सङ्घभेदवस्तु · भाग 4160
थे स्तोर्य् ओf विश्वन्तर
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो विश्वपुर्यां राजधान्याम् विश्वामित्रो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं; धार्मिको धर्मराजो धर्मेण राज्यं कारयति; स च राजा श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः; सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः संगतभ्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नाम? इति; ज्ञातय ऊचुः; अयं दारको विश्वामित्रस्य राज्ञः पुत्रः; तस्माद् भवतु दारकस्य विश्वन्तर इति नाम इति; विश्वन्तरो दारकः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः; द्वाभ्याम् अंशधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकधात्रीभ्यां; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्; स यदा महान् संवृत्तः तदा लिप्याम् उपन्यस्तः सङ्ख्यायां गणनायां मुद्रायां; यानि तानि राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां ( अ 468अ ) जनपदैश्वर्यस्थामवीर्यम् अनुप्राप्तानां महान्तं पृथिवीमण्डलम् अभिनिर्जित्य अध्यावसतां ( स्ब्व् इइ 120 ) पृथग् भवन्ति शिल्पस्थानकर्मस्थानानि तद्यथा हस्तिग्रीवायाम् अश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणे अंकुशग्रहे पाशग्रहे तोमरग्रहे छेद्ये भेद्ये वेध्ये मुष्टिबन्धे पादबन्धे शिखाबन्धे दूरवेधे शब्दवेधे मर्मवेधे अक्षूणवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः; विश्वन्तरः कुमारो श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते; तस्य प्रदानविस्तरम् उपश्रुत्य योजनशताद् अपि अर्थिनः अभ्यागच्छन्ति; सर्वांश् च परिपूर्णमनोरथान् प्रेषयति
अथ कदाचित् बोधिसत्वो मणिकनकरजतवज्रवैडूर्यमुसारगल्वार्केन्द्रनीलविद्योतितं चन्दनवरसारपरिणामितं सिंहव्याघ्रद्वीपिचर्मपरिणद्धं पवनबलसमजवैः कनकरजतमणिघण्टिकाविघूर्णितरवैः चतुर्भिस् तुरगैर् युक्तं स्यन्दनवरम् अभिरुह्य नगराद् उद्यानाभिमुखो निर्ययौ; अथ केचिद् विप्रा वेदवेदाङ्गविदो विश्वन्तरम् अभिगम्योचुः; जयतु भवान् क्षत्रियकुमारः इति; आह च
सर्वेषु खलु लोकेषु विश्रुतः सर्वदो भवान् ।
रथम् एतद् द्विजातिभ्यो दानं त्वं दातुम् अर्हसि ॥
इत्य् एवम् उक्तो विश्वन्तरो बोधिसत्वः लघु लघ्व् एव तस्माद् रथाद् अवतीर्य हृष्टतुष्टप्रमुदितहृदयस् तेभ्यो द्विजातिभ्यस् तं रथवरम् उपदर्शयन्न् उवाच
यथा मया रथस् त्यक्तो विप्रेभ्यः परया मुदा ।
तथाहं त्रिभवं त्यक्त्वा स्पृशेयं बोधिम् उत्तमाम् ॥ ( स्ब्व् इइ 121 )
इति; सो ऽपरेण समयेन कुन्दकुमुदहिमरजतसिताभ्रवर्णं सप्तसुजातसुप्रतिष्ठितचरणतलमैरावणविलासगामिनं परमस्वाभाव्यलक्षणालङ्कृतपुण्यनिदर्शनं राजवर्धनं नाम गजवरम् अभिरुह्य परितुष्टभृत्यमित्रसेवकानुयात्रिकैः चन्द्र इव नक्षत्रगणैः परिवृतः संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीववकनिर्घोषिते वनषण्डे उद्यानभूमिं निर्ययौ; अथ केचित् प्रत्यर्थिकप्रयुक्ता विप्रास् त्वरितत्वरितं विश्वन्तरं कुमारम् अभिगम्य ऊचुः: जयतु भवान् क्षत्रियकुमारः इति; आह च
सदैत्यामरलोकेषु विश्रुतः सर्वदो भवान् ।
दातुम् एतं गजवरम् अस्मभ्यस् त्वम् इहार्हसि ॥ इति
एवम् उक्तश् च बोधिसत्वस् तस्माद् अपि गजवराल् लघु लघ्व् एव अवतीर्य हृष्टतुष्टप्रमुदितमनास् तेभ्यस् तं गजवरम् उपदर्शयन्न् उवाच
यथा मया गजस् त्यक्तो विप्रेभ्यः परया मुदा ।
तथाहं त्रिभवं त्यक्त्वा स्पृशेयं बोधिम् उत्तमाम् ॥
शुश्राव च राजा विश्वामित्रः: पुत्रेण च तेभ्यो विश्वन्तरेण राज्यवर्धनो नाम गजवरः प्रत्यर्थिकप्रयुक्तेभ्यो दत्तः इति; ( अ 468ब् ) श्रुत्वा च पुनः राज्ञा विस्वामित्रेण कोपकुपितेन विश्वन्तरः कुमारः आहूयोक्तः: गच्छ कुमार न ते मद्विषये वस्तव्यम् इति; ततो विश्वन्तरः कुमारः पित्रा परित्यक्तः चिन्तयामास: बोधाय मया कृतव्यवसायेन सर्वलोकानुग्रहार्थं बद्धसन्नाहेन गजो ऽसौ त्यक्तः
तद् गृहे वर्तमानेन दानं देयं यथाबलम् ।
तपोवनं वा संश्रित्य कर्तव्यो नियमः परः ॥
तद् अहं गृहम् उत्सृज्य प्रयास्यामि तपोवनम् ।
वक्तुं न तूत्सहे वाक्यं न दास्यामीति याचितः ॥ इति
अथैवं कृतमतिर् बोधिसत्वो भार्याया माद्र्याः सकाशम् अभिगम्य एतद् विस्तरेण निवेदयामास; ततः सा माद्री सहश्रवणाद् एव ( स्ब्व् इइ 122 ) प्रियविप्रयोगाशङ्कितहृदया कृतकरपुटा बोधिसत्वम् उवाच: आर्यपुत्र यद्य् एवम् अहम् अपि तपोवनं यास्यामि इति; न शक्यं मया आर्यपुत्रवियुक्तया मुहूर्तम् अपि प्राणान् धारयितुं; कुतः
गगनम् इव चन्द्रहीनं सस्यविहीना भवेद् यथा पृथिवी ।
नलिनीव जलविहीना भर्तृविहीना भवेत् तथा नारी ॥ इति
बोधिसत्व उवाच: अवश्यम् आवयोर् अन्ते वियोगेन भवितव्यम्, एष लोकस्वभावः; त्वं च प्रवरान्नपानशयनासनसंवसनोपचिता परमसुकुमारशरीरा; तपोवने च तृणपर्णोपचितायां भूमौ स्वप्तव्यं; मूलफलानि चाहारः; दर्भोपलकण्टकचितायां मह्यां विचरितव्यम्; अभीक्ष्णम् उपवासम् उपवसितव्यं; सर्वजनस्यात्मा उपदर्शयितव्यः; सर्वप्रयत्नेनातिथयः पूजयितव्याः; तत्रापि च मया अवश्यं यथाशक्त्या दानं देयं; तत्र भवत्या न किंचिद् अनुतापः करणीयः; तत् पुनर् अपि तावत् संप्रधार्यताम् इति; माद्री कथयति: आर्यपुत्र यथाशक्त्या अहम् आर्यपुत्रम् अनुवर्तिष्ये इति; बोधिसत्वः कथयति: यद्य् एवं स्मर्तव्या ते इयं प्रतिज्ञा इति; ततो बोधिसत्वः पितरम् उपगम्य मूर्ध्ना च प्रणिपत्योवाच
क्षमस्व यत् तात मयापराद्धं गजप्रदानं प्रति पार्थिवेन्द्र ।
एष प्रयास्यामि पुराद् अरण्यं कोशक्षयो मा नृपते तवाभूत् ॥ इति
ततः पुत्रवियोगविक्लवो राजा बष्पोपरुध्यमानगद्गदकण्ठ उवाच: पुत्र तिष्ठ निवर्त्यतां दानान् मतिर् इति; बोधिसत्व उवाच
अप्य् एव परिवर्तेत धरा सधरणीधरा ।
प्रदानान् न त्व् अहं चित्तं निवर्तेय महीपते ॥
इत्य् उक्त्वा प्रक्रान्तः; ततः पुत्रदुहितृकलत्रसहितः शोकोत्कण्ठः पौरजानपदसहस्रैर् अनुगम्यमानः तस्मान् नगरान् निर्जगाम; कश्चित् पुरुषः तं रुदनपरिदेवितशब्दं श्रुत्वा महाजनकायं च नगरद्वारेण निर्गच्छन्तं दृष्ट्वा अन्यतरं पुरुषम् उवाच: भोः पुरुष किंकृतो ऽयं महाजनस्य रुदितशब्दः इति; स उवाच: किं भवान् न जानीते ( स्ब्व् इइ 123 )
अस्मात् पुरान् नृपतिना स्वसुतः सुदंष्ट्रो
निर्वास्यते स्थिरधृतिर् निरतः प्रदाने ।
तं प्रस्थितं वनम् उपेत्य सपुत्रदारं
पौराः समेत्य सुभृशं करुणं रुदन्ति ॥ इति
ततो बोधिसत्वस् तस्मान् नगरान् निर्गतान् पौरान् यथान्याय्यम् अभिगम्योवाच: निवर्तन्तु भवन्तः; सुचिरम् अपि हि प्रियसंयोगो भूत्वा अवश्यम् एवान्ते ( अ 469अ ) विप्रयोगावसानः; वासवृक्षो ऽध्वप्रतिश्रयभूतो हि बन्धुजनसंयोगः; अवश्यभावी प्रियविप्रयोगः; कुतः
सर्वेषु लोकेष्व् अवशस्य जन्तोः प्रियैर् वियोगो भवन्तीति मत्वा ।
कार्या भवद्भिर् भुवि सर्वयत्नैः स्थिराप्रकम्प्या च शमाय बुद्धिः ॥ इति
अथ त्रिंशद्योजनातिक्रान्तं बोधिसत्वम् अवेक्ष्य अन्यतमो ब्राह्मणः अभिगम्योवाच: भोः क्षत्रियकुमार इतस् त्रिंशन्मात्रैर् अधिष्ठानं; ततो ऽहं भवतो गुणश्रवणाद् आगतः; तद् अर्हति भवान् अनेन रथवरेण मे सफलं श्रमं कर्तुम् इति; ततो माद्री संजातामर्षा निष्ठुराभिधानेन तं ब्राह्मणम् उवाच
अहो द्विजस्यास्य सुदारुणा मतिर् वने ऽपि यो ऽभ्यर्थयते नृपात्मजम् ।
न नाम कारुण्यम् इहास्य जायते नरेन्द्रपुत्रे नृपतिश्रिया च्युते ॥ इति
बोधिसत्व उवाच: न खलु न खलु भवत्या ब्राह्मणः परिभाषणीयः; कुतः
यद्य् एते न भवेयुर् अर्थरुचयो माद्रि प्रतिग्राहकाः
बोधिं कः समवाप्नुयाद् भुवि नरः सर्वप्रदानाद् ऋते ।
षड्भिः पारमिताभिर् उत्तमगुणाः संबोधिसत्वाः सदा
दानाद्याभिर् अवाप्नुवन्ति नियतं सर्वज्ञताम् उत्तमाम् ॥ इति
ततो बोधिसत्वस् तम् अप्य् अश्वरथं परेण हर्षेण तस्मै ब्राह्मणाय दत्वा उवाच
अनेन मात्सर्यमलप्रवाहिना रथप्रदानेन ममास्त्व् इह द्विज । ( स्ब्व् इइ 124 )
महर्षिभिः सद्भिर् अनुप्रवर्तितो निरास्रवो धर्ममयो महारथः ॥ इति
ततो विश्वन्तरः प्रमुदितहृदयस् तम् अपि रथवरं ब्राह्मणाय दत्वा कृष्णाजिनां कुमारीं स्कन्धे आरोप्य माद्री च जालिनं कुमारं तपोवनाभिमुखौ संप्रस्थितौ; अनुपूर्वेण च तपोवनम् अनुप्राप्तौ; ततो विश्वन्तरस् तस्मिंस् तपोवने स्वहृदयप्ररितोषकरं व्रतम् आस्थाय विजहार; यावद् अन्यतमो ब्राह्मणः माद्र्या<ं> मूलफलार्थम् अभिगताया<ं> तपोवनाद् विश्वन्तरम् अभिगम्योवाच: जयतु भवान् क्षत्रियकुमारः;
उपस्थायकहीनो ऽहं भ्रमामि सवधूजनः ।
तदर्थं बालकाव् एतौ मम त्वं दातुम् अर्हसि ॥ इति
एवम् उक्तो विश्वन्तरो बोधिसत्वः इष्टसुतपरित्यागं प्रति मुहूर्तं चिन्तापरो बभूव; ततो ऽसौ ब्राह्मणो विश्वन्तरं बोधिसत्वम् उवाच: यतो ऽहं भवन्तम् अर्थये; तत् किम् इदं विचार्यते
भवान् ख्यातः क्षितितले सर्वतः करुणात्मकः ।
यथा शिबिः श्रुतो नित्यं तथा त्वं कर्तुम् अर्हसि ॥ इति
एवम् उक्तो बोधिसत्वस् तं ब्राह्मणम् उवाच: भो महाब्राह्मण
स्वजीवितपरित्यागे न मे काचिद् विचारणा ।
किं पुनः स्वसुतत्यागे मम स्यान् मतिर् अन्यथा ॥
अपि तु महाब्राह्मण
परित्यक्तौ मया बालौ वनवृद्धौ सुखात्मकौ ।
मातृहीनौ कथम् इमौ स्थास्यतः करुणात्मकौ ॥
मा भूद् वक्ता च मे कश्चित् कुमारौ निर्घृणो भृशम् ।
बालौ त्यजति नात्मानं साधु ब्राह्मण मां नय ॥ इति
अथ स ब्राह्मणो ( अ 469ब् ) विश्वन्तरम् उवाच: भोः क्षत्रियकुमार नैतद् भवतः प्रतिरूपं महति राजवंशे प्रसूतस्य सर्वस्यां पृथिव्यां ख्यातयशसः सर्वप्राणिषु दयानुक्रोशप्रवृत्तस्य दानमानसत्कारगन्धहस्तिनः ( स्ब्व् इइ 125 ) श्रमणब्राह्मणातिथिगुरुजनपूजकस्य कृपणवणीपकानाथदरिद्रजनपरिग्राहकस्य सर्वमनोरथपरिपूरकस्य अमोघदर्शनस्य यत् मम वन्ध्यम् आगमनं भवेत्, मोघो वा मार्गश्रमः निरर्थकं वा दर्शनम्; अफला सा आशा चिरकालाशासितो वा चेतस्य् आशासकः; तत् शिघ्रं सङ्क्कल्पतुरगस्य मनोरथस्य तद्वचननास्तिक्यप्रत्याहतस्य मे निर्वृत्तिर् भवेत्; तद् अर्हति भवान् परिपूर्णमनोरथं मां विसर्जयितुं कुतः
जलनिधिवसना<ं> ग्रहान्तराक्षी<ं>
गिरिवरपीनपयोधरोत्तमाङ्गीम् ।
सनगरनिगमां विचार्य भूमिं
न तव सुदंष्ट्र समो ऽस्ति दानशक्त्या ॥ इति
अथैतद् वचनं ब्राह्मणस्योपश्रुत्य विश्वन्तरो बोधिसत्वः इमां चिन्ताम् आपेदे तनयस्नेहविक्लवः
यदि तावत् प्रदास्यामि ब्राह्मणस्य सुतद्वयम् ।
प्राप्स्याम्य् अहं च माद्री च दुःखं पुत्रवियोगजम् ॥
अथास्मै न प्रदास्यामि भविष्यामि क्षतव्रतः ।
निराशो ब्राह्मणश् चायं गमिष्यति यथागतः ॥
कामं पुत्रवियोगार्तो भुवि शोकं व्रजाम्य् अहम् ।
भग्नप्रतिज्ञो न त्व् एव भविष्यामि क्षतव्रतः ॥ इति
ततो विश्वन्तरो बोधिसत्वः इष्टसुतपरित्यागं प्रति कृतनिश्चय उवाच: एष भो
लोकं दुःखमाहर्णवे प्रतिभये मज्जन्तम् आर्तं भृशम्
पारं तारयितुं सुदुष्करशतैर् बध्नामि मार्गप्लवम् ।
इत्य् उक्त्वा विमलाम्बुपूर्णवदनो वक्त्रेण निर्मन्युना
बालाव् अश्रुजलाम्बुपूर्णनयनौ विप्राय तस्मै ददौ ॥ ( स्ब्व् इइ 126 )
आह च
अस्य पुत्रप्रदानस्य फलं विपुलम् आप्नुयाम् ।
तारयेयम् अहं तेन लोकं संसारसागरात् ॥ इति
दत्तमात्रयोश् च पुनस् तयोर् बालदारकयोः इयं च वसुमती षड्विकारं चचाल; ततस् तेन भूमिकम्पेन तद्वनवासिनस् तापसाः संत्रस्ताः अन्योन्यम् ऊचुः
किंप्रभावनिमित्तो ऽयं भूमेः कम्पः सुदारुणः ।
ज्ञतव्यम् इह सुव्यक्तं प्रभावः कस्य ईदृशः ॥ इति
तत्रान्यतमो वृद्धतापसो वसिष्ठसगोत्रो निमित्तज्ञानकुशलः; स तेषाम् ऋषीणाम् एतम् अर्थं निवेदयामास
नूनं तपोवनरतौ हि फलाम्बुभक्षौ
बालौ सुतौ नयनतुष्टिकरौ मनोज्ञौ ।
दुःखार्दितस्य जगतः परिमोक्षणार्थं
विश्वन्तरस् त्यजति कम्पति येन भूमिः ॥ इति
ततस् तौ बालदारकौ पितुर् आशयपरित्यागबुद्धिम् अवगम्य करुणकरुणं रुदन्तौ विश्वन्तरस्य पादयोर् निपत्य कृतकरपुटाव् ऊचतुः: प्रसीद तात मा आवां परित्याक्षीः; क्वेदानिं गुरुविहीनौ गमिष्यावः इति
अम्बा च तात निष्क्रान्ता त्वं च नो दातुम् अर्हसि ।
यावत् ताम् अपि पश्यावस् ततो दास्यति नौ भवान् ॥ इति
ततो बोधिसत्वः स्नेहविक्लवः साश्रुदुर्दिननयनः तौ बालदारकौ ( अ 470अ ) परित्यज्योवाच: पुत्रकौ
न मे हृदयम् अस्निग्धं नाकृपा नापि नैर्घृणम् ।
सर्वलोकहितार्थं तु त्यजामि गुणदर्शनात् ॥ इति
अप्य् एवाहं परां बोधिम् अभिगम्य शिवां स्वयम् ।
दुःखार्णवगतं लोकं तारयेयं निराश्रयः ॥ इति
ततस् तौ बालदारकौ पितुर् आशयपरित्यागम् अवगम्य करुणादीनविलम्बिताक्षरं पादयोर् निपत्य कृतकरपुटाव् ऊचतुः
यद्य् एवं व्यवसायस् ते वचनाद् आवयोस् त्वया
वक्तव्या जननी तात क्षन्तुम् अम्ब त्वम् अर्हसि ॥ इति ( स्ब्व् इइ 127 )
अपि च तात
यन् नौ गुरोर् अपकृतं त्वयि बालभावात्
यद्य् अप्रियं वचनम् अन्यद् उदाहृतं वा ।
शुश्रूषणं च परिपूरितम् एव न स्यात्
बालापराध इति तत् खलु मर्षणीयम् ॥
इत्य् उक्त्वा पितरम् अभिवाद्य त्रिः प्रदक्षिणीकृत्य गुरुवचनलालसौ मुहुर्मुहुः संपरिवर्तमानौ नयनाम्बुपरिप्लुताक्षकौ तस्माद् आश्रमाद् विनिश्चक्रामतुः; ततो बोधिसत्वस् तैर् अतिकरुणैर् बालदारकवचोभिः विक्लवीकृतहृदयो बोधौ मनः प्रणिधाय तपोवनपर्णकुटीं प्रविष्टः; निष्क्रान्तमात्रयोश् च बालदारकयोः अयं त्रिसहस्रमहासहस्रो लोकधातुः षड्विकारं कम्पितः; अनेकैश् च देवतासहस्रैः हाहाकृतम् अन्तरिक्षं बभूव
अहो प्रदानमाहात्म्यम् अहो खल्व् अस्य निश्चयः ।
बालाव् इमौ सुतौ त्यक्त्वा यन् न विक्रियते मनः ॥ इति
तस्मिंश् च समये माद्री मूलफलान्य् आदाय आश्रमाभिमुखी संप्रस्थिता; तेन च महता भूमिकम्पेन त्वरितम् आश्रमपदं प्रतस्थे; अन्यतमा देवता सिंहरूपधारिणी भूत्व मार्गम् अवरुध्यावस्थिता, मा हैव माद्री बोधिसत्त्वस्य सर्वसत्वनिर्मोक्षणकृतोद्योगस्य दानपारमितायां विघ्नम् उत्पादयिष्यतीति
ततो माद्री तां मृगराजवधूम् उवाच
मृगराजवधूविलासिनि
किम् इदं माम् उपरुध्य तिष्ठसि ।
ध्रुवम् अस्मि यथा पतिव्रता
लघु मार्गाद् अपसर्प मे तथा ॥
अपि च
त्वम् अपि मृगराजपत्नी
अहम् अपि भार्या नरेन्द्रसिंहस्य ।
धर्मेण भवसि भगिनी
मृगराज्ञि ददस्व मे मार्गम् ॥ ( स्ब्व् इइ 128 )
इत्य् एवम् उक्ता सा सिंहरूपधारिणी देवता तस्मान् मार्गाद् अपक्रान्ता; ततो माद्री निमित्तान्य् अप्रशस्तानीति मत्वा मुहूर्तं चिन्तयामास: यथायम् अन्तरीक्षे रुदनशब्दः श्रूयते, यथा वनवासिनां भूतानां विक्रोशनशब्दो व्यक्तम् आश्रमपदे अकुशलं भविष्यति इति; आह च
यथा स्फुरति मे नेत्रं यथा रौति विहङ्गमः ।
ध्रुवं तौ बालकौ त्यक्तौ यथा मे मतिर् उत्सुका ॥
यथायं पृथिवीकम्पो वेपते हृदयं च मे ।
व्यक्तौ तौ बालकौ त्यक्तौ यथा कायश् च सीदति ॥ इति
सा एवम् अनर्थशतसहस्राणि चिन्तयन्ती आस्रमपदं गता; प्रविश्य चा आश्रमपदं ससंभ्रान्ता निरीक्षते; न पश्यति पुत्रकौ; ततो विक्लवहृदया वेपमाना अस्थानपदानुसारं विकल्पयति: अस्मिन् प्रदेशे जालिनः कुमारः सहभगिन्या मृगपोतकैर् ( अ 470ब् ) अभीक्ष्णं क्रीडितवान्; इमानि च ताभ्यां पांसुनगराणि कृतानि; इमानि च तयोः क्रीडनकानि; तौ तु न पश्यामि; अथ वा अम्बा न दृश्यते इति पर्णकुटीं प्रविश्य शयितौ भविष्यतः इत्य् एवम् आशङ्कापरिगतहृदया सुतदर्शनलालसा मूलफलान्य् एकान्ते उपनिक्षिप्य बाष्पाम्बुपरिप्लुतेक्षणा भर्तुः पादयोर् निपत्य पृच्छति: आर्यपुत्र क्व गतौ बालदारकौ इति; विश्वन्तर उवाच
आशया समभिक्रान्तो ब्राह्मणो मम सन्निधौ ।
तस्य तौ दारकौ दत्तौ त्वम् अनुज्ञातुम् अर्हसि ॥ इति
अथैवम् उक्ता माद्री विषदिग्धविद्धेव मृगी भूमौ निपपात; जलाशयोद्धृतेव मत्सी पृथिव्याम् आवर्तनपरिवर्तनं करोति स्म; हृतपोतेव कुररी करुणकरुणं विरौति स्म; नष्टवत्सेव गौर् बहुविधं हम्भारवैर् विललाप; आह च
बालपङ्कजसमानवक्त्रकौ
पद्मपत्रसुकुमारहस्तकौ ।
दुःखदुःखितम् अदृष्टदुःखकौ
कां गतिं मम गतौ हि पुत्रकौ ॥
निरतौ मृगकैः सहाश्रमे
मृगशाबार्जनकौ मृगाक्षकौ ।
कथम् अद्य नु पुत्रकौ मम
व्रजतस् तस्य वशे न दुःखितौ ॥ ( स्ब्व् इइ 129 )
नयनाम्बुपरिप्लुताक्षकौ
विरुवन्तौ करुणं सुदुःखितौ ।
न च मे ऽद्य सुदृष्टकौ कृतौ
कृपणं जीवति दुःखितो जनः ॥
अङ्के मम तौ विवृद्धकौ
मूलपुष्पफलभोजनात्मकौ ।
क्षान्तिमार्दवगुरुप्रियौ सदा
दुःखितौ हि परमं सुतौ मम ॥
ज्ञातिमातृपरिहीणकौ च तौ
बन्धुभिश् च सहसा निराकृतौ ।
दुर्जनं जनम् उपेत्य पापकं
दुःखितौ हि परमं सुतौ मम ॥
क्षुत्तृषापरिगतात्मकौ सदा
कस्य तौ वशम् उपागमिष्यतः ।
आर्तिदुःखपरिपीडितौ च तौ
प्रेष्यभावम् उपयास्यतो ध्रुवम् ॥
कर्म नूनम् इह पापकं मया
अन्यजन्मनि कृतं सुदारुणम् ।
प्राणिनः प्रियशतैर् वियोजिता
येन गौर् इव विरौम्य् अवत्सिका ॥
येन सत्यवचनेन मे सदा
सर्वसत्वसमतां गतं मनः ।
तेन सत्यवचनेन मे सुतौ
दासभावगमनाद् विमुच्यताम् ॥ इति
ततो माद्री ताभ्यां बालदारकाभ्यां ये वृक्षा रोपितकायपालितकास् तान् किसलयसंछन्नाण् दृष्ट्वा ससंभ्रमा परिष्वज्योवाच
बालबालकलशावसिक्तकाः
पल्लवप्रपतिताश्रुबिन्दवः ।
चेतना इव रुदन्ति वृक्षका
बालकाः स्तनविहीनका इव ॥
पुनश् च तयोर् बालदारकयोः क्रीडनकान् आश्रमवासिनो मृगशाबकान् दृष्ट्वा करुणादीनविलम्बिताक्षरं वचनम् उवाच ( स्ब्व् इइ 130 )
दुःखम् एतद् अपरम् ह्य् अनल्पकम्
यद् भ्रमन्ति मृगशाबका इमे ।
यद् वयस्यपरिदर्शनोत्सुकाः
स्थानकेषु परिमार्गणोत्सुकाः
ततो येन मार्गेण तौ बालदारकौ गतौ तं मार्गम् अनुसरन्ती तयोर् बालदारकयोर् इतश् चामुतश् च पदान्य् अनृजुकानि दृष्ट्वा तीव्रदुःखाभ्याहता पुनर् उवाच ( अ 471अ )
पात्यमानौ ध्रुवं नीतौ यथा पदविलम्बितम् ।
क्वचिद् द्रुतगतावृत्तौ हानृशंस द्विजोत्तम ॥
बाष्पगद्गदनिरुद्धकण्ठकौ
वेपमानरुचिराधरोष्ठकौ ।
तौ हि मे हरिणपरिप्लुताक्षकौ
कोमलैश् चरणकैः कथं गतौ ॥ इति
ततो बोधिसत्वस् तां तथा परिदेवनात्मिकां दृष्ट्वा ताभिस् ताभिः श्रुतिभिर् अनित्यताप्रतिसंयुक्ताभिः बहुप्रकारम् अनुसंज्ञापयन्न् उवाच
न दर्पान् न च विद्वेषान् मया त्यक्तं सुतद्वयम् ।
सर्वसत्वहितार्थं तु त्यक्तौ तौ दुस्त्यजौ सुतौ ॥
आत्मपुत्रकलत्रं च त्यक्त्वा परमदुस्त्यजम् ।
प्राप्नुवन्ति महासत्वाः शिबिवद् बोधिम् उत्तमाम् ॥ इति
त्यागाधिष्ठानान् माद्रि पुत्रौ तौ
त्यक्तौ दुस्त्याजौ लोकनिर्मोक्षणार्थम् ।
दद्यां स्वान् दारान् वाहनं चापि वित्तं
सर्वं सर्वेभ्यो दातुम् एषा मतिर् मे ॥ इति
अथ माद्री धैर्यम् आलम्ब्य चित्तेन बोधिसत्वम् उवाच
न करोम्य् अन्तरायं ते मा ते भून् मतिर् अन्यथा ।
माम् अपीच्छसि चेद् दातुं निर्विशङ्कं प्रयच्छ माम् ॥
अपि तु
यस्यार्थे स्वजनान् धीर त्यजसि स्नेहविक्लवः ।
तम् अर्थं प्राप्नुहि क्षिप्रं तारयन् हि भवाज् जगत् ॥ इति
ततः शक्रो देवेन्द्रः तद् अत्यद्भुतम् अतिदुष्करं च माद्र्या बोधिसत्वस्य च व्यवसायम् आगम्य त्रिदशगणपरिवृतः उपरि ( स्ब्व् इइ 131 ) विहायसा तदाश्रमपदम् उपगम्य उदारेणावभासेन तद् वनम् अवभास्य गगनतलस्थ एव बोधिसत्वम् उवाच
यथा मूढे लोके कुमतिग्रहपर्याकुलमतौ
विभोगासक्ताशये च सुतपाशैर् निगदिते ।
त्वम् एको निःसङ्गस् त्यजसि तनयान् स्नेहजनकान्
ध्रुवं क्षेमं शान्तं विमलविरजं प्राप्स्यसि पदम् ॥ इति
तद् एवं प्रोत्साह्य बोधिसत्वं शक्रो देवेन्द्रश् चिन्तयामास: एको ऽयम् उपस्थायकविरहितः खेदम् आपत्स्यते; यन्न्व् इमाम् अस्मात् प्राथयेयम् इति; ततो बोधिसत्वसकाशाद् अपक्रम्य ब्राह्मणवेषम् आस्थाय पुनर् बोधिसत्वम् उवाच
इमां सर्वानवद्याङ्गीम् अनुरक्तां पतिव्रताम् ।
संप्रयच्छ कुलश्लाघ्यां मम भृत्यार्थभागिनीम् ॥ इति
ततो माद्री संजातामर्षा ब्राह्मणम् उवाच
निर्लज्जश् चापि लुब्धश् च त्वम् इह ब्राह्मणाधमः ।
सद्धर्मनिरतां यस् त्वं माम् इच्छसि पतिव्रताम् ॥ इति
ततो विश्वन्तरो बोधिसत्वः करुणापरिगतहृदयो माद्रीं निरीक्षितुम् आरब्धः; अथ माद्री विश्वन्तरं बोधिसत्वम् उवाच
न शोचाम्य् अहम् आत्मानं नापेक्षा मे तथात्मनि ।
यथा त्वाम् अनुशोचामि कथम् एको भविष्यसि ॥ इति
ततो बोधिसत्वस् तां माद्रीम् उवाच
अहम् इह भुवि माद्रि नानुशोच्यो
परिमृश पदम् अक्षयं विशोकम् ।
तम् इमम् अनुसर द्विजं विशोको
मृगशरणे त्व् अहम् आश्रमे ऽभ्युपैमि ॥
इति विदित्वा हृष्टतुष्टप्रमुदितमनाश् चिन्तयामास
इदम् अस्मिन् वने दानं पश्चिमं मे भविष्यति
माद्रीं चेमां परित्यज्य भविष्याम्य् अपरिग्रहः ॥
इति विदित्वा माद्रीपाणौ गृहित्वा तं ब्राह्मणम् उवाच
भावानुरक्तशुश्रूषां सद्वृत्तां प्रियवादिनीम् । ( स्ब्व् इइ 132 ) ( अ 471ब् )
मम भार्याम् इमाम् इष्टां गृहाण त्वं द्विजोत्तम ॥ इति
ततः पत्नीं सुदंष्ट्रस्य त्यजतो बोधिकाङ्क्षया ।
षड्विकारा मही कृत्स्ना चचालाम्बुनि नौर् यथा ॥
ततो माद्री बाष्पोपरुद्ध्यमानगद्गदकण्ठा ब्राह्मणवशम् आगता पतिपुत्रदुहितृरहिता इदम् अभ्रवीत्
कीदृङ् मया कृतं कर्म अनार्यं पूर्वजन्मसु ।
नष्टवत्सेव गौर् येन विरौमि विजने वने ॥
ततः शक्रो देवेन्द्रो ब्राह्मणवेषम् अन्तर्धाप्य स्ववेषेण स्थित्वा माद्रीम् उवाच
न ब्राह्मणो ऽस्मि सुभगे न च मानुषो ऽस्मि
शक्रस् त्व् अहं ह्य् असुरनाशकरः सुरेन्द्रः ।
प्रीतो ऽस्म्य् अनेन विनयेन तवोत्तमेन
तद् ब्रूहि किं वरम् इहेच्छसि मत्सकाशात् ॥ इति
ततो माद्री तद्वचनजनितसौमनस्या शक्रं प्रणम्योवाच
मम पुत्रौ सहस्राक्ष दासभावाद् विमोचय ।
पितामहसकाशं च प्रापय त्रिदशेश्वर ॥ इति
तथेत्य् उक्त्वा महेन्द्रः पुनर् आश्रमपदं प्रविश्य बोधिसत्वम् उपजग्मिवान्; माद्रीं च वामेन पाणिना गृहित्वा बोधिसत्वम् उवाच
अहं माद्रीम् इमां तुभ्यं ददामि परिचारिकाम् ।
न च ते कस्यचिद् देया न्यासद्रोहो हि गर्हितः ॥ इति
ततो शक्रो देवेन्द्रस् तं बालदारकपरिग्रहीतारं तथा व्यामोहयामास यथा अन्यनगरशङ्कया तद् एव नगरम् उपेत्य तौ बालदारकौ विक्रेतुम् आरब्धः; यावद् अमात्यैर् दृष्ट्वा राज्ञे निवेदितम्
एतौ पुत्रस्य ते पुत्रौ ब्राह्मणो ऽस्मिन् पुरोत्तमे ।
जालिनं चैव कृष्णां च विक्रीणीते सुदारुणः ॥ इति
एतच् छ्रुत्वा भ्रान्तचित्तः स राजा
प्राह क्षिप्रं दर्शय त्वं कुमारौ ।
नार्यश् चक्रुः क्रोशम् अन्तःपुरस्थाः
पौरा राज्ञः क्षिप्रम् एयुः समीपम् ॥
यावद् अन्येनामात्येन राज्ञः सकाशम् उपनीतौ ( स्ब्व् इइ 133 )
पौत्रौ निरीक्ष्य स नृपो ऽभिमुखोपनीतौ
क्षीणस्वरौ कृशतनू मलदिग्धगात्रौ ।
सिंहासनात् क्षितितलं सहसा पपात
पौरा विचुक्रुशुर् अमात्यगणाः स्त्रियश् च ॥
ततो राजा अमात्यान् आमन्त्रयते
वने ऽपि वसतो दानेष्व् अभिरतं मनः ।
तम् इहानयत क्षिप्रं पत्न्या सार्धं सुलोचनम् ॥ इति
ततः शक्रो देवेन्द्रो बोधिसत्वम् अभिनमस्य स्वभवनम् उपजगाम; पश्चाच् च राजनि विश्वामित्रे अभ्यतीते ब्राह्मणामात्यपौरजानपदैः सार्धं तदाश्रमपदं गत्वा बोधिसत्वं याचित्वा स्वपुरम् आनीय राज्ये प्रतिष्ठापितवान्; ततो विश्वन्तरो राजा सर्वंददो बभूव; स श्रंअनब्राह्मणवनीपकसुहृत्सम्बन्धिबान्धवानुजीविजनेषु अनेकप्रकाराणि दानानि दत्वा पुण्यानि कृत्वा गाथां भाषते
बोधिं प्रार्थयमानेन दानं देयं विशारद ।
क्षत्रिये ब्राह्मणे वैश्ये शूद्रे चण्डालपुक्कशे ॥
हिरण्यं च सुवर्णं च गवाश्वमणिकुण्डलम् ॥
दद्यात् संपन्नशीलेभ्यो दासकर्मकरं तथा ॥
सुतदारपरित्यागं कृत्वा मुक्तेन चेतसा ।
प्राप्नुवन्ति नराः शुद्धिम् अस्मिन् लोके परत्र च ॥ इति
यदा विश्वामित्रेण राज्ञा विश्वन्तरनिमित्तं जुज्जुकाय ब्राह्मणाय प्रभूतं धनं दत्तं तदासौ विस्तीर्णविभवो जातः; तस्य ( अ 472अ ) सुहृत्सम्बन्धिबान्धवा मित्राणि चागम्य कथयन्ति: या च काचित् तव श्रीर् असौ विश्वन्तरं कुमारम् आगम्य इति; स कथयति: किं मम विश्वन्तरेण कृतम् उत्तमवर्णप्रसूतो ऽहं; दक्षिणीयो लोकस्य; येन मम भोगा उपनमन्ति इति
भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ विश्वन्तरो नाम राजकुमारः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ जुज्जुकः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; तस्मात् तर्हि भिक्षवः एवं शिक्षितव्यं यत् कृतज्ञा भविष्यामः कृतवेदिनः स्वल्पम् अपि कृतं न नाश्ययिष्यामः; प्राग् एव प्रभूतं; इत्य् एवं वो भिक्षवः शिक्षितव्यम् ( स्ब्व् इइ 134 )
थे स्तोर्य् ओf श्रोणकोटीविंशा
बुद्धो भगवान् विहरति वेणुवने कलन्दकनिवापे; तेन खलु समयेन चम्पायां पोतलो नाम गृहपतिः प्रतिवसति, आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा उपस्थीयते शीते शीतोपकरणैः उष्णे उष्णोपकरणैः वैद्यप्रज्ञप्तैर् आहारैः, नातितिक्तैः नात्यम्लैः नातिलवणैः नातिमधुरैः नातिकटुकई नातिकषायैः तिक्ताम्ललवणमधुरकटुकषायविवर्जितैः; हारार्धहारविभूषितगात्री अप्सरा इव नन्दने वने विचारिणी मंचान् मंचं पीठात् पीठम् अनवतरन्ती अधरिमां भूमिं; न चास्याः किंचिद् अमनोज्ञां शब्दश्रवणं यावद् गर्भस्य परिपाकाय
तेन खलु समयेन पोतलको गृहपतिः राजगृहं गतः केनचिद् एव करणीयेन; सा चाष्टानां वा नवानां वा मासानाम् अत्ययात् श्रवणे नक्षत्रे प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिकः; तस्य पादतलयोर् अधस्तात् चतुरङ्गुलमात्राणि रोमाणि सुवर्णवर्णवर्णानि जातानि; यावत् पोतलकस्य गृहपतेः स्वमनुष्यः त्वरितत्वरितं राजगृहं गतः, पोतलकस्य गृहपतेः कथयति: गृहपते दिष्ट्या वर्धसे पुत्रस् ते जातः इति; स प्रीतिसौमनस्यजातः भूयः पृच्छति किं कथयसि गृहपते पुत्रस् ते जातः; पुनः पृच्छति किं कथयसि इति; अथ तस्य पुरुषस्यैतद् अभवत् किम् अयं गृहपतिर् भूयो भूयः पृच्छति? मा मां प्रलापयितुकामः इति विदित्वा तूष्णीम् अवस्थितः; गृहपतिः कथयति: भोः पुरुष क्षूणस् त्वं; यदि त्वया शतम् अपि वाङ् निश्चारिताभविष्यत्, मयापि तव मुखं सुवर्णस्य पूरितम् अभविष्यत् इति; ततः पोतलकेन गृहपतिना तस्य पुरुषस्य त्रीन् वारान् सुवर्णेन मुखं ( अ 472ब् ) पूरितं; कोष्ठागारिकस्य च सन्दिष्टं दारकस्यावलेहिकामूल्यं विंशतिहिरण्यकोटीर् देहि इति
पोतलको गृहपतिः प्रीतमनाः राज्ञः सकाशम् उपसंक्रान्तः देव पुत्रो मे जातः इति; राजा कथयति: शोभनम् एव; ददाम्य् ( स्ब्व् इइ 135 ) अहं तस्य चम्पायां साधारणं सप्तहस्तिकं दानीयम् इति; पोतलको गृहपतिः राजानं बिम्बिसारम् अवलोक्य चम्पाम् आगतः; ततो गृहपतेर् ज्ञातयः त्रीणि सप्तकान्य् एकविंशतिदिवसान् जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति किं भवतु दारकस्य नाम इति; अन्ये कथयन्ति: अयं दारकः श्रवणनक्षत्रे जातः; पित्रा चास्य जन्मनि विंशतिहिरण्यकोट्यः अवलेहिकामूल्यं दत्तः; तस्माद् भवतु दारकस्य श्रोणः कोटीविंश इति नाम; तस्य श्रोणः कोटीविंश इति नामधेयं व्यवस्थापितं; श्रोणः कोटीविंशो दारकः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः; द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्; स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तः सङ्ख्यायां गणनायां मुद्रायां; उद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां वस्त्रपरीक्षायां रत्नपरीक्षायां दारुपरीक्षायां हस्तिपरीक्षायां अश्वपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायां; सो ऽष्टासु परीक्षासु उद्घाटको वाचकः पण्डितः पटुप्रचारः संवृत्तः; तस्य पुण्यमहेशाख्यतां श्रुत्वा समानकुलीनैर् बहुभिर् दारिका दत्ताः; तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकं; त्रीणि उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकं; त्रीणि अन्तःपुराणि व्यवस्थापितानि ज्यैष्ठं मध्यं कनीयसं; स उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति; तस्य दिने दिने पंचशतिकाः पाको भोजनार्थं साध्यते
अजातशत्रु, इम्पेल्लेद् ब्य् देवदत्त, सेएक्स् तो तके हिस् fअथेर् किन्ग् बिम्बिसारऽस् लिfए बुत् fऐल्स् इन् थे अत्तेम्प्त्
देवदत्तेन अजातशत्रुः कुमारो विप्रस्थाप्यते: कुमार सर्वेषां राज्ञां यदा शिरसि पलितं जातं भवति, तदा ज्येष्ठं कुमारं ( स्ब्व् इइ 136 ) राज्यैश्वर्याधिपत्ये प्रतिष्ठाप्य प्रव्रजन्ति; भवतः पितुः केशास् तृतीयं वर्णान्तरं गताः; तथापि कामेष्व् अध्यवसित एव नोपशमं गच्छति इति; अजातशत्रुः कथयति: किम् अस्य करोमि इति; देवदत्तः कथयति पराक्रमस्व इति; कामार्थिनां नास्तिकिंचिद् अकरणीयं; यावद् राजा बिम्बिसारो भगवतो घृतपीतस्य मण्डं पातुकामस्य मण्डम् अधिष्ठाय वेणुवनं संप्रस्थितः; अजातशत्रुणा दृष्टः; तेन कनकः क्षिप्तः; राजा शब्दे कृतावी, तेन तस्य मण्डस्थाली भग्ना; राजा तत एव प्रतिनिवृत्तः
थे बुद्ध, देसिरिन्ग् तो चोन्वेर्त् श्रोणकोटीविंश, सेन्द्स् मौद्गल्यायन तो हिम्, wहो अप्पेअर्स् तो हिम् इन् थे ओर्ब् ओf थे सुन्, अन्द् तल्क्स् तो हिम् ओf थे बुद्ध
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; तत्र ( अ 473अ ) भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: विनिपातितो मौद्गल्यायन अजातशत्रुणा अकल्याणमित्रोपगूढेन तथागतस्य पिण्डपातः; गच्छ चम्पायां पोतलकपुत्रस्य सकाशात् पिण्डपातम् आदाय इति; एवं भदन्तेत्य् आयुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य तद्रूपं समाधिं समापन्नः यथा समाहिते चित्ते राजगृहे ऽन्तर्हितश् चम्पायां प्रत्यष्ठात्; श्रोणः कोटीविंशः आदित्यभक्तः; स दिने दिने काल्यम् एवोत्थाय आदित्यं नमस्यति; आयुष्मान् महामौद्गल्ययानः ऋद्ध्या आदित्यमण्डलं भित्वा अवतीर्णः; अथ श्रोणः कोटीविंशः दृष्ट्वा परं विस्मयम् आपन्नः: प्रत्यक्षम् एवाहम् आदित्यं स्वेन रूपेण पश्यामि इति; दृष्ट्वा च पुनर् गाथां भाषते
भित्वा रविं क्षितितलाभिमुखं क एष
संप्रत्य् उपैति भवनं समशीघ्र एव ।
स्यात् किं न्व् अयं दिनकरो धनदः शशाङ्कः
शक्रो ऽथ वा सुरपतिः सहसावतीर्णः ॥ इति
आयुष्मान् अपि महामौद्गल्यायनस् तस्य चेतसा चित्तम् आज्ञाय गाथां भाषते ( स्ब्व् इइ 137 )
नाहं दीप्तसहस्ररश्मिकिरणस् सूर्यो न ताराधिपः
नाहं वैश्रवणो चास्मि भगवान् नास्मीश्वरस् सुव्रतः ।
पुत्रं माम् अवगच्छ शान्तमनसो बुद्धस्य दीप्तौजसः
भैक्षार्थं तु तवाहम् अभ्युपगतः पिण्डेन कार्यं पुनः ॥ इति
श्रोणः कथयति: किं भवान् मुनिः? स गाथां भाषते
मेरुं प्राप्य यथा हि कांचनगिरिं स्यात् सर्षपो ऽभ्यागतः
सूर्यं प्राप्य यथा भवेच् च तुलितः खद्योतजन्तुः क्षितौ ।
रत्नाढ्यं च समेत्य सागरम् इह स्याद् गोष्पदं संसृतम्
बुद्धं प्राप्य तथा नरोत्तमगुरुं मां विद्धि शास्तात्मजम् ॥ इति
श्रोणः कथयति
अनेनैवानुमानेन वयं हि तव नायकम् ।
सुव्यक्तम् अवगच्छामो यथास्ति सुमहातपाः ॥
आज्ञापय किम् आगमनप्रयोजनम् इति; स कथयति: भगवतः पिण्डपातम् अनुप्रयच्छ; को ऽसौ भगवान्? अस्ति गृहपतिपुत्र श्रमणो गौतमः शाक्यपुत्रः शाक्यकुलात् केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; सो ऽनुत्तरां सम्यक्संबोधिम् अभिसम्बुद्धः; स एष गृहपतिपुत्र बुद्धो नाम; तस्य बुद्ध इत्य् अश्रुतपूर्वं घोषं श्रुत्वा सरोमकूपाण्य् आहृष्टाणि; तेनाभिप्रसन्नेन स एव पंचशतिकः पाकः आयुष्मते महामौद्गल्यायनाय प्रतिपादितः
श्रोणकोटीविंश fइल्ल्स् हिस् बोwल् wइथ् fओओद् ओf एxत्रओर्दिनर्य् fरग्रन्चे, wहिछ् महामौद्गल्यायन चर्रिएस् बच्क् तो थे बुद्ध
अथायुष्मान् महामौद्गल्यायनस् तस्यान्तिकात् पिण्डपातम् आदाय तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते चम्पायाम् अन्तर्हितो राजगृहे प्रत्यष्ठाद् वेनुवने कलन्दकनिवापे; तेन भगवतः पिण्डपात उपनामितः; भगवान् भोक्तुम् आरब्धः; राजा मागधः श्रेण्यो बिम्बिसारः द्वितीयं स्थालिपाकम् आदाय भगवत्सकाशम् उपसंक्रामति; यावत् पश्यति सर्वं वेणुवनं नानाविधेन ( स्ब्व् इइ 138 ) ( अ 473ब् ) सुरभिणा आहारगन्धेन स्फुटं; स संलक्षयति नूनं शक्रेण देवेन्द्रेण अन्याभिर् देवताभिर् भगवतः पिण्डपातः उपनीतः; यथेदं वेणुवनं नानाविधेन सुरभिणा आहारगन्धेन स्फुटम्; इति विदित्वा भगवन्तम् इदम् अवोचत्: किं भदन्त शक्रेण देवेन्द्रेण अन्याभिर् देवताभिर् भगवतः पिण्डपात उपनीतः? येन वेणुवनं नानाविधेन सुरभिणा आहारगन्धेन स्फुटम् इति; भगवान् आह: न महाराज शक्रेण देवेन्द्रेण नाप्य् अन्याभिर् देवताभिर् उपनीतः; अपि तु तवैव विजिते चम्पायां पोतलकपुत्रस्य दिने दिने पंचशतिकः स्थालीपाकः साध्यते; ततो मौद्गल्यायनेन भिक्षुणा आनितः इति; तस्य भगवान् वर्णं भाषितुम् आरब्धः इति श्रुत्वापि तस्य दर्शनकामता उत्पन्ना; भगवांस् तस्य चेतसा चित्तम् आज्ञाय कथयति: महाराज पुण्यमहेशाख्यस् स सत्वः; मा तस्य आज्ञां दास्यसि; मा ते पुण्यपरिक्षयो भविष्यति; अपि तु महाराज परिभुङ्क्ष्व पात्रशेषं; स कथयति: अहम् अस्मि भदन्त राजा; भदन्त क्षत्रियो मूर्धाभिषिक्तः; न मया कस्यचित् पात्रशेषं परिभुक्तपूर्वं; किंतु भगवान् धर्मतया पिता भवति; यदि भगवान् आज्ञापयति <तर्हि परिभुंजे इति> परिभोक्तुम् आरब्धः; भगवान् आह: अस्ति महाराज त्वया कदाचिद् एवंरूपम् अन्नपानं परिभुक्तपूर्वं? राजा कथयति: अयं भदन्त राजकुले वृद्धो, राजा च संवृत्तः नाभिजानात्य् एवंरूपम् अन्नपानम् आस्वादितपूर्वं; पुण्यमहेशाख्यो महाराज स सत्वः य ईदृशम् अन्नपानं परिभुङ्क्ते
किन्ग् बिम्बिसार देसिरेस् तो सेए श्रोणकोटीविंश
अथ राजा मागधः श्रेण्यो बिम्बिसारः भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः; तेन अमात्यानाम् आज्ञा दत्ता: सन्नाहयन्तु भवन्तः चतुरङ्गं बलकायं; चम्पां गमिष्यामि; कस्यार्थे? पोतलकपुत्रं द्रष्टुं; देवस्यासौ विषयनिवासी; इहैवाहूयतां; पुण्यमहेशाख्यो ऽसौ सत्वः; न तस्य आज्ञा दातव्या; देव वयं तथा करिष्यामः, यथा आज्ञां न दास्यामः; स चागमिष्यति; एवं कुरुत इति; तैश् चम्पाया लेखो ऽनुप्रेषितः; भवन्तो नगरशोभां कुरुत; यवसयोगासनं च सम्दानयत; राजा आगमिष्यति; इति श्रुत्वा परितुष्टाः; भूयो लेखो ऽनुप्रेषितः; भवन्तो न राजा आगमिष्यति; अपि तु कुमार आगच्छति इत्; ते सन्त्रस्ताः: कर्कशः ( स्ब्व् इइ 139 ) कुमारः, कदाचिद् आगत अनर्थं करिष्यति इति; भुयो लिखितं; न राज आगच्छति; नापि कुमारः; अपि तु युष्माभिर् गङ्गा तथा बद्धव्या यथा प्रतिलोमा वहति; इति श्रुत्वा चम्पानिवासिनः पौरास् सन्निपतिताः: भवन्तो नूनम् अस्मान् राजा दण्डयितुकामः, येनैवं लिखति इति तैर् अमात्यानाम् अनेन अर्थेन लेखो ऽनुप्रेषितः; तैर् वाचयित्वा पुनस् तेषां यथाभूतं सन्दिष्टं: भवन्तः एष परमार्थः; न राजा आगच्छति; न कुमारः; नापि गङ्गाबन्धेन किंचित् प्रयोजनम्; अपि तु देवः पोतलकपुत्रं ( अ 474अ ) द्रष्टुकामः; तैर् अवचरकः पुरुषः प्रेषितः; तेनाप्य् एवम् एव समाख्यातं; ततस् ते संभूय पोतलकस्य गृहपतेः सकाशं गताः; गृहपते देवः श्रोणं कोटिविंशं द्रष्टुकामः; प्रेषय अमात्यैर् अस्माकं यथाभूतं सन्दिष्टम्; अवचरकपुरुषेणपि स एवार्थः समाख्यातः इति; स कथयति: भवन्तो न प्रेषयामि; यो मम भागस् तं सुवर्णपिण्डैर् अपि बध्नीयाम् इति; ते कथयन्ति: गृहपते यद्य् अप्य् एवं तथापि पश्चिमा जनता अनुकम्पितव्या इति; स कथयति: भवन्तो यद्य् एवं समयतः अनुजानामि; यदि युष्माकम् अपि पुत्राः श्रोणेन सार्धं गच्छति इति; ते कथयन्ति: गृहपते एवं भवतु; गच्छन्तु भवन्तः
श्रोणकोटीविंश गोएस् तो राजगृह तो विसित् बिम्बिसार
अथ पोतलको गृहपतिर् येन श्रोणकोटीविंशस् तेनोपसंक्रान्तः; उपसंक्रम्य श्रोणं कोटीविंशम् इदम् अवोचत्: पुत्र इमेपौर एवं कथयन्ति इति; स कथयति: तात यद्य् एवं गच्छामि इति; पुत्र नूनं स राजा तव पादयोः सुवर्णवर्णानि रोमाणि द्रष्टुकामः; न त्वया तस्य पादौ उत्क्षिप्य दर्शयितव्यौ; राजान अस्थानप्रकोपिनः; मा ते अनर्थं करिष्यन्ति; अयं मुक्ताहारः; एतं राज्ञः पादयोः स्थापयित्वा प्रणामं च कृत्वा तस्य पुरस्तात् पर्यङ्कं बध्वा निषीद; ततो रोमाणि द्रक्ष्यति इति; ततः पोतलको गृहपतिः संलक्षयति: कतरेण यानेन श्रोणं प्रेषयामि? किं हस्तियानेन? अश्वयानेन? रथयानेन्? उत नौयानेन इति; तस्यैतद् अभवत्; नौयानम् एषां वरं; नौयानेन प्रेषयामि इति; तेन नद्यां गङ्गायां नौसङ्क्रमो मापितः; तत्र विचित्रम् उद्यानं कारितं नानापुष्पफलसंपन्नं हंसक्रौञ्चमयूरशुकशारिकाकोकिलादिविहङ्गनिकूजितं; विविधानि वादित्राणि, नर्यश् च नानालङ्कारविभूषिताः समारोपिताः; तद् अनया विभूत्या जलमध्येन प्रेषितः; ( स्ब्व् इइ 140 ) सो ऽनुपूर्वेण राजगृहसमीपं गतः; राज्ञा बिम्बिसारेण श्रुतं पोतलकपुत्रः आगच्छति इति; तेन यावच् च राजगृहं, यावच् च नादी गङ्गा अत्रान्तरात् खातम् अस्याः पूरयित्वा तन्मध्येन नौर् आकृष्टा; राजगृहं च तन् नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धम् आमुक्तपट्टदामकलापम् उच्छृतध्वजपताकं नानापुष्पावकीर्णं रमणीयं देवानाम् इव नन्दनवनोद्यानं; सो ऽनया विभूत्या राजगृहं नगरं प्रवेशितः; ततो ऽसौ राज्ञः सिंहासनस्थस्य मुक्ताहारं पादयोर् दत्वा, शिरसा प्रणम्य, पुरस्तात् पर्यङ्कं बध्वा निषण्णः; राजा तस्य पादतलयोः सुवर्णवर्णानि रोमाणि दृष्ट्वा परं विस्मयम् आपन्नः: अहो पुण्यमहेशाख्यः श्रोणः कोटीविंशः इति
श्रोणकोटीविंश अन्द् किन्ग् बिम्बिसार गो तोगेथेर् तो थे बम्बोओ ग्रोवे इन् ओर्देर् तो सेए थे बुद्ध
दृष्ट्वा कथयति: श्रोण दृष्टस् ते भगवान्? नो देव; आगच्छ गच्छामः; स पृच्छति देव किं भगवान् यानेन गच्च्छति? आहोस्वीत् पादाभ्याम्? इति; राजा कथयति ( अ 474ब् ) प्रव्रजितो ऽसौ; किं तस्य यानेन? इति; स कथयति: देव यद्य् एवम् अहम् अपि पादाभ्याम् एव गच्छामि इति, पादाभ्याम् एव संप्रस्थितः; तस्य पौरुषेयैर् वस्त्राणि पृथिव्याम् आस्तीर्णानि; स कथयति: किं भगवान् आस्तीर्णेन गच्छति? आहोस्विस् अनास्तीर्णेन? इति; ते कथयन्ति अनास्तीर्णेन इति; स कथयति: अपन्यत वस्त्राणि; अहम् अप्य् अनास्तीर्णेन गच्छामि इति; पौरुषेयैर् वस्त्राणि अपनीतानि; अमनुष्यकैर् आस्तीर्णानि; स कथयति: भवन्तो यूयं मया निवारिताः? इति; ते कथयन्ति: देव निवारिताः; अथ केन पुनर् आस्तीर्णानि? इति; देव पुण्यमहेशाख्यस् त्वम्; अमनुष्यकैर् आस्तीर्णानि इति; तेनाशयतो वाङ् निश्चारिता अपनयन्तु अमनुष्या वस्त्राणि इति; तैर् अपनीतानि; तेन पृथिव्यां पादो न्यस्तः; षड्विकारः पृथिवीकम्पो जातः; इयं महापृथिवी चलति, संचलति, संप्रचलति; व्यथते संव्यथते संप्रव्यथते; पूर्वो दिग्भाग उन्नमति, पश्चिम अवनमति; पश्चिम उन्नमति; पूर्वो ऽवनमति; दक्षिण उन्नमति, उत्तरो ऽवनमति; उत्तर उन्नमति, दक्षिणो ऽवनमति; अन्त उन्नमति, मध्यो ऽवनमति; मध्य ( स्ब्व् इइ 141 ) उन्नमति, अन्तो ऽवनमति; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: इतो भिक्षव एकनवतं कल्पम् उपादाय न कदाचित् पोतलकपुत्रेण अनास्तीर्णायां पृथिव्यां पादो न्यस्तः; एतर्हि न्यस्तो धर्मगौरवतः, नो तु पुण्यपरिक्षयात्; तेनायं षड्विकारः पृथिवीकम्पो जातः इति
थे बुद्ध चोन्वेर्त्स् श्रोणकोटीविंश
अथ श्रोणः कोटीविंशो येन भगवान् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञत्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा श्रोणेन कोटीविंशेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्य उत्थाय आसनाद् एकांसम् उत्तरासङ्गं कृत्वा, येन भगवांस् तेन अञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: लभेयाहं भदन्त स्वाख्याते धर्मविनय प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति; भगवान् आह: न खलु गृहपुत्र तथागता वा तथागतश्रावका वा अननुज्ञातं कुलपुत्रं मातापितृभ्यां प्रव्राजयन्ति उपसंपादयन्ति वा; गच्छ मातापितराव् अवलोकय इति; राजा कथयति अहं भदन्त प्रभुः सर्वाधिकरणानाम्; अर्थे ममैव धर्मतया अयं पुत्रो भवति; अहम् एनम् अनुजानामि; प्रव्राजयतु भगवान् यथासुखम् इति; ततो भगवता एहिभिक्षुकया आभाषितः एहि भिक्षो चर ब्रह्मचर्यम् इति; ततो वाचो ऽवसानसमनन्तरम् एव मुण्डः संवृत्तः; सङ्घाटीप्रावृतः; पात्रकरकव्यग्रहस्तः सप्ताहावरोपितकेशश्मस्रुः वर्षशतोपसंपन्नस्य भिक्षोर् ईर्यापथेनावस्थितः; आह चात्र
एहीति चोक्तः स तथागतेन
मुण्डश् च सङ्घाटिपरीतदेहः ।
सद्यः प्रशान्तेन्द्रिय एव तस्थौ
नेपच्छितो बुद्धमनोरथेन ॥ इति
षड्वर्गीयास् ( अ 475अ ) तद् अवस्फण्डयितुम् आरब्धाः; अयं तावन् नीतपिण्डकः; एकान्तघटके शासने किं विशेषम् अधिगमिष्यति इति ( स्ब्व् इइ 142 ) स तैर् अवस्फण्डितो येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य आयुष्मन्तम् आनन्दम् इदम् अवोचत्: कतरो भदन्त आनन्द भगवता एकान्तघटकस्य भिक्षोः योगानुकूलस् समाधिर् उक्तः आयुष्मन् श्रोण भगवतोक्तं चङ्क्रमत अविगतसमाधिश् चिरस्थितिको भविष्यतीति तेन शीतवनं श्मशानं गत्वा चङ्क्रमो ऽधिष्ठितः इति; तत्रायुष्मान् श्रोणः कोटीविंशः राजगृहे विहरति शीतवने श्मशाने युक्तः; सातत्ये नैपक्ये संबोधिपक्षिकेषु धर्मेषु भावनायोगम् अनुयुक्तो भवति
श्रोणकोटीविंश गिवेस् हिम्सेल्f तो सेवेरे पेनन्चेस्. थे एxअम्प्ले ओf थे लुते
अथ आयुष्मतः श्रोणकोटीविंशस्य एकाकिनो रहोगतस्य प्रतिसंलीनस्य एवं चेतसि चेतःपरितर्क उदपादि; यावन्तः खलु भगवतः श्रावकाः आरब्धवीर्या विहरन्ति; अहं तेषाम् अन्यतमः; अथ च पुनर् मे नानुपादायास्रवेभ्यश् चित्तं विमुच्यते; संविद्यन्ते च मे ज्ञातिषु विपुला भोगाः; यन्न्व् अहं निषद्य कामांश् च परिभुङ्जीय; दानानि च दद्यां; पुण्यानि च कुर्याम् इति
अथ भगवान् आयुष्मतः श्रोणस्य चेतसा चित्तम् आज्ञाय अन्यतमं भिक्षुम् आमन्त्रयते: एहि त्वं भिक्षो; येन श्रोणः कोटीविंशस् तेनोपसम्क्राम; उपसंक्रम्य श्रोणं कोटीविंशम् एवं वद शास्ता त्वां श्रोण आमन्त्रयते इति; एवं भदन्तेत्य् स भिक्षुर् भगवतः प्रतिश्रुत्य यनायुष्मान् श्रोणः कोटीविंशस् तेनोपसंक्रान्तः; उपसंक्रम्य आयुष्मन्तं श्रोणं कोटीविंशम् इदम् अवोचत्: शास्ता त्वाम् आयुष्मन् श्रोण आमन्त्रयते इति; एवम् आयुष्मन् इत्य् आयुष्मान् श्रोणः कोटीविंशस् तस्य भिक्षोः प्रतिश्रुत्य येन भगवांश् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकाण्ते स्थितः; आयुष्मन्तं श्रोणं कोटीविंशं भगवान् इदम् अवोचत्: न ते श्रोण एकाकिनो रहोगतस्य प्रतिसंलीनस्य एवं चेतसि चेतःपरितर्क उदपादि? यावन्तः खलु भगवतः श्रावकाः आरब्धवीर्या विहरन्ति; अहं तेषाम् अन्यतमः; अथ च पुनर् मे नानुपादाय आस्रवेभ्यः चित्तं विमुच्यते; संविद्यन्ते च मे ( स्ब्व् इइ 143 ) ज्ञातिषु विपुला भोगाः; यन्न्व् अहं निषद्य कामांश् च परिभुञ्जीय; दानानि च दद्यां; पुण्यानि च कुर्याम् इति
अथ आयुष्मतः श्रोणस्य कोटीविंशस्य एतद् अभवत्: जानाति मे भगवान् चेतसा चित्तम्; इति विदित्वा भीतस् त्रस्तस् संविग्नः आहृष्टरोमकूपो भगवन्तम् इदम् अवोचत्: एवंभदन्त; तेन हि श्रोण त्वाम् एव पृच्छामि; यथा ते क्षमते तथैनं व्याकुरु; किं मन्यसे श्रोण? कुशलस् त्वम् अभूः पूर्वम् आगारिकः सन् वीणायां तन्त्रीस्वने; तथ्यम् अहं भदन्त कुशलो ऽभूवं पूर्वम् आगारिकः सन् वीणायां तन्त्रीस्वने: किं मन्यसे श्रोण? यस्मिन् समये वीणायास् तन्त्र्यः अत्यातता भवन्ति, अपि नु तस्मिन् समये ( अ 475ब् ) वीणा वल्गुस्वरा भवति? मनोज्ञस्वरा वा स्वरवती वा कर्मण्या वा? नो भदन्त; यस्मिन् समये वीणायास् तन्त्र्यः अतिश्लथा भवन्ति अपि नु तस्मिन् समये वीणा वल्गुस्वरा भवति? मनोज्ञस्वरा वा स्वरवती वा कर्मण्या वा? नो भदन्त; अथ पुनर् यस्मिन् समये वीणायास् तन्त्र्यः नात्यातता भवन्ति नातिश्लथाः सह गुणेषु प्रतिष्ठापिताः, ननु तस्मिन् समये वीणा वल्गुस्वरा वा भवति? मनोज्ञस्वरा वा स्वरवती वा कर्मण्या वा? एवं भदन्त; एवम् एव श्रोण अत्यारब्धं वीर्यम् अत्यौद्धत्याय संवर्तते; अतिलीनं चित्तं कौसीद्याय संवर्तते; तस्मात् त्वं श्रोण समतां प्रतिपद्यस्व; तेन च मा मंस्थाः; तस्मिंश् च प्रमादः; तस्मिंश् च निमित्तम् उद्गृह्णीष्व; अनेन त्वं श्रोण विहारेण विहरन् नचिराद् एव आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा, उपसंपद्य प्रवेदयसे क्षीणा मे जातिः; उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरम् अस्माद् भवं प्रजानामि इति
श्रोणकोटीविंश fओल्लोwस् थे अद्विचे ओf थे बुद्ध, अन्द् इन् अ स्होर्त् तिमे बेचोमेस् अन् अर्हत्
अथायुष्मान् श्रोणः कोटीविंशो भगवतो भाषितम् अभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः; अथायुष्मान् श्रोणः कोटीविंशो भगवता अनेन वीणोपमेन अववादेनाववादितः एको व्यपकृष्टः अप्रमत्तः आतापी प्रहितात्मा व्याहार्षीत्; एको व्यपकृष्टः अप्रमत्त आतापी प्रहितात्मा विहरन्, यदर्थं कुलपुत्राः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् ( स्ब्व् इइ 144 ) आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति, तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयते: क्षीणा मे जातिः; उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरम् अस्माद् भवं प्रजानामि इति; आज्ञातवान् स आयुष्मान् अर्हन् बभूव सुविमुक्तचित्तः
अथायुष्मतः श्रोणास्य कोटीविंशस्य अर्हत्वप्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिनः एतद् अभवत्: अयं मे कालो भगवन्तं दर्शनाय उपसंक्रमितुं, पर्युपसनाय इति; अथायुष्मान् श्रोणः कोटीविंशः सायाह्ने ओरतिसंलयनाद् व्युत्थाय येन हगवांश् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत्; एकान्तनिषण्ण आयुष्मान् श्रोणः कोटीविंशः भगवन्तम् इदम् अवोचत्
थे दिस्चोउर्से ओf श्रोणकोटीविंश
यो ऽसौ भदन्त भिक्षुर् भवति अर्हन् क्षीणास्रवः कृतकृत्यः कृतकरणीयः अपहृतभारः अनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः स तस्मिन् समये षट् स्थानान्य् अधिमुक्तो भवति; नैष्क्रम्यम् अधिमुक्तो भवति; त्र्ष्णाक्षयम् उपादानक्षयम् असं मोषं च चेतसा अधिमुक्तो भवति; स्यात् खलु भदन्त इहैकत्यस्य एवं श्रद्धामात्रकं, बत अयम् आयुष्मान् निश्रित्य नैष्क्रम्यम् अधिमुक्त इति; न खल्व् एवं द्रष्टव्यं क्षयाद् भदन्त रागस्य क्षयाद् द्वेषस्य क्षयान् मोहस्य नैष्क्रम्यम् अधिमुक्तो भवति; स्यात् खलु इहैकत्यस्य एवं शीलमात्रकं बत अयम् आयुष्मान् निश्रित्य अव्याबाध्यम् अधिमुक्त इति; न खल्व् एवं द्रष्टुं; क्षयाद् भदन्त रागस्य क्षयाद् द्वेषस्य क्षयान् मोहस्य अव्याबाध्यम् अधिमुक्तो भवति; स्यात् खलु भदन्त इहैकत्यस्य एवं लाभसत्कारश्लोकमात्रकं ( स्ब्व् इइ 145 ) बत अयम् आयुष्मान् परिमृगयमाणाः प्राविवेक्यम् अधिमुक्त इति; न खल्व् एवं द्रष्टव्यं; क्षयाद् भदन्त रागस्य क्षयाद् द्वेषस्य क्षयान् मोहस्य तृष्णाक्षयम् उपादानक्षयम् असंमोषं च चेतसा अधिमुक्तो भवति; यो ऽसौ भदन्त भिक्षुर् भवति अर्हन्, क्षीणास्रवः कृतकृत्यः कृतकरणीयः अपहृतभारः अनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः तस्मिन् समये इमानि षट् स्थानान्य् अधिमुक्तो भवति; यो ऽसौ भदन्त भिक्षुर् भवति शैक्ष असंप्राप्तमानसः स उत्तरं योगक्षेमं निर्वाणम् अभिप्रार्थयमानरूपो बहुलं विहरति; तस्मिन् समये शैक्षैः शीलैः समन्वागतो भवति शैक्षैश् चेन्द्रियैः; सो ऽपरेण समयेन आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्य उपसंपद्य प्रवेदयते; क्षीणा मे जाति, उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरम् अस्माद् भवं प्रजानामि इति; स तस्मिन् समये अशैक्षैः शीलैः समन्वागतो भवति अशैक्षैश् चेन्द्रियैः; तद्यथा दह्रः कुमारको बालो मन्दः उत्तानशायी तस्मिन् समये दह्रैः शीलैः समन्वागतो भवति दह्रैश् चेन्द्रियैः; सो ऽपरेण समयेन वृद्धेर् अन्वयात्, इन्द्रियाणां परिपाकात् स तस्मिन् समये वृद्धैः शीलैः समन्वागतो भवति वृद्धैश् चेन्द्रियैः; एवम् एव यो ऽसौ भिक्षुर् भवति शैक्ष असंप्राप्तमानसः स उत्तरं योगक्षेमं निर्वाणम् अभिप्रार्थयमानरूपो बहुलं विहरति; स तस्मिन् समये शैक्षैः समन्वागतो भवतिं शैक्षैश् चेन्द्रियैः; सो ऽपरेण समयेन आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्व उपसंपद्य प्रवेदयते; क्षीणा मे जाति, उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरम् अस्माद् भवं प्रजानामि इति; स तस्मिन् समये अशैक्षैः शीलैः समन्वागतो भवति अशैक्षैश् चेन्द्रियैः; तस्य चेत् भृशान्य् अपि चक्षुर्विज्ञेयानि रूपाणि चक्षुष आभाः समागच्छन्ति नास्य तां चेतोविमुक्तिं प्रज्ञाविमुक्तिं पर्याददते; स्थितम् एवास्य तत् चित्तं भवति, अध्यात्मम् अविपरीतं सुविमुक्तं सुभावितं; ( स्ब्व् इइ 146 ) व्ययं चास्यानुपश्यति; तस्य चेद् भृशा अपि श्रोतविज्ञेयाः शब्दाः घ्राणविज्ञेयाः गन्धाः जिह्वाविज्ञेया रसाः कायविज्ञेयानि स्प्रष्टव्यानि मनोविज्ञेया धर्माः मनस आभाः समागच्छन्ति नास्य तां चेतोविमुक्तिं प्रज्ञाव्मुक्ति पर्याददते; स्थितम् एवास्य तच् चित्तं भवति; अध्यात्मम् अविपरीतं सुविमुक्तं सुभावितं; ( अ 476ब् ) व्ययं चास्यानुपश्यति; तद्यथा नगरस्य वा निगमस्य वा नातिदूरे महाशैलः पर्वतः स्यात्, अखण्डः अच्छिद्रः असुषिरः सुसंवृत्तः एकघनः; तस्य चेत् पूर्वस्या दिशो भृशो वायुवेग आगच्छेन् नैनं चलयेत्, नैनं कम्पयेत्, नैनं पश्चिमायां दिश्य् उपसंहरेत्; सचेद् दक्षिणस्याः पश्चिमायाः उत्तरस्या दिशो वायुवेगः आगच्छेन् नैनं चलयेत्, नैनं कम्पयेत्, नैनं दक्षिणस्यां दिश्य् उपसंहरेत्; यतस् ततो वा भृशो वायुवेग आगच्छेन् नैनं चलयेत्, नैनं कम्पयेत्, नैनं यतस् तत उपसंहरेत्; एवम् एव तस्य भृशान्य् अपि चक्षुर्विज्ञेयानि रूपाणि चक्षुष आभाः समागच्छन्ति; नास्य तां चेतोविमुक्तिं प्रज्ञाविमुक्तिं पर्याददते; स्थितम् एवास्य तच् चित्तं भवति अध्यात्म अविपरीतं सुविमुक्तं सुभावितं; व्ययं चास्यानुपश्यति इति; इदम् अवोचद् आयुष्मान् श्रोणः कोटीविंशः; इदम् उक्त्वा अर्हन्न् अथापरम् एतद् उवाच स्थविरः
नैष्क्रम्याधिमुक्तस्य अव्याबध्यं च चेतसः ।
प्राविवेक्याधिमुक्तस्य तृष्णाक्षयरतस्य च ॥
उपादानक्षयाधिमुक्तस्य असंमोषं च चेतसः ।
ज्ञात्वा आयतनोत्पादं ततश् चित्तं विमुच्यते ॥
ततो विमुक्तचित्तस्य शान्तचित्तस्य तायिनः ।
कृतेषु करणीयेषु करणियं न विद्यते ॥ ( स्ब्व् इइ 147 )
यथापि पर्वतः शैलो वायुना न प्रकम्पते ।
एवं रूपाणि शब्दाश् च स्पर्शा गन्धा अथो रसाः ॥
धर्मा इष्टा अनिष्टश् च प्रवेपन्ति तायिनः ।
स्थितं चित्तम् अनेयस्य व्ययं चास्यानुपश्यति ॥ इति
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता श्रोणेन कर्म कृतम् यस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः; सुवर्णवर्णानि च रोमाणि पादतलयोर् जातानि; पंचशतिकश् चास्य दिने दिने स्थालिपाक उपस्थाप्यते; इत एकनवतं कल्पम् उपादाय न कदाचिद् अनास्तीर्णे पृथिवीप्रदेशे पादो न्यस्तः; जातमात्रेण विंशतिहिरण्यकोट्यः अवलेहिकामूल्यं लब्धाः; भगवतश् च शासने प्रविश्य सर्वक्लेशप्रहाणास् अर्हत्वं साक्षात्कृतम् इति
भगवान् आह: श्रोणेनैव भिक्षवः कोटीविंशेन कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; श्रोणकोटीविंशेन कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तु ( अ 477अ ) उपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥
थे स्तोर्य् ओf विपश्यिन्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf श्रोणकोटीविंश)
भूतपूर्वं भिक्षवः एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स द्वाषष्टिभिक्षुसहस्रपरिवारः जनपदचारिकां चरन् बन्धुमतीराजधानीम् अनुप्राप्तः; तेन खलु समयेन बन्धुमत्यां राजधान्यां संबहुला गोष्ठिकाः प्रतिवसन्ति; तैः श्रुतं विपश्यी सम्यक्संबुद्धः द्वाषष्टिभिक्षुसहस्रपरिवारः जनपदचारिकां चरन् इहानुप्राप्तः इति; श्रुत्वा च पुनः सर्वे संभूय येन विपश्यी सम्यक्संबुद्धस् तेनोपसंक्रान्ताः; उपसंक्रम्य विपश्यिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णान् सम्बहुलान् गोष्ठिकान् विपश्यी सम्यक्संबुद्धः धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य ( स्ब्व् इइ 148 ) समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ सम्बहुला गोष्ठिकाः उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन विपश्यी सम्यक्संबुद्धस् तेनाञ्जलिं प्रणमय्य विपश्यिनं सम्यक्संबुद्धम् इदम् अवोचन्: अधिवासयत्व् अस्माकं भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं संघेन इति । अधिवासयति विपश्यी सम्यक्संबुद्धः संबहुलानां गोष्ठिकानां तूष्णींभावेन
अथ संबहुला गोष्ठिका विपश्यिनः सम्यक्संबुद्धस्य तूष्णींभावेन अधिवासनां विदित्वा भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतो पादौ शिरसा वन्दित्वा उत्तहायासनात् प्रक्रान्तः; ते संस्थागारे सन्निपत्य सञ्जल्पं कर्तुम् आरब्धाः; कथम् अस्माभिर् भवन्तो भगवान् भोजयितव्यः किं संभूय आहोस्विद् एकैकेन इति; तत्रैके कथयति; यदि दिने दिने संभूय भोजयितव्यो ऽसौ अस्माकं कृषिकर्मान्ताः समुच्छेत्स्यन्ति; तद् यदि भवताम् अभिरुचितं वारेण वारं भोजयामः इति; ते वारेण वारं गणाधीनं भोजयितुम् आरब्धाः; यथाविभवतश् चात्मीयम् अस्यानुप्रयच्छन्ति; तत्रैको ब्राह्मणदारको दरिद्रः; स मातुः सकाशम् उपसंक्रान्तः कथयति: अम्ब गोष्ठिकैः क्रियाकारः कृतः, भगवान् वारेण वारं भोजयितव्यः इति; तद् अहं तनुविभवः; कथं मया भोजयितव्यः इति; सा कथयति: पुत्र यद्य् एवम् अपश्चिमं दिवसं गृहाण; त्वम् इयता कालेन किंचित् समुदानयिष्यसि; गणसन्तकाच् च किंचिद् उत्सदनधर्मकं भविष्यति इति; तेन पश्चिमो दिवसो गृहीतः; तत्र गणसन्तकाद् उत्सदनधर्मकं प्रभूताम् संपन्नं; तेनापि किंचित् समुदानीतं; ततस् तेन ( अ 477ब् ) लयनं कारितं; तद् वस्त्रैर् आच्छादितं; कोणेषु पंच कार्षापणशतानि स्थापितानि; ऋक्षचर्म चास्य संपन्नं; तद् अपि लयनद्वारे प्रज्ञप्तं; ततः पंचशतिकं पाकं साधयित्वा महता सत्कारेण विपश्यी सम्यक्संबुद्धो भोजितः; पादयोश् च प्रणिपत्य प्रणिधानं कृतम् अनेनाहं कुशलमूलेन आढ्यो महाधनो महाभोगो जायेय; मा कदाचिद् अनास्तीर्णे पृथिवीप्रदेशे पादौ स्थापयेयं; यादृशानि च विपश्यिनः सम्यक्संबुद्धस्य सुवर्णवर्णानि चतुरङ्गुलमात्राणि रोमाणि पादतलयोर् जातानि, ममाप्य् एवंविधानि स्युः; एवंविधानां च गुणानां लाभी स्यां; एवंविधम् एव शास्तारम् आरागयेयं; मा विरागयेयम् इति ( स्ब्व् इइ 149 )
किं मन्यध्वे भिक्षवः? यो ऽसौ गोष्ठिको ब्राह्मणदारकः एष एवासौ श्रोणः कोटीविंशः तेन कालेन तेन समयेन; यद् अनेन विपश्यिनः सम्यक्संबुद्धस्य कारान् कृत्वा प्रणिधानं कृतं, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः; पादयोश् चास्य सुवर्णवर्णानि चतुरङ्गुलमात्राणि रोमाणि जातानि; इत एकनवतं कल्पम् उपादाय न कदाचिद् अनास्तीर्ने पृथिवीप्रदेशे पादौ स्थापितौ; जातमात्रस्य चास्य विंशतिहिरण्यकोट्यो लब्धाः; मम च शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः; एकान्तशुक्लानाम् एकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम्*
राजगृहऽस् पेओप्ले बेगिन्स् तु मुर्मुर् अगैन्स्त् अजातशत्रु अन्द् देवदत्त
यदा अजातशत्रुणा देवदत्ताकल्याणमित्रोपगूढेन राज्ञो बिम्बिसारस्य कनकः क्षिप्तः तदा राजगृहनिवासिनः पौराः अवध्यातुम् आरब्धाः; तत्र केचिद् राज्ञः अकर्णं भाषन्ते अयं पितुः शत्रुत्वे व्याकृतः; कस्मान् न जातमात्र एव प्रघातितः इति; अपरे कथयन्ति: न भवन्तो राज्ञो ऽपराधः; किं सर्वेषां व्याकरणं भूतं भवति? विनीत एवायं कुमारः; अपि तु देवदत्तेनायम् अकल्याणमित्रेण विप्रलब्धः, येन एवंक्रियासु प्रवर्तते इति; अपरे कथयन्ति; न भवन्तो राज्ञो दोषः नापि देवदत्तस्य; अपि तु भगवत एव दोषः; येन देवदत्तः प्रव्राजितः; नो तु लोकधात्वन्तरं नीत्वा अवस्थापितः इति; अपरे कथयन्ति: भगवतो नायम् अपराधः; अपि तु संघस्य येनास्य उत्क्षेपनीयं कर्म न कृतम् इति; तत्र येन राज्ञः अकर्णं भाष्यते तेन ( स्ब्व् इइ 150 ) न राजा आर्तीयते कर्माण्य् एतानि मया पूर्वम् अन्यासु जातिषु कृतानि उपचितानि इति; येन तु भगवतः संघस्य च अकर्णं भाष्यते, तेन राजा अत्यर्थम् आर्तीयते; मदीयेन दुर्नीतेन लोको भगवतः संघस्य च अकर्णं भाषते इति
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त अन्यैर् अपराद्धम् ( अ 478अ ) अन्ये दोषेण लिप्यन्ते इति, भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अन्यैर् अपराद्धम् अन्ये दोषेण लिप्ताः; तच् छ्रूयतां
थे स्तोर्य् ओf कूल अन्द् उपकूल
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त अन्द् अजातशत्रु)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; तस्य द्वौ कुक्कुरौ कूलश् च उपकूलश् च; ताभ्यां राज्ञः अश्वसन्नाहभाण्डिका खादिता; यावद् अपरेण समयेन राज्ञो ब्रह्मदत्तस्य संग्रामः प्रत्युपस्थितः; तेन अमात्यानाम् आज्ञा दत्ता; प्रत्यवेक्षत भवन्तः अश्वसन्नाहभाण्डिकाम् इति; ते प्रत्यवेक्षितुम् आरब्धाः, पश्यन्ति सर्वां छिन्नप्रच्छिन्नां; तै राज्ञे निवेदितं: देव अश्वसन्नाहभाण्डिका कुक्कुरेण भक्षिता इति; राजा कथयति; भवन्तो यद्य् एवं परित्यक्ता मया कुक्कुराः इति; तत्र केचित् प्रघातिताः; केचिन् निष्पलायिताः; यावद् अन्यतमो जानपदः कुक्कुरः जनपदाद् वाराणसीं गच्छति; तेन ते निष्पलायमाना दृष्टाः; पृष्टाश् च: भवन्तः किमर्थम् एवं यूयं सन्त्रस्ताः इति; तैर् यथावृत्तं समाख्यातं; स कथयति: किमर्थं राजा युष्माभिर् न विज्ञप्तः इति; ते कथयन्ति: कः शक्नोति राजानं विज्ञपयितुम् अन्य प्रघातिताः; वयं कथंचित् प्रपलायिताः; स कथयति: तिष्ठतु यूयम्; अहं युष्माकम् अर्थे राजानं विज्ञपयामि इति; तेन समाश्वासिताः प्रतिनिवृत्ताः; ततस् तेन संपातवेलायां श्रवणोपविचारे स्थित्वा राजा गाथया विज्ञप्तः
यौ कुक्कुरौ राजकुले निवासिनौ
कूलोपकूलौ बलवर्णयुक्तौ । ( स्ब्व् इइ 151 )
ताव् अत्र घात्यौ वयम् अप्रघात्याः
अघात्यघातो न हि देव युक्तः ॥ इति
राज्ञा श्रुतं; तेन प्रभातायं रजन्याम् अमात्यानाम् आज्ञा दत्ता: भवन्तो येनाहं रात्रौ गाथया विज्ञप्तः तस्य समन्वेषणं कुरुत इति; तैः रक्षिणाम् आज्ञा दत्ता; समन्वेषतत् भवन्तः केन देवो रात्रौ गाथया विज्ञप्तः इति; तैः समाख्यातं जानपदेन कुक्कुरेणेति; राजा कथयति: भवन्तः परीक्षां कुरुत किं कूलोपकूलाभ्यां भक्षितम् आहोस्वित् अन्यैः कुक्कुरैः इति; अमात्याः सन्निपत्य संजल्पं कर्तुम् आरब्धाः: भवन्तो देवेनैवाज्ञा दत्ता कुक्कुराणां परीक्षां कुरुतेति; तत् कथम् एषां परीक्षा कर्तव्या इति; अन्ये कथयन्ति: किम् अत्र परीक्षितव्यं केशाण्डुकं दत्वा छर्दापयितव्यौ; अथ कूलोपकूलाभ्यां चर्मखण्डा उद्गीर्णाः; राज्ञो निवेदितं; राज्ञा परित्यक्तौ; परिशिष्टानाम् अभयं दत्तम्
किं मन्यध्वे भिक्षवः? यौ कूलोपकूलौ एताव् एव देवदत्ताजातशत्रू तेन कालेन तेन समयेन; तदापि एताभ्याम् अपराद्धम् अन्ये दोषेण लिप्ताः; एतर्ह्य् अपि एताभ्याम् अपराद्धम् अन्ये दोषेण लिप्ताः; पुनर् अपि यथा देवदत्तः अकृतज्ञ अकृतवेदी तच् छ्रूयतां.
थे स्तोर्य् ओf अ हुन्तेर् अन्द् अन् उन्ग्रतेfउल् मन्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राज्यं कारयति; यावद् अन्यतमः पुरुषः ( अ 478ब् ) परशुम् आभङ्गीम् आदाय काष्ठार्थी वनं गतः; स तत्र काष्ठं पर्येषमाणः सिंहेनाभिद्रुतः; निष्पलायमानः कूपे पतितः; सो ऽपि तद्भक्षणाध्यवसायस् तत्रैव पतितः; आशीविषेण मूषको ऽभिद्रुतो निष्पलायते; मूषकाभिलाषात् श्येनकः प्रधावितः; यावत् सर्वे कूपे निपतिताः; तेन सर्व एव व्यापन्नाः; परस्परम् अभिलषन्ते व्यापादनाय; सिंहः कथयति: भवन्तः सर्वे यूयं मम गम्याः; अपि तु वयं कृच्छ्रसङ्कटसंबाधप्राप्ताः; निश्चलास् तिष्ठत; मायं व्यापादनकालः इति; यावत् दैवान् मृगलुब्धको मृगान् पर्येषमाणस् तं प्रदेशम् अनुप्राप्तः; स तं कूपं निरीक्षितुम् आरब्धः; ( स्ब्व् इइ 152 ) तत्रैवं भ्रान्तैर् वाङ् निश्चारिता: भोः पुरुष परित्रायस्व इति; ततस् तेन मृगलुब्धकेन ज्ञात्वा पूर्वतरं सिंह उद्धृतः; स पादयोर् निपत्य कथयति: कृतज्ञस् ते भविष्यामि; किंतु अत्रकृष्णशिरस्कस् तिष्ठति; स त्वया नोद्धर्तव्यः; कृतघ्ना ह्य् एत भवन्ति इत्य् उक्त्वा प्रक्रान्तः; यावत् तेन मृगलुब्धकेन सर्वे अनुपूर्वेण उद्धृताः; यावद् अपरेण समयेन सिंहेन मृगो जीविताद् व्यपरोपितः; स च मृगलुब्धकस् तं प्रदेशम् अनुप्राप्तः; सिंहेन तं परिज्ञाय स मृगः पादयोर् निपत्य दत्तः; अपरेण समयेन राजा ब्रह्मदत्तः उद्यानभूमिं निर्गतः सार्धम् अन्तःपुरेण; स तत्रोद्याने सुखम् अनुभूय मिद्धम् अवक्रान्तः; अन्तःपुरजनो विश्वस्तविहारी उद्याने चंक्रम्यते तिष्ठति निषीदति मिद्धम् अवक्रामति; वस्त्राणि शोधयति; अलंकाराण्य् अपनीय पार्श्वे स्थापयति; यावद् अन्यतमा अन्तःपुरिका अलंकारम् अवमुच्य पार्श्वे स्थापयित्वा मिद्धम् अवक्रान्ता; तत् श्येनकेनापहृत्य तस्मै लुब्धकाय कृतज्ञतया दत्तं; राजा ब्रह्मदत्तो निद्राक्लमं प्रतिविनोद्य लघु लघ्व् एव वाराणसीं प्रविष्टः; अन्तःपुरकुमारामात्यपौरजानपदो ऽपि अतित्वरेण गतः; यावद् असाव् अन्तःपुरिका अलंकारं समन्वेषति; न पश्यति; तया राज्ञे निवेदितं: देव उद्याने मे अलंकारः अपहृतः इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: भवन्तः अलंकाराः उद्याने अपहृतः; समन्वेषत केन गृहीतः इति; ते समन्वेषितुम् आरब्धाः; स कृष्णशिरस्कः तस्य मृगलुब्धकस्य कालेन कालम् उपसंक्रामति; तेन तस्य गृहम् उपसंक्रामता उपांशुना विज्ञातम् अस्यालंकारो ऽस्तीति; तेन कृतघ्नतया राज्ञो गत्वा आरोचितं; ततो राज्ञा परमकोपकुपितेन मृगलुब्धको राजपुरुषैर् आह्वाय्य उक्तः: भोः पुरुष त्वया उद्यानाद् अलंकारो ऽपहृतः इति; ततस् तेन सन्त्रस्तेन यथावृत्तं समाख्याय असाव् अलंकारो राज्ञे समर्पितः; तथाप्य् असौ पुरुषः चारके बध्वा स्थापितः; मूषकेन गत्वा आशीविषाय निवेदितं: तेन कृष्णशिरस्केन पापकारिणा अस्माकं कल्याणमित्रो राज्ञा चारके बध्वा स्थापितः इति; आशीविषः कथयति: भोः लुब्धक अहं राजानं ( अ 480अ ) दशामि; त्वया एभिर् मन्त्रपदैर् एभिश् च ओषधैः चिकित्सितव्यः; एवं स राजा अभिप्रसन्नो नियतं त्वां मुञ्चति; भोगसंविभागं च करोति इति; स कथयति: शोभनम् एवं कुरु; आशीविषेण राजा दष्टः; लुब्धकेन गत्वा मन्त्रैश् चौषधैश् च चिकित्सितः; ततो राज्ञा परितुष्टेन बन्धनान् मुक्तः; भोगैश् च संविभक्तः ( स्ब्व् इइ 153 )
भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ लुब्धकः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ कृतघ्नपुरुषः एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञः अकृतवेदी; पुनर् अपि यथा अकृतज्ञः अकृतवेदी तच् छ्रूयतां.
थे स्तोर्य् ओf नन्द, थे मुन्गोओसे
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो सप्ताह अकालमेघः समुपागतः; देवे वर्षति नकुल आश्रमं प्रविष्टः; मूषिको ऽपि तत्रैव प्रविष्टः, आशीविषो ऽपि वर्षभयात् परिभ्रमन् तत्रैव प्रविष्टः; यावद् असौ नकुलस् तं मूषिकम् अभिद्रवितुम् आरब्धः; आशीविषः कथयति: भवन्तो वयं कृच्छ्रसङ्कटसंबाधप्राप्तः; परस्परम् अव्याबाधां कुरुत; निश्चलास् तिष्ठत इति; तत्राशीविषस्य संज्ञाकरणं प्रियसेन इति; नकुलस्य नाम नन्द इति; मूषिकस्य गङ्गदत्त इति; इति; प्रियसेन नन्देन च गङ्गदत्त उक्तः; अनालक्ष्य गच्छ; अस्माकम् आहारं पर्येषय इति; स ऋजुको भद्राशयः; तयोर् अर्थाय आशयेन आहारं पर्येषितुम् आरब्धः; न लभते; नन्दः प्रियसेनस्य कथयति; यदि गङ्गदत्तः आहारं विना आगच्छति, मया स एव भक्षयितव्य इति; प्रियसेनः संलक्षयति कृच्छ्रसङ्कटसंबाधप्राप्तो ऽप्य् एषस् तस्य बधाय पराक्रमति; प्राग् एव यद्य् असौ विना आहारेण आगच्छति; सर्वथा तस्य सन्देष्टव्यम् इति; तेन तस्य सन्दिष्टं; नन्द एवं कथयति: यदि गङ्गदत्तः विना आहारेणागच्छति स एव मया भक्षयितव्य इति; गङ्गदत्तेन आहारं पर्येषमाणेन न किंचिद् आसादितं; स संलक्षयति नियतम् असौ मां भक्षयति: इति; तेन प्रियसेनस्य सन्दिष्टम्
क्षीणा नरा निष्करुणा भवन्ति
आर्ताः क्षुधावेधपरिश्रमेण ।
वाच्यस् त्वया एष कृतघ्नसत्वो
न गङ्गदत्तः पुनर् आगमिष्यति ॥ इति
किं मन्यध्वे भिक्षवः? यो ऽसौ गङ्गदत्तः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ नन्दनामा नकुलः एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञः अकृतवेदी ( स्ब्व् इइ 154 )
उद्दानम्:
भुङ्क्ष्व लिखिर् नटः काकः चक्रः कुम्भीरचन्दनम् ।
कायः कविर् मणिर् वण्टः कन्याथ धनपालकः ॥
किन्ग् बिम्बिसार मकेस् एxचेएदिन्ग् ग्रन्त्स् तो अजातशत्रु
यदा अजातशत्रुणा राज्ञो बिम्बिसारस्य कनकः क्षिप्तः तदा राज्ञा उपालब्धः: कुमार किमर्थं त्वया मम कनकः क्षिप्तः स कथयति: देव रोषात्; देवस्य भोगाः संविद्यन्ते; मम न ( अ 480ब् ) संविद्यन्ते; राजा कथयति: पुत्र यद्य् एवं गच्छ चम्पा साधारणा तव भवतु इति; स हृष्टतुष्टप्रमुदितो देवदत्तस्य सकाशं गत्वा कथयति: आर्य मया चम्पा साधारणा लब्धा इति; स कथयति: कुमार दृष्टं ते पराक्रमस्य फलम् आर्य दृष्टं; भूयः पराक्रमस्व; अतिवृद्धिस् ते भविष्यति इति; स चम्पायां प्रकरप्रत्ययैः पीडयितुम् आरब्धः; पीड्यमानो महाजनकायः निष्पलायितुम् आरब्धः; केचिद् राजगृहं गताः; केचिद् देशान्तरं गताः; अमात्यै राज्ञो दूतो ऽनुप्रेषितः: देव कुमारश् चम्पां पीडयति; जनः पीड्यमानो निष्पलायते; तद् अर्हति देवः कुमारस्य निवारणं कर्तुम् इति; राजा कथयति: कुमार कस्माज् जनपदान् पीडयसि इति; स कथयति: देव साधनं न पुष्यति इति; राजा कथयति: यद्य् एवं राजगृहम् एकं त्यक्त्वा मगधविषयं गृहाण इति; मगधविषयं गृहीत्वा देवदत्तस्य सकाशं गत्वा कथयति: आर्य मया ( स्ब्व् इइ 155 ) राजगृहम् एकं मुक्त्वा सर्वो मगधविषयो लब्धः इति; स कथयति: ईदृशं पराक्रमस्य फलं; भूयः पराक्रमस्व इति; स मगधविषयं नाशयितुम् आरब्धः; मगधविषयनिवासिना जनकायेन राजा बिम्बिसारो विज्ञप्तः; देव कुमारो मगधविषयं नाशयति; निवर्त्यताम् इति; स राज्ञा आहूयोक्तः कुमार किमर्थं मगधविषयं नाशयसि इति; स कथयति देव प्रभूतो जनकायो न पुष्यति इति; राजा कथयति; कुमार यद्य् एवं कोशम् एकं मुक्त्वा सर्वं तवैव भवतु इति; स राजगृहम् अपि गृहीत्वा देवदत्तस्य सकाशं गतः कथयति: आर्य मया कोशम् एकं मुक्त्वा, सर्वभोगा लब्धाः इति; स कथयति पराक्रमफलम् एतत्; अपि तु कोशबलिनो हि राजानः; यस्य कोशः स राजा; कोशार्थं पराक्रमस्व इति; स राजगृहम् अपि नाशयितुम् आरब्धः; राजगृहनिवासी जनकायः अन्यश् च मगधनिवासी चम्पेयश् च सर्व एव सन्त्रस्ताः यथा अजातशत्रुर् न पश्यति तथा दूतसंप्रेषणेन राजानं विज्ञपयितुम् आरब्धाः: देवेन वयं पुत्रवत् परिपालिताः; कुमारेणात्यन्तं निःस्वीकृताः; प्रायो देवस्य जनपदा निष्पलायिताः; वयम् अपि निष्पलायामः इति; धर्मप्रधानः स राजा; करुणात्मकश् च; तेन समुत्पन्नमन्युना अजातशत्रुर् आहूय प्रियमधुरवचोनुकूलतया शिरस् परामृश्योक्तः: पुत्र मया तव सर्वजनपदा दत्ताः; किमर्थम् उद्वेजयसि? प्रतिपालय इति; स कथयति: देव कोशबलिनो राजानः; मम कोशबलं नास्ति; किं करोमि इति; अ कथयति: यद्य् एवम् अन्तःपुरम् एकं मुक्त्वा सर्वं तवैव भवतु इति; तथाप्य् असौ दुष्टप्रकृतिः पापसहायश् च नाशयत्य् एव, नावतिष्ठते; राज्ञा सोपालम्भम् उक्तः: सकोशकोष्ठागारजनपदास् तवैव दत्ताः; इदानीं किमर्थं नाशयसि इति
अजातशत्रु चस्त्स् हिस् fअथेर् इन् प्रिसोन्, थेरे तो दिए ओf हुन्गेर्
स एवम् उक्ते रुषितः अमात्यानां कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं परिभाषते, तस्य को दण्डः इति; अमात्याः कथयन्ति: देव वधो दण्डः इति; स कथयति: पिता मम; कथम् एनं प्रघातयामि? गच्छत; चारकावबद्धम् एनं स्थापयत इति; स चारके प्रक्षिप्तः; अनुरक्तपौरजानपदः स राजा; तद्विषयनिवासी च जनकायः श्रुत्वा ( स्ब्व् इइ 156 ) दुर्मनाः संवृत्तः; अजातशत्रुश् चण्डो रभसः कर्कशः इति नास्य कश्चित् परिवादं मन्त्रयति; राजा ( अ 481अ ) बिम्बिसारश् चारके कर्मपरायणो ऽवतिष्ठते; तस्य च वैदेही स्थालीपाकं प्रवेशयति: अजातशत्रुश् चारकपुरुषान् पृच्छति: भवन्तः कथं वृद्धराजा यापयति? इति; ते कथयन्ति: देव जननी ते स्थालीपाकं प्रवेशयति इति; अजातशत्रुणा आज्ञा दत्ता: धारयत भक्तं पानं च यथा न भूयः प्रवेशयति इति; अन्तःपुरे चाज्ञा दत्ता न केनचिच् चारके भक्तं पानं प्रवेशयितव्यं; यः प्रवेशयति तस्य वधो दण्डः इति; तस्य रौद्रकर्मतां ज्ञात्वा न कश्चिद् भक्तं साधयति; कुत एव प्रवेशयिष्यति; ततो वैदेही भर्तृस्नेहोपरुद्ध्यमानहृदया सक्तुकल्केन गात्राणि म्रक्षयित्वा नूपुराणि च पानीयस्य पूरयित्वा प्रवेशयितुम् आरब्धा; तेनासौ यापयति; चारकपुरुषैः सो ऽप्य् उपायो विज्ञातः; किंतु अनुरागात् तस्य राज्ञः अजातशत्रोर् न निवेदयन्ति; भूयः अजातशत्रुश् चारकपुरुषान् पृच्छति: भवन्तो वृद्धराजा कथं यापयति? इति; तैर् इस्तरेण समाख्यातं; स कथयति: भवन्तो वैदेहीं धारयत, यथा न भूयः प्रविशति इति; ततो भगवान् तत्कुशलमूलावरोपणार्थं गृद्ध्रकूटपर्वते वातायनाभिमुखं चंक्रमितुम् आरब्धः; राजा बिम्बिसारः वातायनेन भगवन्तम् अवलोक्य प्रामोद्यम् उत्पादयति येन प्राणैर् न वियुज्यते; आजातशत्रुः च भूयश् चारकपुरुषान् पृच्च्छति भवन्तः अन्नपानं विधारितं; इदानीं वृद्धराजः कथं यापयति इति; ते कथयन्ति: भगवांस् तस्यानुग्रहार्थं गृद्ध्रकूटे पर्वते चंक्रम्यते; तम् असौ स्थितः प्रतिदिनं परीक्षते इति; स कथयति वातायनानानि पिथयन्तु; तस्य च पादौ क्षुरेण निर्लिखत इति; तैर् वातायनानानि पिहितानि; तस्य च पादौ क्सुरेण निर्लिखितौ; स दुःखवेदनार्तो बाष्पोपरुद्ध्यमानगद्गदकण्ठः अश्रुपर्याकुलेक्षणश् चिन्तयति: न मां भगवान् कृच्छ्रसङ्कटसंबाधप्राप्तं समन्वाहरति इति
थे बुद्ध सेन्द्स् मौद्गल्यायन तो विसित् अन्द् चोम्fओर्त् थे ओल्द् किन्ग्
अत्रान्तरे नास्ति किंचित् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणां ( स्ब्व् इइ 157 ) शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितमतीनां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीनानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकतप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं; कस्य अनवरोपितानि कुशलमुलानि अवरोपयेयं? कस्यावरोपितानि परिपाचयेयं? कस्य पक्वानि विमोचयेयम् इति; तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: गच्छ मौद्गल्यायन; राजानं बिम्बिसारं मद्वचनाद् आरोग्य; एवं स वद: भगवान् कथयति: यत् कल्याणमित्रेण करणीयं कृतं तत् ते मया; उद्धृतस् ते नरकतिर्यक्प्रेतेभ्यः पादः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्य् अपायद्वाराणि; विवृतानि स्वर्गमोक्षद्वाराणि; अपि तु त्वयैवैतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; त्वयैव कर्माणि कृतान्य् को ऽन्यः प्रत्यनुभविष्यति? न महाराज कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥
तस्मात् तर्हि ते महाराज कर्मपरायणेन भवितव्यम् इति; एवं भदन्तेत्य् आयुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य ( अ 481ब् ) तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते गृद्ध्रकूटे ( स्ब्व् इइ 158 ) अन्तर्हितश् चारके प्रत्यष्ठात्, राज्ञो बिम्बिसारस्य पुरस्तात्; एवं चाह: महाराज भगवांस् ते आरोगयति; वन्दे भदन्त महामौद्गल्यायन भगवन्तं च; भगवान् महाराज एवम् आह: यत् कल्याणमित्रेण करणीयं कृतं तत् ते मया; उद्धृतस् ते नरकतिर्यक्प्रेतेभ्यः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्य् अपायद्वाराणि; विवृतानि स्वर्गमोक्षद्वाराणि; अपि तु त्वयैवैतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; त्वया कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न महाराज कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥
तस्मात् तर्हि ते महाराज कर्मपरायणेन भवितव्यम् इति; सा चारकावरुद्धः क्षुरपादाभिलिखनान्नपानवियोगदुःखैर् अभ्याहतः कथयति: कुत्र भदन्त महामौद्गल्यायन प्रणीत आहारो भुज्यते इति; स कथयति: महाराज चातुर्महाराजकायिकेषु देवेषु इत्य् उक्त्वा अयुष्मान् महामौद्गल्यायनः तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते चारके अन्तर्हितो गृद्ध्रकूटपर्वते प्रत्यष्ठात्
थे तर्द्य् रेपेन्तन्चे ओf अजातशत्रु अन्द् थे देअथ् ओf बिम्बिसार
अजातशत्रोः पुत्रस्य उदयभद्रस्य अङ्गुल्यां पिटको जातः, स रुदन्न् अजातशत्रोः सकाशम् उपसंक्रान्तः; स तम् अङ्के स्थापयित्वा आलिङ्गति चुम्बति परिष्वजति; तथाप्य् असौ रुदत्य् एव; नावतिष्ठते; अजातशत्रुणा तत्सन्तिका अङ्गुलिः मुखे प्रक्षिप्ता; स्फोटको मुखे स्फुटितः; अजातशत्रुणा पूयशोणितं पृथिव्यां छोरितम्; उदायिभद्रः कुमारः पूयशोणितं दृष्ट्वा भूयसा रोदितुम् आरब्धः इति; वैदेह्या विपुष्पितं दृष्ट्वा अजातशत्रुः कथयति: अम्ब किम् इदम् इति; सा कथयति: पुत्र युष्माकम् एष पितृपर्यागतव्याधिः तवाप्यासीत्; तव तु पित्रा अङ्गुल्यां मुखे प्रक्षिप्तावां स्फोटकः स्फुटितः; मा त्वं रोदिष्यसीति पूयशोणितम् अभ्यवहृतं; न पृथिव्यां छोरितं; स कथयति: अम्ब ईदृशो ऽहं पितुः प्रिय ( स्ब्व् इइ 159 ) आसं सा कथयति: ईदृशः; ततः अजातशत्रोः पितुर् अन्तिके द्वेषपर्यवस्थानं विगतम्; अनुनय उत्पन्नः; तेनामात्या उक्ताः: भवन्तो यो मम कथयति वृद्धराजो जीवतीति, तस्याहम् उपार्धराज्यं ददामि इति; अनुरक्तपौरजानपदः स राजा; महाजनकायश् चारकाभिमुखो धावितुम् आरब्धः; राजा शब्दं श्रुत्वा संलक्षयति: इदानीं काम् अपि प्रत्यवरां कारणां करिष्यति; इति सन्त्रस्तो दीर्घं निश्वस्य कालगतः; वैश्रवणस्य महाराजस्य पुत्रत्वम् अभ्युपगतः; अङ्के निषण्णो दिव्यां सुधां परिभुङ्क्ते; वैश्रवणः कथयति; कस् त्वम् इति; स कथयति: जिनर्षभो ऽस्मि महाराजेति; तस्य जिनर्षभो जिनर्षभ इति संज्ञा संवृत्ता
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा बिम्बिसारेण कर्म कृतं यस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे राजकुले जातः; भगवतो ऽन्तिके सत्यदर्शनं कृतं; क्षुरेण पादौ निर्लिखितौ; चारकावबद्धश् च क्षुत्पिपासाभिभूतः कालगतः इति; भगवान् आह: बिम्बिसारेणैव भिक्षवो राज्ञा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; बिम्बिसारेण कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥
थे स्तोर्य् ओf अ पोत्तेर्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf किन्ग् बिम्बिसार)
भूतपूर्वं भिक्षवः बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; यावद् अन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् ( अ 482अ ) वाराणसीम् अनुप्राप्तः; वाराणस्याम् अन्यतमस्य कुम्भकारस्य आवेशनशालायां रात्रिंवासम् उपगतः; सार्थश् च तस्याम् ( स्ब्व् इइ 160 ) एव शालायाम् उषितः; तत्रैकेन उच्चारः कृतः; सार्थःसरात्रम् एवोत्थाय प्रक्रान्तः; असमन्वाहृत्यार्हतां प्रत्येकबुद्धानाम् एव ज्ञानदर्शनं न प्रवर्तते; प्रत्येकबुद्धस् तत्रैवावस्थितः; इहैव पिण्डपातम् अटिष्यामि इति; यावत् कुम्भकारः प्रभातायां रजन्याम् आवेशनशालायां प्रविष्टः; पश्यति अशुचिना नाशिता; अपरीक्षका भवन्ति प्राकृतपुरुषाः; तेन प्रत्येकबुद्धस्यान्तिके चित्तं प्रदूषितं; स प्रदुष्टचित्तः कथयति: भोः प्रव्रजित किं तव पादौ क्षुरेण लिखितौ? येन त्वया आवेशनशालायाम् उच्चारः कृतः; न बहिर् निर्गतः इति; तेनासौ द्वारं बध्वा स्थापितः इहैव जिघत्सय कालं कुरुष्व इति; स महात्मा संलक्षयति: क्षतो ऽयं तपस्वी; यद्य् अहं द्वारम् अवमुच्य गमिष्यामि भूयस्या मात्रया क्षतो भविष्यति इति; स तूष्णीम् अवस्थितः; यावत् कुम्भकारस्य भोजनवेला आसन्ना; तस्य द्वेषपर्यवस्थानं विगतं; स कथयति भोः प्रव्रजित आगच्छ; भुञ्ज्महे; प्रत्येकबुद्धः कथयति: भद्रमुख कालभोजिनो वयम्; अतिक्रान्तः कालः इति; स कथयति: यद्य् एवम् इहैव श्वो भुक्त्वा गमिष्यसि इति; तेन तस्यानुकम्पार्थम् अधिवासितं; स तेनापरस्मिन् दिवसे प्रणीतेनान्नाहारेण सन्तर्पितः; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; स उपरि विहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्राटिहार्याणि कर्तुम् आरब्धः; आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी; स मूलनिकृत्त इव द्रुमः पादयोर् निपत्य कथयति; अवतर महादक्षिणीय; मम कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रयच्छ इति; सो ऽवतीर्णः; तेन तस्य पादयोर् निपत्य प्रणिधानं कृतं; यन् मया एवंविधे सद्भूतदक्षिणीये अपकारः कृतः, मा अस्य कर्मणो भागी स्यां; यत् तु कारः अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेय; एवंविधानां च धर्माणां लाभी स्यां; प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति
किं मन्यध्वे भिक्षवः? यो ऽसौ कुम्भकारः एष एव स राजा बिम्बिसारः तेन कालेन तेन समयेन; यत् प्रत्येकबुद्धस्यान्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन पादौ निर्लिखितौ; चारकावबद्धश् च जिघत्सया कालगतः; यत् तु तेन प्रणिधानं कृतं, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः; ममान्तिके विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ( स्ब्व् इइ 161 ) ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः; एकान्तशुक्लानाम् एकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम्*
थे दिस्त्रेस्स् ओf अजातशत्रु अत् थे देअथ् ओf किन्ग् बिम्बिसार, थे अर्रिवल् ओf अ दन्चेर् fरोम् थे सोउथ्, अन्द् थे एxत्रओर्दिनर्य् एffएच्त्स् ओf बुद्धऽस् स्मिले
अमात्यैर् अजातशत्रोर् आरोचितं देव वृद्धराजः कालगतः इति; स श्रुत्वा मूर्च्छितः पृथिव्यां निपतितः; जलपरिषेकप्रत्यागतप्राणः शोकागारं प्रविश्यावस्थितः; तस्य न कश्चित् शक्नोति चित्तविनोदनं कर्तुं; अमात्यास् तस्य चित्तविनोदोपायं ( अ 482ब् ) समन्वेषितुम् आरब्धाः; यावद् दक्षिणापथात् नटः अभ्यागतः; सो ऽमात्यैस् तस्य पुरस्तान् नर्तितः; अजातशत्रुर् दुर्मना एवेति न केनचित् साधुर् इत्य् उक्तः; स नटित्वा निर्गच्छति; भगवांश् च तं प्रदेशम् अनुप्राप्तः; तेन भगवान् दृष्टः; स संलक्षयति: यदि तत्रैवंविधः साधुपुरुषः स्याद् अनेन मम साधुकारः दत्तः स्याद् इति; तेन भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य मुरवः पराहतः; अथ भगवान् स्मितम् अकार्षीत्
धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान् निश्चर्य काश्चिद् अधस्ताद् गच्छन्ति; काश्चिद् उपरिष्टाद् गच्छन्ति
या अधस्ताद् गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदम् अटटं हहव हुहुवम् उत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास् तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास् तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषाम् एवं भवति: किं नु वयं भवन्तः इतश् च्युताः आहोस्विद् अन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश् च्युताः; ( स्ब्व् इइ 162 ) नाप्य् अन्यत्रोपपन्नाः; अपि तु अयम् अपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तम् अभिप्रसाद्य, तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति
या उपरिष्टाद् गच्छन्ति ताश् चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मा इत्य् उद्घोषयन्ति; गाथाद्वयं च भाषन्ते
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ इति
अथ ता अर्चिषस् त्रिसहस्रमहासहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्याम् अन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोर् अन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्याम् अन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायाम् अन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते
अथ ता अर्चिषो भगवन्तं ( अ 483अ ) त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः; अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ
नानाविधो रङ्गसहस्रचित्रो
वक्त्रान्तरान् निष्कसितः कलापः । ( स्ब्व् इइ 163 )
अवभासिता येन दिशः समन्तात्
दिवाकरेणोदयता यथैव ॥
गाथाश् च भाषते
विगतोद्भवा दैन्यमदप्रहीणा
बुद्धा जगत्य् उत्तमहेतुभूताः ।
नाकारणं शङ्खमृणालगौरम्
स्मितम् उपदर्शयन्ति जिना जितारयः ॥
तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या
श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् ।
धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर्
उत्पन्नं व्यपनय संशयं शुभाभिः ।
नाकास्माल् लवणजलाद्रिराजधैर्याः
संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितम् उपदर्शयन्ति धीराः
तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ इति
दृष्टस् त्वया आनन्द स नटो येन ममान्तिके चित्तं प्रसाद्य मुरवः पराहतः दृष्टो भदन्त; स एष आनन्द नटः अनेन कुशलमूलेन चित्तोत्पादेन च दुन्दुभीश्वरो नाम प्रत्येकबुद्धो भविष्यति; अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः
देवदत्त हस् हिम्सेल्f गिल्त् ब्य् गोल्द्
देवदत्त अजातशत्रोः कथयति: मया त्वं राज्ये प्रतिष्ठापितः; माम् अपि त्वं बुद्धत्वे प्रतिष्ठापय इति; स कथयति: भगवतः सुवर्णवर्णः कायः; आदौ तावत् तव सुवर्णवर्णतैव नास्ति इति; स कथयति: अहं सुवर्णवर्णम् अभिनिर्वर्तयामि इति; तेन सुवर्णकार आहूयोक्तः: मम काये सुवर्णं चारय इति; स कथयति: आर्य यदि शक्नोषि वेदनां सोढुम् इति; स कथयति: चारय; शक्ष्यामि इति; तेन चुञ्चुतैलेन गात्रं म्रक्षयित्वा काये सुवर्णपत्रं चारितं; स दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयति; भिक्षुभिः कोकालिकः पृष्टः: कुत्र देवदत्त ( स्ब्व् इइ 164 ) स कथयति: अमुष्मिन् प्रदेशे सुवर्णवर्णताम् अभिनिर्वर्तयति इति; भिक्षवस् तं प्रदेशं गताः; तैर् असौ श्रुतो दुःखवेदनार्तो विक्रोशन्; ते भगवत्सकाशम् उपसंक्रान्तः
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्त सुवर्णवर्णताया अर्ते दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते इति, भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् एष सुवर्णखोलाया अर्थे अनयेन व्यसनम् आपन्नः; तच् छ्रूयतां
थे स्तोर्य् ओf अ च्रोw अन्द् अ गोल्देन् चप् (सुवर्णखोला)
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्याम् अन्यतमा स्त्री प्रोषितभतृका; तस्याः पुरस्तात् काको मधुरमधुरं रौति; सा कथयति: उत्क्रामोत्क्राम वायस; यदि मे भर्ता स्वस्तिना क्षेमेण आगच्छति, तव सौवर्णां खोलां ददामि इति; यावद् असौ तस्या भर्ता स्वस्तिना आगतः; स काकस् तस्याः पुरस्तात् सुवर्णखोलानिमित्तं मधुरमधुरं विरौति; ततस् तया तस्य सौवर्णा खोला दत्ता; स तया पिनद्धया इतश् चामुतश् च परिभ्रमति; तस्य सुवर्णखोलानिमित्तम् अलिकेन पक्षिना शिरश् छिन्नं; देवता गाथां भाषते
भवत्य् अर्थो ऽप्य् अनर्थाय यो ऽनर्थपदसंहितः ।
केलिकाकेन पर्येष्टो यस्य सौवर्णकं शिरः ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ भिक्षवः काकः एष एव देवदत्तः तेन ( अ 483ब् ) कालेन तेन समयेन; तदाप्य् एष सुवर्णखोलाहेतोर् अनयेन व्यसन्नम् आपन्नः; एतर्ह्य् अप्य् एष सुवर्णवर्णताया आर्थाय दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते इति
देवदत्त हस् इन् हिस् fएएत् थे सिग्न् ओf थे wहेएल् इम्प्रिन्तेद् wइथ् रेद् होत् इरोन्
पुनर् अपि देवदत्तः अजातशत्रोः कथयति: त्वं मया राज्ये प्रतिष्ठापितः; त्वम् अपि मां बुद्धत्वे प्रतिष्ठापय इति; स कथयति ( स्ब्व् इइ 165 ) भगवतः चक्राङ्कपादतलचिह्नता लक्षनम् अस्ति; तव तु चक्राङ्कपादतलचिह्नता नास्ति इति; अहं चक्राङ्कपादतलचिह्नम् अभिनिर्वर्तयामि इति; तेन अयस्कारा आहूय उक्ताः: शक्ष्यथ मम पादतले चक्राङ्कं कर्तुम् इति; ते कथयन्ति: आर्य यदि शक्नोषि वेदनां सोढुम् इति; स कथयति कुरुत शक्ष्यामि इति; ते संलक्षयन्ति: बलवान् एषः; यद्य् एवम् एवाङ्क्यामः, स्थानम् एतद् विद्यते यत् पार्ष्णिप्रहारेण अस्मान् जीविताद् व्यपरोपयिष्यति; इति तैः कन्थां छिद्रयित्वा उक्तः: आर्य अनेन कन्थाछिद्रेण पादौ प्रवेशय इति; तेन कन्थाछिद्रेण पादौ प्रवेशितौ; अयस्कारैर् अग्निवर्णं चक्रं कृत्वा पादाव् अङ्कितौ; स दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते; भिक्षुभिः कोकालिकः पृष्टः: कुत्र देवदत्त स कथयति: अमुष्मिन् प्रदेशे चक्राङ्कपादचिह्नताम् अभिनिर्वर्तयति इति; भिक्षवस् तं प्रदेशं गताः; तैर् असौ श्रुतो दुःखवेदनार्तो विक्रोशन्; ते भगवत्सकाशम् उपसंक्रान्तः
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्त चक्राङ्कपादतलचिह्नताया अर्थे दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते इति, भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् एष पादनिमित्तम् अनयेन व्यसनम् आपन्नः; तच् छ्रूयतां
थे जच्कल् मेअसुरिन्ग् थे स्तेप् ओf अन् एलेफन्त् wइथ् इत्स् ओwन्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो हैमवतो हस्ती पानीयं पातुम् अवतीर्णः; तस्य पृष्ठतः सृगालो ऽवतीर्णः; स हस्तिपदं दृष्ट्वा आत्मीयेन पदेन मापयितुम् आरब्धः; स संलक्षयति: ममैतानि पदानि इति; स उत्प्लुत्योत्प्लुत्य पदानि स्थापयन् कलमच्छिन्नेन काष्ठेन शूलायां प्रोतः; देवता गाथां भाषते
न पदं तव मुढ तुल्यकं
गजपादपदेन सर्वथा ।
त्यज बुद्धिम् इमां निरर्थिकां
परिखेदम् आप्स्यसे वृथा ॥ इति ( स्ब्व् इइ 166 )
किं मन्यध्वे भिक्षवो यो ऽसौ सृगालः एष एव देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष पादनिमित्तम् अनयेन व्यसन्नम् आपन्नः; एतर्ह्य् अप्य् एष चक्राङ्कपादतलचिह्नताया अर्थे दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते इति
देवदत्त चल्ल्स् अ स्किल्लेद् मस्तेर्-मेछनिच् अन्द् मकेस् हिम् चोन्स्त्रुच्त् अ चतपुल्त् इन् fरोन्त् ओf थे बुद्धऽस् रेसिदेन्चे
बुद्धो भगवान् राजगृहे विहरति गृध्रकूटे पर्वते कुम्भीरयक्षस्य भवने; भूयो देवदत्तः अजातशत्रोः कथयति: मया त्वं राज्ये प्रतिष्ठापितः; त्वयाहं न शक्तो बुद्धत्वे प्रतिष्ठापयितुम्? इदानीम् अहं श्रमणं गौतमं जीविताद् व्यपरोपयामि; न त्वया समन्वेष्टव्यं केन प्रघातितः कुत्र प्रघातितः इति; स कथयति: एवम् अस्तु इति; यावद् दक्षिणापथाद् यन्त्रकलाचार्यः अभ्यागतः; स देवदत्तेन ( अ 484अ ) आहूयोक्तः: भोः आचार्य शक्ष्यसि त्वम् ईदृशं यन्त्रं कर्तुं यः पंचभिः पुरुषशतैः आम्रेड्यते? इति; स कथयति: आर्य शक्ष्यामि इति; तेन तस्य शतसहस्रो मुक्ताहारो दत्तः; मनुष्यसहस्रं च दत्तम्; उक्तश् च; यत्र स्थाने भगवांस् तिष्ठति, तन्मुखं गृध्रकूटस्योपरि यन्त्रं सज्जीकुरु इति; तत्र पंच मनुष्यशतानि स्थापितानि, ये तद् यन्त्रम् आम्रेडयन्ति; अपरस्मिन् स्थाने अर्धतृतीयानि शतानि स्थापितानि, उक्तानि च; यदि श्रमणो गौतमो यन्त्रेण न प्रघात्यते, युष्माभिः प्रघातयितव्यः इति; अपरस्मिन्न् अपि स्थाने तदर्थेन अर्धतृतीयानि मनुष्यशतानि; सर्वे च समादिष्टाः: येषां युष्माकं श्रमणो गौतमो भागप्राप्तो भवति, तैः प्रघातयितव्यः इति; आत्मना चापरस्मिन् प्रदेशे स्थितः; एषां परिभ्रष्टो मया प्रघातयितव्यः इति; यावत् तानि पंच पुरुषशतानि यन्त्रम् आम्रेडयितुम् आरब्धानि; संजल्पं कुर्वन्ति: कस्यार्थे यन्त्रम् आम्रेड्यते इति
थे wओर्क्मेन् रेfउसे तो किल्ल् थे बुद्ध, गो अwअय्, सित् दोwन् अत् हिस् fएएत्, अन्द् अरे चोन्वेर्तेf ब्य् हिम्
यावत् पश्यन्ति अधस्ताद् बुद्धं भगवन्तं; ते कथयन्ति: भवन्तो वरं ( स्ब्व् इइ 167 ) स्वजीवितपरित्यागः, न तु देवमनुष्यपूजितस्य बुद्धस्य भगवतः प्राणघातः; परित्यजत यन्त्रम् इति; ते यन्त्रं परित्यज्य गृध्रकूटे इतश् चामुतश् च परिभ्रमन्ति, कतरेण स्थानेन यन्त्रम् अवतारयामः, यत्र देवदत्तो न पश्येद् इति; तेषां चेतसा चित्तम् आज्ञाय भगवता सोपानं निर्मितं; तेषां सोपानं दृष्ट्वा एतद् अभवत्: भवन्तः कुतो ऽत्र सोपानः? भगवत एषो ऽनुभावः इति; भूयस्या मात्रया चित्तम् अभिप्रसाद्य सोपानेन अवतीर्य, येन भगवांस् तेनोपसंक्रान्ताः; भगवान् अपि तद्विनयनापेक्षयैव गृध्रकूटे पर्वते चङ्क्रम्यमाणो ऽवस्थितः; ततस् ते भगवतः पादौ शिरसा वन्दित्वा पुरस्तान् निषण्णा धर्मश्रवणाय: भगवता तेषाम् आशयानुशयं धातुं प्रकृतिं च ज्ञत्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; ते दृष्टसत्यास् त्रिर् उदानम् उदानयन्ति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा; न राज्ञा नेष्टेन स्वकनबन्धुवर्गेण न पूर्वप्रेतैर्, न श्रमणब्राह्मणैः, यत् भगवता अस्माकं कृतं; उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्य् अपायद्वाराणि; विवृतानि स्वर्गद्वाराणि; अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; अभिक्रान्ता वयं भदन्त, अभिक्रान्ताः; एते वयं भगवन्तं श्रणं गच्छामः, धर्मं च भिक्षुसंघं च; उपासकां च अस्मान् भगवान् धारयतु अद्याग्रेण यावज्जीवं प्राणोपेतान्, शरणागतान्, अभिप्रसन्नान्; इत्य् उक्त्वा भगवतो ऽन्तिकात् पंच शिक्षापदानि ग्रहितुम् आरब्धाः
देवदत्त पेर्चेइवेस् थत् थे wओर्क्मेन् अन्द् थे मेछनिच् तोओ रन् अwअय्, अन्द् मनगेस् हिम्सेल्f तो हुर्ल् अ स्तोने fरोम् थे चतपुल्त् अत् थे बुद्ध
यन्त्रकलाचार्यो ऽपि ( अ 484ब् ) बुद्धं भगवन्तम् अयं प्रघातयतीति विदित्वा, तेषाम् अनुपदम् एव सोपानाद् अवतीर्य, शतसहस्रं मुक्ताहारं गृहीत्वा निष्पलायितः; देवदत्तो ऽपि शिलापतनतत्परो मुहुर्मुहुर् निरीक्षते; न पततीति कृत्वा स्वयम् एव तान्य् अन्यानि पंच मनुष्यशतान्य् आदाय गृध्रकूटं पर्वतम् ( स्ब्व् इइ 168 ) अभिरोढुम् आरब्धः; पश्यति तानि भगवतो ऽन्तिकाद् धर्मं शृण्वन्ति; दृष्ट्वा च भूयस्या मात्रया संजातामर्षो ऽन्यतोमुखो गृध्रकूटं पर्वतम् अभिरूढः; यावत् पश्यति यन्त्रकलाचार्यो ऽपि निष्पलायितः; स्वयम् एव पंचशतपरिवारो यन्त्रम् आम्रेडयितुम् आरब्धः; भगवान् संलक्षयति: मयैव एतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; मयैव एतानि कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? इति विदित्वा तानि पंच मनुष्यशतानि इदम् अवोचत्: भवन्तो देवदत्तस् तीव्रपर्यवस्थानावस्थितो गृध्रकूटं पर्वतम् अभिरूढाः; गच्छत; ममैतानि कर्माणि कृतानि इति; ततस् तानि पंच मनुष्यशतानि निष्पलायितानि; देवतानाम् अधस्ताज् ज्ञानदर्शनं प्रवर्तते
थे यक्ष कुम्भीर सच्रिfइचेस् हिस् लिfए इन् त्र्यिन्ग् तो अर्रेस्त् थे स्तोने, बुत् अ fरग्मेन्त् स्त्रिकेस् थे बुद्ध ओन् थे fओओत्
अथ वज्रपाणेर् यक्षस्यैतद् अभवत्: देवदत्तो भगवतो वधाय पराक्रमति इति विदित्वा येन कुम्भीरयक्षस् तेनोपसंक्रान्तः; उपसंक्रम्य कुम्भीरं यक्षम् इदम् अवोचत्: देवदत्तो गृध्रकूटाद् यन्त्रेण भगवतः शिलां क्षेप्तुम् आरब्धः; तव च भवने भगवान् विहरति; तद् अहं यत्नम् आस्थाय अन्तरीक्षे एतां शिलां वज्रेण चूर्णयामि; त्वयापि साहाय्ये वर्तितव्यं; कदाचिच् चूर्णितायाः खण्डः भगवत उपरिष्टान् निपतेद् ति; स कथयति: एवं भवतु इति; भगवान् अभ्यवकाशे स्थित्वा पर्वतविवरे प्रविष्टः; देवदत्तेन पंचशतपरिवारेण यन्त्रम् आम्रेड्य भगवतः शिला क्षिप्ता; वज्रपाणिना यक्षेण चूर्णिता; अर्धं भगवतः स्थाने पतितुकामं कुम्भीरयक्षेण गृह्णता न सुगृहीतं कृतं; स तेन प्रघातितः; भगवता उत्प्लुत्य पाषाणशर्करया पादः क्षतः कृतः; भगवांस् तस्यां वेलायां गाथां भाषते
नैवान्तरीक्षे न समुद्रमध्ये
न पर्वतानां विवरं प्रविश्य ।
न विद्यते ऽसौ पृथिवीप्रदेशो
यत्र स्थितौ न प्रसहेत कर्म ॥ इति
कुम्भीरो ऽपि यक्षः कुशलचित्तः कालगतः; कालं कृत्वा प्रणीतेषु त्रयस्त्रिंशेषु देवेषु उपपन्नः; धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणा इति स पश्यति: यक्षेभ्यश् च्युतः, प्रणीतेषु त्रयस्त्रिंशेषु देवेषूपपन्नः भगवतो ( स्ब्व् इइ 169 ) ऽन्तिके चित्तम् अभिप्रसाद्य इति; अथ यक्षपूर्विणो देवपुत्रस्य एतद् अभवन् न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रमेयं ( अ 485अ ) यन् न्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयम् इति
अथ स यक्षपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रस् ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमान्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा सर्वं गृध्रकूटं पर्वतम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय; ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा यक्षपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं; नेष्टेन स्वजनबन्धुवर्गेण; न राज्ञा न देवताभिर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैः यद् भगवता अस्माकं कृतम्; उच्छोषिता रुधिराश्रुसमुद्राः; लंघिता अस्थिपर्वताः पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि; प्रतिष्ठापिताः स्मो देवमनुष्येषु आह च
तवानुभावात् पिहितस् सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या
निर्वाणमार्गश् च मयोपलब्धः ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः ।
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णश् च दुःखार्णवपारम् अस्मि ॥
जगति दैत्यनरामरपूजितं
विगतजन्मजरामरणामयं ।
भवसहस्रसुदुर्लभदर्शनं
सफलम् अद्य मुने तव दर्शनम्* ॥
अवलम्ब्य ततः प्रलम्बहारः
चरणौ द्वाव् अभिवन्द्य जातहर्षः ।
परिगम्य च दक्षिणं जितारिं
सुरलोकाभिमुखो दिवं जगाम ॥ ( स्ब्व् इइ 170 )
अथ यक्षपूर्वी देवपुत्रो वणिग् इव लब्धलाभः संपन्नसस्य इव कार्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् उपसंक्रान्तः तयैव विभूत्या स्वभवनं गतः
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति; तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः; यं दृष्ट्वा सन्दिग्धाः भगवन्तं पप्रच्छुः: किं भगवन् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सभांपतिः शक्रो देवेन्द्रः चत्वारो लोकपाला उपसंक्रान्ताः भगवान् आह: न भिक्षवो ब्रह्मा सभांपतिः न शक्रो देवानाम् इन्द्रः नापि चत्वारो लोकपाला माम् दर्शनायोपसंक्रान्ताः; अपि तु देवदत्तेन मद्वधायोद्युक्तेन या गृद्ध्रकूटपर्वताद् यन्त्रेण शिला क्षिप्ता सा अन्तरीक्षे एव वज्रपाणिना वज्रेण चूर्णिता; तस्या अर्धं ममोपरि पतमानं कुम्भीरयक्षेण दुर्गृहीतं कृतं; स तेन प्रघातितो ममान्तिके चित्तम् अभिप्रसाद्य कालगतः; प्रणीतेषु देवेषु त्रयस्त्रिंशेषु ( अ 485ब् ) उपपन्नः; स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः; तस्य मया धर्मो देशितः; स दृष्टिसत्यः स्वभवनं गतः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः; एकान्तशुक्लानाम् एकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम्*
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त कुम्भीरेण यक्षेण भगवतः अर्थाय आत्मा परित्यक्तः इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि अनेन ममार्थाय आत्मा परित्यक्तः; तच् छ्रूयतां
थे स्तोर्य् ओf अ हुन्तेर्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf यक्ष कुम्भीर)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; तेन खलु समयेन वाराणस्यां नगर्यां नातिदूरे अन्यतरस्मिन्न् आश्रमपदे मूलपुष्पफलसलिलसंपन्ने नानाविहगनिकूजिते ऋषिः प्रतिवसति; कष्टतपाः फलमूलाम्बुभक्षः अजिनवल्कलवासाः; तस्य चाश्रमपदस्य सामन्तकेन मृगलुब्धको मृगान् प्रघात्य प्रघात्य जीविकां कल्पयति; स तस्य ऋषेः कालेन कालम् उपसंक्रामति; तस्यासौ ऋषिः श्रान्तस्य मूलफलैर् उपसंहारं करोति; अप्य् एवायं लुब्धको मत्सरी ( स्ब्व् इइ 171 ) समीपनिवासिनो मृगान् न प्रघातयेद् इति; तयोः परस्परं पितृपुत्रेति संज्ञा समुत्पन्ना;लुब्धको ऋषिं पितृवादेन समुदाचरति; ऋषिर् अपि लुब्धकं पुत्रवादेन; यावद् अपरेण समयेन राजा ब्रह्मदत्तः काल्यम् एवोत्थाय मृगवधाय निर्गतः; तेन मृगः शरपरम्परया ताडितः उत्पतितः तय ऋषेर् आश्रमपदं प्रविष्टः; तत्रापि राज्ञा नाराचेन मर्मणि ताडितः कालगतः; स ऋषिः क्रोधपर्यवस्थितः कथयति: कलिराजस् त्वं दुराचारो येन मे शरणोपगतो मृगः प्रघातितः इति; एवम् उक्ते स राजा द्वेषपर्यवस्थाननिविष्टबुद्धिर् अमात्यानां कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं परिभाषते तस्य को दण्डः इति; अमात्याः कथयन्ति: वधो दण्डः इति; राजा कथयति: यद्य् एवं परित्यक्तो मे अयम् ऋषिः; अमात्याः ऋषिं प्रघातयितुम् आरब्धाः; दैवात् स लुब्धकस् तस्य ऋषेः सकाशम् आगतः; आगत एव स संलक्षयति; मम जीवतः कथम् ऋषिः प्रघात्यते इति; स योद्धुम् आरब्धः; ऋषिर् निष्पलायितः; स महता बलकायेन प्रघातितः
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ ऋषिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ लुब्धकः एष एव स कुम्भीरयक्षः तेन कालेन तेन समयेन; तदाप्य् अनेन ममार्थाय आत्मा परित्यक्तः; एतर्ह्य् अप्य् अनेन ममार्थाय आत्मा परित्यक्तः इति
जीवक प्रेस्च्रिबेस् अ वेर्य् ररे सुब्स्तन्चे चल्लेद् गोशीर्षचन्दन इन् ओर्देर् तो स्तोप् थे हेमोर्र्हगे अत् थे fओओत् ओf थे बुद्ध
भगवतः पाषाणशर्करया ( अ 486अ ) पादः क्षतः; रुधिरं प्रघरत्य् एव नावतिष्ठते; जीवको वैद्यराजो भगवतो रुजावलोककः त्रिकालम् उपसंक्रामति; राजगृहनिवासी श्राद्धो जनकायः नानादेशभ्यागताश् च सम्यग्दर्शनसंपन्नाः धनिनः श्रेष्ठिनः सार्थवाहाः; तत्र केचित् कथयति: जीवक इदम् अत्र भैषज्यं शोभनम् इति; अन्ये कथयन्ति: इदं शोभनम् इति; जीवको वैद्यराजः कथयति: अस्त्य् अत्र सद्यःप्रशमनं भैषज्यं; किं तु तद् दुर्लभं; आयुष्मान् आनन्द कथयति: जीवक किं तत्; स कथयति: गोशीर्षचन्दनं; तेन खलु समयेन गोषीर्षचन्दनस्य प्राप्तिर् एव समुच्छिन्ना; यावद् अन्यतमेन वणिजा गोशीर्षचन्दनम् आत्ययिकं स्थापितम्: अयं राजा अजातशत्रुश् चण्डो रभसः कर्कशः; यद्य् अस्य दैवाद् गोशीर्षचन्दनेन प्रयोजनं भवति ( स्ब्व् इइ 172 ) नियतम् अस्याभावत् शिरश्छेदम् अपि करोति; यस्माद् अहं कालानुकालं गोशीर्षचन्दनविक्रयं कृतवान् इति; तेन श्रुतं यथा जीवकेन वैद्यराजेन भगवतो रुजाप्रशमनं गोशीर्षचन्दनम् उपदिष्टम् इति; स संलक्षयति: अयम् अजातशत्रुर् देवदत्तविग्राहितो भगवत्य् अभिनिविष्टबुद्धिः; यद्य् अहं भगवतो गोशीर्षचन्दनं प्रदास्यामि स्थानम् एतद् विद्यते यद् अनर्थं करिष्यति इति; पुनः संलक्षयति: भगवान् देवमनुष्यपूजितः; यदि तस्यार्थाय् प्राणवियोगो भवति, भवत्य् एव; यन्न्व् अहं भगवतो गोशीर्षचन्दनं प्रयच्छेयम् इति; स गोशीर्षचन्दनम् आदाय भगवत्सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति: भगवन्न् उपलब्धं मया भगवतो गोशीर्षचन्दनेन प्रयोजनम् इति; इदं तत् प्रतिगृह्णातु भगवान् अनुकम्पाम् उपादाय इति; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: प्रतिगृह्णीष्व आनन्द अस्य महात्मनः सकाशाद् गोशीर्षचन्दनम् इति; आयुष्मता आनन्देन प्रतिगृहीतं; ततो ऽसौ वणिक् प्रीतिप्रामोद्यजातः भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः
अथ भगवान् विस्मितम् अकार्षीत्; धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान् निश्चर्य काश्चिद् अधस्ताद् गच्छन्ति; काश्चिद् उपरिष्टाद् गच्छन्ति
या अधस्ताद् गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदम् अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास् तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास् तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषाम् एवं भवति: किं नु वयं भवन्तः इतश् च्युताः आहोस्विद् अन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश् च्युताः; नाप्य् अन्यत्रोपपन्नाः; अपि तु अयम् अपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तम् अभिप्रसाद्य, तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति
या उपरिष्टाद् गच्छन्ति ताश् चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मा इत्य् उद्घोषयन्ति; गाथाद्वयं च भाषन्ते
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ इति
अथ ता अर्चिषस् त्रिसहस्रमहासहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्याम् अन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोर् अन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्याम् अन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायाम् अन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः; अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ
नानाविधो रङ्गसहस्रचित्रो
वक्त्रान्तरान् निष्कसितः कलापः ।
अवभासिता येन दिशः समन्तात्
दिवाकरेणोदयता यथैव ॥
गाथाश् च भाषते
विगतोद्भवा दैन्यमदप्रहीणा
बुद्धा जगत्य् उत्तमहेतुभूताः ।
नाकारणं शङ्खमृणालगौरम्
स्मितम् उपदर्शयन्ति जिना जितारयः ॥
तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या
श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् ।
धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर्
उत्पन्नं व्यपनय संशयं शुभाभिः ।
नाकास्माल् लवणजलाद्रिराजधैर्याः
संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितम् उपदर्शयन्ति धीराः
तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ इति
भगवान् आह: एवमेतद् आनन्द एवम् एतत्; नाहेतप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति; दृष्टस् त्वया अनन्द स वणिक्, येन तथागतस्य चित्तम् अभिप्रसाद्य गोशीर्षचन्दनं ( अ 487अ ) दत्तं दृष्टो भदन्त; स एष आनन्द वणिक् तेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च चन्दनो नाम प्रत्येकबुद्धो भविष्यति; अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः
थे हेमोर्र्हगे दोएस् नोत् स्तोप्, अन्द् जीवक प्रेस्च्रिबेस् थे मिल्क् ओf अ योउन्ग् wओमन्
तथापि तद् रुधिरं प्रघरत्य् एव; नावतिष्ठते; जीवकः कथयति: इदानीं कन्याक्षीरेण परिषेको दीयताम् इति; भिक्षवो न जानते कीदृशं कन्याक्षीरम् इति; आयुष्मान् आनन्दः कथयति: जीवक कीदृशं कन्याक्षीरम् इति; स कथयति: या तु प्रथमप्रसवा ( स्ब्व् इइ 173 ) नारी सात्र कन्या अभिप्रेता; तस्या यत् क्षीरं तत् कन्याक्षीरम् इत्य् उच्यते इति; आयुष्मता आनन्देन कन्याक्षीरनिमित्तं चतस्रो ऽपि पर्षदः प्रयुक्ताः; भिक्षवः कन्याक्षीरं पर्येषितुम् आरब्धाः; भिक्षुण्यः उपासका उपासिह्यश् च भूयसा सर्व एव राजगृहनिवासी जनकायः स्थापयित्वा देवदत्तं देवदत्तपक्ष्यांश् च; ते चतसृणां पर्षदां जनकायस्य च पर्येषमाणस्य यैस् तैर् उपायैः विघ्नं कुर्वन्ति; यावद् राजगृहे अन्यतमा प्रथमप्रसवा कन्या स्वल्पक्षीरा स्वकम् अपि पुरं क्षीरेण न सन्तर्पयति; कुतः पुनर् अन्यस्य दास्यति? तया श्रुतं यथा भगवतः कन्याक्षीरेण प्रयोजनम् इति; सा संलक्षयति: यदि दास्यामि दारको मे स्वल्पप्राणः क्षीरविरहात् प्राणैर् वियोक्ष्यते; न केवलम् अयं आदीनवः; अयम् अपरः, देवदत्तः भगवतो दीर्घरात्रं प्रत्यर्थिकः प्रत्यमित्रः; तद्विग्राहितश् च राजा अजातशत्रुः देवदत्तपक्ष्याश् च कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; एते मां जीविताद् व्यपरोपयिष्यन्ति इति; पुनः संलक्षयति: कामं स्वप्राणवियोगः पुत्रवियोगश् च; न तु देवमनुष्यपूजितस्य बुद्धस्य भगवतः व्याधिदुःखवेदनानुभवनं येन सर्व एव राजगृहनिवासी जनकायः समाकुलः; यन्न्व् अहं क्षीरम् आदाय गच्छेयम् इति; सा भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य नवे भाजने क्षीरं दुग्ध्वा येन भगवांश् तेनोपसंक्रान्ता; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् इदम् अवोचत्: उपलब्धं मया भदन्त जीवकेन भगवतः कन्याक्षीरम् उपदिष्टम् इति; तद् इदं कन्याक्षीरं प्रगृह्यतां ममानुग्रहाय इति; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: भद्राशया इयम् आनन्द दारिका; अस्या सकाशाद् गृहाण क्षीरम् इति; तेन प्रतिगृहीतं क्षीरं; सा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ता
अथ भगवान् विस्मितम् अकार्षीत्; धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान् निश्चर्य काश्चिद् अधस्ताद् गच्छन्ति; काश्चिद् उपरिष्टाद् गच्छन्ति
या अधस्ताद् गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदम् अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास् तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास् तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषाम् एवं भवति: किं नु वयं भवन्तः इतश् च्युताः आहोस्विद् अन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश् च्युताः; नाप्य् अन्यत्रोपपन्नाः; अपि तु अयम् अपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तम् अभिप्रसाद्य, तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति
या उपरिष्टाद् गच्छन्ति ताश् चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मा इत्य् उद्घोषयन्ति; गाथाद्वयं च भाषन्ते
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ इति
अथ ता अर्चिषस् त्रिसहस्रमहासहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्याम् अन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोर् अन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्याम् अन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायाम् अन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः; अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ
नानाविधो रङ्गसहस्रचित्तो
वक्त्रान्तरान् निष्कसितः कलापः ।
अवभासिता येन दिशः समन्तात्
दिवाकरेणोदयता यथैव ॥
गाथाश् च भाषते
विगतोद्भवा दैन्यमदप्रहीणा
बुद्धा जगत्य् उत्तमहेतुभूताः ।
नाकारणं शङ्खमृणालगौरम्
स्मितम् उपदर्शयन्ति जिना जितारयः ॥
तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या
श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् ।
धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर्
उत्पन्नं व्यपनय संशयं शुभाभिः ।
नाकास्माल् लवणजलाद्रिराजधैर्याः
संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितम् उपदर्शयन्ति धीराः
तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ इति
भगवान् आह: दृष्टस् त्वया अनन्द सा दारिका, यया ममान्तिके चित्तम् अभिप्रसाद्यक्षीरं दत्तं दृष्टा भदन्त; एषा सा आनन्द दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च क्षीरप्रदो नाम प्रत्येकबुद्धो भविष्यति; अयम् अस्या देयधर्मो यो ममान्तिके चित्तप्रसादः इति
दशबलकाश्यप स्तोप्स् थे हेमोर्र्हगे
तथापि तद् रुधिरं प्रघरत्य् एव; नावतिष्ठते; नानादेशनिवासिनो भिक्षवः अभ्यागताः भगवत एवंविधम् आबाधं ( स्ब्व् इइ 174 ) श्रुत्वा अन्ये च श्राद्धा ब्राह्मणगृहपतयः; तत्र केचिद् अगदान् व्याहरन्ति; केचिन् मन्त्रैश् चिकित्सां कुर्वन्ति; आयुष्मान् दशबलकाश्यपः सत्योपयाचनं कर्तुम् आरब्धः
समं ते भगवंश् चित्तं पुत्रेष्व् अपि अरिष्व् अपि ।
अनेन सत्यवाक्येन तिष्ठ क्षतज मा स्रव ॥ इति
सत्योपयाचनसमन्तरम् एव तद् रुधिरं स्थितं; भिक्षवः प्रमुदितमनसः संवृत्ताः भिक्षुण्यः उपासकाः उपासिक्यः भूयसा सर्व एव राजगृहनिवासी जनकायः स्थापयित्वा देवदत्ताजातशत्रू कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तांश् च; भगवान् जानन्न् एव यो यथा चिकित्सां करोति, तस्य तथानुमोदते, तेषां कुशलमूलबीजावरोपणार्थं
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता आयुष्मता दशबलकाश्यपेन सत्योपयाचनया स्रवद् रुधिरं विधारितम् इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि अहम् अनेन विषकृतेन पर्याकुलीकृतो निर्विषीकृतः; तच् छ्रूयतां
थे स्तोर्य् ओf धर्मकाम
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf दशबलकाश्यप)
भूतपूर्वं भिक्षवः अन्यतमस्य कर्वटकस्य नातिदूरे उद्यानं मूलकन्दपुष्पफलसलिलसंपन्नं नानाविहगनिकूजितं; तत्र ऋषिः प्रतिवसति फलमूलाम्बुभक्षः अजिनवल्कलवासाः विद्यामन्त्रधारी च; तस्मिंश् च कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्य त्रीणि सप्तकान्य् एकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापितं; स उन्नीतो वर्धितो महान् संवृत्तः; स चंक्रम्यमाणः ( अ 488ब् ) स्थितो शयितो वा कुशलं चित्तम् अतिकुशलं च कर्म करोति; तस्य जनकायेन धर्मकाम इति संज्ञा कृता; स किंकुशलगवेषितया कर्वटकान् निष्क्रम्य कालानुकालं तस्य ऋषेः सकाशम् उपसंक्रामति; उपस्थानं चास्य करोति; तपस्विन उपसंक्रामतीति तापसस् ( स्ब्व् इइ 175 ) तापस इति संवृत्ता; तस्यापरेण समयेन विषकृतम् उत्थितं; सो ऽनेकैर् अगदमन्त्रप्रयोगैश् चिकित्स्यते; न चासौ व्याधिर् उपशमं गच्छति; स मातापितृभ्यां तस्य ऋषेः सकाशम् उपनीतः; महर्षे उपस्थायकस् ते विषकृतेन प्राणैर् वियुज्यते; चिकित्सां कुरुष्व इति; स सत्योपयाचनं कर्तुम् आरब्धः
समं ते दारक चित्तं मित्रेष्व् अपि रिपुष्व् अपि ।
अनेन सत्यवाक्येन निर्विषो भव दारक ॥ इति
स सत्योपयाचनकालसमनन्तरम् एव निर्विषीकृतः
किं मन्यध्वे भिक्षवो यो ऽसौ दारकः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ ऋषिः एष एव स दशबलकाश्यपः; तदाप्य् अहम् अनेन सत्योपयाचनेन स्वस्थीकृतः; एतर्ह्य् अप्य् अहम् अनेन सत्योपयाचनेन स्वस्थीकृतः
थे दिसप्पोइन्त्मेन्त् ओf देवदत्त
देवदत्तो दुःखी दुर्मना विप्रतीसारी चिन्तयति: व्यर्थं मया श्रमणस्य गौतमस्य शिला क्षिप्ता; न च श्रमणो गौतमः प्रघातितः; महाजनप्रतिसंविदितो जातः इति; स वृक्षमूलं गत्वा चिन्तापरः कृतकेन पर्यङ्कं बध्वा अवस्थितः; भिक्षवः स्थानस्थानेष्व् अवध्यायन्ति क्षिपन्ति विवाचयन्ति: पश्व भदन्त ईदृशः क्रूराशयो देवदत्तः, येन भगवतः प्रव्रजितस्यापि पराक्रान्तम्; उपरिष्टात् शिला क्षिप्ता इति; कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः कथयन्ति: किं भवन्तो यद्वा तद्वा असमीक्ष्य कथयन्ति ननु पश्यत देवदत्तम् अस्मिन् वृक्षमूले; चतुर्थं ध्यानं समापन्नः महात्मासौ; कथम् एवं करिष्यति इति
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त अमी कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः आत्मना अलज्जिनः अलज्जिनो देवदत्तस्य वर्णं भाषन्ते इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि एते अलज्जिन अलज्जिनो वर्णम् अभाषन्त; तच् छ्रूयतां ( स्ब्व् इइ 176 )
थे स्तोर्य् ओf अ जच्कल् अन्द् अ च्रोw
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त, एत्च्.)
भूतपूर्वं भिक्षवो राजगृहीयकैर् मनुष्यैः राज्ञा च केनचित् कारणेन क्रियाकारं कृत्वा द्वे श्मशाने व्यवस्थापिते, एकस्मिन् प्रदेशे पुरुषाश् छोरयितव्याः एकस्मिन् स्त्रियः इति; यावद् अपरेण समयेन पण्डकः कालगतः; स न एकस्मिन् श्मशाने अवकाशं लभते, न द्वितीये; राजगृहस्यान्यतमस्मिन् प्रदेशे उद्यानं मूलकन्दपुष्पफलसलिलसंपन्नं नानाविहगनिकूजितं; तस्मिंश् च खुस्तशिरा ऋषिः प्रतिवसति; फलमूलाम्बुभक्षः अजिनवल्कलवासाः; तस्मिंश् च प्रदेशे त्रिकण्टकेदारैरण्डवृक्षाश् च सन्ति; तत्र स पण्डको छोरितः; कुणपगन्धेन सृगाल आगतः; ( अ 489अ ) स तं पण्डकं भक्षयितुम् आरब्धः; काकश् च एरण्डवृक्षाग्रतस् तिष्ठति; तस्य बुद्धिर् उत्पन्ना: सृगालस्य वर्णं भाषे; कदाचिद् भक्षितशेषं दद्याद् इति; स तस्य गाथया वर्णं भाषितुम् आरब्धः:
सिंहस्य ते यथा ग्रीवा ऋषभस्य यथा कटिः ।
मृगराज नमस् तुभ्यं भुक्तशेषं लभेमहि ॥ इति
सृगालो व्यवलोक्य प्रत्यभाषत
को ऽयं द्रुमवराग्रे ऽस्मिन् द्विजानां प्रवरः खलु ।
अवभास्य दिशः सर्वाः भ्राजते रत्नपिण्डवत् ॥ इति
काकः कथयति
अहम् अस्मि महाभाग दर्शनार्थं त्वागतः ।
मृहराज नम्स् तुभ्यं भुक्तशेषं लभेमहि ॥ इति
सृगालः कथयति
मयूरकण्ठस् त्वम् असि वायस प्रियदर्शन ।
आक्रन्दचारिणां श्रेष्ठ एहि भुङ्क्ष्व यथासुखं ॥ इति
सो ऽवतीर्णः सृगालेन सह कुणपं भक्षयन् तेन ऋषिणा दृष्टः; स गाथां भाषते ( स्ब्व् इइ 177 )
चिरस्य बत पश्यामि समागमम् अलज्जिनोः ।
वृक्षाधमस्य च्छायायां भुञ्जते कुणपं सह ॥ इति
काकेन श्रुतं; स सामर्षं गाथां भाषते
यदि सिंहो म्यूरश् च भुञ्जते वरजाङ्गलम् ।
किम् अत्र खुस्तशिरसः परदत्तोपजीविनः ॥ इति
ऋषिर् अपि जातामर्षो गाथां भाषते
पक्षिणाम् अधमः काकः जम्बुकश् च चतुष्पदाम् ।
एरण्डश् चापि वृक्षाणां मौष्यानां च पण्डकः ।
हीनास् त्रिकण्टकेदाराः पश्यालज्जिसमागमम् ॥ इति
ततः काको भूयस्या मात्रया संजातामर्षो ऋषेर् अग्निशरणं प्रविश्य व्यवलोकयितुम् आरब्धो न पश्यति किंचित्; कमण्डलुं भङ्क्त्वा निष्पलायितः; यावद् असौ ऋषिर् अग्निशरणं प्रविश्य पश्यति कमण्डलुं भग्नं; स संलक्षयति: तस्यैतद् दुष्काकस्य कर्म नान्यस्य; इति विदित्वा गाथां भाषते
न रोच्यास् तादृशाः केचिद् अलजिनाः क्रूराशयाः ।
दूषितं चाग्निशरणं भग्नश् चापि कमण्डलुः ॥
अवर्णार्हो न वर्णार्हः न वाच्यं खलु सर्वथा ।
किंचिन् मतिमता नित्यं तूष्णींभावः सुखावहः ॥ इति
किं मन्यध्वे भिक्षवो यो ऽसौ ऋषिर् अहम् एव सः तेन कालेन तेन समयेन; सृगालो देवदत्तः तेन कालेन तेन समयेन, काकः कोकालिकः तेन कालेन तेन समयेन; तदाप्य् एताव् अलज्जिनौ अलज्जिनोर् वर्णम् अभाषाताम्; एतर्ह्य् अप्य् एताव् अलज्जिनौ अलज्जिनोर् वर्णं भाषेते
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुत्र भदन्त भगवतो देवदत्तस्य च तत्प्रथमतो वैरूक्ष्यम् उत्पन्नम् इति; भगवान् आह
थे स्तोर्य् ओf थे त्wओ बिर्द्स् धर्म अन्द् अधर्म
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf थे बुद्ध अन्द् ओf देवदत्त)
भूतपूर्वं भिक्षवो द्वौ जीवजीवकौ एकेन कायेन समुद्रतीरे प्रतिवसतः धर्मश् चाधर्मश् च; यावद् अधर्मो मिद्धम् ( स्ब्व् इइ 178 ) अवक्रान्तः; धर्मो जागर्ति; तेन अमृतफलम् उह्यमानं दृष्टं; तेन तद् गृहीतं; स संलक्षयति: किं तावद् एनम् उत्थापयिष्यामि? आहोस्विद् भक्षयामि? इति; भूयः संलक्षयति: भक्षयामि: एकस्मिन्न् एव शरीरे विपक्ष्यते इति; स तेन नोत्थापितः; स्वयम् एव ( अ 489ब् ) भक्षितः; स प्रतिबुद्धः; तस्मिन् प्रदेशे धर्मस्य अंर्तफलोद्गारः उत्थितः; अधर्मेण घ्रातः; स कथयति: कस्य एष उद्गारः इति; स कथयति: अमृतफलस्य; कुत्र लब्धं?; स कथयति: मया तव सुप्तस्य अमृतफलं लब्धं; तन् मया भक्षितं; त्वं नोत्थापितः: एकस्मिन्न् एव शरीरे विपक्ष्यते इति; स कथयति: न शोभनं कृतम्; अहम् अपि कालज्ञो भविष्यामि इति; यावद् अपरेण समयेन धर्मो मिद्धम् अवक्रान्तः; अधर्मो जागर्ति; तेन विषफलम् उह्यमानं दृष्टं; तेन तद् भक्षितं; ताव् उभाव् अपि मूर्च्छितौ; अधर्मो विषफलेन पर्याकुलीकृतः कथयति: तत्र तत्रोपपद्येय, यत्र यत्र जन्मनि तव वधकः स्यां प्रत्यर्थिकः प्रत्यमित्रः इति; धर्मः कथयति: अहम् अपि यत्र यत्रोपपद्येय, तत्र तत्र जन्मनि तव मैत्र्युपसंहारं कुर्याम् इति
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ धर्मः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसाव् अधर्मः एष एव स देवदत्तः तेन कालेन तेन समयेन; तत्रायं मम तत्प्रथमतो विरूक्षितः; अहं चास्य मैत्रेण चित्तेनावस्थितः; भूयो ऽप्य् अयं यथा मम विरूक्षितः, अहं चास्य मैत्रचित्तः; तच् छ्रूयताम्
थे स्तोर्य् ओf सूर्यनेमि थे पोएत्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf थे बुद्ध अन्द् ओf देवदत्त)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां सर्जरसो नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; तेन भूम्यन्तरस्य राज्ञः सकाशाद् दारिका लब्धा; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः सा दारिका कालान्तरेण आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् सूर्योदये प्रसूता; दारको ( स्ब्व् इइ 179 ) जातः अभिरूपो दर्शनीयः प्रासादिकः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्य्ते किं भवतु दारकस्य नाम इति; अमात्याः कथयन्ति: अयं दारकः सूर्योदये जातः; तस्माद् भवतु दारकस्य सूर्यनेमीति नाम; तस्य सूर्यनेमीति नामधेयं व्यवस्थापितं; सूर्यनेमी दारकः अष्टाभ्यो धात्रीभ्यो दत्तः; द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्; स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तः सङ्ख्यायां गणनायां मुद्रायां; यानि राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यम् अनुप्राप्तानां महान्तं पृथिवीमण्डलम् अभिनिर्जित्य अध्यावसतां पृथग् भवन्ति शिल्पस्थानकर्मस्थानानि तद्यथा हस्तिग्रीवायाम् अश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणे अंकुशग्रहे पाशग्रहे तोमरग्रहे छेद्ये भेद्ये वेध्ये मुष्टिबन्धे पादबन्धे शिखाबन्धे दूरवेधे शब्दवेधे मर्मवेधे अक्षूणवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः; स पित्रा यौवराज्ये प्रतिष्ठापितः ( अ 490अ ) सर्जरसस्य राज्ञः अग्रमहिषी धर्मा नाम; अग्रामात्यश् च गोनिषादो नाम्ना; तस्मिंश् च राजा अत्यर्थं विश्वस्तः; यावद् अपरेण समयेन राजा सर्जरसः धर्मया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः धर्मा आपन्नसत्वा संवृत्ता; सा नैमित्तिकैर् व्याकृता: पुत्रं जनयिष्यति; स राजानं जीविताद् व्यपरोप्य स्वयम् एव पट्टे बध्वा राज्यैश्वर्याधिपत्यं कारयिष्यति इति; यावद् राजा सर्जरसः ग्लानः संवृत्तः; स उपस्थीयते मूलगण्डपत्रपुष्पफलभैषज्यैः; न चासौ व्याधिर् उपशमं गच्छति; शरीरावस्था परिच्छिन्ना; स संलक्षयति: ममात्ययात् सूर्यनेमी राजा भविष्यति; नियतम् असौ धर्मां घतयिष्यति; किम् अत्र प्राप्तकालं; इति भूयः स संलक्ष्यति: अयम् अमात्यो गोनिषादः मया प्रणीतैर् भोगैः संविभक्तः, प्रतिपालितश् च; अस्य धर्मां समर्पयामि इति; तेन गोनिषाद आहूयोक्तः:मम धर्मा अग्रमहिषी: त्वं चाग्रामात्यः; मम शरीरावस्था परिच्छिन्ना; नियतम् अहं प्राणाइर् वियोक्ष्ये; त्वया मत्प्रियतया तथा अनुष्ठेयं यथा धर्मा सूर्यनेमिना जीवितान् न व्यपरोप्यते ( स्ब्व् इइ 180 ) इति; स कथयति: देव तद् अपि न शक्यं ते कर्तुम्; अल्पोत्सुको भवतु देवः; तथा करिष्ये यथा न प्रघात्यते इति
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ताः मरणान्तं च जीवितम् ॥
इति राजा सर्जरः कालगतः; स छत्रध्वजपताकादिशोभया महता सत्कारेण ध्यापितः; सूर्यनेमी महाराजः महाराजाभिषेकेण अभिषिक्तः; तेनामात्यानाम् आज्ञा दत्ता; धर्मां घातयत इति; गोनिषादः कथयति: देव किम् असमीक्ष्य प्रघात्यते? न ज्ञायते किं दारकं जनयिष्यति? उत दारिकाम् इति; तद् यदि दारकं जनयिष्यति स एव जीविताद् व्यपरोप्यते इति; सूर्यनेमी राजा कथयति: एवं भवतु; त्वयैव संरक्ष्या इति; तेन गृहे स्थापिता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्मिन्न् एव दिवसे कैवर्ती प्रसूता; तस्या दारिका जाता; स जातमात्र एव कैवर्तीं धनेन प्रलोभ्य परिवर्तितः; गोनिषादेन राज्ञो निवेदितं: देव धर्मा प्रसूता; दारिका जाता इति; राजा कथयति: शोभनं; मुक्ताः स्मः इति; स दारकः कैवर्त्या आपायितः पोषितः संवर्धितः महान् संवृत्तः; लिप्यक्षराणि पाठितः; काव्यं कर्तुम् आरब्धः; तस्य कविः कैवर्तदारकः कविः कैवर्तदारकः इति संज्ञा संवृत्ता; गोनिषादेन धर्मायाः समाख्यातं: पुत्रस् ते काव्यकर्ता संवृत्तः इति; सा कथयति: पश्यामि तावत् कीदृशः इति; स कथयति: अलं; किं तेन दृष्टेन इति; सा कथयति: पुत्राभिलाषिणी आकांक्षत्य् एव दर्शनं नावतिष्ठते इति; तस्या गोनिषादेन अवश्यनिर्बन्धं ज्ञात्वा उपायसंविधानेन मत्स्यां कृत्वा प्रवेशितः; स प्रविशन्न् एव नैमित्तिकैर् व्याकृतः: ( अ 490ब् ) एष कविः कैवर्तदारको राजानं जीविताद् व्यपरोप्य, स्वयम् एव पट्टां बध्वा राज्यं कारयिष्यति इति; राज्ञा श्रुतं; तेनामात्यानाम् आज्ञा दत्ता: गृह्णीत यथा न परिभ्रश्यते इति; तेन कर्णपरम्परया श्रुतं; स इतश् चामुतश् च निष्पलायमानो वृद्धयुवत्या गृहं प्रविष्टः; स तया गोपायितः; ततो हरिद्रतैलेन गात्राणि म्रक्षयित्वा मंचे आरोप्य मृत इति कृत्वा निष्कासितः; स च श्मशाने छोरितः; उत्थाय निष्पलायितः; तस्मिन् प्रदेशे अन्यतमः पुरुषः पुष्पफलानि पर्येषते; तेनासौ निष्पलायमानो दृष्टः; तस्य पृष्ठतश् चारकपुरुषाः प्रधाविताः; तैर् असौ पुरुषः पृष्टः: भो ( स्ब्व् इइ 181 ) पुरुष न त्वया ईदृशः प्रमाणेन वर्णेन च अनेन पथा गच्छन् कश्चिन् मनुष्यो दृष्टः? स कथयति: दृष्टः; अनेन पथा गच्छत इति; ते तस्य पृष्ठतो ऽनुबद्धाः; सो ऽन्यतमस्मिन् कर्वटके रजकस्य गृहं प्रविष्टः; तस्य च यथावृत्तम् आरोचितं; चारकपुरुषैः कर्वटको विचारयितुम् आरब्धः; रजकेन वस्त्रवरण्डेन वेष्टयित्वा गर्दभे आरोप्य कर्वटकान् निष्कासितः; स्नानशालायां नित्वा मुक्तः; उत्थाय चतुर्दिशं व्यवलोक्य निष्पलायितः; तत्राप्य् अन्यतरेण पुरुषेण दृष्टः; तेन चारकपुरुषाणां निवेदितं; भवन्तो यदर्थं यूयं कर्वटकं प्रत्यवेक्षथ, असौ पुरुषः अनेन पथा गतः; गच्छत शीघ्रम् इति; ते संप्रस्थिताः; सो ऽप्य् अपरस्मिन् ग्रामे चर्मकारगृहं प्रविष्टः; तस्य तेन यथावृत्तम् आरोचितं; स कथयति: पृष्ठतो मुखे उपानहौ कुरु इति; स कथयति: न मया कदाचिद् एवंरूपा उपानहा कृतपूर्वा; स गाथां भाषते
नानामतयो ह्य् अनेकरूपास्
तुलितास् ते तुलया हि नैकयापि ।
वनवं कुरु चर्मकार मे त्वं
यत् पृष्ठं तद् इह ममाग्रतः कुरुष्व ॥ इति
तेनासौ चर्मकारः शिक्षितः; चर्मकारेण तादृश्यौ उपानहौ कृते; कुड्यपरिक्षिप्तो ऽसौ कर्वटकः; स तेन उपानहौ प्रावृत्य उपच्छिद्रेण निष्पलायितः; चारकपुरुषाः उपानहा अनुसृत्य कर्वटकम् अन्वाहिण्डन्ते; सो ऽपि निष्पलायमानः उदकं प्रविष्टः, नागैर् नागभवनं प्रवेशितः; राज्ञा श्रवपरम्परया श्रुतं यथा असौ नागैर् नागभवनं प्रवेशितः इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: भवन्तो ये मद्विषयनिवासिनः आहितुण्डिकाः, ते सर्वे मत्सकाशे आनेयाः इति; तैः सर्वे विषयनिवासिनः आहितुण्डिकाः राज्ञः उपनीताः; राज्ञा तेषाम् आज्ञा दत्ता: भवन्तो गच्छत; अमुष्मिन् नागभवने नागम् उद्धरत इति; एवं देवेति सर्वे आहितुण्डिकाः राज्ञः प्रतिश्रुत्य तन्नागभवनं गताः; अन्यतरस्यां चाटव्यां पिङ्गलो नाम यक्षो मांसरुधिरभक्षः; तस्य भयात् श्वापदा अपि तम् अटवीं परित्यजन्ति; किम् उत मनुष्याः सा पिङ्गलाटवीति प्रकाशा ( स्ब्व् इइ 182 ) संवृत्ता; आहितुण्डिकेन स नागस् तथा मन्त्रबलाधानाद् उपद्रुतो यथा ( अ 491अ ) सन्त्रस्तः पिङ्गलाटव्यां छोरितो न शक्तस् ताम् अतिक्रामयितुं; नागाः संजल्पं कुर्वन्ति: न शोभनम् अस्माभिः कृतं यद् असौ पिङ्गलाटवीं नातिक्रामितः; सो ऽपि पिङ्गलेन यक्षेण प्रघात्यते; वयं च तदर्थम् अभिद्रुताः; कथम् अत्र प्रतिपत्तव्यम् इति; स नागराजः कथयति: एतम् अर्थम् आहितुण्डिकानां निवेदयामः इति; तैर् आहितुण्डिकानां समाख्यातं: भवन्तो यदर्थं वयम् आकुलीक्रियामहे, सो ऽस्माभिर् अर्थतः प्रघातित एव, यत् पिङ्गलाटव्यां समुत्सृष्टः इति; आहितुण्डिकैः राज्ञ एतत् प्रकरणं समाख्यातं; राजा कथयति: यद्य् अप्य् एवं तथापि समन्वेष्यताम् इति; स पिङ्गलाटव्याम् इतश् चामुतश् च परिभ्रमितुम् आरब्धः; पिङ्गलश् च यक्षः अन्यतमस्मिन् प्रदेशे कुक्कुरैः परिवृतस् तिष्ठति; तेनासौ कुक्कुरैश् च दूरत एव दृष्टः; स संलक्षयति: किं ममानेन मृतप्रवृत्तिः श्रुता? येनायम् अत्र प्रविष्ट इति; तेन तस्य कुक्कुरा उत्सृष्टाः; स निष्पलायमानो वृक्षम् अभिरूढः; कुक्कुराः पिङ्गलश् च वृक्षस्याधस्ताद् व्यवस्थिताः; पिङ्गलः कथयति: भोः पुरुष न त्वया श्रुतं पिङ्गलाटव्यां पिङ्गलो नाम अमनुष्यकः प्रतिवसति; यस् तत्र प्रविशति स तं प्रघातयति इति; प्राप्तस् ते कालः; अवतर इति; स कथयति: यावज् जीवामि तावत् तिष्ठामि इति; पिङ्गलयक्षः अवसक्तिकां बध्वा निर्बन्धेनावस्थितः; स प्रचालयितुम् आरब्धः; तेन तस्योपरि वस्त्रं क्षिप्तं; कुक्कुराः संलक्षयन्ति: स एवायं मनुष्यः पतितः इति; ते पिङ्गलं यक्षं भक्षयित्वा प्रक्रान्ताः; स वृक्षात् शनैर् अवतीर्य प्रक्रान्तः तेन तेनान्वाहिण्डन्; स संलक्षयति: मम मातुलः ऋषीणां मध्ये प्रव्रजितः; तस्य सकाशं गच्छामि इति; तस्य च ऋषेर् अन्यतमस्मिन् पर्वते उद्यानं मूलपुष्पफलसलिलसंपन्नं विविधतरुषण्डमण्डितं नानाविहगनिकूजितं; सो ऽनुपूर्वेण श्रवपरम्परया तस्य रिषेः सकाशम् उपसंक्रान्तः; ज्ञातिसम्बन्धम् आख्यायावस्थितः; तत्रापि चारकपुरुषैः समन्विष्टः; ते तं ग्रहीतुम् आरब्धाः; तेन पर्वतप्रपाताद् आत्मा मुक्तः; स पतन्न् अन्यतमेन पुरुषेण शिखायां गृहीताः; शिखा उत्पटिता; स पतितः; ते संलक्षयन्ति: मृतो ऽयं; गच्छामः इति ते शिखाम् आदाय राज्ञः सकाशं गताः कथयन्ति: ( स्ब्व् इइ 183 ) देव प्रघातितो ऽसौ कविः; इयम् अस्य शिखा इति; राजा परितुष्टः; तेन ते भोगैः संविभक्ताः; अथ या देवता ऋषेर् उद्याननिवासिनी, तया तस्य रिषेः समाख्यातं: भागिनेयस् ते कृच्छ्रसङ्कटसंबाधप्राप्तः; न समन्वाहरस्? इति; स कथयति: यदि मया न समन्वाहृतो ऽभवियत् प्राणैर् वियुक्तः अभविष्यद् इति; स ऋषिर् विद्यामन्त्रधारी; ईदृशीं विद्यां जानीते यया पुरुषः स्त्री भवति स्त्री पुरुषो भवति; स तेन तां विद्यां ग्राहितः; उक्तश् च: गच्छेदानीम्; अकुतोभयो विहर इति; सो ऽन्यं प्रतिरूपं स्त्रीवेषं ( अ 491ब् ) विद्यया अभिनिर्माय वाराणसीं गत्वा राजकीये उद्याने स्थितः; उद्यानपालैर् दृष्टः; परं विस्मयम् उपगताः; तैर् लघु लघ्व् एव गत्वा सूर्यनेमिनो राज्ञः समाख्यातं: देव एवंरूपयौवनसंपन्ना स्त्री उद्याने तिष्ठति
इति; तेनाज्ञा दत्ता आनीयताम् इति; सा महता श्रीसमुदायेन राजकुलं प्रवेशिता; राजा सूर्यनेमिस् तया सार्धम् अतीव संरक्तः; ततस् तया अवसरं ज्ञात्वा रहसि स्थितो जीविताद् व्यपरोपितः; पुनश् च विद्यां परिवर्त्य पुरुषः संवृत्तः; ततः स्वयम् एव पट्टं बध्वा गोनिषादस्यामात्यस्य निवेद्य राज्ये प्रतिष्ठितः; देवता गाथां भाषते
नासौ हतो यय शिरो न छिन्नं
भूयस् स उत्थाय करोति कर्म ।
स वै हतो शब्दहतेन तेन
कविना यथा सर्जरस्य पुत्रः ॥ इति
किं मन्यध्वे भिक्षवो यो ऽसौ सूर्यनेमी राजा सर्जरस्य राज्ञः पुत्रः एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ कविः कैवर्तदारकः अहम् एव सः तेन कालेन तेन समयेन; तदाप्य् एष मम वैरप्रसक्तः; एतर्ह्य् अप्य् एष मम वैरप्रसक्तः; भूयो ऽपि यथैष मम वैरानुबद्धस् तच् छ्रूयताम्
थे स्तोर्य् ओf थे त्wओ जेwएल्लेर्स्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf थे बुद्ध अन्द् ओf देवदत्त)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके द्वौ मणिकारौ प्रतिवसतः; तयोः रथ्या विभक्ता गृहं च; तेन खलु समयेन अन्यतमः परिक्षीणविभवो वणिक्; स मणिभाजनम् आदाय तं कर्वटकम् अनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य एकस्य मणिकारस्य सकाशम् उपसंक्रान्तः कथयति: इदं मणिभाज्नम् अर्घं कुरुष्व इति; तेन स्वल्पं मूल्यं कृतं; स कथयति: किम् एवं कथयसि? यद्य् अपि अहं भोगेभ्यः परिभ्रष्टः न तु प्रज्ञया; जानाम्य् अहम् एवास्य मूल्यम् इति; स तस्य सकाशम् ( स्ब्व् इइ 184 ) उपसंक्रम्य द्वितीयस्य सकाशम् उपसंक्रान्तः कथयति: इदम् मणिभाजनं; मूल्यम् अस्य कुरुष्व इति; तेन तस्य पुष्कलं मूल्यं कृतं; स परितुष्टः कथयति: गृहाणा, देहि मूल्यम् इति; स कथयति: नास्ति मे एतावन् मूल्यम् इति; स कथयति: यद् अस्ति तद् अनुप्रयच्छ इति; तेन गृहीतं; तेनान्येन मणिकारेण श्रुतं; स संजातामर्षस् तस्य सकाशम् उपसंक्रान्तः; मयैतत् पूर्वं गृहं नीतं; मया चास्य मूल्यं कृतं; त्वं कस्माद् गृह्णीषे? इति; तयोः परस्परं वैरूक्ष्यम् उत्पन्नम्
किं मन्यध्वे भिक्षवो यो ऽसौ मणिकारः येन मणिभाजनस्य स्वल्पं मूल्यं कृतम् एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ द्वितीयो मणिकारः येन पुष्कलं मूल्यं कृतम् अहम् एव सः तेन कालेन तेन समयेन; तदाप्य् आवयोः परस्परं वैरूक्ष्यम् उत्पन्नं; पुनर् अपि यथा वयोः वैरूक्ष्यम् उत्पन्नं; तच् छ्रूयताम्
थे स्तोर्य् ओf थे एल्देर् सोन् ओf अ गृहपति
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf थे बुद्ध अन्द् देवदत्त)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः ( अ 492अ ) कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; सा अस्य पत्नी कालगता; स संलक्षयति: दारकं कः सम्वर्धयिष्यति? अन्याम् आनयामि इति; तेनान्या आनीता; स तया सार्धं क्रीडति रमते परिचारयति; तस्या अपि पुत्रो जातः; सापि कालगता; स गृहपतिः संलक्षयति: यद्य् अन्याम् आनयामि, सापि कालं करिष्यति; ज्येष्ठस्य पुत्रस्य निवेशनं करोमि इति; तेन ज्येष्ठस्य पुत्रस्य निवेशः कृतः; तस्य बहवः पुत्रा दुहितरश् च जाताः; सा तस्य भार्या कथयति: आर्यपुत्र एष दारकस् तव को भवति? इति: स कथयति: कनीयान् भ्राता; सा कथयति: आर्य तव बहवः पुत्राः; अयम् एकः; एषां चास्य च तुल्यो गृहभोगो देयः; स कथयति: भद्रे एष लोकधर्मः इति; सा कथयति: यद्य् एवं प्रघातय एनम् इति; कामान् खलु प्रतिसेवमानस्य नास्ति किंचित् पापकं कर्म अकरणीयम् इति स पुष्पफलव्याजेन अटवीं नीत्वा प्रघातितः; ( स्ब्व् इइ 185 )
किं मन्यध्वे भिक्षवो यो ऽसौ ज्येष्ठो गृहपतिपुत्रः एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ कनीयान् अहम् एव सः तेन कालेन तेन समयेन; तदाप्य् अनेन ममान्तिके वैरूक्ष्यम् उत्पादितः; एतर्ह्य् अप्य् अनेन वैरूक्ष्यम् उत्पादितः; यथा पुनर् अप्य् आवयोर् वैरूक्ष्यम् उत्पन्नं; तच् छ्रूयताम्
थे स्तोर्य् ओf अ गिर्ल् अन्द् अन् अस्त्रोलोगेर्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf थे बुद्ध अन्द् देवदत्त)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके ब्राह्मणः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारिका जाता अभिरूपा दर्शनीया प्रासादिका; स ब्राह्मणः संलक्षयति: यो ममाद्य गृहं ब्राह्मणो भिक्षार्थी प्रविशति, तस्यैनां कन्याभिक्षां प्रयच्छामि इति; यावद् अन्यतमो माणवः भिक्षार्थी तस्य गृहं प्रविष्टः: स्वस्ति भिक्षां प्रयच्छ इति; तेन ब्राह्मणेनाहूयोक्तः: माणव इयं मम दुहिता; मया कन्याभिक्षा तुभ्यं दत्ता इति; स कथयति: नाद्य प्रतिगृह्णामि; दिवसमुहूर्तेन प्रतिग्रहिष्यामि इति; स प्रक्रान्तः; यावद् अन्यतमो माणवो भिक्षार्थी तस्य गृहं प्रविष्टः: स्वस्ति भिक्षां प्रयच्छ इति; स तेन ब्राह्मणेनाहूयोक्तः: माणव इयं मम दुहिता; मया कन्याभिक्षा तुभ्यं दत्ता इति; स कथयति: अपरो ऽत्र माणवः भिक्षार्थी प्रविष्टः; तस्मै किमर्थं न दत्ता इति; स कथयति: यद् ब्रूते नक्षत्रम् अशोभनम् इति; स कथयति: यद्य् एवं प्रतीष्टा भवतु इति; ब्राह्मणः कथयति: त्वं पुनः किमर्थं नक्षत्रं न पश्यति? इति; स गाथां भाषते
नक्षत्रं भद्रकं सर्वं सर्वे कल्याणका दिनाः ।
समुत्पन्नेषु कार्येषु सर्वम् एतत् प्रदक्षिणम् ॥
हापयन्ति नरा ह्य् अर्थं नक्षत्रगणनापराः ।
अर्थो ह्य् अर्थस्य नक्षत्रं किं कार्यं ज्योतिभिः पुनः ॥
स प्रतिगृहीत्वा प्रक्रान्तः ( अ 492ब् ) तेनान्येन माणवेन श्रुतं सा ब्राःमणकन्या अनेन माणवेन प्रतीष्टा इति; स तस्य सकाशं गतः ( स्ब्व् इइ 186 ) कथयति: माणवकः सा कन्या किमर्थं त्वया प्रतीष्टा? मया पूर्वलब्धा इति; स कथयति: त्वं नक्षत्रगणनापरः; नक्षत्रं तावत् परीक्ष; मम तु शोभनं नक्षत्रम् इति; स रुषितः
किं मन्यध्वे भिक्षवो यो ऽसौ पूर्वमाणवः एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ पश्चिमको माणवः अहम् एव स तेन कालेन तेन समयेन; तदाप्य् अस्य ममान्तिके वैरूक्ष्यम् उत्पन्नं; एत्र्ह्य् अप्य् अस्य ममान्तिके वैरूक्ष्यम् उत्पन्नं
थे वेर्य् fएरोचिओउस् एलेफन्त् ओf आजातशत्रु, धनपालक ब्य् नमे
बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे; तेन खलु समयेन यो ऽसौ राज्ञः अजातशत्रोः धनपालको नाम दुष्टनागः प्रतिदिनम् आवासान् निष्क्राम्यमाणो महाजनविप्रघातं करोति; राजगृहनिवासिना जनकायेन राजा अजातशत्रुर् विज्ञप्तः: देव धनपालको दुष्टनागः प्रतिदिनम् आवासान् निष्क्राम्यमाणो रथ्यावीथीचत्वरशृङ्गाटकेषु महाजनविप्रघातं करोति; तद् अर्हति देवः हस्तिदमकानाम् आज्ञां दातुं यथा न प्रतिदिनं निष्कासयन्ति; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितुम् इति; राजा कथयति एवं भवतु; गच्छत इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: आहूयन्तां भवन्तो हस्तिदमकाः इति; तैर् हस्तिदमका आहूताः; राजा कथयति: भवन्तो राजगृहनिवासिना जनकायेन अभिहितो ऽस्मि धनपालको दुष्टनागः प्रतिदिनम् आवासान् निष्क्राम्यमाणो रथ्यावीथीचत्वरशृङ्गाटकेषु महाजनविप्रघातं करोति; तद् अर्हति देवः हस्तिदमकानाम् आज्ञां दातुं यथा न प्रतिदिनं निष्कासयन्ति; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितुम् इति; तद् युष्माभिर् न प्रतिदिनं निष्क्रामयितव्यः; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितव्यम् इति; हस्तिदमकाः राज्ञः अजातशत्रोः प्रतिश्रुत्य पादयोर् निपत्य प्रक्रान्ताः ( स्ब्व् इइ 187 )
देवदत्तऽस् अत्तेम्प्त् तो किल्ल् थे बुद्ध ब्य् मेअन्स् ओf थे एलेफन्त् धनपालक
राजगृहे चान्यतरो गृहपतिः आढ्यो महाधनो महाभोगः; तेन बुद्धप्रमुखो भिक्षुसंघः श्वो ऽन्तर्गृहे भक्तेन उपनिमन्त्रितः; देवदत्तेन श्रुतं यथा अमुकेन गृहपतिना बुद्धप्रमुको भिक्षुसंघः श्वो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः इति; तेन हस्तिदमकस्य शतसहस्रो मुक्ताहारो दत्तः; उक्तश् च: अमुकेन गृहपतिना श्रमणो गौतमः सश्रावकसंघः श्वो ऽन्तर्गृहे भक्तेन उपनिमन्त्रितः; तत् त्वया धनपालको हस्तिनागः उत्स्रष्टव्यः इति; स कथयति: आर्य एवं भवतु; किंतु यथा वा तथा वा देवम् अवलोकय इति; ततो देवदत्तो येन राजा अजातशत्रुस् तेनोपसंक्रान्तः; उपसंक्रम्य राजानम् अजातशत्रुम् इदम् अवोचत्: शक्तस् त्वं मां बुद्धत्वे न प्रतिष्ठापयितुम्; ( अ 493अ ) अपि तु त्वं पितरं जीविताद् व्यपरोप्य राज्ये प्रतिष्ठपितः; अहम् अपि श्रमणं गौतमं प्रघात्य सर्वज्ञत्वं करोमि; धनपालं हस्तिनागम् उत्सृज इति; अजातशत्रुः कथयति: न त्वया श्रुतम्? अदान्तदमका बुद्धा भगवन्तः इति; स कथयति: यद्य् अदान्तदमकाः स्युः अहम् एव तावद् अनेन दान्तः स्याम् इति; स तं यथा वा तथा वा अवलोक्य हस्तिदमकानां सकाशम् उपसंक्रम्य कथयति: निवेदितं मया देवस्य; तद् युष्माभिः श्वो धनपालको हस्तिनागः उत्स्रष्टव्यः इति; ततो हस्तिदमकैः राजगृहे घण्टावघोषणं कारितं: शृण्वन्तु भवन्तो राजगृहनिवासिनः पौराः, श्वो हस्तिनागो मुच्यते; तद् युष्माभिः श्वः सर्वप्रयत्नेन आत्मरक्षा कर्तव्या इति; गृहपतिः श्रुत्वा चिन्तापरो व्यवस्थितः: ईदृशो ऽहं मन्दभाग्यः; मया बुद्धप्रमुखो भिक्षुसंघः श्वो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; धनपालकश् च दुष्टनागः श्वो मुच्यते; कथं मया बुद्धप्रमुखो भिक्षुसंघः भोजयितव्यः इति; पुनः संलक्षयति: साधयामि पाकं; तत्रैव नीत्वा भगवन्तं भोजयामि इति; स शुचि प्रणीतं खादनीयभोजनीयं साधयित्वा काल्यम् एवोत्थाय भगवतः सकाशं गतः: भगवन् राजगृहे घण्टावघोषणं श्वो धनपालको हस्तिनागो मुच्यते; युष्माभिः शक्तितः आत्मरक्षा कर्तव्या इति; तद् भगवता राजगृहं न प्रवेष्टव्यम्; अहम् इहैव अन्नपानम् आनयामि इति; भगवान् कथयति: अल्पोत्सुकस् त्वं गृहपते भव; अन्नपानं सज्जीकुरु; विगतं तथागतस्य नागभयं; प्रविशाम्य् अहं सश्रावकसंघः इति; ततो ऽसौ गृहपतिर् आत्तमनात्तमनाः स्वगृहं गतः; अन्नपानं ( स्ब्व् इइ 188 ) समन्वाहृत्य आसनादि प्रज्ञप्य भगवन्तम् उदीक्षमाणः अवस्थितः; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय पंचभिर् भिक्षुशतैः सार्धं राजगृहं प्रविष्टः; धनपालको हस्तिनागः उत्सृष्टः; अद्राक्षीद् धनपालको हस्तिनागो भगवन्तं दूराद् एव; दृष्ट्वा च पुनर् भ्रूकुटिं कृत्वा नादं च मुक्त्वा येन भगवांस् तेन सबलम् आजवेन प्राधावत्
अथ देवदत्तः अजातशत्रुसहीयः अपरिप्रासादम् अभिरुह्य अवस्थितः; पश्यामि श्रमणं गोतमं प्रघात्यमानम् इति; ततो देवदत्तः भगवन्तं दृष्ट्वा हृष्टतुष्टप्रमुदितः उच्चैर् गाथाम् उवाच
द्विपंचबल पश्यामि त्वां नागबलमर्दितम् ।
सश्रावकश् शाक्यसुत त्वम् अद्य न भविष्यसि ॥ इति
भगवान् आह: नीचो ऽसि देवदत्त; प्रवादं त्वं प्रवदसि दशबलबलिनं माम् अगणयित्वा; पश्येदानीं तु बलं दशबलबलिनः अद्भुतस्य इति; ततो भगवता दक्षिणे करतले पंच सिंहाः केसरिणः पट्टधारिणो निर्मिताः; स तेषां गन्धं घ्रात्वा मूत्रपुरिषम् उत्सृजन् निष्पलायितुम् आरब्धः; भगवता सर्वा दिशः आदीप्ताः प्रदीप्ताः संप्रज्वलिताः एकज्वालीभूता अधिमुक्ताः स्थापयित्वा ( अ 493ब् ) स्वकम् एव पादमूलं शान्तं शीतीभूतम् अधिष्ठितं; ततो धनपालको हस्तिनागः इतश् चामुतश् च प्रधावन् सर्वम् आदिप्तं पश्यति; नान्यत्र भगवतः पादमूलं शीतीभूत्ं; धनपालकप्रकोपं दृष्ट्वा सर्वे भिक्षवो निष्पलायिताः स्थापयित्वा आयुष्मन्तम् आनन्दं; ततो धनपालको विगतमदवेगो मन्दगतिप्रचारतया भगवत्सकाशम् उपसंक्रान्तः; स भगवता चक्रस्वस्तिकनन्द्यावर्तेन अनेकपुण्यशतनिर्जातेन भीतानाम् आश्वासनकरेण करेण शिरसि परामृष्टः; गाथा च भाषिता
मा कुञ्जर विहेठय नागम्
दुःखं कुञ्जर विहेठनम् अस्य । ( स्ब्व् इइ 189 )
नो नागहतस्य परस्मिन्
भद्रा हि नाग गतिर् भवति ॥ इति+
थे एलेफन्त् धनपालक fओल्लोwस् सुब्मिस्सिवेल्य् थे बुद्ध, दिएस् ओf ग्रिएf अन्द् इस् रेबोर्न् इन् थे हेअवेन् ओf थे fओउर् ग्रेअत् किन्ग्स्
त्वं तावद् भद्रमुख पूर्वकेण दुश्चरितेन प्रत्यवरायां तिर्यग्योनाव् उत्पन्नः; स त्वम् एतर्हि परप्राणहरः परप्राणोपरोधेन परितुष्यसि; इतश् च्युतस्य ते का गतिर् भविष्यसि? का उपपत्तिः को ऽभिसंपरायः इति हि भद्रमुख सर्वसंस्कारा अनित्याः; सर्वधर्माः अनात्मानः; शान्तं निर्वाणं; ममान्तिके चित्तम् अभिप्रसाद्य अद्यैव तिर्यग्योनिं विरागयिष्यसि; इत्य् उक्त्वा येन तस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः; उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः; धनपालको ऽपि भगवन्तं पृष्ठतः पृष्ठतः समनुबद्धः; भगवान् प्रविष्टः; स द्वारमूले स्थितः; भगवन्तम् अपश्यन् गृहं भङ्क्तुम् आरब्धः; भगवता तद् गृहं स्फटिकमयं निर्मितं यत्रानावृतं बुद्धबिम्बं पश्यति; स भगव्नतं दृष्ट्वा न भङ्क्तुम् आरब्धः; भगवान् सश्रावकसंघः भुक्त्वा दक्षिणादेशनां कृत्वा प्रक्रान्तः; स भगवतः पृष्ठतो ऽनुबद्ध एव; एतत् प्रकरणम् अमात्यैः राज्ञो निवेदितम्:; अजातशत्रुणा देवदत्तो ऽभिहितः: त्वया मम अनर्थः कृतः; तं हस्तिनम् आगम्य सीमान्तरा राजानः मां नाभिद्रवन्ति; सो ऽपि त्वया विमदीकृतः इति; स तूष्णीम् अवस्थितः; राज्ञा अमात्यानाम् आज्ञा दत्ता; यदा भगवान् निर्गतो भवति तदा भवद्भिर् धनपालः हस्तिनागो द्वारं बध्वा स्थापयितव्यः यथा भगवतः पृष्ठतः न निर्गच्छति इति; अमात्यै अपि हस्तिदमकानाम् आज्ञा दत्ता धनपालकं हस्तिनागं द्वारं बध्वा स्थापयत यथा भगवतः पृष्ठतो न निर्गच्छति इति; स भगवन्तम् अपश्यन् पादेन शुण्डाम् अवष्टभ्य कालगतः; चातुर्महाराजिकेषु देवेषूपपन्नः; धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणा इति; स पश्यति नागेभ्यश् ( स्ब्व् इइ 190 ) च्युतः; प्रणीतेषु चातुर्महाराजिकेषु देवेषूपपन्नः; भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य इति
अथ नागपूर्विणो देवपुत्रस्यैतद् बहवत्: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवास एव भगवन्तं दर्शनाय उपसंक्रमेयं; यन्न्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयम् इति; अथ ( अ 494अ ) नागपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रः ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमान्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा सर्वं वेणुवनं कलन्दकनिवापम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय; ततः अस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता यां श्रुत्वा नागपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं; न देवताभिः; नेष्टेन स्वजनबन्धुवर्गेण; न पूर्वप्रेतैर् न श्रमणब्राह्मणैः यद् भगवता अस्माकं कृतम्; उच्छोषिता रुधिराश्रुसमुद्राः; लंघिता अस्थिपर्वताः पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि; प्रतिष्ठापिताः स्मो देवमनुष्येषु आह च
तवानुभावात् पिहितस् सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्य
निर्वाणमार्गश् च मयोपलब्धः ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः ।
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णश् च दुःखार्णवपारम् अस्मि ॥
जगति दैत्यनरामरपूजितं
विगतजन्मजरामरणामयं ।
भवसहस्रसुदुर्लभदर्शनं
सफलम् अद्य मुने तव दर्शनम्* ॥
अवनम्य ततः प्रलम्बहारः
चरणौ द्वाव् अभिवन्द्य जातहर्षः । ( स्ब्व् इइ 191 )
परिगम्य च दक्षिणं जितारिं
सुरलोकाभिमुखो दिवं जगाम ॥
अथ नागपूर्वी देवपुत्रो वणिग् इव लब्धलाभः सस्यसंपन्न इव कार्षकः शूर इव जितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् उपसंक्रान्तः तयैव विभूत्या स्वभवनं गतः
भिक्षवः पूर्वरात्रापररात्रं जागरिकानुयोगम् अनुयुक्ता विहरन्ति; तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः; यं दृष्ट्वा भगवन्तं पप्रच्छुः: किं भगवन् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सभांपतिः शक्रो देवेन्द्रः चत्वारो लोकपाला उपसंक्रान्ताः भगवान् आह: न भिक्षवो ब्रह्मा सभांपतिः न शक्रो देवानाम् इन्द्रः नापि चत्वारो लोकपालाः मां दर्शनायोपसंक्रान्ताः; अपि तु युष्माभिर् भिक्षवः स धनपालो हस्तिनागः, तावच् चण्डः तावद् रभसो यस् तथागतस्य वधाय पराक्रान्तः दृष्टो भदन्त: मया विनीतः स ममान्तिके चित्तम् अभिप्रसाद्य कालगतः चातुर्महाराजिजेषु देवेषूपपन्नः; स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः; तस्य मया धर्मो देशितः; स दृष्टसत्यः स्वभवनं गतः इति
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त धनपालकेन कर्म कृतं ( अ 494ब् ) यस्य कर्मणो विपाकेन तिर्यक्षूपपन्नः; किं कर्म कृतं येन चातुर्महाराजिकेषु देवेषूपपन्नः सत्यदर्शनं च कृतम् इति; भगवान् आह: धनपालकेनैव हि भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; धनपालेन कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि
पूर्ववद् यावत् फलन्ति खलु देहिनाम्
धनपालक इन् अ प्रेविओउस् बिर्थ्
भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्य च शासने प्रव्रजित आसीद् वैयापृत्यकरह्; तत्रानेन क्षुद्रानुक्षुद्रेषु शिक्षापदेषु अनादरः ( स्ब्व् इइ 192 ) कृतः; तस्य कर्मणो विपाकेन तिर्यक्षूपपन्नः; यत् तत्रानेन संघस्य उपस्थानं कृतं तस्य कर्मणो विपाकेन अन्नपानस्य लाभी संवृत्तः; यन् ममान्तिके चित्तम् अभिप्रसाद्य कालगतः तेन चातुर्महाराजिकेषु देवेषूपपन्नः; यत् काश्यपे सम्यक्संबुद्धे प्रव्रजितेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलं आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन देवभूतेन ममान्तिके सत्यदर्शनं कृतम्; इति हि भिक्षवः एकान्तकृष्णानां कर्मणां पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम्
उद्दानम्
हंश अट्टो ऽथोत्सृष्टो
मृगः पूतिश् च मर्कटो गजः
बिदालो बलिवर्दः चन्द्रपाषाणः
हस्ति सृगालो ब्राह्मणेन् च
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवान् पंचभिर् भिक्षुशतैः परित्यक्तः; आयुष्मता आनन्देन न परित्यक्तः; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अभिः परित्यक्तः; आनन्देन न परित्यक्तः; तच् छ्रूयताम्
थे स्तोर्य् ओf थे किन्ग् धृतराष्ट्र, अन्द् हिस् fऐथ्fउल् चप्तैन् पूर्णमुख, एत्च्.
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf आनन्द, एत्च्.)
भूतपूर्वं भिक्षवो ऽनवतप्ते महासरसि धृतराष्ट्रो नाम हंसाधिपतिर् बभूव; तस्य द्वौ पुत्रौ पूर्णश् च पूर्णमुखश् च; पूर्णो ज्येष्ठः पूर्णमुखः कनियान्; ततो पूर्णश् चण्डो ( स्ब्व् इइ 193 ) रभसः कर्कशः; नित्यम् एव हंसान् भर्त्सयति; केषांचित् पक्षान् उत्पाटयति; केषांचिन् नखरिकाभिः क्षतं करोति; एतानि चान्यानि च उपद्रवशतानि करोति; ते हंसाः प्रतिदिनम् आगम्य धृतराष्ट्रस्य हंसाधिपतेर् निवेदयन्ति; स संलक्षयति: पूर्णश् चण्डो रभसः कर्कशः; यद्य् अहम् एनं यौवराज्ये प्रतिष्ठापयामि ममात्ययाद् एष हंसयूथं नाशयिष्यति; तद् उपायसंविधानं कर्तव्यम् इति; तेन पूर्णः पूर्णमुखश् च उभाव् अप्य् उक्तौ; यः उत्सान् सरांसि तडागानि चावलोक्य अग्रतो मत्सकासम् आगच्छति तम् अहं हंसाधिपतिं स्थापयामि इति; ताव् अन्योन्यं स्पर्धया पंचशतपरिवारौ प्रन्क्रान्तौ; ताव् इतश् चामुतश् च उत्सान् सरांसि तडागानि च अवलोकयन्ताव् ( अ 495अ ) अनुपूर्वेण वाराणसीं नगरीम् अनुप्राप्तौ; तेन खलु समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; तेन वाराणस्याम् उद्यानस्य नातिदूरे ब्रह्मावती नाम पुष्करिणी सरःप्रतिविशिष्टतराख्या; तस्यां नानाविधानि जलजानि पुष्पाणि रोपितानि; तीरे समन्ताच् चतुर्ष्व् अपि पार्श्वेषु अनेकानि पुष्पफलवृक्षसहस्राणि रोपितानि; सा उत्पलकुमुदपुण्डरीकसंछन्ना अनेकतरुषण्डमण्डिता बहुविविधविहगनिकूजिता; तस्यास् तां विभूतिं दृष्ट्वा पूर्णो हंसः पंचशतपरिवारः अवतीर्य यथेष्टगतिप्रचारतया क्रीडितुम् आरब्धः; पूर्णमुखो ऽपि स्वयूथ्यैर् उच्यते: त्वम् अप्य् अवतीर्य क्रीड इति; स कथयति: राज्यं तावत् प्रतीच्छामि; ततः पश्चाद् आगम्य क्रीडिष्यामि इति; तेन लघु लघ्व् एव गत्वा राज्यं प्रतीष्टं: ततः पंचशतपरिवारः वाराणसीम् आगम्य ब्रह्मावतीं पुष्करिणीम् अवतीर्य क्रीडितुम् आरब्धः; तं तथा प्रमोदविहारिणं दृष्ट्वा जनकायः संशयम् आपन्नः: अहो परमदर्शनीयो हंसाधिपतिः कुतो ऽपीह संप्राप्तः; ब्रह्मावतीं पुष्करिणीम् अलंकृत्य सर्वजलचरान् पक्षिणो रूपशोभया अभिभूय लोकस्य स्पृहाम् उत्पादयति; यथेष्टं च विहरति इति; श्रुत्वा सर्व एव वाराणसीनिवासी जनकायः समन्ताद् ब्रह्मावतीं पुष्करिणीं परिवार्य, तस्य विस्रब्धविहारतां रूपशोभां च निरीक्षमाणः अवस्थितः; अमात्यै राज्ञो निवेदितं: देव कुतो ऽपि हंसाधिपतिर् आगतः; स ब्रह्मावतीं पुष्करिणीम् अवतीर्य अनेकहंसशतपरिवारः सर्वान् जलचरान् पक्षिणो रूपशोभया अभिभूय ( स्ब्व् इइ 194 ) लोकस्य स्पृहाम् उत्पादयन् विस्रब्धविहारतया तिष्ठति इति; राजा कथयति: भवन्तः यद्य् एवम् आहूयन्तां शाकुनिकाः इति; तैर् आहूताः; राजा कथयति: भवन्तः श्रूयते ब्रह्मावत्यां पुष्करिण्याम् अतिपरमदर्शनीयविग्रहो हंसाधिपतिः कुतो ऽप्य् आगतः; स युष्माभिर् एक अक्षतः पाशैर् बध्वा मत्सकाशम् आनेयः; इति; स तैः परमसुकुमारेण पाशेन बद्धः; स गाथां भाषते
संस्यन्दितो ऽस्मि बद्धो मनुष्यवशम् आगतो ऽहम् ।
अचिकित्स्य आदाय हंसयूथं गच्छत शीघ्रं ह्य् अनवतप्तम् ॥ इति
एकोनानि पंचशतानि निष्पलायितानि; एको न निष्पलायितः; तम् एव च बद्धं शोचमानो ऽवस्थितः; शाकुनिकास् ते दृष्ट्वा परं विस्मयम् आपन्नाः; राजभयान् न बध्नन्ति; नापि प्रघातयन्ति; ते तं हंसाधिपतिम् आदाय राज्ञः सकाशं गताः; स द्वितीयः अबद्धः; स्नेहपाशपाशितः स्वयम् एव गतः; स हंसाधिपती राज्ञ उपनीतः; राजा कथयति: भवन्तो ऽयं द्वितीयः किमर्थम् आनीतः? ते कथयन्ति: देव नास्माभिर् अयं बद्धः; अपि तु स्वयम् एवागतः इति; राजा परं विस्मयम् आपन्नः कथयति: नूनम् अस्येयं ( अ 495ब् ) भार्या; गच्छत; एतं हंसाधिपतिं सह भार्यया मुञ्चत; न च युष्माभिः केनचिद् अपि एतौ प्रघात्यौ इति; शाकुनिकाः कथयन्ति: देव अन्य प्रघातयिष्यन्ति; जनकायस्य निवेद्यताम् इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: गच्छत भवन्तो वाराणस्यां नगर्यां घण्टावघोषणं कारयत देव एवं समाज्ञापयति, न केनचिद् मद्विषयनिवासिना जलचराः पक्षिणो घातयितव्याः इति; तैर् घण्टावघोषणं कारितं
किं मन्यध्वे भिक्षवो यो ऽसौ पूर्णमुखो हंसाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; या सा तस्य पत्नी स एवासाव् आनन्दः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच हंसशतानि, एतान्य् एव तानि एकोनानि पंच भिक्षुशतानि; तदाप्य् अहम् एभिर् हंसभूतैः परित्यक्तः; आनन्देन हंसभूतेन न परित्यक्तः; एतर्ह्य् अप्य् अहम् एभिः परित्यक्तः; आनन्देन भिक्षुणा न परित्यक्तः; भूयो ऽपि भिक्षवः यथा अहम् एभिः परित्यक्तः, आनन्देन भिक्षुणा न परित्यक्त तच् छ्रूयताम् ( स्ब्व् इइ 195 )
थे स्तोर्य् ओf करदण्डी, थे सहस्रयोध
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf आनन्द, एत्च्.)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्याम् अट्टो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च यावद् आकीर्णबहुजनमनुष्यं च; तस्य पंचामात्यशतानि येषाम् अनुभावात् प्रातिसीमैः कोट्टराजभिर् नाभिभूयते; यावद् दक्षिणापथात् करदण्डी नाम सहस्रयोधी अभ्यागतः; सो ऽन्यतमेनामात्येन राज्ञः सकाशम् उपनीतः; देव अयं करदण्डी नाम सहस्रयोधी; देवम् उद्दिश्य दक्षिणापथाद् आगतः; तद् अर्हति देवो ऽस्य परिग्रहं कर्तुम् इति; स राज्ञा परिगृहीतः; भोगैः संविभक्तः; यावद् अपरेण समयेन अट्टस्य राज्ञः भूम्यन्तरा राजानः उपचित्तबलसाधनाः संवृत्ताः; ते चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायम् अट्टं राजानम् अभिगताः युद्धाय; अट्टो ऽपि राजा चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं भूम्यन्तरान् राज्ञः प्रत्यभिनिर्यातो युद्धाय; अट्टेन राज्ञा भूम्यन्तरा राजनः जीताः भीतः भग्नाः पराजिताः परापृष्ठीकृताः स्वक्स्वकान् विषयान् गताः; तैः पुनर् अपि सन्निपत्य अट्टस्य राज्ञः पंचामात्यशतानि उपस्कारेण भग्नानि: आगच्छत यूयं; युष्मान् प्रतिविशिष्टरैः भोगैः संविभजामः इति; ते संप्रतिपन्नाः; ततो भूम्यन्तरा राजनः पुनर् अपि चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायम् अट्टम् राजानम् अभिगता यौद्धाय; अट्टो ऽपि नाम चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं भूम्यन्तरान् राज्ञः प्रत्यभिनिर्यातो युद्धाय; अट्टस्य राज्ञः पंच अमात्यशतानि युद्धे वर्तमाने प्रतिनिवर्त्य करण्ड्दिना सहस्रयोधेन सार्धं योद्धुम् आरब्धानि ( अ 496अ ) राजा दृष्ट्वा व्यथितः; करदण्डी सहस्रयोधो गाथां भाषते
त्यजन्ति सर्वमित्राणि चिरसंस्तुतिकानि ते । ( स्ब्व् इइ 196 )
मित्रं ते करदण्डी तु त्वाम् एको न प्रहास्यति ॥ इति
तेन ते सर्वे प्रघातिताः
किं मन्यध्वे भिक्षवो यो ऽसाव् अट्टो नाम राजा अहम् एव सः तेन कालेन तेन समयेन; या ऽसौ करदण्डी सहस्रयोधः आनन्दः सः तेन कालेन तेन समयेन; यानि तानि पंच अमात्यशतानि एतान्य् एव तानि पंच भिक्षुशतानि; तदाप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्य् अप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; भूयो ऽपि यथा अहम् एभिः परित्यक्तः, आनन्देन न परित्यक्त तच् छ्रूयताम्
थे स्तोर्य् ओf अ लिओन् अन्द् हिस् जच्कल्-fरिएन्द्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf आनन्द, एत्च्.)
भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन् पर्वतैकदेशे सिंहो मृगपतिर् बभूव; तस्य पंच सृगालशतानि विघसखादकानि नित्यानुबद्धानि पर्वतम् उपनिश्रित्य तिष्ठन्ति; सिंहः प्राणिनो घातयित्वा वरमांसानि वररुधिराणि च पीत्वा निरपेक्षः प्रक्रामति; तेषाम् एवं महान् कालो ऽतिक्रान्तः; यावद् अपरेण समयेन सिंहो मृगराजः रात्रौ प्राणिनः समन्वेषमानः कूपे पतितः; तेषां पंचानां सृगालशतानाम् एकोनानि प्रक्रान्तानि; एकः कूपतटे अवस्थितः; चिन्तयति च: को ऽसाव् उपायः स्याद् येनेमं समुद्धरेयम् इति; स इतश् चामुतश् च कूपसामन्तकेन पर्यटितुम् आरब्धः; यावत् पश्यति: कूपस्य नातिदूरे पल्वलं; तेन विचार्य एकदेशेन सुरङ्गो निखातः; ततस् तद् उदपानं पल्वलात् सलिलेन पूर्णं; सिंहः स्वयम् एवोत्थितः; देवता गाथां भाषते
कर्तव्यानि च मित्राणि दुर्बलानि बलान्य् अपि ।
पश्य सिंहः सृगालेन जीर्णकूपात् समुद्धृतः ॥ इति
किं मन्यध्वे भिक्षवो यो ऽसौ सीम्हः अहम् एव सः तेन कालेन तेन समयेन; सृगाल आनन्दो भिक्षुः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच सृगालशतानि एतान्य् एव पंच भिक्षुशतानि; तदाप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्य् अप्य् ( स्ब्व् इइ 197 ) अहम् एभिः परित्यक्तः; भूयो ऽपि यथा अहम् एभिः परित्यक्तः तच् छ्रूयताम्
थे स्तोर्य् ओf अ मृगी अन्द् मृगाधिपति
भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन् प्रदेशे पंचानां मृगशतानां मृगाधिपतिर् बभूव; यावद् अन्यतमेन लुब्धकेन मृगाणां वधाय प्रभूताः कूटपाशाः लेपाश् च व्यवस्थापिताः; स च मृगाधिपतिः विस्रब्धविहारतया पंचशतपरिवारो मृगदावे परिभ्रमति; स मृगयूथस्याग्रतो गच्छन् पाशेन बद्धः; तं बद्धं दृष्ट्वा सर्वे मृगा निष्पलायिताः; एका मृगी यूथपतेः पार्श्वे अवस्थिता; स मृगाधिपतिर् व्यायच्छति पाशं छेत्तुं; स शक्नोति; तं तथा चलन्तं दृष्ट्वा सा मृगी गाथां भाषते
व्यायमस्व महाभाग व्यायमस्व मृगोत्तम ।
आगमिष्यति लुब्धो ऽसौ पाशो येनैष आहृतः ॥ ( अ 496ब् )
सो ऽपि गाथां भाषते
किं करोमि न शक्नोमि भिनद्म्य् आशु महीम् इमां ।
दृढानि चर्मपाशानि पादौ कर्षन्ति मे भृशम् ॥ इति
ततो ऽसौ लुब्धकः धनुर्बाणपाणिः काषायवस्त्रवसितः तं प्रदेशम् उपसंक्रामति; अद्राक्षीत् सा मृगी तं लुब्धकं वधायोद्यतं मृगाधिपतिम् उपसंक्रान्तं; दृष्ट्वा च पुनस् त्वरितत्वरिता गाथां भाषते
व्यायमस्व महाभाग व्यायमस्व मृगोत्तम ।
आगतो ह्य् एष लुब्धो ऽसौ पाशो येनैष आहृतः ॥इति
सो ऽपि गाथां भाषते
किं करोमि न शक्नोमि भिनद्म्य् आशु महीम् इमां ।
दृढानि चर्मपाशानि पादौ कर्षन्ति मे भृशम् ॥ इति ( स्ब्व् इइ 198 )
ततः सा मृगी शून्यहृदया तं मृगलुब्धकम् इमां गाथां तत्समीपे भाषते
लुब्धावतारय धनुर् असिं गृह्णीष्व लुब्धक ।
पूर्वं घातय मां तावत् ततः पश्चान् मृगाधिपतम् ॥ इति
ततः स मृगलुब्धकः विस्मयावर्जितमतिः कथयति: कस् तवैष भवति? इति; सा कथयति: स्वामि इति; स तं गाथया प्रत्यभाषत
नाहं त्वा घतायिष्यामि न हनिष्ये मृगाधिपम् ।
संगमं ते करिष्यामि प्रियेण पतिना सह ॥ इति
सापि गाथां भाषते
यथाहं लुध मोदामि प्रियेण पतिना सह ।
एवं त्वं लुब्ध मोदस्व सह सर्वैः स्वबान्धवैः ॥ इति
ततस् तेन लुब्धेन भूयस्या मात्रया विस्मयजातेन मृगो मुक्तः
किं मन्यध्वे भिक्षवो यो ऽसौ मृगाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; या सा मृगी आनन्दः सः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच मृगशतानि एतान्य् एव एकोनानि पंच भिक्षुशतानि; तदाप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्य् अप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः पूतिः पूतिना लाभसत्कारेण हतः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् एष पूतिना पूतिर् लाभसत्कारेण हतः; तच् छ्रूयताम्
थे स्तोर्य् ओf अ जच्कल् चोम्पेतिन्ग् wइथ् अन् एलेफन्त्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् परवतैकदेशे महत् पद्मसरः; तस्य समीपे हस्ती प्रतिवसति; अपरस्मिन्न् अपि प्रदेशे सृगालः प्रतिवसति; यावद् अपरेण समयेन हस्ती तस्मात् पद्मसरसः पानीयं पीत्वा उत्तिष्ठति; सृगालश् चावतरति; तेन हस्ती उक्तः; युद्धं वा अनुप्रयच्छ मार्गं वा इति; हस्ती संलक्षयति: ( स्ब्व् इइ 199 ) पूतिर् अयं तपस्वी ध्वाङ्क्षश् च; यद् एनं पादेन घातयिष्यामि, शुण्डया वा दन्तेन वा अशुचिना वा नाशयिष्यामि इति; पुनः संलक्षयति: सर्वथा पूतिर् अयं पूतिनैव हन्तव्यः; इति विदित्वा गथां भाषते
न त्वा पद्भ्यां हनिष्यामि न दन्ताभ्यां न शुण्डया ।
पूतिना त्वां हनिष्यामि पूतिर् हन्येत पूतिना ॥ इति
हस्ती संलक्षयति: अपक्रम्यैकान्ते गच्छामि; नियतम् एष मां पृष्ठतो ऽनुगच्छति इति; स मार्गाद् अपक्रम्य त्वरितत्वरितं संप्रस्थितः; ( अ 497अ ) सृगालः संलक्षयति: वचनमात्रेणैव एष भग्नो मया येन त्वरितत्वरितं निष्पलायितः इति; स तस्य पृष्ठतः पृष्ठतो ऽनुबद्धः; हस्तिना समीपं गतं ज्ञात्वा तस्योपरि महता वेगेन पुरीषं मुक्तं; पतितः कालगतः
किं मन्यध्वे भिक्षवो यो ऽसौ सृगालः एष एव स देवदत्तः तेन कालेन तेन समयेन तदाप्य् एष पूतिना पूतिर् हतः इति; एतर्ह्य् अप्य् एष पूतिना पूतिर् लाभसत्कारेण हतः
[हेरे थेरे इस् अ लेअf मिस्सिन्ग्, सेएमिन्ग्ल्य् बेचौसे ओf अन् एर्रोर् ओf थे स्च्रिबे हिम्सेल्f.]
पुनर् अपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः धर्ममुखिकया लोको व्यंसितः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अनेन धर्ममुखिकया लोको व्यंसितः; तच् छ्रूयताम्
थे स्तोर्य् ओf आग्नेय, थे चत्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे मूषिकाणां यूथपतिः पंचशतपरिवारो ऽवतिष्ठते; आग्नेयो नाम बिडालः; तेन तरुणावस्थायां यस्मिन् प्रदेशे प्रतिवसति; तत्सामन्तकेन सर्वे मूषिकाः प्रघातिताः; सो ऽपरेण समयेन जीर्णः संवृत्तः; पराक्रमेण न शक्नोति मूषिकान् ग्रहीतुं; स संलक्षयति: पूर्वम् अहं तरुणावस्थायां शक्तः पराक्रमेण मूषिकान् ग्रहीतुम्; इदानीम् अशक्तः; किं तु उपायसंविधानेन भक्षयामि इति; स शनैर् ( स्ब्व् इइ 200 ) मन्दं मन्दं मूषिकान् पर्येषितुम् आरब्धः; तेन पर्येषमाणेन पंचशतिको मूषिकयूथः परिज्ञातः; स मुषिकविवरस्य नातिदूरे कृतकेन तपस् तप्यति; स मूषिकैर् भ्रमद्भिर् दृष्टः शान्तेनेर्यापथेन अवस्थितः; ते दूरतः स्थित्वा कथयन्ति: मातुल किं करोषि इति; स कथयति:मया तरुणावस्थायां प्रभूतम् अपुण्यं कृतं; तस्य क्षपणाय तपश् चरामि इति; तेषां तस्यान्तिके धर्मान्वयप्रसादः उपपन्नः; विरतो ऽयं तस्मात् पापकाद् असद्धर्माद् इति; ते तं प्रतिदिनं प्रदक्षिणीकृत्य विवरं प्रविशन्ति; स तेषां पश्चिमं गृहीत्वा भक्षयति; यावद् असौ यूथः परिहीयते; यूथपतिः संलक्षयति: मम मूषिकाः परिहीयन्ते; अयं च बिडालो बलवान् जातः; कारणेनात्र भवितव्यम् इति; स बिडालस्य विष्ठां निरीक्षितुम् आरब्धः; यावत् पश्यति सर्वलोमिकां विष्ठां; स संलक्षयति: नियतम् अनेन मूषिकाः प्रघात्यन्ते; यन्न्व् अहम् एनं गृह्णीयाम् इति; ( अ 497ब् ) स तस्यादर्शनपथे निरीक्षमाणः तत्परो व्यवस्थितः; यावत् तेनासौ दृष्टः पश्चिमं मूषिकं भक्षयन्; स तम् उपसंक्रम्य दूरेण गत्वा गाथया प्रत्यभाषत
वर्धते मातुलस्याङ्गं गनश् च परिहीयते ।
न मूलफलभक्षस्य विष्ठा भवति रोमशा ॥
नायं शिखी धर्मशिखी अर्थहेतोर् अयं शिखी ।
स्वस्ति ते ऽग्नेय भवतु परिहीयन्ति मूषकाः ॥ इति
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन आग्नेयो बिडालः देवदत्तः सः; तदाप्य् अनेन धर्ममुखिकया मूषिका भक्षिताः; एतर्ह्य् अप्य् अनेन धर्ममुखिकया लोको व्यंसितः
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त ये भगवतो दृष्ट्यनुमतम् आपन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्ताराद् उत्तीर्णाः; ये देवदत्तः दृष्ट्यनुमतम् आपन्नाः ते अनयेन व्यसनम् आपन्नाः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् ये मम दृष्ट्यनुमतम् आपन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्ताराद् उत्तीर्णाः; ये दृष्ट्यनुमतम् आपन्नाः ते अनयेन व्यसनम् आपन्नाः; तच् छ्रूयताम् ( स्ब्व् इइ 201 )
थे स्तोर्य् ओf अ बुल्ल् थत् गोत् एन्तन्ग्लेद् ओथेर् बुल्ल्स् इन्तो त्रोउब्ले ब्य् बद् चोउन्सेल्स्
(चोन्चेर्निन्ग् अ प्रेविओउस् लिfए ओf थे बुद्ध अन्द् देवदत्त)
भूतपूर्वं भिक्षवो द्वौ सार्थवाहौ पंचभिः शकटशतैः सार्धम् अनुव्यहरमाणौ कान्तारमार्गं प्रतिपन्नौ; तव्योः कान्तारमार्गप्रतिपन्नयोः कदाचिद् बलीवर्दानां परीत्तो यवसो भवति; पानीयंच कदाचित् परीत्तं भवति; कदाचिन् नास्त्य् एव; ततो ऽसौ सार्थः सह बलीवर्दैः अतीव परिश्रान्तः कृच्छ्रेण कान्तामार्गं प्रतिपन्नः पश्यति अन्यतरस्मिन् प्रदेशे हरितशाद्वलं सलिलसंपन्नं च स्नाताः; प्रभूतं च पानीयं पीतं; ततस् ते बलीवर्दाः परीत्तेन पान्येन यवसेन च परिखिन्नाः, पर्याप्तं यवसं पानीयं च पीत्वा विश्रान्ताः; तेषां यः प्रधानो बलीवर्दः स तान् प्रबोधयति: भवन्तो वयं परीत्तेन यवसेन परीत्तेन च पानीयेन परिखेदिताः; अयं प्रदेशो हरितशाद्वलः सलिलसंपन्नश् च; यदि भवताम् अभिप्रेतम् इहैव हठं कृत्वा तिष्ठामः इति; द्वितीयः प्रधानबलीवर्दश् च यूथ्यान् कथयति: भवन्तो बलवन्तो मनुष्याः दुर्दान्तदमकाः; यथैव वयं वहामस् तथैव वहत; मा अनर्थं प्रापयिष्यथ इति; एवम् उक्ते प्रधानबलीवर्दो रुषितः स्वयूथ्यान् कथयति: भवन्तः केन चन्द्रस्य पृष्ठं ( अ 498अ ) दृष्टम् एभिर् युष्माभिर् न वोढव्यम् इति; यावत् सार्थिका बलीवर्दान् योजयितुम् आरब्धाः; ते बलीवर्दैर् भ्रेषणरूपा अवस्थापिताः; सार्थिका प्रभूतान् प्रहारान् दत्वा प्रतोदयष्टिभिर् आताड्य आताड्य रुधिरेण प्रघरता शकटे योजिताः; अन्ये तूष्णीं वोढुम् आरब्धाः; तेषां न किंचित् कृतं; देवता गाथां भाषते
मिथ्या हि चोदिताः पश्य बलीवर्देन गा इमाः ।
विकर्तिताभिरुधिराः क्षुत्पिपासप्रमर्दिताः ॥
सम्यक् च चोदिताः पश्य बलीवर्देन गा इमाः ।
ते वै निस्तीर्णकान्ताराः जलं शीतं पिबन्ति हि ॥
किं मन्यध्वे भिक्षवो यो ऽसौ प्रधानो बलीवर्दः येन ते सम्यग् एव चोदिताः अहं सः तेन कालेन तेन समयेन; येन तु ( स्ब्व् इइ 202 ) बलीवर्दा विप्रस्थापिताः सः तेन कालेन तेन समयेन; तदापि यैर् मम वचनं श्रुतं ते स्वस्तिक्षेमाभ्यां कान्तारमार्गं निस्तीर्णाः; यैर् देवदत्तस्य वचनं श्रुतं ते अनयेन व्यसनम् आपन्नाः; एतर्ह्य् अपि ये मम दृष्ट्यनुमतम् आपन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्तारमार्गाद् उत्तीर्णाः; ये देवदत्तस्य दृष्ट्यनुमतम् आपन्नाः ते अनयेन व्यसनम् आपन्नाः
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो मूर्खो मुर्खपरिवारः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वनि देवदत्तो मूर्खो मूर्खपरिवारः; तच् छ्रूयताम्
थे स्तोर्य् ओf थे लेअदेर् ओf थे मोन्केय्स्
(चोन्चेर्निन्ग् अ प्रेविओउस् लिfए ओf देवदत्त)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् अरण्यायतने मर्कटयूथपतिः प्रतिवसति; तेन परिभ्रमता कूपे चन्द्रबिम्बकं दृष्टं; यूथपतिः कथयति: भवन्तः चन्द्रः कूपे पतितः; उद्धरामः; किम् अचन्द्रको लोको भविष्यति? इति; ते कथयन्ति: शोभनम्; उद्धरामः इति; ते संजल्पं कर्तुम् आरब्धाः: कथम् अत्र उद्धर्तव्यः? इति; अपरे कथयन्ति: किम् अत्र ज्ञायते? मर्कटरज्जुं कृत्वा समुद्धरामः इति; तैर् मर्कटरज्जुः कृता; एकः शाखायां लग्नः; तस्य पुच्छे अपरो लग्नः; तस्याप्य् अपरो लग्न इत्य् एवं सर्वे लग्नाः; शाखा अतिभारा जाता; ते पानीयं विक्षोभयितुम् आरब्धाः; चन्द्रप्रतिबिम्बकं नष्टं; शाखा भग्ना; सर्वे कूपे पतिताः; अनयेन व्यसनम् आपन्नाः; देवता गाथां भाषते
येषाम् इह हि मूर्काणां मूर्खो भवति नायकः ।
सर्वे ते निधनं यान्ति चन्द्रोद्धारा इव वानराः ॥ इति
किं मन्यध्वे भिक्षवो यो ऽसौ मर्कटयूथपतिः देवदत्तः सः तेन कालेन तेन समयेन; तदाप्य् एष मूर्खो मूर्खपरिवारः; एतर्ह्य् अप्य् एष मूर्खो मूर्खपरिवारः
थे fइवे चौसेस् ओf थे दिविसिओन् ओf थे चोन्ग्रेगतिओन्
भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; अथ भगवत एतद् अभवत्: तथागतस्य संभृतसंभाराणि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् ( अ 498ब् ) अवश्यभावीनि; तथागतेनैव कर्माणि ( स्ब्व् इइ 203 ) कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न हि कर्माणि कृतान्य् उपचितानि
बाह्ये पृथिवीधातौ विपच्यन्ते पूर्ववद् यावत् फलन्ति खलु देहिनाम्; अवश्यं देवदत्तेन तथागतस्य संघो भेत्तव्यः
पंचभिः कारणैः संघो भिद्यते: आदौ तावत् संघो न भिद्यते; यावत् बुद्धो लोके उत्पद्यते लोकस् तावत् तन्मुखो ऽवतिष्ठते बुद्धः किल मार्षा लोक उत्पन्न इति; परिनिर्वृते शास्तरि संघो भिद्यते; यः कश्चिद् एवं ब्रूयाद्: अहम् एव शास्ता इति तस्य वक्तव्यं: यदा भगवान् जीवति तिष्ठति ध्रियते यापयति तदा त्वं क्व आसीः? अर्बुदे अनुत्पन्ने संघो न भिद्यते दृष्ट्यर्बुदे वा शीलार्बुदे वा श्रावकयुगे अनिर्दिष्टे संघो न भिद्यते; तत् कस्य हेतोः संघो भिन्नः अवश्यं श्रावकयुगं प्रतिसन्धत्ते; सीमायाम् अबद्धायां संघो न भिद्यते; तत् कस्य हेतोः अन्तःसीम्नि संघो भिद्यते न बहिःसीम्नि
सोलिचितुदेस् ओf थे बुद्ध
अथ भगवत एतद् अभवत्: मम निरर्बुदे भिक्षुसंघे अर्बुदम् उत्पन्नं शीलार्बुदं दृष्ट्यर्बुदं च; शीलार्बुदम् उत्पादितं सुदत्तेन कलन्तकपुत्रेण; दृष्ट्यर्बुदम् अरिष्टेन भिक्षुणा; अवश्यं च देवदत्तेन संघो भेत्तव्यः; यन्न्व् अहं राजगृहे वर्षाम् उपगच्छेयम्; अथ भगवत एतद् अभवत्: यदि तावत् शैक्षाशैक्षैः पुद्गलैः सार्धं राजगृहं गमिष्यामि न शक्ष्यति देवदत्तः संघभेदं कर्तुं; यन्न्व् अहं पृथग्जनकल्याणकैः पुद्गलैः सार्धं गच्छेयम्; इति विदित्वा आयुष्मता राहुलेन उपस्थायकेन पंचभिर् भिक्षुशतैः सार्धं यथाभिरम्यं श्रावस्त्यां विहृत्य येन राजगृहं तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् राजगृहम् अनुप्राप्तः इति ( स्ब्व् इइ 204 )
fअमिने इन् राजगृह, दिविसिओन् ओf थे चोन्ग्रेगतिओन् अन्द् नेw रुलेस् इम्पर्तेद् ब्य् देवदत्त
बुद्धो भगवान् राजगृहे वर्षा उपगतो वेणुवने कलन्दकनिवापे; तेन खलु समयेन दुर्भिक्षम् अभूत्; कृच्छ्रः कान्तारः दुर्लभः पिण्डको याचनकेन; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: इच्छाम्य् अहं भिक्षवः इमां त्रैमासीं प्रतिसंलातुं; न मे केनचिद् भिक्षुणा उपसंक्रमितव्यं स्थापयित्वा पिण्डपातनिर्हारकं; तद् एव पोषधम् इति; भिक्षुसंघेन क्रियाकारः कृतः न केनचिद् अस्माकम् इमां त्रैमासीं भगवन्तं दर्शनायोपसंक्रमितव्यं स्थापयित्वा पिण्डपातनिर्हारकं; तद् एव पोषधम् इति
तेन खलु समयेन आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ दक्षिणागिरिषु वर्षा उपगतौ; देवदत्तेन त्रैमासीं भिक्षुसंघः प्रवारितः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; स त्रयाणां व द्विकानां वा मासानाम् अत्ययाद् भिक्षून् आमन्त्रयते स्म: श्रमण आयुष्मन्तो गौतम एवं श्रावकाणां धर्मं देशयति; आरण्यकत्वेन भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति; पिण्डपातिकत्वेन पांसुकूलिकत्वेन ( अ 499अ ) त्रैचीवरिकत्वेन आभ्यवकाशिकत्वेन शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति; यस्य चायुष्मन्तः इमानि पंच व्रतपदानि न रोचन्ते न क्षमन्ते न संप्रख्यान्ति स श्रमणस्य गौतमस्य आराद् भवतु दुराद् भवतु; शलाकं गृह्णातु इति; पंचभिर् भिक्षुशतैः शलाका गृहीताः; देवदत्त उत्थायासनात् प्रक्रान्तः; पंच भिक्षुशतानि पृष्ठतः पृष्ठतः समनुबद्धानि; आयुष्मान् राहुलो द्वारे तिष्ठति; तेन तानि देवदत्तस्य पृष्ठतः पृष्ठतः समनुबद्धानि दृष्टानि; स कथयति: आयुष्मन्तः किमर्थं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अपहाय अस्य पापेच्छस्य पृष्ठतः पृष्ठतः समनुगच्छत? इति; ते कथयन्ति: आयुष्मन् राहुल एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे भगवान् अदर्शनो व्यवस्थितः; वयं ( स्ब्व् इइ 205 ) देवदत्तानुभावात् प्राणैर् न वियुक्ताः; यदि देवदत्तेन त्रैमासीं भिक्षुसंघो न प्रतिपादितो ऽभविष्यत्, एकः भिक्षुर् न जीवितो ऽभविष्यद् इति
यदा देवदत्तेन तथागतेन श्रावकसंघो भिन्नः, तदा महान् पृथिवीचलो जातः; उल्कापाता दिशोदाहाः; देवदुन्दुभयः अभिनदन्ति; नियमानवक्रान्ता नियमं नावक्रामन्ति; फलं न प्राप्नुवन्ति; वैराग्यं न गच्छति; आस्रवान् न क्षपयन्ति; नोद्दिशन्ति; न पठन्ति; न स्वाध्यायन्ति; सूत्रविनयधराभिधार्मिकारण्यकाः सूत्रविनयाभिधर्मारण्यकचिन्तायां न प्रयुज्यन्ते; न श्रावकबोधौ बीजम् आरोपयन्ति; न प्रत्येकायां बोधौ; नानुत्तरायां सम्यक्संबोधौ; सदेवमानुषं जगद् व्याकुलं वर्तते; त्रिसहस्रमहासहस्रे लोकधातौ धर्मचक्रं विष्ठितं न सत्वसन्ताने वर्तते
शारिपुत्र अन्द् मौद्गल्यायन विसित् थे बुद्ध अन्द् प्रोमिसे तो हिम् तो रेस्तोरे थे चोन्ग्रेगतिओन्
आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ संलक्षयन्ति: किमर्थम् अयं महापृथिवीचालः? इति; समन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते; तौ समन्वाहर्तुं प्रवृत्तौ; पश्यतः: देवदत्तेन भगवतः श्रावकसंघं भिन्नं; तयोर् एतद् अभवत्: गच्चावः भगवतः श्रावकसंघं प्रतिसन्धातुम् इति; अथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरौ निष्ठितचीवरौ समादाय पात्रचीवरं येन राजगृहं तेन चारिकां प्रक्रान्तौ; अनुपूर्वेण चारिकां चरन्तौ राजगृहम् अनुप्राप्तौ; अथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस् तेनोपसंक्रान्तौ; तेन खलु समयेन आयुष्मान् राहुलो द्वरे तिष्ठते; अथायुष्मान् राहुलः आयुष्मन्तं शारिपुत्रम् इदम् अवोचद् उपाद्याय देवदत्तेन भगवतः श्रावकसंघो भिन्नः इति; ( स्ब्व् इइ 206 ) स कथयति: आयुष्मन् एतदर्थम् एव वयम् आगताः; अल्पोत्सुकस् त्वं भव; प्रतिसन्धानं करिष्यामः; इत्य् उक्त्वा भगवत्सकाशं प्रविष्टौ; प्रविश्य बहगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णाव् आयुष्मतौ ( अ 499ब् ) शारिपुत्रमौद्गल्यायनौ भगवन्तम् इदम् अवोचतां: गछामो वयं भदन्त तथागतस्य भिन्नं श्रावकसंघं सन्धातुम् इति
थे सेर्मोन् ओन् थे fओउर् मेरितुओउस् मेन्
भगवान् आह: साधु साधु शारिपुत्रमौद्गल्यायनौ; बहु स पुण्यं प्रसूयते अप्रमाणम् असंख्येयं यस् तथागतस्य भिन्नं श्रावकसंघं प्रतिसन्धत्ते, तद्यथा शतछिन्नं वालं यः कोट्या कोटिं प्रतिसन्दध्यात्; एवम् एव स बहु पुण्यं प्रसूयते अप्रमेयम् असंख्येयं यस् तथागतस्य भिन्नं श्रावकसंघं प्रतिसन्धत्ते
चत्वार इमे शारिपुत्रमौद्गल्यायनौ ब्राह्मं पुण्यं प्रसवन्ति; कतमे चत्वारः? 1) यः पुद्गलः अप्रतिष्ठितपूर्वे पृथिवीप्रदेशे तथागतस्य शारीरं स्तूपं प्रतिष्ठापयति; अयं प्रथमः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; 2) पुनर् अपरं यः पुद्गलः अप्रतिष्ठितपूर्वे पृथिवीप्रदेशे चतुर्दिशस्य भिक्षुसंघस्य विहारं प्रतिष्ठापयति; अयं द्वितीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; 3) पुनर् अपरं यः पुद्गलः तथागतश्रावकसंघं भिन्नं सन्धत्ते; अयं त्रितीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; 4) पुनर् अपरं यः पुद्गलः मैत्रीसहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन एकां दिशम् अधिमुच्य स्फरित्वा उपसंपद्य विहरति; तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम्; इत्य् ऊर्ध्वम् अधः तिर्यक् सर्वशः सर्वम् इमं लोकं मैत्रीसहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन ( स्ब्व् इइ 207 ) महद्गतेन अप्रमाणेन सुभावितेन अधिमुच्य स्फरित्वा उपसंपद्य विहरति; एवं करुणामुदितौपेक्षासहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन अधिमुच्य स्फरित्वा उपसंपद्य विहरति; तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम्; इत्य् ऊर्ध्वम् अधः तिर्यक् सर्वशः सर्वम् इमं लोकं उपेक्षासहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन एकां दिशम् अधिमुच्य स्फरित्वा उपसंपद्य विहरति; अयं चतुर्थः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते
शारिपुत्र अन्द् महामौद्गल्यायन विसित् देवदत्त अन्द् एxहोर्त् थे मिस्गुइदेद् मोन्क्स् तो रेतुर्न् तो थे त्रुए दोच्त्रिने
आथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तौ; तेन खलु समयेन देवदत्तो दक्षिणागिरिषु बुद्धलीलया अनुधर्मं देशयति; कोकालिको ऽस्य दक्षिणे पार्श्वे निषण्णः; खण्डद्रव्यः वामे; अद्राक्षीद् देवदत्तः शारिपुत्रमौद्गल्यायनौ दूराद् एव; दृष्ट्वा च पुनः संलक्षयति: महाश्रावका अपि मया अन्वावर्तिताः; इदानीम् अहं सर्वज्ञः; कोकालिकं खण्डद्रव्यं च बाहुभ्यां ( अ 500अ ) घट्टयति उत्तिष्ठोत्तिष्ठेति; तौ संलक्षयतः एष एवास्माकं दोषो यद् अस्माभिर् अस्य संघभेदे साहाय्यं कल्पितम्; उत्तिष्ठामः; यदि प्रहारं ददाति, बलवान् एष नियतम् अस्मान् हन्ति इति; ताव् उत्थितौ; आयुष्मान् शारिपुत्रो दक्षिणे पार्श्वे निषण्णः; आयुष्मान् मौद्गल्यायनः उत्तरे इति; तत्र देवदत्तः आयुष्मन्तम् शारिपुत्रम् आमन्त्रयते प्रतिभातु ते शारिपुत्र भिक्षूणां धर्म्यां कथां कथयितुं; पृष्ठी मे आविलायति; तत् तावद् आयामयिष्ये इति; अधिवासयत्य् आयुष्मान् शारिपुत्रः देवदत्तस्य तूष्णींभावेन; अथ देवदत्तश् चतुर्गुणम् उत्तरासङ्गं प्रज्ञप्य दक्षिणेन पार्श्वेन शय्यां कल्पयित्वा मिद्धम् अवक्रान्तः; आयुष्मता शारिपुत्रेण ( स्ब्व् इइ 208 ) तथाधिष्ठितो यथोत्तानकः कायेन क्रथमनेन अवस्थितः; तत्र आयुष्मान् शारिपुत्रो भिक्षून् आमन्त्रयते स्म: पश्यत आयुष्मन्तः शास्तुर् अवस्थाम्: उत्तानकः कायेन क्रथमानेन मिद्धम् अवक्रान्तः इति; अथायुष्मान् शारिपुत्रः आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्: संवेजय आयुष्मन् महामौद्गल्यायन पर्षदम् इति; अथायुष्मान् महामौद्गल्यायनस् तद्रूपं समाधिं समापन्नः यथा समाहिते चित्ते पूर्वस्यां दिश्य् उपरि विहायसम् अभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; तेजोधातुसमापन्नस्य आयुष्मतो महामौद्गल्यायनस्य विविधान्य् अर्चिंषि कायान् निश्चरन्ति नीलानि पीतानि लोहितान्य् अवदातानि माञ्जिष्ठानि स्फटिकवर्णानि; यमकान्य् अपि प्रातिहार्याणि विदर्शयति; अधः कायः प्रज्वलति उपरिमात् कायात् शीतला वारिधारा स्यन्दते; उपरिमः कायः प्रज्वलति अद्धःकायात् शीतला वारिधारा स्यन्दते; यथा पूर्वस्यां दिशि एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां दिशि; इति चतुर्दिशं चतुर्विधं ऋद्धिप्रातिहार्यं विदर्श्य तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः; आयुष्मन्ता च महामौद्गल्यायनेन ते भिक्षवः संवेजिताः; तत आयुष्मता शारिपुत्रेण तेषां भिक्षूणां तथाविधो धर्मो देशितः; यं श्रुत्वा देवदत्ते निरपेक्षाः संवृत्ताः; उक्ताश् च: येषां वः आयुष्मन्तः शास्ता प्रियः ते उत्तिष्ठन्तु; गच्छामः इति
मन्य् मिस्लेद् मोन्क्स् अरे लेद् बच्क् तो थे बुद्ध अन्द् रेअद्मित्तेद् इन्तो थे ओर्देर् wइथोउत् अ wओर्द् ओf रेप्रोअछ्
आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ संप्रस्थितौ; भिक्षवः पृष्ठतः पृष्ठतः समनुबद्धाः; कोकालिकेन देवदत्तः उत्थाप्यते: उत्थिष्ठोत्तिष्ठ; महाश्रावकैस् ते पर्षद् अपह्रियते इति; अथायुष्मतः शारिपुत्रस्य एतद् अभवद्: यदि देवदत्तस अपश्यतः पर्षदं नेष्यामि स्थानम् एतद् विद्यते यद् उष्णं रुधिरं छर्दयित्वा कालं करिष्यति; पश्यत एव नेतव्या इति; तौ मन्दगतिप्रचारतया संघसमेतौ गच्छतः; देवदत्तो ऽपि तीव्रेण पर्यवस्थानेन अक्षिणी संपरिमार्जन् प्रधावितः; आयुष्मता शारिपुत्रेण अतिपरमभीषणपातालप्रख्या ( अ 500ब् ) गर्ता निर्मिता; देवदत्तः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तैः सार्धं समन्ततस् तां गर्तां परिभ्रमितुम् आरब्धः; न शक्नोत्य् उत्तर्तुं; स संलक्षयति: ( स्ब्व् इइ 209 ) न च पर्षदम् आरागयिष्यामि; अथ च पुनर् अनयेन व्यसनम् आपत्स्यामि; इति विदित्वा प्रतिनिवृत्तः; आयुष्मन्ताव् अपि शारिपुत्रमौद्गल्यायनौ भिक्षुसंघम् आदाय येन भगवांस् तेनोपसंक्रान्तौ; अथ ते भिक्षवः आलेखजाताः मद्गुभूताः स्रस्तस्कन्धा अधोमुखा भगवत्सकाशम् उपसंक्रामन्ति: कथं वा वयं भगवन्तम् अप्रमेयगुणसमन्वागतम् अपहाय पापेच्छं देवदत्तं संसृताः इति; अथ भगवान् तेषां भिक्षूणां चेतसा चित्तम् आज्ञाय भिक्षून् आमन्त्रयते स्म: स्वागतं वो भिक्षवः सुप्रव्रजितं; सुलब्धो वो मनुष्यप्रतिलम्भः; कदाचित् कर्हिचिद् आर्यायतने प्रत्याजातिः इन्द्रियैर् अविकलता अजडता अनेडमूकता अहस्तसंवाचिकता प्रतिबलता सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुं; कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोक उत्पद्यन्ते; कदाचित् कर्हिचित् तथागतप्रवेदितस्य धर्मविनयस्य लोके धर्मदेशना प्रज्ञायते; तद् इदं भिक्षवः सुदुर्लभं सुदुर्लभं यदुत आर्यायतने प्रत्याजातिः, इन्द्रियैर् अविकलता अजडता अनेडमूकता अहस्तसंवाचिकता प्रतिबलता सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुं; अहं चैतर्हि शास्ता लोक उत्पन्नः तथागतो ऽर्हन् सम्यक्संबुद्धः विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; धर्मश् च देश्यते औपशमिकः पारिनिर्वाणिकः संबोधिगामी सौगतप्रतिसंवेदितः यदुत अस्मिन् सति इदं भवति; अस्योत्पादाद् इदम् उत्पद्यते;
यदुत अविद्याप्रत्यायाः संस्काराः; संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्यय्म् उपादानं उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्ययाः जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति; एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति; यदुत अस्मिन्न् असति न भवति; अस्य निरोधाद् इदं निरुध्यते; यदुत अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधः वेदनानिरोधात् ( स्ब्व् इइ 210 ) तृष्णानिरोधः तृष्णानिरोधाद् उपादाननिरोधः उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधः जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति; तस्मात् तर्हि ( अ 501अ ) भिक्षवः आत्मार्थं समनुपश्यद्भिः परार्थं चोभयार्थं च इदं प्रतिसंशिक्षितव्यं: कच्चिन् नः प्रव्रज्य अमोघा भविष्यन्ति क्रियाः सफलाः सुखोदयाः सुखविपाकाः; येषां च परिभोक्ष्यामहे चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् तेषां ते काराः कृताः अत्यर्थं महाफला भविष्यन्ति महानुशंसाः महाद्युतयः महाविस्ताराः इत्य् एवं वो भिक्षवः शिक्षितव्यम्
यदा ते भिक्षवो भगवता स्वागतवादेन सुप्रव्रजितवादेन समुदाचरिताः तदा तेषां यत् तद् अभून् मद्गुत्वं कौकृत्यम् आलेखः विलेखः विप्रतिसारः तत् सर्वेण सर्वं प्रतिविगतं; ततो ऽन्ये भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन भगवतः श्रावकसंघो भिन्नः इति; भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्
थे स्तोर्य् ओf अ ऋषि लिविन्ग् इन् थे चोउन्त्र्य्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf थे बुद्ध अन्द् देवदत्त)
भूतपूर्वं भिक्षवः अन्यतमस्मिन्न् आश्रमपदे मूलपुष्पफलसलिलसंपन्ने नानावृक्षोपशोभिते अनेकपक्षिगणनिषेविते ऋषिः प्रतिवसति पंचानाम् ऋषिशतानां प्रमुखः; यावद् अन्यः ऋषिः जनपदचारिकां चरन् तदाश्रमपदम् अनुप्राप्तः; स तेन ऋषिणा न सम्यक् प्रतिमानितः; तेन संजातामर्षेण तस्य पर्षद् भिद्यते: अयं पापेच्छः ऋषिर् न किंचिद् अपि जानीते; किमर्थम् अस्य सकाशे तिष्ठथ? आगच्छत; मया सार्धं गच्छत; अहं युष्मान् पंचस्व् अभिज्ञासु प्रतिष्ठापयामि इति; तेन भिद्यमानास् ते तस्य ऋषेर् अववादेन अवतिष्ठन्ते; तेन ऋषिणा संलक्षितम्: अनेन पापकारिणा ममैते ऋषयो भिन्नाः इति; स तम् उपसान्त्वयितुम् आरब्धः: मा आयुष्मन् पर्षद्भेदं कुरु; नैष ऋषिधर्मः इति; तथाप्य् असौ भिनत्त्य् एव, नावतिष्ठते इति स ऋषिर् दुर्मनाः उपायसंविधानेन अवस्थितः; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक ( स्ब्व् इइ 211 ) उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अथ अन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् तस्य ऋषेर् आश्रमपदम् अनुप्राप्तः; तेनासौ दृष्टः कायप्रासादिकः शान्तेर्यापथश् च; स तं दृष्ट्वा अभिप्रसन्नः; तेन तस्मै कारान् कृत्वा मिथ्याप्रणिधानं कृतं: यन् ममानेन पापर्षिणा पर्षद्भेदः कृतः अहम् अस्य सर्वज्ञेयवशिप्राप्तस्यापि पर्षद्भेदं कुर्याम् इति
किं मन्यध्वे भिक्षवो यो ऽसौ जानपदः ऋषिः येन तस्य ऋषेः पर्षद् भिन्ना अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ नैवासिकः ऋषिः देवदत्तः सः तेन कालेन तेन समयेन; यन् मया अस्य पर्षद् भिन्ना तस्य कर्मणो विपाकेन अनेन मिथ्याप्रणिधानं कृत्वा संघो मम भिन्नः; इति हि भिक्षवः एकान्तकृष्णानां पूर्ववद् इत्य् एवं वो भिक्षवः शिक्षितव्यम्
भिक्षवः संशयजाताः ( अ 501ब् ) सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तेन सबाह्यान् अभ्यन्तरीकृत्य अभ्यन्तरांश् च बाह्यीकृत्य पर्षद् हारिता इति; भगवान् आह: न भिक्षव एतर्हि, यथा अतीते ऽप्य् अध्वन्य् अनेन सबाह्यान् अभ्यन्तरीकृत्य अभ्यन्तरांश् च बाह्यीकृत्य पर्षद् हारिता; तच् छ्रूयताम्
थे स्तोर्य् ओf अ जच्कल्, शतद्रु ब्य् नमे
(चोन्चेर्निन्ग् अ प्रेविओउस् लिfए ओf देवदत्त)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे सृगालः प्राणी प्रतिवसति; स अतिलोलुपः अरण्ये पर्यटति ग्रामे ऽपि; सो ऽनुपूर्वेण पर्यटन् नीलरजकगृहं प्रविष्टः; नीलकुण्डे पतितः; तेन घृणा गृहीता; तस्य नातिदूरे ऊषस्य पुञ्जस् तिष्ठति; स तस्मिन् पतितः पार्श्वेन पार्श्वं लुठितः; स भूयस्या मात्रया शरीरं जुगुप्समानः पानीये पतितः; उत्थाय संप्रस्थितः आदित्यरश्मिस्पृष्टः मेचकवर्णो जातः; यावत् सृगालैर् दृष्टः; ते समन्ताद् विद्रुताः; दूरे स्थित्वा कथयन्ति: कस् त्वं? कुतो वा अभ्यागतः? इति; स कथयति: ( स्ब्व् इइ 212 ) अहं शतद्रुनामा शक्रेण देवेन्द्रेण चतुष्पदानां राज्ये अभिषिक्तः इति; सृगालाः संलक्षयन्ति: अपूर्वरूपो ऽयं; नूनम् एवं भविष्यति इति; सृगालैः सर्वचतुष्पदानां निवेदितं; सिंहाः संलक्षयन्ति: को ऽसाव् अस्मत् प्रतिविशिष्टो यश् चतुष्पदानां राजा भविष्यति? गच्छामस् तावत्; स्वस्य यूथपतेर् निवेदयामः इति; तेषां यूथपतिर् अन्यतमस्मिन् पर्वतैकदेशे निवसति; स केसरी पट्टधारी; तैस् तस्य निवेदितं; तेनान्यचतुष्पदस्य आज्ञा दत्ता: गच्छ चतुष्पदाधिपतिं निरीक्षस्व किम् असौ केनचिच् चतुष्पदेन दृष्टो न वा इति; स तेन गत्वा प्रत्यवेक्षितः अपूर्वदर्शनः; सर्वैश् चतुष्पदैः परिवृतः स्थापयित्वा सिंहान्; तेन तस्य यथादृष्टं गत्वा निवेदितं; स श्रुत्वा सिंहयूथपरिवृतः तस्य सकाशम् अभिगतः; सो ऽनेकचतुष्पदपरिवृतः हस्तिस्कन्धाभिरूढः अन्वाहिण्डते; तं परिवार्य सिंहा गच्छन्ति; ततो व्याघ्राः; ततो ऽन्ये चतुष्पदाः; तेषां बहिर् दूरेण सृगालाः; तस्य माता अन्यस्मिन् पर्वतकुञ्जे प्रतिवसति; तस्यास् तेन सृगालः प्रेषितः: आगच्छ पुत्रराज्यं प्रत्यनुभव इति; सा कथयति: कीदृशः तस्य परिवारः? इति; स कथयति: सिंहव्याघ्रा हस्तिनश् च अभ्यन्तरपरिवारः; वयं तु बाह्याः इति; सा कथयति: गच्छ; विनष्टः स इति; सा गाथां भाषते
सुखं वसाम्य् अस्य गिरेर् निकुञ्जे
स्वस्था जलं शीतम् अहं पिबन्ति ।
तावत् सुखं गच्छति हस्तिनासौ
शृणोति यावन् न सृगालशब्दम् ॥ इति
स गतः; तेन तेषां सृगालानां निवेदितं: सृगाल एवायं चतुष्पदानां राजा; दृष्टास्य मया माता, या अमुष्मिन् पर्वतनिकुञे प्रतिवसति इति; ते कथयन्ति: यद्य् एवं वयम् एनं ज्ञास्यामः सृगालो वा न वा इति; धर्मता ह्य् एषा सृगालानां यः सृगालशब्दं श्रुत्वा न वाशते, तस्य रोमाणि पतिष्यन्ति; सृगाला वाशितुम् आरब्धाः; स संलक्षयति: यद्य् अहं न रौमि, नियतं मम रोमाणि पतिष्यन्ति; यदि ( अ 502अ ) हस्तिस्कन्धाद् अवतीर्य रविष्यामि, माम् एते प्रघातयिष्यन्ति; अत्रैव विरौमि इति; स हस्तिस्कन्ध एव वाशितुम् आरब्धः; हस्तिना ज्ञातं सृगालो मां वहतीति; तेनासौ पातयित्वा पद्भ्यां मर्दितः; देवता गाथां भाषते ( स्ब्व् इइ 213 )
यस्य वाभ्यन्तरा बाह्या बाह्या वाभ्यन्तरीकृताः ।
स एवं निधनं याति हस्तिना क्रोष्टुको यथा ॥ इति
किं मन्यध्वे भिक्षवो यो ऽसौ सृगालः एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अभ्यन्तरान् बाह्यीकृत्य बाह्यांश् च अभ्यन्तरीकृत्य अनयेन व्यसनम् आपन्नः; एतर्ह्य् अप्य् अनेन अभ्यन्तरान् बाह्यीकृत्य बाह्यांश् च अभ्यन्तरीकृत्य परिषद् हारिता
देवदत्त गेत्स् अन्ग्र्य् wइथ् कोकालिक अन्द् खण्डद्रव्य
यदा आयुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्यां देवत्तस्य पर्षद् अपहृता तदा देवदत्तः कोकालिकं खण्डद्रव्यं च ताडयितुम् आरब्धः: युवाभ्यां मम पर्षद् हारिता इति; भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त अन्यैर् देवदत्तस्य पर्षद् अपहृता; अन्येषाम् अनेन दुःखम् उत्पादितम् इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अन्येनैवास्य भार्या अपहृता; अन्येषाम् अनेन दुःखम् उत्पादितं; तच् छ्रूयताम्
थे स्तोर्य् ओf थे एलेफन्त्
(चोन्चेर्निन्ग् अ प्रेविओउस् लिfए ओf देवदत्त)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे हस्तियूथपतिः प्रतिवसति; तत्राप्य् अन्यतमस्य हस्तिनो ऽन्यतरा हस्तिनी बहुमता; सान्यतमस्मिन् कलभके ऽत्यर्थं सक्ता; तयासौ कलभ उच्यते; निष्पलायामहे इति; स कथयति: को ऽसाव् उपायो येन निष्पलाय्यामहे इति; सा कथयति: अहम् उपायं जाने; तयोर् गजो ऽभिहितः; स्नायामो ह्रदम् अवतरामः इति; सो ऽवतीर्णः; सा कथयति: पश्यामः कः आवयोश् चिरतरं निमग्नस् तिष्ठति इति; स मोहपुञ्जस् तया सार्धम् उदके निमग्नः; सा उत्थाय कलभहस्तिना निष्पलायिता; स हस्ती चिरं स्थित्वा उत्थितो न पश्यति; स संलक्षयति: भूयो निमज्जामि मा मे स्यात् पराजयः इति; भूयो निमग्नः दन्तौ निखात्यावस्थितः सुचिराद् गतप्रत्युद्गतप्राणः; व्युत्थितो न पश्यति तां हस्तिनीं; स तं ह्रदम् इतश् चामुतश् च क्षोभयितुम् आरब्धः; तेन तत्र बहवो मत्स्यकच्छपमण्डूकादयः प्राणिनो ऽनयेन व्यसनम् आपदिताः; देवता गाथां भाषते ( स्ब्व् इइ 214 )
वृन्दी बतायं सुमहान् प्रज्ञाप्य् अस्य न विद्यते ।
अन्येनास्य हृता भार्या अन्ये दुःखस्य भागिनः ॥ इति
किं मन्यध्वे भिक्षवो यो ऽसौ हस्तिनागः देवदत्तः सः तेन कालेन तेन समयेन; तदाप्य् अस्य अन्येन भार्या अपहृता; अन्येषाम् अनेन दुःखम् उत्पादितं
उद्दानम्
वीचिः सान्दृष्टिकं चैव वध उत्पलवर्णया ।
कुण्डी त्रयं तथा क्षीरं गोपिका च क्षमापणा ।
अस्थीनि चेतिकश् चैव पक्षिणा चरमं पदं ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त आयुष्मद्भ्यां ( अ 502ब् ) शारिपुत्रमौद्गल्यायनाभ्यां देवदत्तस्य वीचिम् आगमयमानाभ्यां वीचिर् लब्धः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वनि शारिपुत्रमौद्गल्यायनाभ्यां देवदत्तस्य वीचिम् आगमयमानाभ्यां वीचिर् लब्धः; तच् छ्रूयताम्
थे स्तोर्य् ओf अ लेअदेर् ओf थे थिएवेस्
(चोन्चेर्निन्ग् अ प्रेविओउस् लिfए ओf देवदत्त, एत्च्)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके इष्वस्त्राचार्यः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारिका जाता; तस्यास् त्रीणि सप्तकान्य् एकविंशतिदिवसान् विस्तरेण जाताया जातिमहं कृत्वा कुलसदृशं ( स्ब्व् इइ 215 ) नामधेयं व्यवस्थापितं; सा उन्नीता वर्धिता महती संवृत्ता; इष्वस्त्राचार्यः संलक्षयति: इयं दारिका न मया कस्यचिद् रूपेण दातव्या न शीलेन नापि धनेन; अपि तु यो मत्सकाशात् पंचसु स्थानेषु कृतावी भवति, तस्यैषा मया देया इति; तस्य च सकाशाद् द्वौ माणवौ इष्वस्त्रं शिक्षितौ; तत्रैकः पंचसु स्थानेषु कृतावी; द्वितीयस् तु छेद्ये कृतावी संवृत्तः; तस्मै तेन सा दारिका दत्ता; सो ऽन्यः संजातामर्षः चोराणां मध्यं प्रविष्टः, पंचानां चोरशतानां सेनापतिर् जातः; स एकस्मिन् प्रदेशे मार्गं बध्वा अवस्थितः; प्रथमस् तां पत्नीं परिणीय रथ आरोप्य स्वगृहं संप्रस्थितः; यावच् चोरभयात् सार्थः अग्रतो गच्छन् स्थितः; स कथयति: भवन्तो गच्छत; किं तिष्ठथ? इति; ते कथयन्ति: चोरैर् मार्गो बद्धः इति; स कथयति: आर्या गच्छत; किं करिष्यन्ति इति; स संप्रस्थितः; सार्थिकाः कथयन्ति: भवन्तो गच्छत्व् एषः; तिष्ठामस् तावत्; स्थानम् एतद् विद्यते यद् अयम् आत्मानं दारयिष्यति; पत्नीं च हारयिष्यति इति; चोरा वृक्षम् अधिरुह्य दिगवलोकनं कुर्वन्तो ऽवस्थिताः; तैर् असौ रथाभिरूढो दृष्टः; कथयन्ति: भवन्तः पुरुषो रथाभिरूढः आगच्छति इति; चोरसेनापतिना दूतो ऽनुप्रेषितः: निवर्तय रथम् इति; स कथयति: भवन्तः शूरस्य शूरपरिहारं प्रयच्छत इति; ते कथयन्ति: वयम् अपि शूराः इति; सेनापतिना पंच चोराः प्रेषिताः; तेन ते प्रघातिताः; एवं विंशतिर् आगताः, ते ऽपि प्रघातिताः; यावत् सर्वे प्रघातिताः; सेनापतिर् एको ऽवशिष्टः; स खड्गम् आदाय अग्रतः स्थितः; स शरान् क्षेप्तुम् आरब्धः; स खद्गेन छिनत्ति; यावत् तेन पंचशतिकस् तूणीरः क्षिप्तः; तेन सर्वे खड्गेन छिन्नाः; एकः शरो ऽवस्थितः; स तं न मुञ्चति; सा दारिका कथयति: मुञ्च शरं; किमर्थं तिष्ठति? इति; स कथयति: एष एव एको ऽवशिष्टः, एष चेन् मुक्तः, अहं प्रघातितः; त्वं चापहृता इति; ततः सा दारिका विजृम्भमाणा वेणिं बन्धुम् आरब्धा; चोरसेनापतिस् तस्याम् अवेक्षमाणायाम् निरीक्षितुम् आरब्धः; स तेन शरेण मर्मणि ताडितः; स म्रियमाणो गाथां भाषते ( स्ब्व् इइ 216 ) ( अ 503अ )
नाहं रथिकेन हतो हतो ऽस्मि लोलेन पापचित्तेन ।
यो ऽहं रणमध्यगतः प्रमदावदनं निरीक्षामि ॥ इति
किं मन्यध्वे भिक्षवो यो ऽसौ रथिकः शारिपुत्रः सः तेन कालेन तेन समयेन; यासौ दारिका मौद्गल्यायनः सः तेन कालेन तेन समयेन; यो ऽसौ चोरसेनापतिर् देवदत्तः सः तेन कालेन तेन समयेन; तदा आभ्याम् अस्य वीचिं पर्येषमाणाभ्यां वीचिर् लब्धा; एतर्ह्य् अपि आभ्याम् अस्य वीचिं पर्येषमाणाभ्यां वीचिर् लब्धा
थे fरुइत् ओf मोनछल् लिfए इन् थे विसिब्ले wओर्ल्द् अजातशत्रु विसित्स् थे बुद्ध
1. बुद्धो भगवान् राजगृहे वर्षा उपगतो जीवकस्य कुमारभृतस्य आम्रवणे; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः तदैव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् उपरिप्रासादतलगतः अमात्यान् आमन्त्रयते: हम्भो ग्रामण्यः एवंरूपायां ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्यां किम् अस्माभिः करणीयं स्यात्?
2. अथान्यतमा अवरुद्धिका स्त्री राजानम् अजातशत्रुं वैदेहीपुत्रम् इदम् अवोचत्: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्यां यद् देवः पंचभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेद् रमेत परिचारयेद् इदम् अहं देवस्य करणीयं मन्ये
3. अथान्यतमा अवरुद्धिका एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्यां यद् देवः राजगृहस्य नगरस्य अनुपर्यायपथकान् अन्वाहिण्डन् पंचभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेद् रमेत परिचारयेद् इदम् अहं देवस्य करणीयं मन्ये
4. उदायिभद्र कुमारः एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् ( स्ब्व् इइ 217 ) अभिलक्षितायां पूर्णायां पौर्णमास्यां यद् देवश् चतुरङ्गबलकायं सन्नाह्य हस्तिकायं रथकायम् अश्वकायं पत्तिकायं परराष्ट्रं परविषयं गत्वा महान्तं सङ्ग्रामं सङ्ग्राम्य विजितसंग्रामः तदैव संग्रामशिरसि निर्जितो ऽध्यावसेद्; इदम् अहं देवस्य करणीयं मन्ये
5. अथान्यतरो वृद्धामात्यः एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् अयं देवः पूरणः काश्यपः संघी च गणी च गणाचार्यश् च साधुरूपसंमतो बहुजनस्य महता च जनकायेन संपुरस्कृतः पंचमात्राणाम् आजीविकशतानां प्रमुखः; सो ऽस्मिन् राजगृहे वर्षा उपगतः; तं देवः पर्युपासीत; इदम् अहं देवस्य करणीयं मन्ये
6. अथान्यतरो वृद्धामात्यः एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् ( अ 503ब् ) आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् अयं देवः मस्करी गोशालीपुत्रः सञ्जयी वैरट्टीपुत्रः अजितः केशकम्बलः ककुदः कात्यायनः तथा च निर्ग्रन्थो ज्ञातिपुत्रः संघी च गणी च गणाचार्यश् च साधुरूपसंमतो बहुजनस्य महता च गणेन संपुरस्कृतः अमुष्मिन्न् एव राजगृहे वर्षा उपगतः; तं देवः पर्युपासीत; इदम् अहं देवस्य करणीयं मन्ये
7. तेन खलु समयेन जीवकः कुमारभृतः तस्याम् एव पर्षदि सन्निषण्णो ऽभूत् सन्निपतितः; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः जीवकं कुमारभृतम् आमन्त्रयते: अहो जीवक किम् असि तुष्णीं? किं न लपसि? स कथयति: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् अयं देवः भगवान् संघी च गणी च गणाचार्यश् च साधुरूपसंमतो बहुजनस्य महता गणेन च संपुरस्कृतः अस्मिन्न् एव राजगृहे वर्षा उपगतः अस्माकम् एव आम्रवणे; तं देवः पर्युपासीत; इदम् अहं देवस्य करणीयं मन्ये
8. तेन खलु समयेन राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य ( स्ब्व् इइ 218 ) भगवन्निम्मं चित्तं भगवत्प्रवणं भगवत्प्राग्भारं; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः जीवकं कुमारभृतम् इदम् अवोचत्: गछ जीवक हस्तिनागं सन्नाहय यत्राहम् अभिरूढः अद्यैव भगवन्तं दर्शनाय उपसंक्रमिष्यामि; एवं देवेति जीविकः कुमारभृतो राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य प्रतिश्रुत्य महान्तं हस्तिनागं सन्नाह्य पंचमात्राणि हस्तिनीशतानि पंचमात्राणि अवरुद्धिकाशतानि प्रदीपिकाहस्तानि प्रत्येकप्रत्येकं हस्तिनीष्व् आरोप्य येन राजा मागधः अजातशत्रुस् तेनोपसंक्रान्तः; उपसंक्रम्य राजानं मागधम् अजातशत्रुं वैदेहीपुत्रम् इदम् अवोचत्: सन्नद्धो देवस्य महान् हस्तिनागः; यस्येदानीं देवः कालं मन्यते इति; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः महान्तं हस्तिनागम् अभिरुह्य पंचमात्रैर् अवरुद्धिकाशतैः प्रत्येकप्रत्येकं हस्तिनीष्व् अभिरूढैः प्रदीपिकाहस्तैः संपुरस्कृतो राजगृहान् निर्याति भगवतो ऽन्तिकं भगवन्तं दर्शनाय उपसंक्रमितुं प्रत्युपासनाय
9. तेन खलु समयेन राजा मागधः अजातशत्रुर् वैदेहीपुत्रः वृजिभिः सार्धं विरुद्धः; अथो राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य समनन्तरनिष्क्रान्तस्य राजगृहाद् अभूद् भयम् अभूत् छम्भितत्वम् अभूद् रोमहरः: मा मे जीवकः कुमारभृतः घातयितुकामो भवति? वञ्चयितुकामो वा? वधकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? इति विदित्वा जीविकं कुमारभृतम् इदम् अवोचत्: मासि मां जीविक घातयितुकामो वा लापयितुकामो वा वञ्चयितुकामो वा ( अ 504अ ) वधकेभ्यो वा प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? स एवम् आह: नाहं देव त्वां घातयितुकामः न लापयितुकामः न वञ्चयितुकामः नापि वधकेभ्यः प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः इति
10. अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः जीविकं कुमारभृतम् इदम् अवोचत्: कियत्परिवारः स भगवान् सातिरेकान्य् अस्य अर्धत्रयोदशभिक्षुशतानि; अहो जीवक कथं त्वं मां न घातयितुकामो वा न लापयितुकामो वा नापि वधकेभ्यो वा प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? यत्रेदानीम् इयत्परिवारस्य नैवोत्कासनशब्दः श्रूयते? अल्पशब्दकामो देव स भगवान् अल्पशब्दनिरतः अल्पशब्दसंतुष्टः ( स्ब्व् इइ 219 ) अल्पशब्दतायाश् च स वर्णवादी; तस्य पर्षद् अल्पशब्दैव; तेन हि देव त्वरितत्वरितं महान्तं हस्तिनागं प्रेरय; तथा ह्य् आलोक्यते मण्डलवाटे तैलप्रद्योतनाभा; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः त्वरितत्वरितं महान्तं हस्तिनागं प्रेरयति; तस्य यावती यानस्य भूमिस् तावद् यानेन गत्वा तस्माद् अवतीर्य पद्भ्याम् एवारामं प्राविक्षत्
11. तेन खलु समयेन भगवान् मध्ये भिक्षुसंघस्य निषण्णः ह्रद इवाच्छो विप्रसन्नः अनाविलः; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः मण्डलवाटम् अनुसंयाय जीवकं कुमारभृतम् आमन्त्रयते: कुत्र जीवक स भगवान् एष देव भगवान् मध्ये भिक्षुसंघस्य निषण्णः ह्रद इवाच्छो विप्रसन्नो ऽनाविलः; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवनत्म् इदम् अवोचत्: यद्रूपेण भदन्त भगवान् चित्तदमव्युपशमेन समन्वागतो भिक्षुसंघश् च तद्रूपेण चित्तदमव्युपशमेन समन्वागतो उदायिभद्रः कुमारः भवतु इति; साधु साधु महाराज प्रवक्ष्यामि, महाराज स्वकं प्रेम; निषीद त्वं महाराज यथास्वके आसने
अजातशत्रु अस्क्स् थे बुद्ध इf इत् इस् पोस्सिब्ले तो स्होw अन्य् विसिब्ले बेनेfइत् तो बे देरिवेद् fरोम् अस्चेतिचिस्म्
12. अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदद्; एकान्तनिषण्णो राजा मागधः अजातशत्रुर् वैदेहीपुत्रः भगवन्तम् इदम् अवोचत्: पृच्छेम वयं भदन्त भगवन्तं कंचिद् एव प्रदेशं सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणाय; पृच्छ महाराज यद् एवाकाङ्क्षसे
13. इमे भदन्त पृथक्शिल्पस्थानकर्मस्थानिकाः; तद्यथा ( स्ब्व् इइ 220 ) मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् ( अ 504ब् ) बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम्? अभिजानासि त्वं महाराज इतः पूर्वम् अन्यान् अपि श्रमणब्राह्मणान् एवंरूपं प्रश्नं प्रष्टु? अभिजानामि भदन्त
अजातशत्रु नर्रतेस् होw हे प्रोपोउन्देद् थिस् समे qउएस्तिओन् तो पूरण काश्यप, एत्च्., अन्द् अन्य् ओf थेम् एxपोउन्देद् हिम् हिस् ओwन् थेओर्य्
14. एको ऽयं भदन्त समयः, अहं येन पूरणः काश्यपः तेनोपसंक्रान्तः; उपसंक्रम्य पूरणं काश्यपम् एवं वदामि: इमे भदन्त कास्यप पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम्
15. स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; नास्ति दत्तं नास्ति
इष्टं नास्ति हुतं नास्ति सुचरितं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः नास्त्य् अयं लोकः नास्ति परलोकः नास्ति माता नास्ति पिता नास्ति सत्व उपपादुकः न सन्ति ( स्ब्व् इइ 221 ) लोके ऽर्हन्तः सम्यग्गताः सम्यक्प्रतिपन्नाः ये इमं च लोकं परं च लोकं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयन्ते: क्षीणा मे जातिः उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानीमः इति; इहैव जीवो जीवति स प्रेत्योच्छिद्यते विनश्यति न भवति परं मरणाद् चातुर्महाभौतिकः पुरुषस्य समुच्छ्रयः; यस्मिन् समये कालं करोति तस्य पृथिव्यां पृथिवीकायः उपैति; अप्सु अप्कायः; तेजसि तेजःकायः; वायौ वायुकायः; आकाशे इन्द्रियाण्य् अनुपरिवर्तन्ते; आसन्दीपञ्चमाः पुरुषाः पुरुषम् आदाय श्मशानम् अनुव्रजन्त्य् आदहनात् परं न प्रज्ञायते; भस्मीभवन्ति आहुतयः; कपोतवर्णान्य् अस्थीन्य् अवतिष्ठन्ति इति; दृप्तोपज्ञातं दानं; पण्डितोपज्ञातः परिग्रहः; तत्र ये अस्तिवादिनः सर्वे ते रिक्तं तुच्छं मृषा प्रलपन्ति इति बालश् च पण्डितश् च उभाव् अपि एतौ प्रेत्य उच्छिद्येते विनश्यतः न भवतः परं मरणात्
मूल पाठ: Saṅghabhedavastu · Edition: R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49). · Data entry Klaus Wille Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0