानाम् उदगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥ इति । एताम् एवानुविद्यां संहितां संधीयमानां मन्य इति ह स्माह वात्स्यः -- एतम् उ हैव बह्वृचा महदुक्थे मीमांसन्त एतम् अग्नाव् अध्वर्यव एतं महाव्रते छन्दोगा एतम् अस्याम् एतम् अन्तरिक्ष एतं दिवि एतम् अग्नाव् एतं वायाव् एतं चन्द्रमस्य् एतं नक्षत्रेष्व् एतम् अप्स्व् एतम् ओषधीष्व् एतं सर्वेषु भूतेष्व् एतम् अक्षरेष्व् एतम् एव ब्रह्मेत्युपासते । तद् एतद् ऋचाभ्युदितम् ॥
शा 8,5
उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥ इति । स एषो ऽक्षरसंमानश् चक्षुर्मयः श्रोत्रमयश् छन्दमयो मनोमयो वाङ्मय आत्मा । स य एवम् एतम् अक्षरसंआनं चक्षुर्मयं श्रोत्रमयं छन्दमयं मनोमयं वाङ्मयम् आत्मानं परस्मै शंसति दुग्धदोहा अस्य वेदा भवन्ति । अभागो वाचि भवति अभागो ऽनूक्ते । तद् एतद् ऋचाभ्युदितम् ॥
शा 8,6
यस् तित्याज सचिविदं सखायं न तस्य वाच्य् अपि भागो अस्ति । यद् ईं शृनोत्य् अलकं शृणोति न हि प्रवेद सुकृतस्य पन्थाम् ॥ इति । नास्यानूक्ते वाचो भागो अस्तीत्य् एव तद् आह तन् न परस्मा एतद् अहः शंसेत् । नाग्निं चिनुयान् न महाव्रतेन स्तुयान् नेद् आत्मनो ऽपिहीया इति । स यश् चायम् अशरीरः प्रज्ञात्मा यश् चासाव् आदित्य एकम् एतद् इत्य् अवोचाम तौ यत्र विप्रदृश्येते ॥
शा 8,7
चन्द्रमा इवादित्यो दृश्यते न रश्मयः प्रादुर् भवन्ति । लोहिनी द्यौर् भवति यथा मञ्जिष्ठाः । व्यस्तः पायुर् भवति । संपरेतो ऽस्यात्मा न चिरम् इव जीविष्यतीति विद्यात् । स यत् करणीयं मन्येत तत् कुर्यात् । अथाप्यादर्शे वोदके वा जिह्मशिरसं वाशिरसं वात्मानं पश्येन् न वा पश्येत् । तद् अप्य् एवम् एव विद्यात् । अथापि च्छिद्रा छाया भवति न वा भवति तद् अप्य् एवम् एव विद्यात् । अथापि च्छिद्र इवादित्यो रथनाभिर् इवाख्यायेत् तद् अप्य् एवम् एव विद्यात् । अथापि नील इवाग्निर् दृश्येत यथा मयूरग्रीवा महामेघे वा मरीचीर् इव पश्येत् । अनभ्रे वा विद्युतं पश्येत् । अभ्र एनां म्न पश्येत् तद् अप्य् एवम् एव विद्यात् । अथाप्य् अपिधायाक्षिणी उपेक्षेत तत्रैतद् वराटकानीव न पश्येत् तद् अप्य् एवम् एव विद्यात् । अथाप्य् अपिधाय कर्णा उपासीत । य एषो ऽग्नेर् इव ज्वलतः शब्दो रथस्येवोपब्दिस् तं न यदा शृणुयात् तद् अप्य् एवम् एव विद्यात् । अथापि विपर्यस्ते कन्यके दृश्येते द्विजिह्मेवा न वा दृश्येतेतद् अप्य् एवम् एव विद्यात् । स यो ऽतो ऽश्रुतो ऽमतो ऽविज्ञातो ऽदृष्टो ऽनादिष्टो ऽघुष्टः श्रोता मन्ता विज्ञाता द्रष्टादेष्टा घोष्टा सर्वेषां भूतानाम् आन्तरः पुरुषः स म आत्मेति
विद्यात् । स उत्क्रामन्न् एवैतम् अशरीरं प्रज्ञात्मानम् अभिसंपद्यते विजहातीतरं दौहिकम् । सैषा सर्वस्यै वाच उपनिषत् । सर्वा हैवेमाः सर्वस्यै वाचौपनिषदः । इमां त्व् एवम् आचक्षते ॥
शा 8,8
पृथिव्या रूपं स्पर्शा अन्तरिक्षस्योष्माणो दिवः स्वराः । अग्ने रूपं स्पर्शा वायोर् ऊष्माण आदित्यस्य स्वराः । ऋग्वेदस्य रूपं स्पर्शा यजुर्वेदस्योष्माणः सामवेदस्य स्वराः । रथन्तरस्य रूपं स्पर्शा वामदेव्यस्योष्माणो बृहतः स्वराः । प्राणस्य रूपं स्पर्शा अपानस्योष्माणो मनसः स्वराः । प्राणस्य रूपं स्पर्शा अपानस्योष्माण उदानस्य स्वराः स्वरा इति पुनर्दत्तः । एष उ हैव सर्वां वाचं वेद य एवं वेद ॥
शा 8,9
अथ खल्व् इयं दैवी वीणा भवति तदनुकृतिर् असौ मानुषी भवति । तद् यथेयं शस्त्रवती तर्द्मवती भवत्य् एवम् एवासौ शस्त्रवती तर्द्मवती भवति । तद् यथास्याः शिर एवम् अमुष्याः शिरः । तद् यथास्यै वंश एवम् अमुष्या दण्डः । तद् यथास्या उदरम् एवम् अमुष्या अम्भणं । तद् यथास्यै मुखनासिके अक्षिणी इत्य् एवम् अमुष्याश् छिद्राणि । तद् यथास्या अङ्गुलिनिग्रहा उपस्तरणानीत्य् एवम् अमुष्याः पर्वाणि । तद् यथास्या अङ्गुलय एवम् अमुष्यास् तन्त्र्यः । तद् यथास्यै जिह्वैवम् अमुष्या वादनम् । तद् यथास्याः स्वरा एवम् अमुष्याः स्वराः । तद् यथा हैवेयं रोमशेन चर्मणापिहिता भवत्य् एवम् एवासौ रोमशेन चर्मणापिहिता भवति । रोमशेन ह स्म चर्मणा पुरा वीणा अपिदधति । सैषा दैवी वीणा भवति । स य एवम् एतां दैवीं वीणां वेद श्रुतवदनतमो भवति भूमिप्रास्य कीर्तिर् भवति +शुश्रूषन्ते हास्य पर्षत्सु भाष्यमाणस्येदम् अस्तु यद् अयम् ईहते यत्रार्या वाग् वदति विदुर् एनं तत्र ॥
शा 8,10
अथातस् ताण्डविन्दस्य वचः । तद् यथेयं अकुशलेन वादयित्रावीणारब्धा न कृत्स्नं वीणार्थं साधयत्य् एवम् एवाकुशलेन वक्त्रा वाग् आरब्धा न कृत्स्नं वाग् अर्थं साधयति । तद् यथा हैवेयं कुशलेन वादयित्रा वीणारब्धा कृत्स्नं वीणार्थं साधयत्य् एवम् एव कुशलेन वक्त्रा वाग् आरब्धा कृत्स्नं वाग् अर्थं साधयति । तस्यै वा एतस्यै वीणायै या त्विषिः सा संहितेति कात्यायनीपुत्रो जातूकर्ण्यः । अथ ह स्मैतत् कृत्स्नहारितो ब्राह्मणम् एवोदाहरति ॥
शा 8,11

प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत स छन्दोभिर् आत्मानं समदधत् । तद् यच् छन्दोभिर् आत्मानं समदधत् तस्मात् संहिता । तस्यै वा एतस्यै संहितायै णकरो बलं षकारः प्राण आत्मा संहिता । अथैषा क्षुद्रमिश्रा विकृतिस् तानि नखानि रोमाणि व्यञ्जनानीति । स यो ऽत्र विचिकित्सेत् सणकारं एव ब्रूयाद् ऋते णकारम् इति सणकारम् एव ब्रूयात् । एवम् एव यो ऽत्र विचिकित्सेत् सषकारं एव ब्रूयाद् ऋते षकारम् इति सषकारम् एव ब्रूयात् । तौ वा एतौ णकारषकारौ विद्वान् अनुसंहितम् ऋचो ऽधीयीतायुष्यम् इति विद्याद् एवम् एव विद्यात् । अथ वाग् इतिहासपुराणं यच् चान्यत् किंचिद् ब्राह्मीकृत्येवाधीयीत तद् अप्य् एवम् एव विद्यात् । ते यद् वयम् अनुसंहितम् ऋचो ऽधीमहे यच् च माण्डूकेयीयम् अध्यायं प्रब्रूमस् तेन नो णकारषकारा उपाप्ताव् इति ह स्माह ह्रस्वो माण्डूकेयः । अथ यद् वयम् अनुसंहितम् ऋचो ऽधीमहे यच् च स्वाध्यायम् अधीमहे तेन नो णकारषकारा उपाप्ताव् इति ह स्माह स्थविरः शाकल्यः । एतद् ध स्म वै तद् विद्वांस आहुः कावषेयाः किमर्था वयं यक्ष्यामहे किमर्था वयम् अधेष्यामहे वाचि हि प्राणं जुहुमः प्राणे वाचं यो ह्य् एव प्रभवः स एवाप्यय इति । ता एताः संहिता
नानन्तेवासिने ब्रूयान् नासंवत्सरवासिने नाब्रह्मचारिणे नावेदविदे नापवक्त्र इत्य् आचार्या इत्य् आचार्याः ॥
इति शाङ्खायनारण्यके अष्टमो ऽध्यायः ॥
शा 9,1
ओम् । तत् सवितुर् वृणीमहे । वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमम् । तुरं भगस्य धीमहि । तत् सवितुर् वरेण्यं । भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ अदब्धं मन इषिरं चक्षुः । सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिंसीः ॥
शा 9,2
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश् च ह वै श्रेष्ठश् च स्वानां भवति । प्राणो वै ज्येष्ठश् च श्रेष्ठश् च । यो ह वै वसिष्ठां वेद वसिष्ठो ह स्वानां भवति वाग् वै वसिष्ठा । यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्य् अस्मिंश् च लोके ऽमुष्मिंश् च चक्षुर् ह प्रतिष्ठा । यो ह वै संपदं वेद सं हास्मै कामाः संपद्यन्ते श्रोत्रं ह वा उ संपत् । यो ह वा आयतनं वेदायतनो ह स्वानां भवति मनो वा आयतनम् । अथ हेमा देवताः प्रजापतिं पितरम् एत्याब्रुवन् को वै नः श्रेष्ठ इति । स होवाच प्रजापतिर् यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठम् इव मन्यते स वै श्रेष्ठ इति ॥
शा 9,3
सा ह वाग् उच्चक्राम । यथा मूका अवदन्तः प्राणन्तः प्राणेन पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति ॥
शा 9,4
चक्षुर् होच्चक्राम । यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति ॥
शा 9,5
श्रोत्रं होच्चक्राम । यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तः चक्षुषा ध्यायन्तो मनसैवम् इति ॥
शा 9,6
मनो होच्चक्राम । यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तः चक्षुषा शृण्वन्तः श्रोत्रेणैवम् इति ॥
शा 9,7
प्राणो होच्चक्राम । ततस् तद् यथेह सैन्धवः सुहयः पड्बीशशङ्कून् संखिदेद् एवम् असौ प्राणान् समखिदत् । ते ह समेत्योचुर् भगवन् मोत्क्रमीर् इति । स होवाच प्राणः किं मे ऽन्नं भविष्यतीति । यत् किंचाश्वभ्य इवाशकुनिभ्य इति । किं मे वासो भविष्यतीत्य् आप इति होचुः । तस्माद् वा अयम् अशिष्यन् पुरस्ताच् चोपरिष्टाच् चाद्भिः परिदधाति । लम्भुको हास्य वासो भवत्य् अनग्नो हि भवति । हद् ध स्मैतत् सत्यकामो जाबालो गोश्रुते वैयाघ्रपद्यायोक्त्वोवाच । अप्य् एवं शुष्कस्य स्थाणोः प्रब्रूयाज् जयेरन्न् अस्य शाखाः प्ररोहेयुः पलाशनीति । वनस्पते शतवल्शो विरोहेति द्यां मा लेखीर् अन्तरिक्षं मा मा हिंसीर् इति ह याज्ञवल्क्यः ॥
शा 9,8
अथ यदि महज् जिगमिषेत् त्रिरात्रं दीक्षित्वामावास्यायां सर्वौषदस्य मन्थं दधिमधुभ्याम् उपमन्थ्याग्निम् उपस्समाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणं जान्व् आच्योत्तरतो ऽग्नेः कंसे मन्थं कृत्वा हुत्वा होमान् मन्थे संपातं आनयेत् । ज्येष्ठाय श्रेष्ठाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संपातम् आनयेत् । प्रतिष्ठायै स्वाहेत्य् अग्नौ हुत्वा मन्थे संपातम् आनयेत् । संपदे स्वाहेत्य् अग्नौ हुत्वा मन्थे संपातम् आनयेत् । तत् सवितुर् वरेण्यम् इति पच्छः प्राश्य तत् सवितुर् वृणीमह इति पच्छ आचामति महाव्याहृतिभिश् चतुर्थं निर्णिज्य कांस्यं चर्मणि वा स्थण्डिले वा संविशति । स यदि स्त्रियं पश्येत् समृद्धं कर्मेति विद्यात् समृद्धं कर्मेति विद्यात् ॥
इति शाङ्खायनारण्यके नवमो ऽध्यायः ॥
शा 10,1
अथातो ऽध्यात्मिकम् । आन्तरम् अग्निहोत्रम् इत्य् आचक्षते । एता ह वै देवताः पुरुष एव प्रतिष्ठिता अग्निर् वाचि वायुः प्राण आदित्यश् चक्षुषि चन्द्रमा मनसि दिशः श्रोत्र आपो रेतसि । एतासु ह वै सर्वासु हुतं भवति य एवं विद्वान् अश्नाति च पिबति चाशयति च पाययति च । सो ऽश्नाति स पिबति स तृप्यति स तर्पयति ॥
शा 10,2
स तृप्तो वाचं तर्पयति । वाक् तृप्ताग्निं तर्पयति । अग्निस् तृप्तः पृथिवीं तर्पयति । पृथिवी तृप्ता यत् किंचित् पृथ्हिव्यापिहितं भवद् भविष्यद् भूतं तत् सर्वं तर्पयति । य एवं विद्वान् अश्नाति च पिबति चाशयति च पाययति च सो ऽश्नाति स पिबति स तृप्यति स तर्पयति ॥
शा 10,3
स तृप्तः प्राणं तर्पयति । प्राणस् तृप्तो वायुं तर्पयति । वायुस् तृप्त आकाशं तर्पयति । आकाशस् तृप्तो यत् किंचाकाशेनापिहितम् भवद् भविष्यद् भूतं तत् सर्वं तर्पयति । य एवं विद्वान् अश्नाति च पिबति चाशयति च पाययति च सो ऽश्नाति स पिबति स तृप्यति स तर्पयति ॥
शा 10,4
स तृप्तश् चक्षुस् तर्पयति । चक्षुस् तृप्तम् आदित्यं तर्पयति । आदित्यस् तृप्तो दिवं तर्पयति ।द्यौस् तृप्ता यत् किंचिद् दिवापिहितम् भवद् भविष्यद् भूतं तत् सर्वं तर्पयति । य एवं विद्वान् अश्नाति च पिबति चाशयति च पाययति च सो ऽश्नाति स पिबति स तृप्यति स तर्पयति ॥
शा 10,5
स तृप्तो मनस् तर्पयति । मनस् तृप्तं चन्द्रमसं तर्पयति । चन्द्रमास् तृप्तो नक्षत्राणि तर्पयति । नक्षत्राणि तृप्तानि मासांस् तर्पयन्ति । मासास् तृप्ता अर्धमासांस् तर्पयन्ति । अर्धमासास् तृप्ता अहोरात्रे तर्पयन्ति । अहोरात्रे तृप्ते ऋतूंस् तर्पयतः । ऋतवस् तृप्ताः संवत्सरं तर्पयन्ति । संवत्सरस् तृप्तो यत् किंचित् संवत्सरेणापिहितम् भवद् भविष्यद् भूतं तत् सर्वं तर्पयति । य एवं विद्वान् अश्नाति च पिबति चाशयति च पाययति च सो ऽश्नाति स पिबति स तृप्यति स तर्पयति ॥
शा 10,6
स तृप्तः श्रोत्रं तर्पयति । श्रोत्रं तृप्तं दिशस् तर्पयति । दिशस् तृप्ता अवान्तरदिशस् तर्पयन्ति । अवान्तरदिशस् तृप्ता यत् किंचावान्तरदिग्भिर् अपिहितम् भवद् भविष्यद् भूतं तत् सर्वं तर्पयति । य एवं विद्वान् अश्नाति च पिबति चाशयति च पाययति च सो ऽश्नाति स पिबति स तृप्यति स तर्पयति ॥
शा 10,7

स तृप्तो रेतस् तर्पयति । रेतस् तृप्तम् अपस् तर्पयति । आपस् तृप्ता नदींस् तर्पयन्ति । नद्यस् तृप्ताः समुद्रं तर्पयन्ति । समुद्रो तृप्तो यत् किंचित् समुद्रेणापिहितम् भवद् भविष्यद् भूतं तत् सर्वं तर्पयति । य एवं विद्वान् अश्नाति च पिबति चाशयति च पाययति च सो ऽश्नाति स पिबति स तृप्यति स तर्पयति ॥
शा 10,8
स तृप्तस् तद् एतद् वैराजं दशविधं अग्निहोत्रं भवति । तस्य प्राण एवाहवनीयः । अपानो गार्हपत्यो व्यानो ऽन्वाहार्यपचनो मनो धूमो मन्युर् अर्चिर् दन्ता अङ्गाराः श्रद्धा पयो वाक् समित् सत्यम् आहुतिः प्रज्ञात्मा स रसः । तद् एतद् वैराजं दशविधं अग्निहोत्रं हुतं भवति । रोहोभ्यां रोहोभ्याम् अभ्यारूळ्हम् अभि स्वर्गं लोकं गमयति य एवं विद्वान् अश्नाति च पिबति चाशयति च पाययति च । अथ य इदम् अविद्वान् अग्निहोत्रं जुहोति यथाङ्गारान् अपोह्य भस्मनि हुतं तादृक् तत्यास् तादृक् तत् स्यात् ॥
इति शाङ्खायनारण्यके दशमो ऽध्यायः ॥
शा 11,1
प्रजापतिर् वा इमं पुरुषम् उदञ्चत । तस्मिन्न् एता देवता आवेशयद् वाच्य् अग्निं प्राणे वायुं अपाने विद्युत उदाने पर्जन्यं चक्षुष्य् आदित्यं मनसि चन्द्रमसं श्रोत्रे दिशः शरीरे पृथिवीं रेतस्य् अपो बल इन्द्रं मन्याव् ईशानं मूर्धन्य् आकाशं आत्मनि ब्रह्म । स यथा महान् अमृतकुम्भः पिन्वमानस् तिष्ठेद् एवं हैव स तस्थौ । अथ हेमा देवता ईक्षां चक्रिरे किम् अयम् अस्माभिः पुरुषः करिष्यति किं वा वयम् अनेन । हन्तास्माच् चरीराद् उत्क्रमामेति । ता होच्चक्रमुः । अथ हेदं शरीरं रिक्तम् इव परिसुषिरं स हेक्षाञ्चक्रे प्रजापती रन्ध्राय न क्षमम् । हन्ताहम् इमा अशनायापिपासाभ्याम् उपसृजा इति । ता होपससृजे । ता होपाष्र्ष्टाः सुखं अलभमाना इमम् एव पुरुषं पुनः प्रत्याविविशुः ॥
शा 11,2
वाङ् ममेत्य् अग्निर् आविवेश । प्राणो ममेति वायुर् आविवेश । अपानो ममेति विद्युत आविविशुः । उदानो ममेति पर्जन्य आविवेश । चक्षुर् ममेत्य् आदित्य आविवेश । मनो ममेति चन्द्रमा आविवेश । श्रोत्रम् अस्माकम् इति दिश आविविशुः । शरीरं ममेति पृथिव्य् आविवेश । रेतो ऽस्माकम् इत्य् आप आविविशुः । बलं ममेतीन्द्र आविवेश । मन्युर् ममेतीशान आविवेश । मूर्धा ममेत्य् आकाश आविवेश । आत्मा ममेति ब्रह्माविवेश । स यथा महान् वृक्ष आर्द्र उपसिक्तमूलस् तिष्ठेद् एवं हैव स तस्थौ ॥
शा 11,3
अथायं पुरुषः प्रेष्यन् पुरा संवत्सरात् संवत्सरस्य दृष्टीः पश्यति । छिद्रा छाया भवति न वा भवति । महामेघे वा मरीचीर् इव पश्येद् अनभ्रे वा विद्युतं पश्येद् अभ्र एनां न पश्येत् । अक्षिणी वा अपिधाय वराटकानीवा न पश्यति । कर्णौ वापिधायोपब्दिम् इव न शृणोति । नास्मिंल् लोके रमते नैनं मनश् छन्दयति । इति प्रत्यक्षदर्शनानि ॥
शा 11,4
अथ स्वप्नाः । पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट एनं हन्ति एनं हन्ति बिसानि खादयति सुवर्णं भक्षयित्वावगिरत्य् एकपौण्डरीकं धारयति गां सवत्सां दक्षिणामुखो नलदमाली व्राजयति । स यद्य् एतेषां किंचित् पश्येत् पाण्डुरदर्शनां कालीं स्त्रीं मुक्तकेशां मुण्डां तैलाभ्यङ्गं कौसुम्भपरिधानं गीतान्य् उष्ट्रारोहनं दक्षिणाशागमनादीनि वीक्ष्योपोष्य पायसं स्थालीपाकं श्रपयित्वा सरूपवत्साया गोः पयसि न त्व् एव तु कृष्णाया अग्निम् उपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणं जान्व् आच्य स्रुवेणाज्यहुतीर् जुहोति ॥
शा 11,5
वाचि मे ऽग्निः प्रतिष्ठितः स्वाहा । प्राणे मे वायुः प्रतिष्ठितः स्वाहा । अपाने मे विद्युतः प्रतिष्ठिताः स्वाहा । उदाने मे पर्जन्यः प्रतिष्ठितः स्वाहा । चक्षुषि म आदित्यः प्रतिष्ठितः स्वाहा । मनसि मे चन्द्रमाः प्रतिष्ठितः स्वाहा । श्रोत्रे मे दिशः प्रतिष्ठिताः स्वाहा । शरीरे मे पृथिवी प्रतिष्ठिता स्वाहा । रेतसि म आपः प्रतिष्ठिताः स्वाहा । बले म इन्द्रः प्रतिष्ठितः स्वाहा । मन्यौ म ईशानः प्रतिष्ठितः स्वाहा । मूर्धनि म आकाशः प्रतिष्ठितः स्वाहा । आत्मनि मे ब्रह्म प्रतिष्ठितं स्वाहा । अथैतद् आज्यावशेषं स्थालीपाके समवनिनीय स्थालीपाकस्योपघातं जुहोति ॥
शा 11,6
वाचि मे ऽग्निः प्रतिष्ठितो वाग् हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । प्राणे मे वायुः प्रतिष्ठितो प्राणो हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । अपाने मे विद्युतः प्रतिष्ठिता अपानो हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । उदाने मे पर्जन्यः प्रतिष्ठित उदानं हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । चक्षुषि म आदित्यः प्रतिष्ठितश् चक्षुर् हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । मनसि मे चन्द्रमाः प्रतिष्ठितो मनो हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । श्रोत्रे मे दिशः प्रतिष्ठिता दिशो हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । शरीरे मे पृथ्हिवी प्रतिष्ठिता पृथिवी हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । बले म इन्द्रः प्रतिष्ठिता बलं हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । मन्यौ म ईशानः प्रतिष्ठितो मन्युर् हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । मूर्धनि म आकाशः प्रतिष्ठितो
मूर्धा हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । आत्मनि मे ब्रह्म प्रतिष्ठितम् आत्मा हृदये हृदयम् आत्मनि तत् सत्यं देवानां माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । अथैतत् स्थालीपाकशेषम् आत्मनि समवनिनीय जुहोति ॥
शा 11,7
अश्मा जागतम् अयस् त्रैष्टुभं लोहम् औष्णिहं सीसं काकुभं रजतं स्वाराज्यं सुवर्णं गायत्रम् अन्नं वैराजं तृप्तिर् आनुष्टुभं नाकं साम्राज्यं बृहस्पतिर् बार्हतं ब्रह्म पाङ्क्तं प्रजापतिर् आतिछन्दसं सावित्री सर्ववेदछन्दसेन छन्दसेति ॥
शा 11,8

अश्मेव स्थिरो वसानि जागतेन छन्दसा । पुरुषो मणिः प्राणः सूत्रम् अन्नं ग्रन्थिस् तं ग्रन्थिम् उद्ग्रथ्नाम्य् अन्नकामः । मृत्यवे ब्राह्मणं अपि सर्वम् आयुर् अशीयायुष्मान् माहम् अकामो मरिष्याम्य् अन्नवान् अन्नादो भूयासं स्वाहा । अय इव स्थिरो वसानि त्रैष्टुभेन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । लोहम् इव स्थिरो वसान्य् औष्णिहेन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । सीसम् इव स्थिरो वसानि काकुभेन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । रजतम् इव स्थिरो वसानि स्वराज्येन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । सुवर्णम् इव स्थिरो वसानि गायत्रेण छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । अन्नम् इव स्थिरो वसानि वैराजेन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । तृप्तिर् इव स्थिरो वसान्य् आनुष्टुभेन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । नाकम् इव स्थिरो वसानि
साम्राज्येन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । बृहस्पतिर् इव स्थिरो वसानि बार्हतेन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । ब्रह्मेव स्थिरो वसानि पाङ्क्तेन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । प्रजापतिर् इव स्थिरो वसान्य् आतिछन्दसेन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । सावित्रीर् इव स्थिरो वसानि सर्ववेदछन्दसेन छन्दसा पुरुषो मणिः प्राणः ... स्वाहा । प्रियायै वा जायायै प्रियाय वान्तेवासिने ऽन्यस्मै वापि यस्मै कामयेत तस्मा उच्छिष्टं दद्यात् । स हापि शतं वर्षाणि जीवति पुनः पुनः प्रयुञ्जानो जीवत्य् एव जीवत्य् एव ॥
इति शाङ्खायनारण्यके एकादशमो ऽध्यायः ॥
शा 12,1
ओम् । हस्तिवर्चसं प्रथतां बृहद् वयो यद् अदित्यै तन्वः संबभूव । तन् मह्यं समदुः सर्व एत आदित्यासो अदित्या संविदानाः

2.2

यत् ते वर्चो जातवेदो बृहद् भवत्य् आहितम् । तेन मा वर्चसा त्वम् अग्ने वर्चस्विनं कुरु

2.3

यच् च वर्चो वा पुरुषे यच् च हस्तिष्व् आहितम् । सुवर्णे गोषु यद् वर्चो मयि तद् धस्तिवर्चसम्

2.4

यद् अक्षेषु हिरण्येषु गोष्व् अश्वेषु यद् यशः । सुरायां पूयमानायां मयि तद् धस्तिवर्चसम्

2.5

मयि भर्गो मयि महो मयि यज्ञस्य यद् यशः । तन् मयि प्रजापतिर् दिवि दिवम् इव दृंहतु

2.6

शा 12,2
अश्विना सारघेण मा सम् अङ्क्तां मधुना पयः । यथा मधुमतीं वाचम् आवदानि जनेषु

2.7

घृताद् उल्लुप्तो मधुमान् पयस्वान् धनंजयो धरुणो धारयिष्णुः । रुजन् सपत्नान् अधरांश् च कृण्वन् आ रोह मां महते सौभगाय

2.8

प्रजापते न त्वद् एतान्य् अन्यो विश्वा जतानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम्

2.9

अयं सनो नुदतां मे सपत्नान् इन्द्र इव वृत्रं पृतनासु साळ्हा । अग्निर् इव कक्षं विभृतः पुरुत्रा वातेषु नस् तिग्मजम्भो ऽनु मार्ष्टि

2.10

अयं सनो यो ऽनुवादी कील इव वृत्रं वि पुरो रुरोज । अनेनेन्द्रो वि मृधो विहत्या शत्रूयताम् आभरा भोजनानि

2.11

शा 12,3
जयेन्द्र शत्रूञ् जहि शूर दस्यून् वृत्रं हत्वेव कुलिशेना वि वृश्च । औघ इव शापान् प्र णुदात् सपत्नाञ् जह्यात् सपत्नान् स्वधितिर् वनेव

2.12

अनु वृश्च मध्यात् प्रति वृश्चोपरिष्टाद् वि वृश्च पश्चात् प्रति शूर वृश्च । त्वया प्रणुत्तान् मघवन्न् अमित्रान् शूर रिषन्तं मरुतो ऽनु यन्तु

2.13

त्वां रुद्रैर् हेतिभिः पिन्वमाना इन्द्रं मन्वाना मरुतो जुषन्त । सुपर्णाः कङ्काः प्र मृशन्तो एनान् महीयतां दंष्ट्री वर्धनेषु

2.14

ब्रह्मणुत्तस्य मघवन् पृतन्यतो विष्वग् इन्द्र भङ्गाः पतन्तु । मा ज्ञातारम् ईशत मा प्रतिष्ठां मिथो विघ्नाना उप यान्ति मृत्युम्

2.15

अग्ने यशस्विन् यशसे सम् अर्पयेन्द्रवतीम् अपचितिम् इहा वह । अयं मूर्धा परमेष्ठी सुवर्चाः सजातानाम् उत्तमश्लोको अस्तु

2.16

शा 12,4
भद्रं पश्यन्त उप सेदुर् आगन् ततो दीक्षाम् ऋषयः स्वर्विदः । ततः क्षत्रं बलम् ओजश् च जातं तद् अस्मै देवा अभि सं नमन्ताम्

2.17

धाता विधाता परमोत संदृक् प्रजापतिः परमेष्ठी सुवर्च्चाः । स्तोमांश् छन्दांसि निविदो म आहुर् एतस्मै राष्ट्रम् अभि सं नमन्ताम्

2.18

अभ्य् आ वर्तध्वम् उप सेवताग्निम् अयं शास्ताधिपतिर् नो अस्तु । अस्य विज्ञानम् अनु सं रभध्वम् इमं पश्चाद् अनु जीवाथ सर्वे

2.19

अलर्दो नाम जातो ऽसि पुरा सूर्यात् पुरोषसः । तं त्वा सपत्नक्षयणं वेदाथ विष्टम्भजम्भनम्

2.20

नार्धे प्रमीयेत तरेद् द्विषन्तं कल्पेत वाक्यं पृतनाः सहेत । प्रमायुकं तस्य द्विषन्तम् आहुर् इरामणिं बैल्वं यो बिभर्त्ति

2.21

शा 12,5
न स शप्तम् अश्नाति किल्बिषं कृतं नैनं दिव्यो वरुणो हन्ति भीतम् । नैनं क्रुद्धं मन्यवो ऽभि यन्तीरामणिं बैल्वं यो बिभर्त्ति

2.22

नास्य त्वचं हिंसति जात्वेदा न मांसम् अश्नाति न हन्ति तानि । शतायुर् अस्मिञ् जरदष्टिः प्रैतीरामणिं बैल्वं यो बिभर्त्ति

2.23

नास्य प्रजा दुष्यति जायमाना न शैलगो भवति न पापकृत्या । नान्यन् मिथस् तस्य कुलेषु जायत इरामणिं बैल्वं यो बिभर्त्ति

2.24

नास्यापवादा न प्रवादका गृहे न संपतत्र्यो न विवेश तस्मै । नास्मिन्न् अलक्ष्मीः कुरुते निवेशनम् इरामणिं बैल्वं यो बिभर्त्ति

2.25

नैनं रक्षो न पिशाचो हिनस्ति
न जम्भको नाप्य् असुरो न यक्षः । न सूतिका तस्य कुलेषु जायते इरामणिं बैल्वं यो बिभर्त्ति

2.26

शा 12,6
नैनं व्याघ्रो न वृको न द्वीपी न श्वापदं हिंसति किंचनैनम् । न हस्तिनं क्रुद्धम् उपैति भीतिम् इरामणिं बैल्वं यो बिभर्त्ति

2.27

नैनं सर्पो न पृदाकुर् हिनस्ति न वृश्चिको न तिरश्चीनराजिः । नैनं कृष्णो ऽहिर् अभि संहत इरामणिं बैल्वं यो बिभर्त्ति

2.28

नैनं प्रमत्तं वरुणो हिनस्ति न मकरो न ग्रहः शिंशुमारः । पारावराच् छिवम् अस्मै कृणोतीरामणिं बैल्वं यो बिभर्त्ति

2.29

प्रमायुकम् अस्य द्विषन्तम् आहुः । पुष्पम् इव छिन्नं सह बन्धनेन । ओघ इव शापान् प्र णुदात् सपत्नान् । इरामणिं बैल्वं यो बिभर्त्ति

2.30

अयं मणिः प्रतिसरो
जाम्बो जीवाय बध्यते । अनेनेन्द्रो वृत्रम् अहन्न् ऋषिणा च मनीषिणा

2.31

शा 12,7
सहेन्द्र द्विषतः सहस्वारातीः सहस्व पृतनायतः । नाग इव पूर्वपादाभ्याम् अभि तिष्ठ पृतन्यतः

2.32

आगाद् अयं बैल्वो मणिः सपत्नक्षपणो वृषा । तं पश्यन्ति कवयः सर्ववीरा यथा सपत्नान् समरे सहेयुः

2.33

अनृतं मे मणौ सूत्रम् अश्विनाव् अपि नह्यताम् । बैल्वः सहस्रवीर्यो ऽसि मा ते भर्ता रिषम् अहम्

2.34

घृताद् उल्लुप्तो मधुमान् पयस्वान् धनंजयो धरुणो धारयिष्णुः । रुजन् सपत्नान् अधरांश् च कृण्वन् आ रोह मां महते सौभगाय

2.35

प्रजापते न त्वद् एतान्य् अन्यो विश्वा जतानि परि ता बभूव । यत्कामस् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम्

मूल पाठ: Śaṅkhāyana-Āraṇyaka · Edition: Bhim Dev, Hoshiarpur 1980 (Vishveshvaranand Indological Series, 70), and the ed. of Adhyāyas 7-15 published as an appendix to A.B. Keith: Aitareya Āraṇyaka, Oxford 1909, pp. 305-328 · Data entry Martin Joachim Kümmel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc