सङ्घभेदवस्तु · भाग 6167
16. तद्यथा भदन्त आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एव पूरणः काश्यपः मया सान्दृष्टिकं श्रामण्यफलं पृष्टः नास्तिताम् एव व्याकार्षीत्; तस्य मम भदन्त एतद् अभवत्; न मम प्रतिरूपं स्याद् यन् मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहं भदन्त पूरणस्य काश्यपस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; ( अ 505अ ) अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः
मस्करी गोशालिपुत्रऽ थेओर्य्
17. सो ऽहं येन मस्करी गोशालिपुत्रः तेनोपसंक्रान्तः; उपसंक्रम्य मस्करिणं गोशालिपुत्रम् एवं वदामि: इमे भदन्त मस्करिन् पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम्
18. स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; नास्ति हेतुः नास्ति प्रत्ययः; सत्वा संक्लिष्यन्ते? अहेत्वप्रत्ययं सत्वाः संक्लिष्यन्ते; नास्ति हेतुः नास्ति प्रत्ययः सत्वाः विशुध्यन्ते ( स्ब्व् इइ 222 ) अहेत्वप्रत्ययं सत्वा विशुध्यन्ते; नास्ति हेतुर् नास्ति प्रत्ययः; सत्वानाम् अज्ञानादर्शने भवतः अहेत्वप्रत्ययं सत्वानाम् अज्ञानादर्शने भवतः; नास्ति हेतुर् नास्ति प्रत्ययः; सत्वानां ज्ञानादर्शने भवतः? अहेत्वप्रत्ययं सत्वानां ज्ञानादर्शने भवतः; नास्ति बलं नास्ति वीर्यं नास्ति बलवीर्यं नास्ति पुरुषकारः नास्ति पराक्रमाः नास्ति पुरुषकारपराक्रमः; नास्त्य् आत्मकारः न परकारः अनात्मकारपरकाराः सर्वे भूताः अस्थामा अबला अवशा अवीर्या अपराक्रमाः नियतसंगतिभावपरिणताः सुखदुःखं प्रतिसंवेदयन्ते यदुत षट्स्व् अभिजातिषु
19. तद्यथा पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव मस्करी गोशालिपुत्रः मया सान्दृष्टिकं श्रामण्यफलं पृष्टः अहेतुताम् एव व्याकार्षीत्; तस्य मम एतद् अभवत्; कथम् इदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहं मस्करिणो गोशालिपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थाय आसनात् प्रक्रान्तः
सञ्जयी वैरट्टीपुत्रऽस् थेओर्य्
20. सो ऽहं येन सञ्जयी वैरट्टीपुत्रस् तेनोपसंक्रान्तः; उपसंक्रम्य सञ्जयिनं वैरट्टीपुत्रम् इदम् अवोचम्: इमे भदन्त सञ्जयिन् पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम्
21. स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; कुर्वतः कारयतः छिन्दतः छेदयतः पचतः पाचयतः हिंसतो घातयतः प्राणिनो हिंसतः अदत्तम् आददतः कामेषु मिथ्या चरतः संप्रजानं ( अ 505ब् ) मृषावादं भाषमाणस्य मद्यपानं ( स्ब्व् इइ 223 ) पिबतः सन्धिं छिन्दतो ग्रन्थिं मुञ्चतः निर्लोपं हरतः परिपन्थं तिष्ठतः; ग्रामघातं कुर्वतः, नगरघातं जनपदघातं क्षुरपर्यन्तीकृतेन वा चक्रेण ये ऽस्यां महापृथिव्यां प्राणिनस् तान् सर्वान् संछिन्दतः संभिन्दतः संकुट्टयतः संप्रदालयतः तान् सर्वान् संछिन्द्य संभिन्द्य संकुट्ट्य संप्रदाल्य एकमांसखलं कुर्वतः मांसपिण्डं मांसपुञ्जं मांसराशिम्; इदं प्रतिसंशिक्षतो नास्त्य् अतोनिदानं पापं नास्त्य् अतोनिदानं पापस्यागमः दक्षिणेन नदीं गङ्गां छिन्दन् भिन्दन् वागच्छेद् उत्तरेण वा नद्या गंगाया ददद् व्यजमानाः आगच्छेन् नास्त्य् अतोनिदानं पुण्यपापं; नास्त्य् अतोनिदानं पुण्यपापस्यागमः; यदुत दानेन दमेन संयमेन अर्थचर्यया समानार्थतया इति कुर्वता न क्रियत एव पुण्यम् इति
22. तद्यथा भदन्त पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव सः; मया सञ्जयी वैरट्टीपुत्रः सान्दृष्टिकं श्रामण्यफलं प्रश्नं पृष्टः अक्रियाम् एव व्याकार्षीत्; तस्य मम एतद् अभवत्; कथम् इदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहं सञ्जयिनो वैरट्टीपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः
अजित केशकम्बलऽस् थेओर्य्
23. सो ऽहं येन अजितः केशकम्बलस् तेनोपसंक्रान्तः; उपसंक्रम्य अजितं केशकम्बलम् इदम् अवोचम्: इमे भदन्त अजित पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् ( स्ब्व् इइ 224 )
24. एवम् उक्तः अजितः केशकम्बलः माम् इदम् अवोचत्: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; सप्त इमे कायाः अकृताः अकृतकृताः अनिर्मिताः अनिर्माणकृताः अवध्याः कूटस्थाः इषीकावद् अवस्थितः; कतमे सप्त तद्यथा पृथिवीकायः अप्कायः तेजःकायः वायुकायः सुखं दुःखं जीवजीवम् एव सप्तमम् इतीमे सप्त कायाः अकृताः अकृतकृताः अनिर्मिताः अनिर्माणकृताः अवध्याः कूटस्थाः इषीकावद् अवस्थितः; ते नेञ्जन्ति; न परिणमन्ति; नान्योन्यं व्याबाधन्ते पुण्याय वा पापाय वा; पुण्यपापाय वा; सुखाय वा दुःखाय वा; सुखदुःखाय वा; यो ऽप्य् असौ पुरुषः पुरुषस्य शिरश् छिनत्ति सो ऽपि न किंचिल् लोके व्याबाधते त्रसं वा स्थावरं वा सप्तानां कायानां विवरम् अन्तरेण शस्त्रं व्यतिवर्तते; न चात्र जीवो वध्यते; तत्र नास्ति कश्चिद् हन्ता वा घातयिता वा ( अ 506अ ) छेत्ता वा छेदयिता वा; स्मर्ता वा स्मारयिता वा; चोत्ता वा चोदयिता वा; विज्ञप्ता वा विज्ञापयिता वा; चतुर्दशेमानि योनिप्रमुखसहस्राणि षष्टिसहस्राणि महाप्रतिपदः षट् शतानि पञ्च च कर्माणि त्रीणि च कर्माणि द्वे च कर्मणी कर्म च अर्धकर्म च द्वाषष्टिः कर्माणि द्वाषष्टिः अन्तरप्रतिपदः सप्त संज्ञाः विंशत्यधिकं नरकशतं त्रिंशदधिकम् इन्द्रियशतं षट्त्रिंशद् रजोधातवः एकान्नपञ्चाशन् नागकुलसहस्राणि एकान्नपञ्चाशत् सुपर्णिकुलसहस्राण्य् एकान्नपञ्चाशद् आजीवकुलसहस्राण्य् एकान्नपञ्चाशद् अचेलकुलसहस्राण्य् एकान्नपञ्चाशन् निग्रन्थकुलसहस्राण्य् सप्त संज्ञिकल्पाः सप्त ( स्ब्व् इइ 225 ) असंज्ञिकल्पाः सप्त सुराः सप्त पैशाचाः सप्त आदित्याः सप्त मानुषाः सप्त सरांसि सप्त सरश्शतानि सप्त अपायाः सप्त अपायशतानि सप्त स्वप्नाः सप्त स्वप्नशतानि सप्त प्रबुद्धाः सप्त प्रबुद्धशतानिसप्त प्रपाताः सप्त प्रपातशतानि षड् अभिजातयो दश अभिवृद्धयः अष्टौ महापुरुषभूमयः इति; इमानि चतुरशीतिर् महाकल्पसहस्राणि यानि बालश् च पण्डितश् च संधाव्य संसृत्य दुःखस्यान्तं कुरुतः; तद्यथा लघुसूत्रगुडकम् उपरि विहायसा क्षिप्तं यावत् पृथिवीम् उद्वेष्ट्यमानं परैत्य् एवम् एवैतानि चतुरशीतिर् महाकल्पसहस्राणि यानि बालश् च पण्डितश् च संधाव्य संसृत्य दुःखस्यान्तं कुरुतः; तत्र नास्ति कश्चित् श्रमणो वा ब्राह्मणो वा य एवं वदेत्: अहम् अनेन शीलेन वा व्रतेन वा तपसा वा ब्रह्मचर्यवासेन वा अपरिपक्वं वा कर्म परिपाचयिष्यामि परिपक्वं वा कर्म स्पृष्ट्वा वान्तीकरिष्यामि; ध्रुवम् इदं सुखदुःखम्; उत्कर्षापकर्षौ न प्रज्ञायेते; एवं वा नो वा तुलितः संसारः इति
25. तद्यथा भदन्त पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव अजितः केशकम्बलः सान्दृष्टिकं श्रामण्यफलं पृष्टः संसारशुद्धताम् एव व्याकार्षीत्; तस्य मम एतद् अभवत्; कथम् इदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहम् अजितस्य केशकम्बलस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः
निर्ग्रन्थ ज्ञातिपुत्रऽस् थेओर्य्
26. सो ऽहं येन निर्ग्रन्थो ज्ञातिपुत्रः तेनोपसंक्रान्तः; उपसंक्रम्य निर्ग्रन्थं ज्ञातिपुत्रम् इदम् अवोचम्: इमे भदन्त ( स्ब्व् इइ 226 ) ज्ञातिपुत्र पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम्
27. ( अ 506ब् ) स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; यत् किंचिद् अयं पुरुषपुद्गलः प्रतिवेदयते सर्वं तत् पूर्वहैतुकम् इति पुराणानां कर्मणां तपसा वान्तीभावः; नवानां कर्मणाम् अकरणसतुसमुद्घातः; एवम् आय्त्याम् अनवस्रवः; अनवस्रवात् कर्मक्षयः; कर्मक्षयाद् दुह्खक्षयः; दुःखक्षयाद् दुःखस्यान्तक्रिया भवति इति
28. तद्यथा भदन्त पुरुषः आम्राणि पृष्टो लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव मया भदन्त निर्ग्रन्थो ज्ञातिपुत्रः सान्दृष्टिकं श्रामण्यफलं पृष्टः पूर्वकृतहेतुताम् एव व्याकार्षीत्; तस्य मम भदन्त एतद् अभवत्; न मम प्रतिरूपं स्याद् यद् अहं साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेयम् इति; सो ऽहं निर्ग्रन्थस्य ज्ञातिपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः
ककुद कात्यायनऽस् थेओर्य्
29. सो ऽहं येन ककुदः कात्यायनस् तेनोपसंक्रान्तः; उपसंक्रम्य ककुदं कात्यायनम् इदम् अवोचम्: इमे भदन्त कात्यायन पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम्
30. एवम् उक्तः ककुदः कात्यायनओ माम् इदम् अवोचत्: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; यदि मां कश्चिद् उपसंक्रम्य एवं पृच्छेद्: अस्ति परलोक इति तस्य च स्याद् अस्ति परलोक इति तस्याहम् अस्ति परलोक इति प्रश्नं पृष्टो व्याकुर्यां नास्ति परलोकः अस्ति च नास्ति च नैवास्ति न नास्ति परलोक एवं वा नो वा अन्यथा वा न वा नो वा न वा नो वा न त्व् इति वा नो वा परलोक इति तस्य च स्यान् ( स्ब्व् इइ 227 ) न वा नो वा न न्व् इति वा नो वा परलोक इति तस्याहं न वा नो वा न न्व् इति वा नो वा प्रश्नं पृष्टो व्याकुर्याम् इति
31. सो ऽहं भदन्त चिन्तयामि एतद्: ये केचिद् अस्मिन् राजगृहे प्रव्रजितसमापन्नाः प्रतिवसन्ति अयं तेषां मूर्खतरश् च जडतरश् च स्थपिण्डतरश् च यदुत ककुदः कात्यायनः इति; तस्य मम एतद् अभवत्; न मम प्रतिरूपं स्याद् यद् अहं साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेयम् इति; सो ऽहं ककुदस्य कात्यायनस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः
अजातशत्रु प्रोपोउन्द्स् थे qउएस्तिओन् तो थे बुद्ध
32. सो ऽहं भगवन्तम् एतम् अर्थं परिपृच्छामि यद् इमे भदन्त पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् ? ( अ 507अ )
बुद्धऽस् रेप्ल्य्
33. तेन हि महाराज त्वाम् एव प्रक्ष्यामि; यथा ते क्षमते तथैवं व्याकुरु; तद्यथा महाराज इह ते दासः स्यात् प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः; स त्वां पश्येद् उपरिप्रासादतलगतं पंचभिः कामगुणैः समर्पितं समन्वङ्गीभूतं निष्पुरुषेण तूर्येण क्रीडन्तं रममाणं परिचारयन्तं; दृष्ट्वा च पुनर् अस्यैवं स्याद्: राजा मागधः अजातशत्रुर् वैदेहीपुत्रः पुरुषः; अहम् अपि पुरुषः; नान्यत्र राजा मागधः अजातशत्रुर् ( स्ब्व् इइ 228 ) वैदेहीपुत्रः पूर्वं कृतत्वात् पुण्यानाम् उपचितत्वाद् एतर्ह्य् उपरिप्रासादतलगतः निष्पुरुषेण तूर्येण क्रीडति रमते परिचारय्ति; यन्न्व् अहं कंचिद् एव कुशलं धर्मं समादाय वर्तेय; कं पुनर् अहं कुशलं धर्मं समादाय वर्तेय? यन्न्व् अहं केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेयम् इति स इदं प्रतिसङ्ख्याय केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजति; यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति; अदत्तादानम् अब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय मिथ्यादृष्टेः प्रतिविरतः स्यात्; तेन एनं पश्येयुस् तव पौरुषेयाः जानपदा अन्वाहिण्डमानाः; दृष्ट्वा च पुनर् एषाम् एवं स्याद्: अयं स राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य दासः प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; स यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति; अदत्तादानम् अब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय मिथ्यादृष्टेः प्रतिविरतो भवति सम्यग्दृष्टिकः; यन्नु वयं राज्ञो गत्वा आरोचयेम इति; ते तवागम्य आरोचयेयुः यत् खलु देव जानीयाः यो ऽसौ देवस्य दासः प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः स केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया ( अ 507ब् ) अगाराद् अनगारिकां प्रव्रजितः; स यावज्जीवं प्रहाय प्राणातिपातं प्राणातिपातात् प्रतिविरतः; अदत्तादानम् अब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय सम्यग्दृष्टिकः इति; तत् किं मन्यसे महाराज अपि नु त्वम् एवं वदेः? गच्छन्तु भवन्तः; तं पुरुषम् आनयन्तु; पुनर् अपि मे दासो भविष्यति प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः इति
34. नो भदन्त; नान्यत्र अहं दर्शनायास्य उपसंक्रमेयं; यच् च मे पूर्वम् अभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म अकार्षीत् तद् अहम् एव तस्य कुर्यां; यावज्जीवं चैनं प्रवारयेयं यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ( स्ब्व् इइ 229 )
तत् किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं भवति; सान्दृष्टिकं श्रामण्यफलम्
तथ्यं भदन्त; एवं दर्शितं भगवता सान्दृष्टिकं श्रामण्यफलम्
35. तद्यथा महाराज इह ते स्यात् कर्षको गृहपतिः आदायकः पोषको राजकोशसंवर्धकः; स त्वां पश्येद् उपरिप्रासादतलगतं पंचभिः कामगुणैः समर्पितं समन्वङ्गीभूतं निष्पुरुषेण तूर्येण क्रीडन्तं रममाणं परिचारयन्तं; दृष्ट्वा च पुनर् अस्य एवं स्याद्: अयं राजा मागधः अजातशत्रुर् वैदेहीपुत्रः पुरुषः; अहम् अपि पुरुषः; नान्यत्र राजा मागधः अजातशत्रुर् वैदेहीपुत्रः पूर्वं कृतत्वात् पुण्यानाम् उपचितत्वाद् एतर्ह्य् उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारय्ति; यन्न्व् अहं कंचिद् एव कुशलं धर्मं समादाय वर्तेय; कं पुनर् अहं कुशलं धर्मं समादाय वर्तेय? यन्न्व् अहं केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेयम् इति स इदं प्रतिसङ्ख्याय केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजति; यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति; अदत्तादानम् अब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय मिथ्यादृष्टेः प्रतिविरतः स्यात्; तेन एनं पश्येयुस् तव पौरुषेयाः जानपदाः अन्वाहिण्डमानाः; दृष्ट्वा च पुनर् एषाम् एवं स्याद्: अयं स राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य कर्षको गृहपतिः आदायकः पोषकः राजकोशसंवर्धकः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; स यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतः; अदत्तादानम् अब्रह्मचर्यं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय मिथ्यादृष्टेः प्रतिविरतो भवति सम्यग्दृष्टिकः; यन्नु वयं राज्ञो गत्वा आरोचयेम इति; ते तवागम्य आरोचयेयुः यत् खलु देव जानीयाः यो ऽसौ देवस्य कर्षको गृहपतिः आदायकः पोषकः राजकोशसंवर्धकः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; स यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतः; अदत्तादानम् अब्रह्मचर्यं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय मिथ्यादृष्टेः प्रतिविरतो भवति सम्यग्दृष्टिकः इति; तत् किं मन्यसे महाराज अपि नु त्वम् एवं वदेः? गच्छन्तु भवन्तः; तं पुरुषम् आनयन्तु; पुनर् अपि मे ( स्ब्व् इइ 230 ) कर्षको भविष्यति आदायकः पोषकः ( अ 508अ ) राजकोशसंवर्धकः इति
36. नो भदन्त; नान्यत्र अहम् एवास्य दर्शनायोपसंक्रमेयं; यच् च मे पूर्वम् अभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म अकार्षीत् तद् अहम् एवास्य कुर्यां; यावज्जीवं चैनं प्रवारयेयं यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः
तत् किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सान्दृष्टिकं श्रामण्यफलम्
तथ्यं भदन्त; एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्
37. इह महाराज शास्ता लोक उत्पद्यते तथागतो ऽर्हन् सम्यक्संबुद्धः विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स धर्मं देशयति, आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं; ब्रह्मचर्यं प्रशासयति; तं धर्मं शृणोति गृहपतिर् वा गृहपतिपुत्रो वा; स तं धर्मं श्रुत्वा शास्तुः त्रिषु स्थानेषु विशुद्धिं समन्वेषते यदुत लोभधर्मे द्वेषधर्मे मोहधर्मे: किं न्व् अस्त्य् अस्यायुष्मतः स लोभः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन लोभेनाभिभूतः पर्यात्तचित्तो ऽजानक एव सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; आहोस्विन् नास्त्य् अस्यायुष्मतः स लोभः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन लोभेनाभिभूतः पर्यात्तचित्तो ऽजानक एव सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; तस्यैवं भवति; नास्त्य् आयुष्मतः स लोभः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन लोभेनाभिभूतः पर्यात्तचित्तो ऽजानक एव सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; तत् कस्य हेतोः? ते ह्य् अस्यायुष्मतः कायसंस्काराः वाक्संस्काराः मनःसंस्काराः ( स्ब्व् इइ 231 ) अलुब्धस्य; अयं च एष धर्मं भाषते संक्षिप्तेन वा विस्तरेण वा; शान्तो ऽस्य धर्मः प्रणीतः गम्भीरो गम्भीरावभासः, दुर्दृशः दुरनुबोधः अतर्क्यः अतर्क्यावचरः सूक्ष्मनिपुणपण्डितविज्ञवेदनीयः; स चानेनायुष्मता न सुकरम् आज्ञातुं यथापितद् एकान्तलुब्धेन; अलुब्धो ऽयम् आयुष्मान्; नायम् आयुष्मान् लुब्धः; यदा चैनम् अस्मिन् प्रथमे लोभधर्मे विशुद्धिं समनुपश्यति; अथैनम् उत्तरे समन्वेषते, द्वितीये द्वेषधर्मे तृतीये मोहधर्मे; किम् न्व् अस्यायुष्मतः स मोहः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन मोहेनाभिभूतः पर्यात्तचित्तः अजानक एव सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय ( अ 508ब् ) अहिताय दुःखाय; आहोस्विन् नास्त्य् अस्यायुष्मतः स मोहः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन मोहेनाभिभूतः पर्यात्तचित्तः अजानक सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; तस्यैवं भवति; नास्त्य् अस्यायुष्मतः स मोहः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन मोहेनाभिभूतः पर्यात्तचित्तः अजानक एव सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; तत् कस्य हेतोः? ते ह्य् अस्यायुष्मतः कायसंस्काराः वाक्संस्काराः मनःसंस्काराः अमूढस्य; अयं चैष धर्मं भाषते सम्क्षिप्तेन वा विस्तरेण वा; शान्तो ऽस्य धर्मः प्रणीतः गम्भीरः गम्भीरावभासः, दुर्दृशो दुरनुबोधः अतर्क्यः अतर्क्यावचरः सूक्ष्मनिपुणपण्डितविज्ञवेदनीयः; स चानेन आयुष्मता न सुकरम् आज्ञातुं यथापितद् एकान्तमुधेन; अमूढो ऽयम् आयुष्मान्; नायम् आयुष्मान् मूढः; यदा चैनम् अस्मिन् तृतीये मोहधर्मे विशुद्धिं समनुपश्यति; अथात्र आकारवतीं श्रद्धाम् अभिनिवेदयति; श्रद्धाजातः इदं प्रतिसंशिक्षते; संबाधो गृहावासः रजसाम् आवासः; अभ्यवकाशं च प्रव्रज्या; तद् इदं न सुकरं गृहिणा अगारम् अध्यावसता एकान्तशङ्खलिखितं, यावज्जीवं केवलं ( स्ब्व् इइ 232 ) परिपूर्णं परिशुद्धं पर्यवदातं; ब्रह्मचर्यं चरितुं; यन्न्व् अहं केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेयं; स इदं प्रतिसङ्ख्याय प्रभूतं वा अल्पं वा धनस्कन्धं प्रहाय प्रभूतं वा अल्पं वा ज्ञातिपरिवर्तितं प्रहाय केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजति स एवं प्रव्रजितः सन् शीलवान् विहरति; प्रातिमोक्षसंवरसम्वृतः आचारगोचरसंपन्नः अणुमात्रेष्व् अवद्येषु भयदर्शी समादापयति, शिक्षते शिक्षापदेषु; स प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति; न्यस्तदण्डः न्यस्तशस्त्रः लज्जी दयावान् सर्वसत्वप्राणिभूतेष्व् अन्ततः कुन्तपिपीलकप्राणिनम् उपादाय प्राणातिपातात् प्रतिविरतो भवति
38. स अदत्तादानं प्रहाय अदत्तादानात् प्रतिविरतो भवति; दत्तादायी दत्तरतः दत्तत्यक्तमुक्तप्रतिकाङ्क्षी अस्तेनम् अलोलुपं शुद्धं शुचिम् आत्मानं परिहरन् अनवद्यम् अदत्तादानात् प्रतिविरतो ( अ 509अ ) भवति; स अब्रह्मचर्यं प्रहाय अब्रह्मचर्यात् प्रतिविरतो भवति; ब्रह्मचारी कुचर्याविरतः, शुद्धः शुचिः निरामगन्धः, विरतो मैथुनाद् अपेतो ग्राम्यधर्माद् अब्रह्मचर्यात् प्रतिविरतो भवति
39. स मृषावादं प्रहाय मृषावादात् प्रतिविरतो भवति; सत्यवादी सत्यरतः श्रद्धितः प्रत्ययितः स्थेयः अविसंवादको लोकस्य मृषावादात् प्रतिविरतो भवति; स न एषां श्रुत्वा तेषाम् आरोचयति, तेषां भेदाय; तेषां वा श्रुत्वा नैषाम् आरोचयति एषां भेदाय इति; भिन्नानां सन्धाता भवति; समग्राणां चानुप्रदाता; समग्रारामः समग्ररतः समग्रकरणीं वाचं भाषते; पैशुन्यात् प्रतिविरतो भवति; पारुष्यं प्रहाय पारुष्यात् प्रतिविरतो भवति; स या इयं वाग् बाधका; कर्कशा परकटुका पराभिषङ्गिणी बहुजनानिष्टा बहुजनाकान्ता बहुजनाप्रिया बहुजनामनापा असमाहिता असमाधिसंवर्तनीया इत्येवंरूपं वाचं प्रहाय येयं वाग् नेला, कर्णमुखहृदयंगमा प्रेमणीया पौरी वल्गुविस्पष्टा विज्ञेया अनिश्रिता अप्रतिकूला अपर्यादत्ता बहुजनेष्टा बहुजनकान्ता बहुजनप्रिया बहुजनमनापा समाहिता समाधिसंवर्तनी इत्येवंरूपं ( स्ब्व् इइ 233 ) वाचं भाषते; पारुष्यात् प्रतिविरतो भवति, स च भवति कालवादी भूतवादी तत्ववादी अर्थवादी धर्मवादी निशाम्यवादी; निशाम्यवतीं वाचं भाषते काले न विप्रकीर्णां सावदानां सोपदेशां धर्म्याम् अर्थोपसंहितां; संभिन्नप्रलापात् प्रतिविरतो भवति
40. ### स वधबन्धनछेदनताडनपरामर्शं प्रहाय वधबन्धनछेदनताडनपरामर्शात् प्रतिविरतो भवति आलोकसहागारशय्यां प्रहाय आलोकसहागारशय्यातः प्रतिविरतो भवति, स क्षेत्रवस्तुगृहवस्त्वापणवस्तुपरिग्रहं प्रहाय क्षेत्रवस्तुगृहवस्त्वापणवस्तुपरिग्रहात् प्रतिविरतो भवति; हस्त्यश्वगवेडककुक्कुटसूकरप्रतिग्रहं प्रहाय हस्त्यश्वगवेडककुक्कुटसूकरप्रतिग्रहात् प्रतिविरतो भवति; स दासीदासकर्मकरपौरुषेयप्रतिग्रहं प्रहाय दासीदासकर्मकरपौरुषेयप्रतिग्रहात् प्रतिविरतो भवति; स स्त्रीपुरुषदारकदारिकाप्रतिग्रहं प्रहाय स्त्रीपुरुषदारकदारिकाप्रतिग्रहात् प्रतिविरतो भवति; स जातरूपरजतप्रतिग्रहं प्रहाय जातरूपरजतप्रतिग्रहात् प्रतिविरतो भवति; आमधान्यप्रतिग्रहं प्रहाय आमधान्यप्रतिग्रहात् प्रतिविरतो भवति; स एकभक्तिको भवति; स रात्र्युपरतः; विरतोत्कालभोजनः कालचारी कालचर्यायोगम् अनुयुक्तः; स कायपारिहारिकेण चीवरेण तुष्टो भवति संतुष्टः; कुक्षिपारिपूरिकेण ( अ 509ब् ) पिण्डपातिकेन तुष्टो भवति संतुष्टो; येन येन प्रक्रामति सपात्रचीवरः प्रक्रामति; तद्यथा पक्षी शकुनको येन येनोड्डयते सपक्षः सपलाशः उड्डयते; एवम् एव स कायपारिहारिकेण चीवरेण तुष्टः ( स्ब्व् इइ 234 ) संतुष्टः कुक्षिपारिपूरिकेण पिण्डपातेन तुष्टः संतुष्टः येन येन प्रक्रामति सपात्रचीवरः प्रक्रामति
41 यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधबीजग्रामभूतग्रामसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा मूलबीजे स्कन्धबीजे अग्रबीजे स्फुटबीजे बीजबीजे एव पंचमे इत्य् अप्य् एवंरूपात् श्रमणो विविधबीजग्रामभूतग्रामसमारम्भानुयोगात् प्रतिविरतो भवति
42. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधसन्निधिसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा अन्नसन्निधौ पानसन्निधौ वस्त्रसन्निधौ गन्धसन्निधौ माल्यसन्निधौ पत्रसन्निधौ पुष्पसन्निधौ फलसन्निधौ इत्य् अप्य् एवंरूपाद् विविधसन्निधिसमारम्भानुयोगात् प्रतिविरतो भवति
43. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य उच्चशयनमहाशयनसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा आसन्द्यां पर्यङ्के पट्टिकायां गोणिकायां तूलिकायां बृहतिकायां चित्रिकायां पटलिकायां हस्त्यास्तरणे अश्वास्तरणे एकान्तरोमे उच्चरोमे अधोरोमे स्कन्धरोमे कालिङ्गप्रावरणे प्रत्यास्तरणे सोत्तरोच्छदनपटे उभयान्तलोहितोपधाने इत्य् अप्य् एवंरूपात् श्रमणः उच्चशयनमहाशयनसमारम्भानुयोगात् प्रतिविरतो भवति
44. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधमण्डनसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा उत्सदने स्नपने परिमर्दने मालागन्धविलेपने वर्णसंधारणे नखलिखने दन्तपरिमर्जने मुखालेपने मुखादर्शे शिखाबन्धे नाडे दण्डे छत्रे खड्गे वालव्यजने चित्रे चोपानहौ अहतानि च वस्त्राणि नवानि दीर्घदशानि ( स्ब्व् इइ 235 ) धारणजातीयानि भवन्ति इत्य् अप्य् एवंरूपात् श्रमणो विविधमण्डनसमारम्भानुयोगात् प्रतिविरतो भवति
45. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधदर्शनसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा हस्तियुद्धे अश्वयुद्धे रथयुद्धे पत्तियुद्धे यष्टियुद्धे मुष्टियुद्धे ऋषभयुद्धे महिषयुद्धे अजयुद्धे मिण्ढकयुद्धे कुक्कुटयुद्धे वर्तकयुद्धे लावकयुद्धे कुक्कुटवर्तकलावकयुद्धे स्त्रीयुद्धे पुरुषयुद्धे दारकयुद्धे दारिकयुद्धे अट्टालवंशे शोभितनगरे उत्सन्तिकायां ध्वजाग्रे बलग्रे व्यूढे सेनिकादर्शने महासमाजं वा द्रष्टुम् इच्छन्ति एके इत्य् अप्य् एवंरूपात् ( अ 510अ ) श्रमणो विविधदर्शनसमारम्भानुयोगात् प्रतिविरतो भवति
46. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधशब्दश्रवणसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा हस्तिशब्दे अश्वशब्दे रथशब्दे शङ्खशब्दे पटहशब्दे आडम्बरशब्दे भेरीशब्दे नृत्तशब्दे गीतशब्दे वादित्रशब्दे वाचकशब्दे अच्छटाशब्दे पाणिस्वरे कुम्भतूणीरे कवतीकावेये चित्राक्षरे चित्रपदव्यञ्जने लोकायतप्रतिसङ्घुष्टे आख्यायिकायां वा श्रोतुम् इच्छन्ति एके इत्य् अप्य् एवंरूपात् विविधशब्दश्रवणसमारम्भानुयोगात् प्रतिविरतो भवति
47. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधाक्षकवञ्चकद्यूतसमारम्भानुयोगम् अनुयुक्ता ( स्ब्व् इइ 236 ) विहरन्ति; तद्यथा अष्टापदे दशपदे आकर्षणे परे घटिके चले मुष्कले अक्षवङ्कानुचरिते शलाकाहस्ते यथापि वा प्रयोजयन्ति एके इत्य् अप्य् एवंरूपात् श्रमणो वञ्चकद्यूतसमारम्भानुयोगात् प्रतिविरतो भवति
48. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधकथासामरम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा राजकथायां चोरकथायं युद्धकथायम् अन्नकथायां पानकथायां वस्त्रकथायां वीथीकथायां वेश्यकथायां कुमारिकाख्यानकथायां समुद्राख्यानकथायां लोकाख्यानकथायां जनपदमहामात्राख्यानकथायाम् इत्य् अप्य् एवंरूपात् श्रमणो विविधकथासमारम्भानुयोगात् प्रतिविरतो भवति
49. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधविगृह्यकथासामारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा न त्वम् एनं धर्मविनयम् आजानासि; अहम् एनं धर्मविनयम् आजानामि; यथा अन्वहम् एनं धर्मविनयम् आजानामि; यथा नान्वहम् एनं धर्मविनयम् आजानासि; युक्तं मम; अयुक्तं तव; सहितं मम; असहितं तव; पूर्वं वचनीयं पश्चाद् अवोचत्; पश्चाद् वचनीयं पूर्वम् अवोचत्; अतितूर्णं ते परामृष्टम्; आरोपितस् ते वादः वादार्थाय; अपहर वादं वादविप्रमोक्षाय; गृहीतो ऽसि निर्वेठय; सचेद् उत्तरं प्रजानासि ब्रूहि पृष्टः इत्य् अप्य् एवंरूपात् श्रमणो विविधविगृह्यकथासमारम्भानुयोगात् प्रतिविरतो भवति
50. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य दूतगमनसंप्रेषणमिथ्याजीवेन जीविकां कल्पयन्ति ( स्ब्व् इइ 237 ) ते राज्ञां राजामात्याणां ब्राह्मणानां नैगमानां जानपदानां श्रेष्ठिनां सार्थवाहानां मितौपौ ### इह आह्वय अमुत्र प्रेषय इह प्रेषय अमुत्र आह्वय इत्य् अप्य् एवंरूपात् श्रमणो दूतगमनसंप्रेषणमिथ्याजीवात् प्रतिविरतो भवति
51. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य कुहकाश् च भवन्ति लपकाश् च नैमित्तिकाश् च नैष्पेषिकाश् च लाभेन लाभं निश्चिकीर्षन्ते ( अ 510ब् ) ते कुहनलपननैमित्तिकनैष्पेषिकलाभेन लाभनिश्चिकीर्षकत्वेन जीविकां कल्पयन्ति इत्य् अप्य् एवंरूपात् श्रमणो विविधकुहनन्लपननैमित्तिकनैष्पेषिकलाभेन लाभनिश्चिकीर्षणात् प्रतिविरतो भवति
52. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा उत्पाते व्रणलक्षणे स्वप्नलक्षणे अग्निदग्धे दकस्पृष्टे मूषिकच्छिन्ने आवेशने स्वरविचये सर्वभूतरुते अङ्गविद्यायां वास्तुविद्यायां शुकविद्यायां शकुनविद्यायां प्रयोजयन्ति एके इत्य् अप्य् एवंरूपात् श्रमणः तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति
53. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा नक्षत्राणां संप्रयोगे मुहूर्तानाम् अभ्युत्थाने शवपरीक्षायां पत्रकर्मणि शान्तिकर्मणि भूतकर्मणि पुष्टिकर्मणि प्रणिधिकर्मणि लिपिकर्मणि गणने न्यसने सङ्ख्यायां मुद्रायां ( स्ब्व् इइ 238 ) मार्गदर्शविद्यायां प्रयोजयन्ति एके इत्य् अप्य् एवंरूपात् श्रमणः तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति
54. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा चिकित्सायां मूलभैषज्ये अञ्जनानुप्रदाने ### नुप्रादाने रसानुप्रदाने स्त्रीचिकित्सायां पुरुषचिकित्सायां कुमारचिकित्सायां कुमारिकाचिकित्सायाम् ओषधीर् वा प्रयोजयन्ति इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति
55. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा मणिलक्षणे दण्डलक्षणे असिलक्षणे इषुलक्षणे आयुधलक्षणे हस्तिलक्षणे अश्वलक्षणे ऋषभलक्षणे महिषलक्षणे अजलक्षणे मिण्ढकलक्षणे अविलक्षणे कुक्कुटलक्षणे वर्तकलक्षणे ### लक्षणे स्त्रीलक्षणे पुरुषलक्षणे कुमारलक्षणे कुमारिकालक्षणे अल्पायुर्लक्षणे दीर्घायुर्लक्षणे अल्पभागलक्षणे महाभागलक्षणे अल्पपुण्यलक्षणे महापुण्यलक्षणे अल्पेशाख्यलक्षणे महेशाख्यलक्षणे आर्यलक्षणे दासलक्षणे इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति
56. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा आजवने जवने ऊर्ध्वविरेचने अधोविरेचने नस्तेकर्मणि (?) धूमपाने स्वेदपरिकर्मणि आमाध्याशये पक्वाध्याशये ### पिटकाध्याशये चक्रे वायसमण्डले हनुसंहनने जिह्वानिकृन्तने वेताडार्धवेतादं वा प्रयोजयन्ति ( स्ब्व् इइ 239 ) एके इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति
57. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन ( अ 511अ ) जीविकां कल्पयन्ति; तद्यथा वहने आवाहने विवाहने आमोहने संमोहने उच्चाटने मारणे सुखकरणे दुःखकरणे दर्भहोमे तिलहोमे तण्डुलहोमे धनहोमे धान्यहोमे मुद्गहोमे माषहोमे द्रव्यहोमे अग्निहोमे आदित्योपस्थाने नक्षत्रोपस्थाने देवतोपस्थाने महाप्रस्थानं वा प्रयोजयन्ति एके इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति
58. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा भयं भविष्यति क्षेमं भविष्यति दुर्भिक्षं भविष्यति सुभिक्षं भविष्यति दुर्वृष्टिर् भविष्यति सुवृष्टिर् भविष्यति ईतिर् भविष्यति अनीतिर् भविष्यति इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति
59. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा अभ्यन्तराणां राज्ञां जयो भविष्यति बाह्यकानां पराजयः बाह्यकानां राज्ञां जयो भविष्यति आभ्यन्तराणां पराजयः आभ्यन्तराणां राज्ञाम् अपयानं भविष्यति बाह्यकानां निर्याणं बाह्यकानाम् अपयानं भविष्यति आभ्यन्तराणां निर्याणम् इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति
60. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा एवंविरूपौ पथा सूर्याचन्द्रमसौ गच्छतः एवंविरूपाव् उत्पथा सूर्याचन्द्रमसौ गच्छतः एवंविरूपका पथा सूर्याचन्द्रग्रहाः ( स्ब्व् इइ 240 ) उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयः अतिनदन्ति उत्पथा सूर्याचन्द्रग्रहाः उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयः अतिनदन्ति; अनयोर् वा सूर्याचन्द्रमसोर् एवंमहर्धिकयोर् एवंमहानुभावयोर् उद्गमनागमनसंक्लेशव्यवदानव्यवस्थानविशुद्धिर् न प्रज्ञायते यदुत पथा अप्य् उत्पथापि इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति
61. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा एवंविपाकौ पथा सूर्याचन्द्रमसौ गच्छतः एवंविपाकाव् उत्पथा सूर्याचन्द्रमसौ गच्छतः एवंविपाकाः पथा सूर्यग्रहः चन्द्रग्रहः उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयो अतिनदन्ति एवंविपाका उत्पथा सूर्यग्रहश् चन्द्रग्रहः उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयो ऽतिनदन्ति; अनयोर् वा सूर्याचन्द्रमसोर् एवंमहर्धिकयोर् एवंमहानुभावयोर् उद्गमनागमनसंक्लेशव्यवदानव्यवस्थानविशुद्धिर् न प्रज्ञायते यदुत पथा अप्य् उत्पथापि इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति
62. सो ऽनेन आर्येण शीलस्कन्धेन समन्वागतः अध्यात्मम् अनवद्यसुखं प्रतिवेदयते; स इन्द्रियैर् गुप्तद्वारो भवति; निपकस्मृतिर् गुप्तस्मृतिमानसः ( अ 511ब् ) सहावस्थावचारकः; स चक्षुषो रूपाणि दृष्ट्वा न निमित्तग्राही भवति; नानुव्यञ्जनग्राही; यतो ऽधिकरणम् एव चक्षुरिन्द्रियेण असंवरसंवृतस्य विहरतः अभिध्यादौर्मनस्ये लोके पापका अकुशला धर्माश् चित्तम् अनुस्रवन्ति; तेषां संवराय प्रतिपद्यते; रक्षति चक्षुरिन्द्रियं; चक्षुरिन्द्रियेण संवरम् आपद्यते; श्रोत्रेन्द्रियेण शब्दान् घ्राणेन्द्रियेण गन्धान् जिह्वया रसान् कायेन स्प्रष्टव्यानि मनसा धर्मान् विज्ञाय न निमित्तग्राही नानुव्यञ्जनग्राही; यतो ऽधिकरणम् एव मनैन्द्रियासंवरसंवृतस्य विहरतः अभिध्यादौर्मनस्ये लोके पापका अकुशला धर्माश् चित्तम् अनुस्रवन्ति; तेषां संवराय प्रतिपद्यते; रक्षति मनैन्द्रियं; मनैन्द्रियेण संवरं प्रतिपद्यते ( स्ब्व् इइ 241 )
63. सो ऽनेन आर्येण शीलस्कन्धेन समन्वागतः अनया च इन्द्रियगुप्तद्वारतया अध्यात्मम् अनवद्यसुखं संवेदयते; सो ऽतिक्रमप्रतिक्रमे संप्रजानविहारी भवति; आलोकितव्यवलोकिते समिञ्जितप्रसारिते संघाटीपात्रचीवरधारणे गते स्थिते निषण्णे शयिते जागरिते भाषिते तूष्णींभावे निद्राक्लमप्रतिविनोदने संप्रजानविहारी भवति; सो ऽनेन आर्येण शीलस्कन्धेन समन्वागतः अनया च इन्द्रियगुप्तद्वारतया अनेन च परमेण स्मृतिसंप्रजन्येन समन्वागतः अध्यात्मम् अव्याबाधसुखं प्रतिसंवेदयते; सो ऽनेन आर्येण शीलस्कन्धेन समन्वागतः अनया च इन्द्रियगुप्तद्वारतया अनेन च परमेण स्मृतिसंप्रजन्येन समन्वागतः प्रान्तानि शयनासनान्य् अध्यावसति अरण्यानि वृक्षमूलानि शून्यागाराणि; सो ऽरण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा निषीदति पर्यंकम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य; सो ऽभिध्यां लोके प्रहाय विगताभिध्येन चेतसा बहुलं विहरति; अभिध्यायाश् चित्तं परिशोधयति; व्यापादस्त्यानमिद्धम् औद्धत्यकौकृत्यविचिकित्सां लोके प्रहाय तीर्णकाङ्क्षो भवति; तीर्णविचिकित्साकांक्षः कुशलधर्मेषु विचिकित्सायाश् चित्तं परिशोधयति
64. तद्यथा महाराज पुरुषः ऋणम् आदाय कर्मान्तान् प्रयुञ्जीत तस्य ते कर्मान्ताः संपद्येरन्; स तस्मात् तच् च ऋणं शोधयेत्; अस्ति चास्य स्वापतेयमात्रा यावद् एव दाराणां पोषणार्था; तस्यैवं भवति: ऋणम् आदाय कर्मान्ताः प्रयुक्ताः; तस्य ते मे कर्मान्ताः संपन्नाः; न विपन्नाः; तेन मया तच् च ऋणं शोधितम्; अस्ति च मे स्वापतेयमात्रा यावद् एव दाराणां पोषणाय; स ततोनिदानम् अधिगच्छेत् सौमनस्यम्
65. तद्यथा पुरुषः आबाधिकः स्याद् दुःखी रोगी दुर्बलः; तस्य भोजनं भुक्तं न कायं छादयति; पानकं पीतं कुक्षिं च व्याबाधते; सो ऽपरेण समयेन सुखी स्याद् अरोगः बलवान्; तस्य भोजनं भुक्तं कायं छादयति; पानकं पीतं कुक्षिं न व्याबाधते; तस्य एवं स्याद्: अहम् अस्मि पूर्वम् आबाधिकः ( स्ब्व् इइ 242 ) दुःखी <रोगी दुर्बलः; मम भोजनं भुक्तं न कायं छादयति;> पानकं ( अ 512अ ) पीतं कुक्षिं न व्याबाधते; स ततोनिदानम् अधिगच्छेत् प्रामोद्यम्
66.तद्यथा पुरुषो <दासः स्यात् प्रेष्यो निर्देश्यो भुजिष्यो नयेनकामगः; सो ऽपरेण समयेन न दासः स्यात् प्रेष्यो भुजिष्यो नयेनकामगः; तस्य एवं स्याद्: अहम् अस्मि पूर्वं दासः प्रेष्यो निर्देश्यो> भुजिष्यो नयेनकामगः; सो ऽस्म्य् एतर्ह्य् अदासो <ऽप्रेष्यो> ऽभुजिष्यो ऽ<न>येनकामगः; स ततो<निदानम् अधिगच्छेत् प्रामोद्यम्
67. तद्यथा पुरुषो बन्धनागारे बद्धो पश्चाद्बाहुगाढबन्धनबद्धः; स च ततो मुक्तः स्वस्तिक्षेमाभ्याम् अव्ययेन; तस्यैवं स्याद्: यः पूर्वं बन्धनागारे बद्धो> पश्चाद्बाहुगाढबन्धनबद्धो ऽभूवं सो ऽहं ततो मुक्तः स्वस्तिक्षेमाभ्याम् अव्ययेन; स <ततोनिदानम् अधिगच्छेत् प्रामोद्यम्
68. तद्यथा पुरुषः सप्रतिभयो भूत्वा सुखी भवति; दुर्भिक्षं प्रतिपादयित्वा प्रतिपादयति सुभिक्षं; तस्यैवं स्याद्: अहम् अस्मि सुखी सप्रतिभयो भूत्वा; यस्य मे दुर्भिक्षम् अभूद् एतर्हि भवति> सुभिक्षं; स ततोनिदानम् अधिगच्छेत् सुखम् अधिगच्छेत् सौमनस्यम्
69. एवम् एव <महाराज> इमानि पंचवरणानि <तद्यथा ऋणं रोगं दास्यं बन्धनागारं कान्तारं प्रहाय समनुपश्यति; इमानि पंचवरणानि चित्तोपक्लेशकराणि> प्रहाय प्रज्ञादौर्बल्यकराणि विघाटपक्ष्याण्य् अनिर्वाणसंवर्तनीयानि विविक्तं कामैर् विविक्तं <पापकैर् अकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति; स इमम् एव कायं विवेकजं प्रीतिसुखेनाभिष्यन्दयति> परिष्यन्दयति परिप्रीणाति परिस्फरति; नास्य किंचित् सर्वतः कायाद् अस्फुटं <भवत्य् अस्फरणीयं ( स्ब्व् इइ 243 ) यदुत विवेकजेन प्रीतिसुखेन
70. तद्यथा दक्षिणो रजको रजकान्तेवासी वा ### स्नातचूर्णान्य् आकीर्य उदकेन> परिप्रोक्ष्य परिप्रोक्ष्य स्यन्दयेत्; स चास्य स्नात्रपिण्डी स्निग्धा स्नेहानुगता स्नेहपरीता स्फुटान्तर्बहिर्धा <न प्रघरति न निश्चरति; एवम् एव स इमम् एव कायं विवेकजेन प्रीतसुखेनाभिष्यन्दयति परिष्यन्दयति परिपरिप्रीणाति परिस्फरति; नास्य किंचित् सर्वतः कायाद् अस्फुटं भवत्य् अस्फरणीयं यदुत विवेकजं प्रीतिसुखेन
किं मन्यसे म<हाराज न त्व् एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्
71. स वितर्कविचाराणां व्युपशमाद्> अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् <उपसंपद्य विहरति; स इमम् एव कायं समाधिजेन प्रीतिसुखेनाभिष्यन्दयति परिष्यन्दयति परिप्रीणाति परिस्फरति; नास्य किंचित् सर्वतः> कायाद् अस्फुटं भवत्य् अस्फरणीयं यदुत समाधिजेन प्रीतिसुखेन
72. तद्यथा उपरिपर्वतं सं<### उदकह्रदो भवति; तस्य न पूर्वस्या न दक्षिणस्या न पश्चिमाया नोत्तरस्या दिशो उदकः प्रवहति; नात्र> ( अ 512ब् ) देवः कालेन कालं सम्यग् वारिधारान् अनुप्रयच्छेत; अन्यत्र तस्माद् एवोदकह्रदान् महान् <उदकाकोदा उदकशुल्पो वा सर्वं तम् उदकह्रदं शीतलेन वारिणाभिष्यन्दयेत् ( स्ब्व् इइ 244 ) परिष्यन्दयेत् परिपूरयेत् परिस्फरयेत्; न किंचित् सर्वत> उदकह्रदाद् अस्फुटं भवत्य् अस्फरणीयं यदुत शीतलेन वारिणा; एवम् एव स इमम् एव कायं समाधिजेन <प्रीतिसुखेनाभिष्यन्दयति परिष्यन्दयति परिप्रीणाति परिस्फरति; नास्य किंचित् सर्वतः कायाद् अस्फुटं भवत्य् अस्फरणीयं यदुत समाधिजेन> प्रीतिसुखेन
किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सान्दृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त <एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्
73. स प्रीतेर् विरागाद् उपेक्षको विहरति स्मृतः संप्रजानन् सुखं च कायेन> प्रतिसंवेदयते यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमान् सुखं विहरन्तीति निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति; स इमम् <एव कायं निष्प्रीतिकेन सुखेन अभिष्यन्दयति परिष्यन्दयति परिप्रीणाति परिस्फरति; नास्य किंचित् सर्वतः कायाद् अस्फुटं भवत्य् अस्फरणीयं> यदुत निष्प्रीतिकेन प्रीतिसुखेन
74. तद्यथा उत्पलानि वा पद्मानि वा कुमुदानि वा पुण्डरीकानि वा <उदके जातानि उदके वृद्धानि ### तिष्ठन्ति; तेषाम् अग्रतो मूलतश् ### न किंचिद् अस्फुटं भवत्य् अस्फरणीयं यदुत शीतलेन> वारिणा; एवम् एव इमम् एव कायं निष्प्रीतिकेन सुखेनाभिष्यन्दयति परिष्यन्दयति परिप्रीणाति <परिस्फरति; नास्य किंचित् सर्वतः कायाद् अस्फुटं भवत्य् अस्फरणीयं यदुत निष्प्रीतिकेन सुखेन
किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सान्दृष्टिकं> श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्
75. स सुखस्य <च प्रहाणाद् दुःहस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अष्टंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति; स इमम् एव कायं परिशुद्धचित्तेन पर्यवदातेन अधिमुच्य स्फरित्वोपसंपद्य ( स्ब्व् इइ 245 ) विहरति; नास्य किंचित् सर्वतः कायाद् अस्फुटं भवत्य् अस्फरणीयं यदुत परिशुद्धेन चित्तेन पर्यवदातेन
76. तद्यथा गृहपतिर् गृहपतिपुत्रो वा ###
एवम् एव इमम् एव कायं परिशुद्धेन चित्तेन पर्यवदातेनाधिमुच्य स्फरित्वा उपसंपद्य विहरति; नास्य किंचित् सर्वतः कायाद् अस्फुटं भवत्य् अस्फरणीयं यदुत परिशुद्धेन चित्तेन पर्यवदातेन
किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सान्दृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्
77. यस्मिन् समये महाराज आर्यश्रावकः सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्यदौर्मनस्ययोर् अष्टंगमाद् अदुःखम् असुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, तस्य चित्तं तस्मिन्> समये नैवोन्नतं भवति नावनतम् अनभिनतं स्थितम् आनिञ्ज्यप्राप्तं
78. तद्यथा कूटागारे <वा कूटागारशालायां वा तैल ### तस्य तेजः नैवोन्नतं भवति> नावनतम् अनभिनतं स्थितं आनिञ्ज्यप्राप्तम् एवम् एव यस्मिन् समये आर्यश्रावकः <सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्यदौर्मनस्ययोर् अष्टंगमाद् अदुःखम् असुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, तस्य चित्तं तस्मिन्> समये नैवोन्नतं भवति नावनतम् अनभिनतं स्थितम् आनिञ्ज्यप्राप्तं; तस्यैवं भवति
79. <अयं मम कायो रूपी> ( अ 513अ ) ओदारिकश् ( म्स्व् इव् 213 ) <चातुर्महाभूतिकः>; विज्ञानाम् अत्र प्रतिष्ठितम् अत्र पर्यापन्नं; यन्न्व् अहम् अस्मात् कायाद् मानसं व्युत्थाप्यान्यं कायम् अभिनिर्मायां रूपिणं मनोमयम् अविकलम् अहीनेन्द्रियं; स तस्मात् कायान् <मानसं व्युत्थाप्यान्यं कायम् अभिनिर्मिमीते रूपिणं मनोमयम् अविकलम्> अहीनेन्द्रियं; तद्यथा मणिर् अष्टांगमो वैडूर्यः शुभो जातिमान्न् अच्छो विप्रसन्नो ऽनाविलः पंचाङ्गरङ्गिके सूत्रे ऽर्पितः स्यान् नीले पीते लोहिते अवदाते मञ्जिष्ठे; तं चक्षुष्मान् पुरुषो दृष्ट्वा <जानीयाद् अयं मणिर् इदं सूत्रं सूत्रे मणिर् अर्पितो ऽस्तीति>; एवम् एव स तस्मात् कायान् मानसं व्युत्थाप्यान्यं कायम् अभिनिर्मिमीते रूपिणं मनोमयम् अविकलम् ( स्ब्व् इइ 246 ) अहीनेन्द्रियं; तद्यथा पुरुषो मुञ्जाद् इषिकाम् आवृह्यात्; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयाद् <अयं मुञ्ज इयम् इषिका मुञ्जाद् इषिकाम् आवृहतीति एवम्> एव ( म्स्व् इव् 214 ) स तस्मात् कायान् मानसं व्युत्थाप्यान्यं कायम् अभिनिर्मिमीते रूपिणं मनोमयम् अविकलम् अहीनेन्द्रियं; तद्यथा पुरुषाः करण्डाद् अहिम् आवृह्यात्; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयाद् अयं करण्डः अयम् अहिः करण्डाद् अहिम् आवृहतीति एवम् एव स> तस्मात् कायान् मानसं व्युत्थाप्यान्यं कायम् अभिनिर्मिमीते रूपिणं मनोमयम् अविकलम् अहीनेन्द्रियं; तद्यथा पुरुषः कोशाद् असिम् आवृह्यात्; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयाद् अयं कोशो ऽयम् असिः कोशाद् अहिम् आवृहतीति <एवम् एव स तस्मात् कायान् मानसं> व्युत्थाप्यान्यं कायम् अभिनिर्मिमीते रूपिणं मनोमयम् अविकलम् अहीनेन्द्रियं
80. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमय्य सो ऽनेकविधम् ऋद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वैको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारम् असज्जमानः कायेन गच्छति तद्यथा आकाशे; पृथिव्याम् उन्मज्जननिमज्जनं करोति तद्यथा उदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केनातिक्रामति तद्यथा पक्षी शकुनिः; इमौ वा सूर्याचन्द्रमसाव् एवं महर्द्धिकाव् एवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि यावद् ब्रह्मलोकं ( म्स्व् इव् 215 ) कायेन वशे वर्तयति; तद्यथा दक्षः कर्मारो वा कर्मारान्तेवसी वा सुपरिकर्मीकृतं जातरूपं विदित्वा यां यां पिण्डकविकृतिं काङ्क्षत्य् उपनयितुं यदि वा पट्टिकायां यदि वा कर्णिकायां यदि वा ग्रैवेये यदि वा हस्ताभरणे यदि वा पादाभरणे यदि वा अङ्गुलिमुद्रिकायां यदि वा जातरूपमालायां तत्र तत्र लघु लघ्व् एवोपनयति; एवम् एव स एवं समाहिते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां ( स्ब्व् इइ 247 ) चित्तम् अभिनिर्णामयति ( अ 513ब् ) सो ऽनेकविधम् ऋद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वा एको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारम् असज्जमानः कायेन गच्छति तद्यथा आकाशे; पृथिव्याम् उन्मज्जन्नैमज्जनं करोति तद्यथोदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनिः; इमौ वा पुनः सूर्याचन्द्रमसाव् एवं महर्द्धिकाव् एवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि यावद् ब्रह्मलोकं कायेन वशे वर्तयति; तद्यथा दक्षः कुम्भकारो वा कुम्भकारान्तेवसी वा सुपरिकर्मीकृतं मृत्पिण्डं विदित्वा यां यां एव काङ्क्षते भाजनविकृतिम् अभिनिर्वर्तयितुं तां ताम् एव भाजनविकृतिं लघु लघ्व् एवाभिनिर्वर्तयति; एवम् एव स एवं समाहिते चित्ते पर्यवदाते ( म्स्व् इव् 216 ) अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति; एवम् एव सो ऽनेकविधम् ऋद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वैको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारम् असज्जमानः कायेन गच्छति तद्यथा आकाशे; पृथिव्याम् उन्मज्जननिमज्जनं करोति तद्यथोदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनिः; इमौ वा सूर्याचन्द्रमसाव् एवं महर्द्धिकाव् एवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि यावद् ब्रह्मलोकं कायेन वशे वर्तयति; तद्यथा दक्षः दन्तकारो वा दन्तकारान्तेवसी वा सुपरिकर्मीकृतं <दन्तं यां यां यां याम् एव काङ्क्षते> रूपविकृतिम् अभिनिर्वर्तयितुं तां ताम् एव रूपविकृतिं लघु लघ्व् एवाभिनिर्वर्तयति; एवम् एव स एवं समाहिते चित्ते पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये <स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयज्ञानसाक्षात्क्रियायाम्> अभिज्ञायां चित्तम् अभिनिर्णामयति; सो ऽनेकविधम् ऋद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वैको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं <तिरःप्राकारम् ( म्स्व् इव् 217 ) असज्जमानः कायेन गच्छति तद्यथा> आकाशे; पृथिव्याम् उन्मज्जननिमज्जनं करोति तद्यथोदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनकः; इमौ वा पुनः सूर्याचन्द्रमसाव् एव महर्द्धिकाव् एवं महानुभावौ <पाणिना आमार्ष्टि परिमार्ष्टि यावद् ब्रह्मलोकं कायेन वशे वर्तयति>
किं मन्यसे <महाराज न त्व् एवं सति मया> दर्शितं सांदृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् ( स्ब्व् इइ 248 )
81. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते <अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते> ( अ 514अ ) दिव्यश्रोत्रज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्येनोभयान् शब्दान् शृणोति मानुष्यान् अप्य् अमानुष्यान् अपि; ये ऽपि दूरे ये ऽप्य् अन्तिके; तद्यथा शङ्खधामकः पुरुषो महाशैलपर्वतम् अभिरुह्य निशार्धे शङ्खम् आधमेत् तस्य शब्दो ऽव्याहतः पृथग्दिशः स्फुरेद्; एवम् एव स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते दिव्यश्रोत्रज्ञानसाक्षात्क्रियायाम् ( म्स्व् इव् 218 ) अभिज्ञायां चित्तम् अभिनिर्णामयति स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्येनोभयान् शब्दान् शृणोति मानुष्यान् अप्य् अमानुष्यान् अपि; ये ऽपि दूरे ये ऽप्य् अन्तिके
<किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सांदृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्>
82. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते चेतःपर्यायज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति स परसत्वानां परपुद्गलानां वितर्कितं विचारितं मनसा मानसं यथाभूतं प्रजानाति; सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति; विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति; सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतम् अव्युपशान्तं व्युपशान्तं समाहितम् असमाहितम् अभावितं सुभावितम् अविमुक्तं वा चित्तम् अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति; सुविमुक्तं वा चितं सुविमुक्तं चित्तम् इति यथाभूतं प्रजानाति; तद्यथा चक्षुष्मान् पुरुषः सुपरिशुद्धम् आदर्शमण्डलं गृहीत्वा संमुखनिमित्तं वा प्रत्यवेक्षते; एवम् एव स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते चेतःपर्यायज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति स परसत्वानां परपुद्गलानां वितर्कितं विचारितं मनसा मानसं यथाभूतं प्रजानाति; सरागं ( म्स्व् इव् 219 ) चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति; विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति; सद्वेषं विगतद्वेषं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतम् अव्युपशान्तं व्युपशान्तं समाहितम् असमाहितं सुभावितम् अभावितम् अविमुक्तं वा चित्तम् अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति; सुविमुक्तं वा चितं सुविमुक्तं चित्तम् इति यथाभूतं प्रजानाति
किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सांदृष्टिकं ( स्ब्व् इइ 249 ) श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्
83. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति सो ऽनेकविधं पूर्वनिवासं समनुस्मरति; तद्यथा एकम् अपि द्वे तिस्रश् चतस्रः पंच षट् सप्ताष्टौ नव दश विंशतं ( अ 514ब् ) त्रिंशतं चत्वारिंशतं पंचाशतं जातिशतं जातिसहस्रं जातिशतसहस्रम् अनेकान्य् अपि जातिशतानि अनेकान्य् अपि जातिसहस्राणि अनेकान्य् अपि जातिशतसहस्राणि संवर्तकल्पम् अपि विवर्तकल्पम् अपि संवर्तविवर्तकल्पम् अपि अनेकान् अपि संवर्तकल्पान् अनेकान् अपि विवर्तकल्पान् अनेकान् अपि संवर्तविवर्तकल्पान् समनुस्मरति; अमि नाम ते भवन्तः सत्वा यत्राहम् आसम् एवंनामा एवंजात्य एवंगोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुः एवंचिरस्थितिक एवमायुष्पर्यन्तः; सो ऽहं तस्मात् ( म्स्व् इव् 220 ) स्थानाच् च्युतो ऽमुत्रोपपन्नः; तस्माद् अपि च्युतो ऽमुत्रोपपन्नः; तस्माद् अपि च्युतः इहोपपन्न इति; साकारं सोद्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति; तद्यथा पुरुषो ग्रामाद् ग्रामं गच्छेत्; तस्माद् अपि ग्रामाद् अपरं ग्रामं गच्छेत्; तस्माद् अपीहागच्छेत्; तस्यैवं स्याद्; अहम् अमुष्माद् ग्रामद् अमुं ग्रामम् आगतः; तस्माद् अपीहागत इति; एवम् एव स समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति तद्यथा एकाम् अपि जातिं द्वे तिस्रश् चतस्रः पंच षट् सप्ताष्टौ नव दश विंशतं त्रिंशतं चत्वारिंशतं पंचाशतं जातिशतं जातिसहस्रं जातिशतसहस्रम् अनेकान्य् अपि जातिशतानि अनेकान्य् अपि जातिसहस्राणि अनेकान्य् अपि जातिशतसहस्राणि संवर्तकल्पम् अपि विवर्तकल्पम् अपि संवर्तविवर्तकल्पम् अपि अनेकान् अपि संवर्तकल्पान् अनेकान् अपि विवर्तकल्पान् अनेकान् अपि संवर्तविवर्तकल्पान् समनुस्मरति; अमि नाम ते भवन्तः सत्वा यत्राहम् एवंनामा आसम् एवंजात्य एवंगोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुः एवंचिरस्थितिक एवमायुष्पर्यन्तः; सो ऽहं तस्मात् स्थानाच् च्युतः अमुत्रोपपन्नः; तस्माद् अपि च्युतो ऽमुत्रोपपन्नः; तस्माद् अपि च्युतः इहोपपन्न इति; साकारं सोद्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति
किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सांदृष्टिकं ( स्ब्व् इइ 250 ) श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्
84. ( म्स्व् इव् 221 ) स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते च्युत्युपपादज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वान् पश्यति च्यवमानान् उपपद्यमानान् अपि सुवर्णान् अपि दुर्वर्णान् अपि हीनान् अपि प्रणीतान् अपि सुगतिम् अपि गच्छतो दुर्गतिम् अपि यथाकर्मोपयोगान् सत्वान् यथाभूतं प्रजानाति; अमी भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टयो ( अ 515अ ) मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकम् उपपद्यन्ते; अमी वा पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते; <तद्यथा चक्षुष्मान् पुरुषः रथ्याचत्वारे निषण्णो महाजनकायो आगच्छति गच्छति तिष्ठति निषीदति इत्य् अनेकान् समुदाचारान् पश्येत्; स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते च्युत्युपपादज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वान् पश्यति च्यवमानान् उपपद्यमानान् अपि सुवर्णान् अपि दुर्वर्णान् अपि हीनान् अपि प्रणीतान् अपि सुगतिम् अपि गच्छतो दुर्गतिम् अपि यथाकर्मोपयोगान् सत्वान् यथाभूतं प्रजानाति; अमी भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकम् उपपद्यन्ते; अमी वा पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते
<किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सांदृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्>
85. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते आस्रवक्षयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति; स इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति; अयं दुःखसमुदयो ऽयं दुःखनिरोधः; इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभूतम् प्रजानाति; तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते; भवास्रवाद् अविद्यास्रवाच् चित्तं विमुच्यते; विमुक्तस्य विमुक्तम् एव ज्ञानदर्शनं भवति; क्षीणा मे जातिः उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति; ( स्ब्व् इइ 251 ) तद्यथा ग्रामस्य वा निगमस्य वा नातिदूरे गम्भीरे स्याद् उदकह्रदः अच्छो विप्रसन्नो ऽनाविलः; तत्र चक्षुष्मान् पुरुषस् तीरे निषण्णः पश्येत् शर्करान् वा कठल्लानि वा मत्स्यान् वा कूर्मान् वा शुक्तीर् वा शम्बूकान् वा; एवम् एव स एवं समाहिते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते आस्रवक्षयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति; स इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति; अयं दुःखसमुदयो ऽयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यं यथाभूतम् प्रजानाति; तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते; भवास्रवाद् अविद्यास्रवाच् चित्तं विमुच्यते; विमुक्तस्य ( म्स्व् इव् 222 ) विमुक्तम् एव ज्ञानदर्शनं भवति; क्षीणा मे जातिः उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति
किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सांदृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम्
किन्ग् अजातशत्रु, रेपेन्तेद् ओf थे मुर्देरिन्ग् ओf हिस् fअथेर् इस् fइनल्ल्य् गैनेद् ओवेर् तो थे बुद्ध च्रेएद्
एवम् उक्ते राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः प्रारोदीद् अश्रूणि वर्षयन्; अथ राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः चीवरकर्णिकेनाश्रूण्य् उत्सृज्य भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचद्: अत्ययो भगवन्न् अत्ययः सुगत यथा भो यथा मूढो यथा अव्यक्तो यथा अकुशलः येन मया पापमित्रसहायेन पापमित्रवशंगतेन ( म्स्व् इव् 223 ) पापमित्रोपगूढकेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः; तस्य मम भदन्त अत्ययं जानतो ऽत्ययम् पश्यतो ऽत्ययम् अत्ययः प्रतिगृह्णीष्वानुकम्पान् उपादाय; तथ्यं त्वं महाराज अत्ययम् अत्ययतः अधिगतः तद्यथा बालो यथा मूढो यथा अव्यक्तो यथा अकुशलो येन त्वया पापमित्रसहायेन पापमित्रवशंगतेन ( अ 515ब् ) पापमित्रोपगूढकेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः; यतश् च त्वं महाराज अत्ययं जानासि ( स्ब्व् इइ 252 ) अत्ययं पश्यसि च दृष्ट्वादेशयसि आयत्यां चा संवरम् आपद्यसे; वृद्धिर् एव ते प्रतिकाङ्क्षितव्या कुशलानां धर्माणां न हानिः; तत् कस्य हेतोः यः कश्चिन् महाराज अत्ययं जानाति अत्ययं पश्यति तं दृष्ट्वादेशयति आयत्यां च संवरम् आपद्यते वृद्धिर् एवास्य प्रतिकाङ्क्षितव्या कुशलानां धर्माणां न हानिः; एवम् एव त्वं महाराज यतश् चात्ययं जानासि अत्ययं च पश्यसि दृष्ट्वादेशयसि आयत्यां च संवरं आपद्यसे वृद्धिर् एव ते प्रतिकाङ्क्षितव्या कुशलानां धर्माणां न हानिः
थे बुद्ध, इन्वितेद् ब्य् किन्ग् अजातशत्रु, रेग्रेत्स् fओर् थे सिन् चोम्मितेद् ब्य् हिस् रोयल् गुएस्त्
अथ राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रो भगवन्तम् इदम् अवोचद्: अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन; अधिवासयति भगवान् राज्ञो मागधस्याजतशत्रोर् वैदेहीपुत्रस्य तूष्णींभावेन; अथ राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः; अथ भगवान् अचिरप्रक्रान्तं राजानं मागधम् अजातशत्रुं वैदेहीपुत्रं विदित्वा भिक्षून् आमन्त्रयते स्म: क्षतो ( म्स्व् इव् 224 ) भिक्षवो राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः उपहतो येन पापमित्रसहायेन पापमित्रवशंगतेन पापमित्रोपगूढकेन पिता धार्मिको धर्मराजो धर्मस्थितो महाराजो जीविताद् व्यपरोपितः; सचेद् भिक्षवो राजाञा मागधेनाजातशत्रुणा वैदेहीपुत्रेण पिता धार्मिको धर्मराजो धर्मस्थितो महाराजो जीवितान् न व्यपरोपितो भविष्यत् स्थानम् एतद् विद्यते यद् अस्मिन्न् एवासने निषण्णेन चत्वारि आर्यसत्यानि अभिसमितान्य् अभविष्यन्; एवं क्षतो भिक्षवो राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः एवम् उपहतः; तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यद् दग्धस्थूणायाम् अपि चित्तं न प्रदूषयिष्यामः प्राग् एव सविज्ञानके काये; इत्य् एवं वो भिक्षवः शिक्षितव्यम्
अथ राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनानि प्रज्ञप्योदकमणिं प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति; ( स्ब्व् इइ 253 ) समयो भदन्तः सज्जं भक्तं यस्यैवेदानीं भगवान् कालं मन्यते; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्ष्सुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञा मागधेनाजातशत्रुणा वैदेहीपुत्रेण भक्ताभिसारस् तेनोपसंक्रान्तः; उपसम्क्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदद्; अथ राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन ( म्स्व् इव् 225 ) खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन ( अ 516अ ) स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहित्व भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय
बुद्ध चोन्वेर्सेस् wइथ् अजातशत्रु, wहो ग्रोwस् मोरे अन्द् मोरे अत्तछेद् तो हिम्
अथ भगवान् राज्ञो मागधस्याजतशत्रोर् वैदेहीपुत्रस्य तद् दानम् अनया अभ्यनुमोदनयाभ्यनुमोदते
अग्निहोत्रमुखा यज्ञाः सावित्री च्छन्दसां मुखम् ।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥
नक्षत्राणां मुखं चन्द्र आदित्यस् तपतां मुखम् ।
ऊर्ध्वं तिर्यग् अधश् चापि यावती जगतो गतिः ।
सदेवकेषु लोकेषु संबुद्धो हीज्यतां वरः ।
अथ भगवान् राजानं मागधम् अजातशत्रुं धर्म्यया कथया सम्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः
यदा भगवता राजा अजातशत्रुर् वैदेहीपुत्रो ऽमूलिकया श्रद्धया प्रतिस्ठापितः तदा यदा भगवन्तं हर्म्यतलस्थो हस्तिस्कन्धावरूढो ( म्स्व् इव् 226 ) वा पश्यति तदात्मानं मुञ्चति; यावद् अपरेण समयेन हस्तिस्कन्धावरूढेन भगवान् दृष्टः; तेनात्मा मुक्तः; भगवता रिद्ध्या प्रतीष्टः; पौरुषेयम् अन्तर्जनं चामन्त्रयते ( स्ब्व् इइ 254 ) यत् खलु भवन्तः जानीयुः; अद्याग्रेण भगवतः श्रावको भगवन्तं शरणं गतः; अद्याग्रेणानावृतं द्वारं भगवतः श्रावकाणां भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपासिकानाम् आवृतं द्वारं देवदत्तस्य देवदत्तस्य श्रावकाणां चेति
देवदत्त, नो मोरे अद्मित्तेद् इन्तो थे पलचे, स्त्रुच्क्स् थे भिक्षुणी उत्पलवर्णा, wहो स्होर्त्ल्य् अfतेर् दिएस्
यावद् अपरेण समयेन देवदत्तो राज्ञो ऽजातशत्रोर् गृहं प्रवेष्टुम् आरब्धो दौवारिकेणाभिहितः: तिष्ठ मा प्रवेक्ष्यसीति; किं कारणं? देवाज्ञा दत्ता: अद्याग्रेणाहं भगवतः श्रावको भगवन्तं शरणं गतः; अद्याग्रेणानावृतं द्वारं भगवतः श्रावकाणां भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपासिकानाम्; आवृतं तु देवदत्तस्य देवदत्तश्रावकाणां एवदत्तश्राविकाणां चेति; स च द्वारे विधारितस् तिष्ठति; उत्पलवर्णा च भिक्षुणी पिण्डपातम् आदाय राजकुलान् निष्क्रामति; देवदत्तस्यैतद् अभवद्; अस्या मुण्डिकायाः श्रामणिकाया एतत् कर्म; अनया राजाजातशत्रुः सान्तःपुरकुमारामत्यो भिन्नो येन मे ईदृशी समवस्थेति विदित्वोत्पलवर्णाम् इदम् अवोचत्: किं मया तवापराद्धं येन त्वया मम भैक्षाककुलं दुरीकृतम् इति; स तां प्रघातयितुम् आरब्धाः; सा प्रघात्यमाना करुणदीनविलपितैर् अक्षरैर् ( म्स्व् इव् 227 ) उवाच: आर्य शान्तं किम् अहम् एव करिष्ये? त्वं तावद् भगवतो पुनः शाक्यकुलात् प्रव्रजितः; नाहम् एवं करोमि क्षमस्वेति; तथाप्य् उच्यमानेन देवदत्तेन तस्याः शिरसि खटप्रहारो दत्तः; सा मरणवेदनाभ्याहता जीवितसंस्कारान् अधिष्ठाय आयुःसंस्कारान् उत्सृज्य वीर्यम् अवलम्ब्य भिक्षुणीवर्षकं गता; भिक्षुण्यस् तां तथाविधां दृष्ट्वा कथयन्ति: अहो आर्ये किम् इदम् इति; सा कथयति: भगिन्यः ( अ 516ब् ) सर्वसंस्कारा अनित्याः; सर्वधर्मा अनात्मानः; शान्तं निर्वाणं; युष्माभिः कुशलेषु धर्मेष्व् अप्रमादः करणीयः; देवदत्तेन ( स्ब्व् इइ 255 ) तृतीयम् आनतर्यं कृतं; परिनिर्वास्यामीति; ततो ऽसौ भिक्षुणीसंघस्य पुरस्ताद् विचित्राणि प्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तेनोत्पलवर्णा भिक्षुणी करुणकरुणं विप्रलपन्ति खटप्रहारेण प्रघातिता इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वन्य् अस्याः करुणकरुणं विप्रलपन्त्या हत्वा मांसं भक्षितं; तच् छ्रूयताम्
थे स्तोर्य् ओf थे ओल्द् स्हेएप्
(चोन्चेर्निन्ग् अ प्रेविओउस् लिfए ओf देवदत्त)
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति; तस्य एडकानां वर्गः; तंच्रारणाय एडकपालो ग्रामाद् बहिर् निर्गतः; ततश् चारयित्व सूर्यस्यास्तंगमनकालसमये कर्वटकं प्रवेशितुम् आरब्धः; तत्रान्यतरा जीर्णेडिका पृष्ठतो ऽवलम्बमाना; वृको गच्छति; तावद् वृकेण गृहीता; कथयति
( म्स्व् इव् 228 ) कच्चित् ते मातुल क्षेमं सुखं कच्चिन् नु मातुल ।
एकः कच्चिद् अरण्ये ऽस्मिन् सुखं विन्दसि मातुल ॥ इति ।
सो ऽपि कथयति
मर्दित्वा मम लाङ्गूलं खोसयित्वा च वालधिम् ।
अथ मातुलवादेन कुत्र मोक्ष्यसे एडके ॥ इति ।
एडका पुनर् आह
पृष्ठतस् तव लाङ्गूलं पुरतो ह्य् आगता अहम् ।
अथ केनाभ्युपायेन लाङ्गूलं मर्दितं मया ॥ इति ।
वृको भूयः कथयत्
चत्वार इमे द्वीपाः ससमुद्राः सपर्वताः ।
सर्वेषु मम लाङ्गूलम् अथ केन त्वम् आगता ॥ इति । ( स्ब्व् इइ 256 )
एडिका प्राह
पूर्वम् एव मया भद्र ज्ञातीनाम् अन्तिकाच् छ्रुतम् ।
सर्वत्र तव लाङ्गूलम् आकाशेनाहम् आगता ॥ इति ।
वृकः प्राह
आकाशेन पतन्त्या वै त्वया मे अजरेडिके ।
त्रासितो मृगसंघो ऽसौ यो मे भक्ष्य उपागतः ॥ इति ।
एवं तस्याः प्रलपन्त्या उत्पत्य पापकर्मणा ।
एडिकायाः शिरः छिन्नं हत्वा मांशं च भक्षितम् ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ वृकः एष एव स देवदत्तस् तेन कालेन तेन समयेन; या साजरेडिका एषैव सा ( म्स्व् इव् 229 ) उत्पलवर्णा तेन कालेन तेन समयेन; तदाप्य् एषा करुणकरुणं विलपन्ति प्रघातिता; एतर्ह्य् अप्य् एषा करुणकरुणं विप्रलपन्ति प्रघातिता
देवदत्त इस् गैनेद् ओवेर् थे निहिलिस्तिच् दोच्त्रिने ओf पूरण काश्यप
अथ देवदत्तस्यैतद् अभवद्: बहुशो मया भगवतः पराक्रान्तम् आनन्तर्यत्रयं च कृतं; भगवतः शिला क्षिप्ता रुधिरोत्पादः कृतः, इदं प्रथमम् आनन्तर्यं; संघो भिन्नः, इदं द्वितीयम्; उत्पलवर्णा जीविताद् व्यपरोपिता, इदं तृतीयं; न च सर्वज्ञत्वम् अवाप्तं; न चान्या काचित् कार्यसिद्धिर् अवाप्ता; नान्यत्रेदानीं नरकेषूपपत्तव्यम् इत् विदित्वा करे कप्लं दत्वा चिन्तापरो व्यवस्थितः
यावत् पूरणस् तं प्रदेशम् अनुप्राप्तः; स कथयति: देवदत्त किम् ( अ 517अ ) अर्थं करे कपोलं दत्वा चिन्तापरस् तिष्ठसीति; स कथयति: कथम् अहं न चिन्तापरस् तिष्ठामि; येन मया द्वेषावेशाद् भगवतो बहुशः पराक्रान्तं; त्रीणि चानन्तर्यकर्माणि कृतानि; चिरम् अवीचौ महानरके वस्तव्यं भविष्यतीति; स कथयति: ज्ञातं मया त्वम् एकः शाक्यानां पण्डित इति; त्वम् अपि मूर्खः; कुतः परलोकः स्यात् त्वया ईदृशं कर्म कृतम् इति वयम् अपि त्वदर्थं चिन्तापरस् तिष्ठेम; ततः तत्प्रत्ययनार्थं च तेन तस्य पुरस्तात् कुण्डिका भग्ना; सदेवस् ( स्ब्व् इइ 257 ) तावल् लोकः एतां प्रतिसन्दधातु; सर्वथा मा काहलो भव; ( म्स्व् इव् 230 ) नास्त्य् अत्र कर्ता वा कारको वा; अपि तु गच्छ कपिलवस्तुनगरं; गत्वा राज्यं कारय; वयं तवाग्रे श्रावका भविष्याम इति; तत्र देवदत्त आर्यापवादिकां मिथ्यादृष्टिं प्रतिलब्धवान् यया सर्वेण सर्वं कुशलमूलानि समुच्छिन्नानि
थे बुद्ध ब्लमेस् देवदत्त
तत्र भगवान् भिक्षून् आमन्त्रयते स्म: समुच्छिन्नानि भिक्षवो देवदत्तेन कुशलमूलानि; यावच् चाहं भिक्षवो देवदत्तस्य शुक्लं धर्मम् अद्राक्षम्, न तावन् मया देवदत्तो व्याकृता इत्य् अपि देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्य इति; तद्यथा ग्रामस्य वा निगमस्य वा नातिदूरे गूथोडीरं स्याद् ऊर्ध्वं साधिकपौरुष्यं; तत्र कश्चिद् एव पुरुषः सशिरःपाणिपादो मग्नः स्यात्; तत्र कश्चिद् एव पुरुष उपपद्येत दीर्घरात्रम् अर्थकामो हितकामः सुखकामः स्पर्शकामो योगक्षेमकामः; स तं गूथोडीरं सामन्तकेनानुपरिवार्यागच्छेद् अप्य् एव लभेयास्य पुरुषस्य कंचिद् एव प्रदेशं गूथेनाम्रक्षितं यत्रैनं गृहीत्वोद्धरेयम् इति; स तत्र सामन्तकेनानुपरिवार्यागच्छन् न लभते तस्य पुरुषस्य कंचिद् एव प्रदेशं गूथेनाम्रक्षितम् अन्ततः पाणितलमात्रम् अपि यत्रैनं गृहीत्वोद्धरेद्; एवम् एव यावच् चाहं भिक्षवो देवदत्तस्य शुक्लं धर्मम् अद्राक्षं न तावन् मया देवदत्तो व्याकृत इत्य् अपि देवदत्त आपायिको ( म्स्व् इव् 231 ) नैरयिकः कल्पस्थो ऽचिकित्स्य इति; यतश् चाहं देवदत्तस्य शुक्लं धर्मं नाद्राक्षम् अन्ततो वालाग्रकोटीमात्रम् अपि ततो मया देवदत्तो व्याकृत इत्य् अपि देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्य इति; त्रिभिर् भिक्षवः असद्धर्मैः समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्यः; कतमैस् त्रिभिः? 1) पूर्वम् एव भिक्षवो पापेच्छो ऽभूत् पापिकया इच्छया वशगतः; यद् देवदत्तः पूर्वम् एव पापेच्छो ऽभूत् पापिकया इच्छया वशगतो ( स्ब्व् इइ 258 ) ऽनेन प्रथमेनासद्धर्मेण समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्यः; 2) पुनर् अपरं भिक्षवः देवदत्तः पापमित्रो ऽभूत् पापसहायः पापसंपर्कः; यद् देवदत्तः पूर्वम् एव पापमित्रो ऽभूत् पापसहायः पापसंपर्को ऽनेन द्वितीयेनासद्धर्मेण समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्यः; 3) पुनर् अपरं देवदत्तो ऽल्पमात्रावरमात्रकेण विशेषाधिगमेनान्तरा विषादम् ( अ 517ब् ) आपन्नः सत्य् उत्तरे करणीये; यद् देवदत्त अल्पमात्रावरमात्रकेण विशेषाधिगमेनान्तरा विषादम् आपन्नः सत्य् उत्तरे करणीये; अनेन तृतीयेनासद्धर्मेण समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्यः
मा जातु कश्चिल् लोके ऽस्मिन् पापेच्छ उपपद्यताम् ।
तद् अनेनैव जानीध्वं पापेच्छानां हि या गतिः ॥
पण्डितो ऽपि समाख्यातो भावितात्मा हि संमतः ।
श्रीया च देदीप्यमानो देवदत्त इति विश्रुतः ॥
स वै प्रमादम् अनुयुज्यासाद्येह तथागतम् ।
व्याकृतस् तु स कल्पस्थः संबुद्धेन प्रजानता ॥ ( म्स्व् इव् 232 )
कदर्यः पापसंकल्पो मिथ्यादृष्टिर् अनादरः ।
अवीचिनरकं प्राप्तश् चतुर्द्वारं हि यं विदुः ॥
अद्रुग्धस्य हि यो द्रुह्येत् कर्म पापम् अकुर्वतः ।
तम् एव पापं स्पृशति लोके ऽस्मिंश् च परत्र च ॥
समुद्रं विषकुम्भेन यो दूषयितुम् उत्सहेत् ।
न स तेन विदूष्येत भीष्मो हि स महोदधिः ॥
एवम् एव तथागतं यो वादेनोपहिंसति । ( स्ब्व् इइ 259 )
सम्यग्दर्शी शान्तचित्तो वादो यस्मिन् न रोहति ॥
तादृग् मित्रं प्रकुर्वीत तं वै सेवेत पण्डितः ।
तादृशं सेवमानस्य श्रेयः स्यान् न तु पापकम् ॥
<इदम् अवोचद् भगवान्: आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्>
थे नेw रुलेस् ओf देवदत्त
ततो देवदत्त आर्यापवादिकां मिथ्यादृष्टिं प्रतिलभ्य समुच्छिन्नकुशलमूलो नास्ति परलोक इति निश्चयं लब्ध्वा पंचभिः पदैः श्रावकाणां धर्मं देशयति; श्रमणो गौतमो दधिक्षीरं ( म्स्व् इव् 233 ) परिभुङ्क्ते; अस्माभिर् अद्याग्रेण न परिभोक्तव्यं; यत्कारणम्; अतोनिदानं वत्सकाः क्लाम्यन्ति; श्रमणो गौतमो मांशं परिभुङ्क्ते; अस्माभिर् न परिभोक्तव्यं; यत्कारणं; अतोनिदानं प्रानिनो घात्यन्ते; श्रमणो गौतमो लवणं परिभुङ्क्ते; अस्माभिर् न परिभोक्तव्यं; रेणुसंभूतम् इति कृत्वा; श्रमणो गौतमश् छिन्नदशानि वस्त्राणि धारयति; अस्माभिर् दीर्घदशानि वस्त्राणि धारयितव्यानि; यत्कारणं; अतोनिदानं कुविन्दानां पुरुषकारो ध्वंस्यते; श्रमणो गौतमो ऽरण्ये प्रतिवसति; अस्माभिर् ग्रामे वस्तव्यं; यत्कारणम्; अतोनिदानं मनुष्यानां देयधर्मा न परिभुज्यन्त इति
अन्तरोद्दानम्
क्षीरं मांसं च लवणं वस्त्रम् आरण्यकेन च ॥
देवदत्त इस् थ्रोwन् इन्तो अ पोन्द्
यावद् भगवान् जनपदचारिकां चरन् श्रावस्तीम् अनुप्राप्तः; देवदत्तः संलक्षयति: बहुशो मया श्रमणस्य गौतमस्यापकृतं; न च शक्तः श्रमणं गौतमं प्रघातयितुं; गच्छामि दारापमर्दम् अस्य करोमीत्य्; स कपिलवस्तुं गतः; तेन तत्र गत्वा यशोधरायाः संदिष्टं: श्रमणो गौतमः प्रव्रजितः; अहं त्वदर्थम् आगतः; सा त्वं मया सार्धं परिचारयेति; तया गोपिकाया ( स्ब्व् इइ 260 ) समाख्यातं; सा कथयति: त्वम् एवं संदिश: बोधिसत्वो ऽस्माकं हस्तग्रहणं सहते; यदि त्वम् अपि सहसे आगच्छ; स निर्लज्जतया अन्तःपुरं प्रविष्टः; तेन सोपानम् अभिरुहता गोपिका दृष्टा; तस्याः समनुपहासम् अन्ञ्जलीकर्तुम् आरब्धः; सा महानग्नबला; तया वामेन ( म्स्व् इव् 234 ) पाणिना तस्याङ्गुल्यो निपीडिताः; शोणितम् आगतं; ततस् तया बोधिसत्वस्य क्रीडापुष्करिण्यां ( अ 518अ ) क्षिप्तः; तेन पतला नादो मुक्तः; श्रुत्वा शाक्याः प्रधाविताः: देवदत्तो बोधिसत्वस्यान्तः पुरं प्रविश्य दारापमर्दं करोतीति; तैर् असौ क्रीडापुष्करिण्यां पतितो दृष्टः; ते सम्जल्पं कर्तुम् आरब्धाः; प्रघातयाम एतम् इति; भूयः कथयन्ति: अस्य हतस्य हन्यते; व्याकृत एवायं भगवता इत्य् अपि देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्यः; तैः उत्सृष्टः; त्रसच्छिद्रेण निष्पलायितः; तस्य वस्त्रं पाटितं द्विखण्डं जातं; स संलक्षयति: शोभनम्; अनेन कल्पेन मे श्रावकैर् निवसनं निवासयितव्यम् इति
देवदत्त fऐल्स् इन् हिस् अत्तेम्प्त्स् तो बेचोमे किन्ग् ओf थे शाक्यस्, fइल्ल्स् उन्देर्नेअथ् हिस् नैल्स् wइथ् अ देअद्ल्य् पोइसोन्, इन्तेन्दिन्ग् तो स्च्रत्छ् थे बुद्धऽस् fएएत्, दिएस् अन्द् fअल्ल्स् इन्तो हेल्ल्
सो ऽपरेण समयेन शाक्यान् सम्निपात्य कथयति: मां राज्ये प्रतिष्ठापयतेति; ते कथयन्ति: बोधिसत्वस्यात्रान्तःपुरम् अवतिष्टते; त्वं तावत् स्वीकुरु; ततः पश्चाद् राज्यं कारयिष्यसीति; एवम् उक्तो देवदत्तः शाक्येभ्यो विगतशंको हर्म्यतलम् अवरूढः; यशोधरायाः सकाशम् उपसंक्रम्याञ्जलिं कृत्वा कथयति: नियोज्ये ऽहं तव; प्रसादं कुरु ममाग्रमहिषी; कपिलवस्तुनि राज्यं कारयामीति; यशोधरा प्रस्कन्दिबलिनि; तदा श्रीपर्यङ्काद् उत्थायोभयोर् हस्तयोर् गृहीत्वा जानुभ्यां पातितः; तस्य हस्तयोः रुधिरं स्यन्दितुम् आरब्धं; ( स्ब्व् इइ 261 ) स दुःखवेदनाभ्याहतो यशोधरयाभिहितः: निरपत्रपस् त्वं मूर्खश् च; यस् त्वं मम हस्तग्रहणम् अपि न शक्तः सोढुं स मां प्रार्थयसे; चक्रवर्ती ( म्स्व् इव् 235 ) वास्माकं भर्ता स्याद् बोधिसत्वो वेति; ततस् तयावमानितो ऽन्तःपुरान् निर्गतः; शाक्यैर् उक्तो गच्छ भगवन्तं क्षमय; यदि ते भगवान् क्षमति पश्चाद् राज्यं कारयिष्यसीति; स वत्सनाभस्य परमतीक्ष्णस्य विषस्य नखान् पूरयित्वा येन भगवांस् तेनोपसंक्रान्तः; यदि मे श्रमणः गौतमः क्षमिष्यतीति एवं कुशलं; नोचेत् क्षमिष्यति तत्रैवास्य पादयोर् निपतितो नखविषपूर्णौ पादौ करिष्यामीति विदित्वा भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचत्: क्षमस्व भगवन्न् इति; भगवान् संलक्षयति: कीदृशेन चित्तेनायं माम् उपसंक्रान्त इति; पश्यति वधचित्तेन; ततो भगवान् पादतलाद् यावज् जानुमण्डलम् उपादाय स्फटिकमयौ पादौ निर्माय तूष्णीम् अवस्थितः; स भगवतः पादौ नखैर् वेद्धुम् आरब्धः; तस्य नखा भग्नाः; स प्रतिविभिन्नः कथयति: त्वां शरणं गच्छामि; यस्माद् उक्तं त्वया: ये बुद्धं शरणं गच्छन्ति न ते गच्छन्ति दुर्गतिम् इति; यदि दुर्गतिं गमिष्यामि इदं ते मृषा इति; अभ्य्दीर्णपरिपूर्णानि हि कर्माणि शरीरस्य पतनं नापेक्षन्ते; स जीवन्न् एवावीचिकाभिर् ज्वालाभिर् आलिङ्गितो विक्रोष्टुम् आरब्धो दह्ये आनन्द दह्ये आनन्देति; अथायुष्मान् आनन्दः कारुणिको मैत्र्यात्मकः स्वजनवत्सलः; स कथयति: एहि देवदत्त तथागतम् अर्हन्तं बुद्धं शरणं गच्छेति; तेन दुःखवेदनाभिभूतेन ( म्स्व् इव् 236 ) प्रत्यक्षकर्मफलदर्शिना आशयतः चित्तः उत्पादितं; वाग् भाषिता: एषो ऽहम् अस्थितो ऽपि बुद्धं भगवन्तं शरणं गच्छामीत्य् उक्त्वा ( अ 518ब् ) स्वशरीरेणावीचौ महानरकौ पतितः ( स्ब्व् इइ 262 )
थे बुद्ध fओरेतेल्ल्स् थत्, ओन् थे एxपिरतिओन् ओf अ कल्प, देवदत्त wइल्ल् बेचोमे अ प्रत्येकबुद्ध, अस्थिमान् ब्य् नमे
तत्र भगवान् भिक्षून् आमन्त्रयते स्म: प्रतिसंहृतानि भिक्षवो देवदत्तेन कुशलमूलानि; कल्पम् अवीचौ महानरके स्थित्वा प्रत्येकं बोधिं साक्षात्करिष्यति; अस्थिमान् नाम प्रत्येकबुद्धो भविष्यति; सो ऽभिसंबुद्धमात्रः पिण्डपातम् एकान्ते स्थापयित्वा हस्तौ निर्मर्दयन् समन्वाहरिष्यति: किमर्थम् अहं दीर्घकालं संसारे संसृतः? इति; स्मन्वाहरन् ज्ञास्यति: जन्मनि जन्मनि मया भगवतः पराक्रान्तं बोधिसत्वभूतस्यापि सर्वज्ञेयवशिताप्राप्तस्यापि, तच् च लाभसत्कारहेतोर् इति; स तम् अप्य् एकपिण्डपातम् अपरिभुज्योपरिविहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति
शारिपुत्र अन्द् मौद्गल्यायन देस्चेन्द् तो हेल्ल् तो विसित् अन्द् चोम्fओर्त् देवदत्त
आचरितं शारिपुत्रमौद्गल्यायनोः कालेन कालं नरकचारिकां चरितुम्; अथायुष्मान् शारिपुत्र आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचद्: आयुष्मन् महामौद्गल्यायन भगवता देवदत्तः प्रत्येकबोधौ व्याकृतः; एह्य् आवाम् अवीचिं महानरकं गत्वा देवदत्तम् आश्वासयाव इति; अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ ( म्स्व् इव् 237 ) अवीचिं महानरकं गतौ; तत्रायुष्मान् शारिपुत्र आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: समन्वाहर आयुष्मन् महामौद्गल्यायन नारकान् सत्वान् इति; आयुष्मान् महामौद्गल्यायनस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते मुसलमात्राभिर् धाराभिर् वर्षितुम् आरब्धः; तद् उदकम् अवीचिकाभिर् ज्वालाभिर् अन्तरात् पर्यादीयते; एवम् ईषामात्राभिर् अक्षमात्राभिर् धाराभिर् वर्षितुम् आरब्धः; तद् अप्य् उदकम् अन्तरात् पर्यादीयते; तत आयुष्मान् शारिपुत्र ( स्ब्व् इइ 263 ) आधिमोक्षिकं समाधिं समापन्नः; सर्वं तन् नरकम् उदकेन प्लावितम्; आयुष्मता महामौद्गल्ययेनोक्तं: यो देवदत्तः स आगच्छत्व् इति; अनेक्नि देवदत्तसहस्राण्य् आगतानि; आयुष्मान् महामौद्गल्यायनः कथयति: यो भगवतो भ्राता देवदत्तः स आगच्छत्व् इति; अथ देवदत्तो येनायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ तेनोपसंक्रान्तः; उपसंक्रम्यायुष्मतोः शारिपुत्रमहामौद्गल्यायनयोः पादौ निपतितः; ताभ्याम् उक्तः: अस्ति ते कच्चित् कारणानां विशेष? इति; स कथयति: या तावद् आवीचिकैः सत्वैः साधारणता स्थिता सा एवास्तु मम; याः प्रातिपौद्गलिका वर्तन्ते ताः शृणु: ( म्स्व् इव् 238 ) अयस्मयाः पर्वता आगच्छन्ति, आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वलीभूताः; ते मां तिलवत् पेषयन्ति; उभयतो दन्तकैः क्रकचैर् अङ्गप्रत्यङ्गानि पाट्यन्ते; अयस्मयैर् मुद्गरैर् आदीप्तैः प्रदीप्तैः संप्रज्वलितैर् एकज्वालीभूतैर् मुहुर् मुहुः शिरश् चूर्ण्यते; चतुर्दिशं हस्तिन आगच्छन्ति; ते मां पिष्टवत् पेषयन्ति इति
आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ कथयतः: यस् त्वं देवदत्त कथयसि: अयस्मयाः पर्वता आगच्छन्ति आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वलीभूताः; ते मां तिलवत् पेषयन्तीति; तथा हि त्वया भगवतो वधाय गृध्रकूटपर्वताच् छिला क्षिप्ता तस्यैतत् कर्मणः फलम्
यत् कथयसि: उभयतोदन्तकैः क्रकचैर् आदीप्तैः प्रदीप्तैः संप्रज्वलितैर् एकज्वालीभूतैर् अङ्गप्रत्यङ्गानि पाट्यन्ते इति; तथा हि त्वया भगवतः श्रावकसंघो भिन्नः; तस्यैतत् कर्मणः फलम्
यत् कथयसि: अयस्मयैर् मुद्गरैर् आदीप्तैः प्रदीप्तैः संप्रज्वलितैर् एकज्वालीभूतैर् मुहुर् मुहुः शिरश् चूर्ण्यते; तथा हि त्वया उत्पलवर्णा भिक्षुणी अर्हन्ती खटप्रहारेण प्रघातिता; तस्यैतत् कर्मणः फलम्
यत् कथयसि: चतुर्दिशं हस्तिन आगच्छन्ति; ते मां पिष्टवत् पेषयन्ति इति; तथा हि त्वया भगवतो वधाय धनपालको हस्तिनाग उत्सृष्टः; तस्यैतत् कर्मणः फलम्
अपि तु व्याकृतस् त्वं भगवता: किम् इति भदन्त शारिपुत्र? प्रतिसंहृतानि भिक्षवो देवदत्तेन कुशलमूलानि; कल्पम् अवीचौ ( म्स्व् इव् 239 ) महानरके स्थित्वास्थिमान् प्रत्येकबुद्धो भविष्यतीति; स कथयति ( स्ब्व् इइ 264 ) भदन्त शारिपुत्र यद्य् एवम् उत्सहे अहम् एकपार्श्वेनावीचौ महानरके स्थातुम् इति
शारिपुत्र अन्द् मौद्गल्यायन विसित् इन् हेल्ल् fओल्लोwएर्स् ओf देवदत्त, कोकालिक, एत्च्., अन्द् पूरण काश्यप
अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ येन कोकालिकप्रभृत्ययस् तेनोपसंक्रान्तौ; यावत् कोकालिकस्य हि जिह्वा हलशतेन धार्यते; ब्रह्मणा सभांपतिना कोकालिक उच्यते; कोकालिकाभिप्रसाद्य शारिपुत्रमौद्गल्यायनयोर् भिक्ष्वोर् अन्तिके चित्तं पेशलयोः सब्रह्मचारिभिर् वत्सलयोर् इति; एवम् उक्तो कोकालिक आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ दृष्ट्वा कथयति: इहाप्य् एतौ पापेच्छाव् आगताव् इति; वाक्प्रव्याहरणकालसमनन्तरम् एव कोकालिकस्य हलसहरेण जिह्वा पाटयितुम् आरब्धा; अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनाव् अकरणीया ह्य् एते इति विदित्वा प्रक्रान्तौ; येन पूरानः काश्यपस् तेनोपसंक्रान्तौ
अथ पूरणः काश्यप आयुष्मन्तोः शारिपुत्रमहामौद्गल्यायनयोः पादयोर् निपत्य कथयति: आर्य शारिपुत्र मया मिथ्याधर्मदेशनया महाजनकायो विप्रलब्धः; तस्य मे कर्मणो विपाकेन जिह्वायां पंच हलशतानि वहन्ति; यथा यथा च श्रावका स्तूपकारान् कुर्वन्ति तथा तथा तीव्रतरवेदनां वेदयामि; तद् अर्हसि मदीयाम् अवस्थां तेषां निवेद्य निवारयितुं: मा तस्य स्तूपकारं करिष्यथेति; तथेति प्रतिज्ञाय आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ नरकचारिकां ( म्स्व् इव् 240 ) चरित्वा ऋद्ध्या जम्बूद्वीपम् अनुप्राप्ता; ताभ्यां भगवतो भिक्षूणां जनकास्य देवदत्तकोकालिकपूरणप्रभृतीनां नरकोपपन्नानाम् अवस्था विस्तरेण समाख्याता
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो भगवतो वचनम् अवचनीकृत्यावीचौ महानरके ( अ 519ब् ) पतित इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि एष मम वचनम् अवचनीकृत्य अनयेन व्यसनम् आपन्नः; तच् छ्रूयताम् ( स्ब्व् इइ 265 )
थे स्तोर्य् ओf थे बुल्ल् अन्द् थे अस्स्
(चोन्चेर्निन्ग् अ प्रेविओउस् लिfए ओf थे बुद्ध अन्द् देवदत्त)
भूतपूर्वं भिक्षवो ऽनियतराश्यवस्थितो बोधिसत्वो गोषूपपन्नो वृषो बभूव; स रात्रौ नगरान् निर्गम्य राजकीये माषक्षेत्रे चरति; दिवा नगरे तिष्ठति; यावत् तस्य सकाशं गर्दभः उपसम्क्रम्य कथयति: मातुल त्वं उपचितत्वमांसशोणितः; न चाहं त्वां पश्यामि कदाचिच् चरन्तम् इति; स कथयति: भगिनेयाहं रात्रौ राजकीये माषक्षेत्रे चरामीति; स कथयति: अहम् अपि मातुल त्वया सार्धं चरामीति; स कथयति: भागिनेय त्वं वाचाटो मनर्थं करिष्यसीति; स कथयति: मातुल गछामि न करिष्यामीति; तौ वाटं भङ्क्त्वा राजकीये माषक्षेत्रे निपतितौ; गर्दभस् तावत् तूष्णीम् अवस्थितो यावद् आशितो जातः; ततः कथयति: मातुल गायामि तावद्; वृषः कथयति: तिष्ठ तावन् उहूर्तं यावद् अहं निर्गच्छामीति; पश्चाद् यथेष्टं करिष्यसि; इत्य् उक्त्वा निष्पलायितः; गर्दभो वाशितुम् आरब्धः; राजपुरुषैः ( म्स्व् इव् 241 ) श्रुत्वा गृहीतः: भवन्तः अनेन गर्दभेन सर्वम् इदं राजकीयं माषक्षेत्रं भक्षितं; निग्रहम् अस्य कुर्म इति; तैः कर्णौ च्छित्वा उलूखलं च ग्रीवायां बद्ध्वा मुक्तः; इतश् चामुतश् च परिभ्रमन् वृषेण दृष्टः; स तं गाथया प्रत्यभाषत
साधु गीतं सुष्ठु गीतं प्राप्तं गीतस्य तत् फलम् ।
यतो ऽसि तव गीतेन जातः कर्णविहीनकः ॥
एवं हि तस्य भवति यो वाचं च न रक्षति ।
भ्रमेदानीं कर्णहीनः उलूखलविभूषितः ॥ इति ।
सो ऽपि गाथया प्रत्यभाषत
तूष्णीं भव खण्डदन्त तूष्णीं भव जरद्गव ।
त्वाम् अप्य् अत्र गवेषन्तो दण्डहस्तास् त्रयो जनाः ॥ इति ।
भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ वृषः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ गर्दभ एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष मम वचनम् अवचनीकृत्यानयेन ( स्ब्व् इइ 266 ) व्यसनम् आपन्नः; पुनर् अपि यथैव मम वचनम् अवचनीकृत्यानेन व्यसनम् आपन्नस् तच् छ्रूयताम्
थे स्तोर्य् ओf थे बुल्ल् अन्द् थे जच्कल्
(चोन्चेर्निन्ग् अ प्रेविओउस् लिfए ओf थे बुद्ध अन्द् देवदत्त)
भूतपूर्वं भिक्षवो ऽन्यतस्मिन् कर्वटके गृहपतिः प्रतिवसति; तस्य वलीवर्दो लक्षणसंपन्नः; तेनासौ श्रमणब्राह्मणान् स्वजनान् अनाथकृपणवनीपकान् भोजयित्वा यथेष्टप्रचारी उत्सृष्टः; सो ऽपरेण समयेन इतश् चामुतश् च परिभ्रमन् कलुषे मग्नो ऽवस्थितः; तेन सूर्यास्तंगमनकालसमये श्रुतं; समन्वेषमाणस् तस्य सकाशं ( म्स्व् इव् 242 ) गतः; स संलक्षयति: न शक्नोमि अहम् अधुना समुद्धर्तुं; श्वः प्रभाते समुद्धरिष्यामीति; वृषः कथयति: मम पुरस्तात् पाशं स्थापयित्वा गच्छ; यदि शृगाल आगमिष्यति तस्याहं शृङ्गे पाशं क्षेप्स्यामीति; स तस्य ( अ 520अ ) पुरस्तात् पाशं क्षिप्त्वा प्रक्रान्तः; यावद् रात्रौ शृगाल आगतः; स कथयति: को ऽयं बिसान्य् उत्खनति पुण्डरीकानि चेति; वृषः कथयति: अहं निमग्नस् तिष्ठामीति; शृगालः संलक्षयति: भक्ष्यो मे प्रत्युपस्थित इति; स तम् अभिद्रवितुम् आरब्धः; वृषः कथयति: गच्छ त्वम् अस्मात् प्रदेशान् मा अनयेन व्यसनम् आपत्स्यस इति; तथाप्य् असौ निवार्यमानो ऽभिद्रवत्य् एव; स वृषो गाथां भाषते
नाहं बिसान्य् उत्खनामि पुण्डरीकानि नाप्य् अहम् ।
सचेद् भक्षितुकामो ऽसि पृष्ठतो गच्छ भक्षय ॥ इति ।
शृगालो भक्षयामीति पृष्ठतो गतः; वृषेण शृङ्गे पाशः क्षिप्तः; शृगालो ग्रीवायां बद्धः; आकाशे प्रलम्भते; वृषो गाथां भाषते
किं नटो नर्तको वा त्वम् उत शोभितदारकः ।
ग्रामे विदर्श्यतां शिल्पम् अरण्ये नास्ति दायकः ॥ इति । ( स्ब्व् इइ 267 )
शृगालो ऽपि गाथां भाषते
नाहं नटो नर्तको वा नापि शोभितदारकः ।
दत्ता शकेण मे श्रेणी ब्रह्मलोकं व्रजाम्य् अहम् ॥ इति । ( म्स्व् इव् 243 )
भूयो वृषो गाथाम् भाषते
न शक्रो ददाति श्रेणीं ब्रह्मलोकः कुतस् तव ।
बद्धो ऽसि कूटपाशेन न ते पश्यामि जीवितम् ॥ इति ।
किं मन्यध्वे भिक्षवः? यो ऽसौ वृषः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ शृगाल एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष मम वचनम् अवचनीकृत्यानयेन व्यसनम् आपन्नः; एतर्ह्य् अप्य् एष मम वचनम् अवचनीकृत्यानेन व्यसनम् आपन्नः
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: भदन्त देवदत्तो भगवतो वचनम् अशृण्वन्न् अवीचिपरायणः संवृत्त इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि एष मम विक्रोशतो वचनम् अशृण्वन्न् अवीचिपरायणः संवृत्तः; तच् छ्रूयताम्
थे स्तोर्य् ओf थे किन्ग् चैतिक अन्द् थे त्wओ सोन्स् ओf थे पुरोहित
(चोन्चेर्निन्ग् अ प्रेविओउस् लिfए ओf थे बुद्ध अन्द् देवदत्त)
भूतपूर्वं भिक्षवो ऽन्यतमस्यां राजधान्यां राजा चैतिको नाम राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; पुण्यानुभावाद् देवता अन्तरीक्षे आसनं धारयन्ति; तस्य राज्ञः पुरोहितस्य द्वौ पुतौ ज्येष्ठो कनीयांश् च; तत्र ज्येष्ठो नैष्क्रम्याभिनन्दी; कनीयान् पौरोहित्याभिन्नन्दी; ज्येष्ठः पश्यति पितरं धर्माधर्मेण पौरोहित्यं कारयन्तं; स सम्लक्षयति; अहं पितुर् अत्ययात् पुरोहितो भवियामि; यन्न्व् अहम् अपि प्रव्रजेयम् इति; स पितरम् अनुज्ञाप्य भगवच्छासने प्रव्रजितः; यावद् अपरेण समयेन पुरोहितः कालगतः; स कनीयान् पौरोहित्ये प्रतिष्ठापितः; स अधर्मेण पौरोहित्यं कर्तुम् आरब्धः; जनकायः पीड्यते; यावद् अन्यतमः पुरुष इतश् चामुतश् च परिभ्रमंस् तस्य ( म्स्व् इव् 244 ) ज्येष्ठस्य ( स्ब्व् इइ 268 ) प्रव्रजितस्य सकाशम् उपसंक्रान्तः; स तेन दृष्टः: कुतस् त्वम् आगच्छसीति; तेन समाख्यातम्: अमुष्या राजधान्याः; स वार्त्तां प्रष्टुम् आरब्धः; स कथयति: राज्ञः पुरोहितः कालगतः; तस्य कनीयान् पुत्रः पौरोहित्ये प्रतिष्ठति; सो ऽधर्मेण पौरोहित्यं ( अ 520ब् ) करोति; जनकायः पीड्यते इति; स कथयति: कंचित्कालं प्रेक्षय; अहम् एव तत्र गत्वा अहितान् निवारयिष्यामि हिते च संनियोजयिष्यामि यथा न जनपदान् निपीडयतीति; तेन पुरुषेण गत्वा ज्ञातीनाम् एतत् प्रकरणं निवेदितं; श्रुतिपरंपरया तेन कनीयसा श्रुतं; तेन राज्ञे निवेदितं: देव मम स ज्येष्ठो भ्राता आगमिष्यतीति; राजा कथयति: शोभनं; स एव पुरोहितो भविष्यतीति; स कथयति: देव त्वं नाम मया इयन्तं कालं वृथा सेवित इति; राजा कथयति: एष लोकधर्मो ज्येष्ठः सः; अपित्व् एकेन प्रकारेण तव पौरोहित्यं भवत्व् इति; यदि त्वं त्स्मिन्न् आगते कथयसि: अहं ज्येष्ठ इति; स कथयति: एवं भवतु, वक्ष्यामीति; यावद् असाव् आगतः; तं दृष्ट्वा सराजका पर्षद् उत्थिता; स तु नोत्थितः; तेनोक्तः: त्वं मम कनीयान् कस्मान् नोत्तिष्ठसीति; स कथयति: त्वम् एव कनीयान् अहं ज्येष्ठः; यदि तव न प्रत्ययो वयं राजकुले वृद्धांस् देवं च पृच्छामः; ज्येष्ठेन राजा पृष्ठः; कथय भो राजन् क आवयोर् ज्येष्ठ इति; राज्ञा संप्रजानं मृषा वाग् भाषिता: एष ज्येष्ठस् त्वं कनीयान् इति; वाक्प्रव्याहरणकालसमन्तरम् एव तस्य देवताभिर् ( म्स्व् इव् 245 ) आसनं मुक्तं; स पृथिव्यां पतितो मुखाच् चास्य पूतिगन्धः प्रवाति; ज्येष्ठः पुरोहितपुत्रो गाथां भाषते
मृषा हि भाषमाणस्य प्रक्रामन्तीह देवताः ।
मुखं च पूतिकं भवति स्वर्गाच् च परिहीयते ॥
सत्यं कथय भो राजन् भविष्यति यथा पुरा ।
मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक ॥
अजिह्वको ऽसौ भवति मत्स्यो वारिचरो यथा ।
परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् ॥
सत्यं कथय भो राजन् भविष्यसि यथा पुरा । ( स्ब्व् इइ 269 )
मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक ॥
अपुमान् जायते तत्र पुमांस् तत्र न जायते ।
परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् ॥
सत्यं कथय भो राजन् भविष्यसि यथा पुरा ।
मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक ॥
वर्षत्य् अकाले देवश् च काले तत्र न वर्षति ।
परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् ॥
सत्यं कथय भो राजन् भविष्यसि यथा पुरा ।
मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक ॥
द्वे जिह्वे भवतस् तस्योरगस्येव हि जन्तुनः ।
परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् ॥ ( म्स्व् इव् 246 )
सत्यं कथय भो राजन् भविष्यसि यथा पुरा ।
मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक ॥
इत्य् एवं चैतिको राजा कर्म कृत्वा सुदारुणम् ।
अवीचिं नरकं प्राप्तो निरयं पापकर्मणा ॥
किं मन्यध्वे भिक्षवः? यो ऽसौ ज्येष्ठः पुरोहितपुत्रः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ चैतिको राजा एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष मम विक्रोशतो वचनम् अशृण्वन्न् अवीचिं नरकं प्राप्तः; एतर्ह्य् अप्य् एष ममविक्रोशतो वचनम् अशृण्वन्न् अवीचिं नरकं प्राप्तः ( अ 521अ )
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो हितम् उच्यमानो वचनम् अशृण्वन्न् अवीचिपरायणः संवृत्त इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वन्य् एष मया हितम् उच्यमानो वचनम् अशृण्वन्न् अनयेन व्यसनम् आपन्नः; तच् छ्रूयताम्
थे स्तोर्य् ओf थे मस्तेर्-मेछनिच् अन्द् हिस् पुपिल्
(चोन्चेर्निन्ग् अ प्रेविओउस् लिfए ओf थे बुद्ध अन्द् देवदत्त)
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके यन्त्रकलाचार्यः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; साष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारिको जातः; तस्य त्रीणि सप्तकान्य् एकविंशतिदिवसान् ( स्ब्व् इइ 270 ) विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितं; सा उन्नीतो वर्धितो महान् संवृत्तः; पिता चास्य कालगतः; सो ऽन्यतमस्मिन् कर्वटके ऽन्यस्य यन्त्रकलाचार्यस्यान्तिकाद् ( म्स्व् इव् 247 ) यन्त्रकलां शिक्षितुम् आरब्धः; तेनान्यतमस्मिन् कर्वटके गृहपतेः सकाशाद् दारिका प्रार्थिता; स कथयति: यदि अमुष्मिन् दिवसे आगच्छसि दास्यामि; अन्यथा नेति; तेन यन्त्रकलाचार्यस्य निवेदितम्; उपाध्यायामुष्मिन् कर्वटके गृहपतिः; तस्य सकाशान् मया दारिका प्रार्थिता: स कथयति: यद्य् अमुष्मिन् दिवस आगच्छसि दास्यामि; अन्यथा नेति; यन्त्रकलाचार्यः कथयति: पुत्र यद्य् एवं गच्छावः; अहम् एव प्रतीच्छामीति; स तेन् सार्धं काष्ठमयं मयूरम् अभिरुह्य यस्मिन्न् एव दिवसे अवधिः कृतस् तस्मिन्न् एव दिवसे कर्वटकम् अनुप्राप्तः; दृष्ट्वा परं विस्मयम् आपन्नः; ततो दारिकां प्रतिगृह्य पुनस् तद् यन्त्रम् आरुह्य स्वगृहम् आगतः; यन्त्रं संगृह्य मातुः समर्पितम् उक्तं च; अयं तव पुत्रो यन्त्रस्य प्रवर्तनयोगं जानीते नो तु निवर्तनं; न त्वयास्य यन्त्रं देयम् इति; स भूयो भूयो मतुः कथयति: अम्ब प्रयच्छ मे यन्त्रं महाजनकायम् अन्वावर्तयामीति; सा कथयति: पुत्र आचार्यस् ते कथयति: अयं प्रवर्तनप्रयोगं जानीते नो तु निवर्तनं; मा दास्यसि मानयेन व्यसनम् आपत्स्यतीति; तस्माद् अहं न ददामीति; स कथयति: अम्ब प्रवर्तनम् अप्य् अहं जानांइ निवर्तनम् अपि; किं त्व् असाव् आचार्यो मात्सर्येण न ददातीति; लघुचित्तो मातृग्रामः; तया लोभितया दत्तं; स यन्त्रम् आम्रेड्याभिरुह्य संप्रस्थितः; महाजनकायो ऽभिप्रसन्नः; ततो यन्त्रकलाचार्येण दृष्टः; स कथयति: गतो ऽयम् अपुनरागमनायेति; स यथा यथा संभ्रमाद् आम्रेडयति ( म्स्व् इव् 248 ) तथा तथा दूरतरं गच्छति; यावन् महासमुद्रं गतः; महासमुद्रे सदा वर्षति देवः; बन्धनामि क्लिन्नानि; अनयेन व्यसनम् आपन्नः; देवता गाथां भाषते
यो ह्य् अर्थकामस्य हितानुकम्पिनो वचो न गृह्णाति यथानुशिष्टम् ।
स उह्यते दारुमयेण पक्षिणा अनायको न शृणोतीह कस्यचित् ॥ इति ।
भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ यन्त्रकलाचार्यः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ तस्यान्तेवासी एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष वचनम् अशृण्वन्न् अनयेन व्यसनम् आपन्नः; एतर्ह्य् अप्य् एष मया हितम् उच्यमानो मम वचनम् अशृण्वन्न् अनयेन व्यसनम् आपन्नः ( स्ब्व् इइ 271 ) ( अ 521ब् )
थे qउएस्तिओन् ओf उपालि
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति: उच्यते भदन्त संघभेदः उच्यते भदन्त संघसामग्री इति; तत्र कतरो भेदः कतरा संघसामग्री; यतश् चोपालिन् भिक्षवः धर्मे ऽधर्म्संज्ञिनः अधर्मे धर्मसंज्ञिनो व्यग्रे अव्यग्रसंज्ञिनः कर्माणि कुर्वन्ति; अयम् उच्यते संघभेदः; यतस् तु धर्मे धर्मसंज्ञिनः समग्रे समग्रसंज्ञिनः कर्माणि कुर्वन्ति; इयम् उच्यते संघसामग्री इति
यत्रैको भिक्षुर् न तत्र संघो भिद्यते; यत्रौ द्वौ यत्र त्रयो यावद् अष्टौ न तत्र संघो भिद्यते; यत्र नव भिक्षवो उत्तरे वा तत्र द्वाभ्यां कारणाभ्यां संघो भिद्यते; ज्ञप्तिकर्मणा शलाकाग्रहणेन च ( म्स्व् इव् 249 )
कथं ज्ञप्तिकर्मणा? यथापितद् देवदत्तो भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति: पंचभिर् आयुष्मन्तो व्रतपदैर् भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; कतमैः पंचभिः? आरण्यकत्वेन आयुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; वृक्षमूलिकत्वेन पैण्डपातिकत्वेन त्रैचीवरिकत्वेन पांसुकूलिकत्वेनायुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; येषां युष्माकम् आयुष्मन्तः न क्षमन्ते एभिः पंचभिः व्रतपदैः शोधुं मोक्तुं निर्यातुं ते श्रमणस्य गौतमस्याराद् भवन्तु, हिरुग् भवन्तु; दूरेण परेण भवन्तु इत्य् एषा ज्ञप्तिः; इत्य् एवं ज्ञप्तिकर्मणा
कथं शलाकाग्रहणेन? यथापितद् देवदत्तो भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति: पंचभिर् आयुष्मन्तो व्रतपदैर् ( स्ब्व् इइ 272 ) भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; कतमैः पंचभिः? आरण्यकत्वेनायुष्मन्तो भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; वृक्षमूलिकत्वेन पैण्डपातिकत्वेन त्रैचीवरिकत्वेन पांसुकूलिकत्वेनायुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; येषां युष्माकम् आयुष्मन्तः न क्षमन्ते ( म्स्व् इव् 250 ) एभिः पंचभिः व्रतपदैः शोधुं मोक्तुं निर्यातुं ते श्रमणस्य गौतमस्याराद् भवन्तु, हिरुग् भवन्तु; दूरेण परेण भवन्तु; शलाकां गृह्णन्त्व् इति; देवदत्तश् चात्मपंचमः शलाकां गृह्णाति; एवं शलाकाग्रहणेन
॥ ॥ आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति उत्क्षिप्तकेन तावद् भदन्त संघो भिद्यते उत्क्षिप्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्त्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्तकेन न उत्क्षेपकानुवर्तकानुवर्त्तकेन न उत्क्षेपकानुवर्त्तकेन तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्तकेन तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तानुवर्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्त्तकानुवर्तकेन ॥ ॥ उत्क्षेपकेन तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तानुवर्तकानुवर्तकेन ( अ 522अ ) तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तानुवर्तकेन न उत्क्षिप्तानुवर्तकानुवर्तकानुवर्तकेन न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकेन ॥ उत्क्षेपकानुवर्तकानुवर्तकेन तावद् भदन्त संघो भिद्येत (अ2) न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकानुवर्तकेन न उत्क्षेपकेन न उत्क्षिप्तकानुवर्तकेन ( स्ब्व् इइ 273 )
सर्वैर् एभिर् उपालिं संघो भिद्येत स्थापयित्वा एक उत्क्षिप्तकम्* ॥ ॥
अन्तरोद्दानम्
संघभेदश् च सामग्री एकः संघो न भिद्यते ।
नवानाम् अन्तिमो भेदस् तिस्र उत्क्षेपषट्किकाः ॥
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति: यद् उक्तं भदन्त भगवता समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते; स्पृश्यति चानन्तर्यावद्येन कर्मणा; कियता भदन्त भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा
1) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा
2) यतश् चोपालिन् भिक्षुर् अधर्मे अधर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय ( म्स्व् इव् 252 ) पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते अनन्तर्यावद्येन कर्मणा
3) यतश् चोपालिन् भिक्षुर् अधर्मे अधर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते <न तु> स्पृश्यते आनन्तर्यावद्येन कर्मणा ( स्ब्व् इइ 274 )
4) यतश् चोपालिन् भिक्षुर् अधर्मे धर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा
5) यतश् चोपालिन् भिक्षुर् अधर्मे धर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा
6) यतश् चोपालिन् भिक्षुर् अधर्मे धर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा
7) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; ( अ 522ब् ) इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा ( म्स्व् इव् 253 )
8) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा
9) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा
10) यतश् चोपालिन् भिक्षुर् धर्मे धर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा
11) यतश् चोपालिन् भिक्षुर् धर्मे धर्मसंज्ञी भेदे धर्मसंज्ञी ( स्ब्व् इइ 275 ) भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा
12) यतश् चोपालिन् भिक्षुर् धर्मे धर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा ( म्स्व् इव् 254 )
13) यतश् चोपालिन् भिक्षुर् अधर्मे वैमतिको भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा
14) यतश् चोपालिन् भिक्षुर् अधर्मे वैमतिको भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा
15) यतश् चोपालिन् भिक्षुर् अधर्मे वैमतिको भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा
16) यतश् चोपालिन् भिक्षुर् धर्मे वैमतिको भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा ( अ 523अ ) आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा
17) यतश् चोपालिन् भिक्षुर् धर्मे वैमतिको भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा
18) यतश् चोपालिन् भिक्षुर् धर्मे वैमतिको भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा ( स्ब्व् इइ 276 ) एवम् एतावन्ति अष्टादश; आसां षट् प्सृश्यन्ते आनन्तर्यावद्येन कर्मणा; यासु भेदे अधर्मसंज्ञी; अवशिष्टाः न स्पृश्यन्ते आनतर्यावद्येन कर्मणेति
विनये संघभेदवस्तु समाप्तः ॥ ॥ विनयवस्त्वागमं ॥ ॥
मूल पाठ: Saṅghabhedavastu · Edition: R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49). · Data entry Klaus Wille Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0