सङ्घभेदवस्तु · भाग 2140
संवेजय काश्यप पर्षदम् इति ।
थे त्wइन् मिरच्ले ओf उरुबिल्वाकाश्यप
अथ आयुष्मान् उरुबिल्वाकाश्यपो भगवता कृतावकाशस् तक्रूपं समाधिं समापन्नो, यथा <स्वस्मिन्न् आसने ऽन्तर्हितः> समाहिते चित्ते पूर्वस्यां दिशि समभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति; तद्यथा, चङ्क्राम्यते, निषीदति, तिष्ठति शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; तेजोधातुसमापन्नस्य आयुष्मत उरुबिल्वाकाश्यपस्य विविधान्य् अर्चींषि कायान् निश्चरन्ति; तद्यथा नीलानि, पीतानि, लोहितान्य्, अवदातानि, माञ्जिष्ठानि, स्फटिकवर्णानि; यमकान्य् अपि प्रातिहार्याणि विदर्शयति; अधःकायः प्रज्वलति; उपरिमात् कायाच् छीतला वारिधारा स्यन्दते; उपरिमः कायः प्रज्वलति; अधःकायाच् छीतला वारिधारा स्यन्दते; यथा पूर्वस्यां दिश्य् एवं दक्षिणस्यां, पश्चिमायाम्, उत्तरस्यां दिशि; इति चतुर्दिशं चतुर्विधम् ऋद्धिप्रातिहार्यं विदर्श्य तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य येन भगवांस् तेन अञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्; शास्ता मे भगवान् श्रावको ऽहं भगवतः; शस्ता मे भगवान् श्रावको ऽहं भगवतः; एवम् एतत् काश्यप, <एवम् एतत् काश्यप>, श्रावकस् त्वं मम शास्ता ते ऽहं काश्यप; श्रावकस् त्वं मम; निषीद त्वं ( स्ब्व् इ 157 ) काश्यप यथास्वके आसने; अथायुष्मान् उरुबिल्वाकाश्यपो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; अथ मागधकानां ब्राह्मणगृहपतीनाम् एतद् अभवत्: न हैव महाश्रमण उरुबिल्वाकाश्यपस्य जटिलस्यान्तिके ब्रह्मचर्यं चरति; अपि तु उरुबिल्वाकाश्यप एव जटिलो महाश्रमणस्यान्तिके ब्रह्मचर्यं चरतीति
थे सेर्मोन् ओf थे बुद्ध ओन् थे प्रोदुच्तिओन् अन्द् पस्सिन्ग् अwअय् ब्य् देपेन्देन्चे
तत्र भगवान् राजानं मागधं श्रेण्यं बिम्बिसारम् आमन्त्रयते: रूपं महाराज उत्पद्यते ऽपि; व्ययते ऽपि; तस्योत्पादो ऽपि वेदितव्यः, व्ययो ऽपि; वेदना संज्ञा संस्कारा विज्ञानं महाराज उत्पद्यते ऽपि; व्ययते ऽपि; तस्योत्पादो ऽपि वेदित्व्यः, व्ययो ऽपि; रूपस्य महाराज कुलपुत्र उत्पादव्ययधर्मतां विदित्वा तद् रूपं परिजानाति; वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य महाराज कुलपुत्र उत्पादव्ययधर्मतां विदित्वा तद् विज्ञानं परिजानाति; रूपं महाराज ( अ 407अ ) कुलपुत्र परिजानन् नोपैति, नोपादत्ते, नाधितिष्ठति, नाभिनिविशति आत्मा मे इति; वेदनां संज्ञां संस्कारान् विज्ञानं महाराज कुलपुत्र परिजानन् नोपैति, नोपादत्ते, नाधितिष्ठति, नाभिनिविशति आत्मा मे इति; रूपं महाराज कुलपुत्र अनुपायन्तम् अनुपाददानम् अनधितिष्ठन्तम् अनभिनिविशन्तम् अनात्मममायमानम् अप्रमेयम् असङ्ख्येयं निर्वृतम् इति वदामि; वेदना संज्ञा संस्कारान् विज्ञानं महाराज कुलपुत्र अनुपायन्तम् अनुपाददानम् अनधितिष्ठन्तम् अनभिनिविशमानम् अनात्मममायमानम् अप्रमेयम् असङ्ख्येयं निर्वृतम् इति वदामि; अथ मागधकानां ब्राह्मणगृहपतीनाम् एतद् अभवत्: सति खलु रूपम् अनात्मा, वेदना संज्ञा संस्कारा विज्ञानम् अनात्मा; अथ को न्व् असौ भविष्यत्य् आत्मा वा सत्वो जीवो वा जन्तुर् वा पोषो वा पुद्गलो वा मनुजो वा मानवो वा कर्ता वा कारको वा जनको वा संजनको वा उत्थापको वा समुत्थापको ( स्ब्व् इ 158 ) वा वदको वा वेदको वा <प्रतिसंवेदको वा>, यो न जन्तुर् नाभून्, न भविष्यति; नाप्य् एतर्हि विद्यते; यस् तत्र कृताकृतानां कल्याणपापकानां कर्मणां विपाकं प्रतिसंवेदयते; य इमांश् च स्कन्धान् निक्षिपत्य् अन्यांश् च स्कन्धान् प्रतिसंदधाति
थे सेर्मोन् ओf थे बुद्ध ओन् थे उन्रेअलित्य् ओf थे सेल्f
अथ भगवान् मागधकानां ब्राह्मणगृहपतीनां चेतसा चित्तम् आज्ञाय भिक्षून् आमन्त्रयते स्म; आत्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथग्जनः प्रज्ञप्तिम् अनुपतितो न चात्रास्त्य् आत्मा नात्मीयं वा; दुःखम् इदं भिक्षवः उत्पद्यमानम् उत्पद्यते; दुःखम् इदम् निरुद्ध्यमानं निरुद्ध्यते; संस्कारा उत्पद्यमाना उत्पद्यन्ते; निरुद्ध्यमाना निरुद्ध्यन्ते; तान् हेतूंस् तान् प्रत्ययान् प्रतीत्य सत्वानां संस्कारसन्ततिः प्रवर्तते; संस्कारसन्ततिप्रतिसन्धिं खलु भिक्षवस् तथागतो विदित्वा सत्वानां च्युत्युपपादं प्रज्ञापयति; पश्याम्य् अहं भिक्षवो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्वान्; पश्यामि च्यवमानान् अप्य् उपपद्यमानान् अपि सुवर्णान् अपि, दुर्वर्णान् अपि, हीनान् अपि, प्रणीतान् अपि, सुगतिम् अपि गच्छतो, दुर्गतिम् अपि गच्छतः; यथाकर्मोपगान् सत्वान् यथाभूतान् प्रजानामि; अमी भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादकाः, मिथ्यादृष्टयः मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुतत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते; अमी वा पुनर् भवन्तः सत्वाः कायसुचरितेन ( अ 407ब् ) समन्वागता वाङ्मनस्सुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुतत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते; एवं चाहं भिक्षवो जानाम्य् एवं पश्यामि; न चाहम् एवं वदाम्य् अयं मे आत्मा वा सत्वो वा जीवो वा जन्तुर् वा पोषो वा पुद्गलो वा मनुजो वा मानवो वा कर्ता वा कारको वा जनको वा संजनको वा उत्थापको वा समुत्थापको वा वदको वा वेदको वा प्रतिसंवेदको वा, यो न जन्तुर् नाभून् न भविष्यति, नाप्य् एतर्हि विद्यते; यस् तत्र कृताकृतानां कल्याणापापकानां कर्मणां विपाकं प्रतिसंवेदयते; इमांश् च स्कन्धान् निक्षिपत्य् अन्यांश् च स्कन्धान् प्रतिसन्दधाति, नान्यत्र धर्मसङ्केतात्; तत्रायं धर्मसङ्केतो यदुतास्मिन् सतीदं भवति; ( स्ब्व् इ 159 ) अस्योत्पादाद् इदम् उत्पद्यते; यदुताविद्याप्रत्ययाः संस्काराः; संस्कारप्रत्ययं विज्ञानम्; विज्ञानप्रत्ययं नामरूपम्; नामरूपप्रत्ययं षडायतनम्; षडायतनप्रत्ययः स्पर्शः; स्पर्शप्रत्यया वेदना; वेदनाप्रत्यया तृष्णा; तृष्णाप्रत्ययम् उपादानम्; उपादानप्रत्ययो भवः; भवप्रत्यया जातिः; जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति; एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति; यदुतास्मिन् सतीदं भवति; अस्य निरोधाद् इदं निरुद्ध्यते; यदुताविद्यानिरोधात् संस्कारनिरोधः; संस्कारनिरोधाद् विज्ञाननिरोधः; विज्ञाननिरोधान् नामरूपनिरोधः; नामरूपनिरोधात् षडायतननिरोधः; षडायतननिरोधात् स्पर्शनिरोधः; स्पर्शनिरोधाद् वेदनानिरोधः; वेदनारिरोधात् तृष्णानिरोधः; तृष्णानिरोधाद् उपादाननिरोधः; उपादाननिरोधाद् भवनिरोधः; भवनिरोधाज् जातिनिरोधः; जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुद्ध्यन्ते; एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति; इति हि भिक्षवो दुःखाः संस्काराः; शान्तं निर्वाणाम्; हेतुसमुदयाद् दुःखसमुदयः; हेतुनिरोधाद् दुःखनिरोधः; छिन्नं वर्त्म न प्रवर्तते; अप्रतिसन्धि निरुद्ध्यते; एष एवान्तो दुःखस्य; तत्र भिक्षवः कः परिनिर्वृतो नान्यत्र दुःखं, तन् निरुद्धं; तद् व्युपशान्तं, ( अ 408अ ) तच् छीतीभूतम्; शान्तम् इदं भिक्षवः पदं यदुत सर्वोपधिप्रतिनिःसर्गः, तृष्णाक्षयो विरागो निरोधो निर्वाणम्
थे चोन्वेर्सिओन् ओf बिम्बिसार
तत्र भगवान् द्विर् अपि राजानं मागधं श्रेण्यं बिम्बिसारम् आमन्त्रयते: किं मयसे महाराज रूपं नित्यं वा अनित्यं वा? अनित्यम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं वा तन् न वा दुःखम्? दुःखम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं विपरिणामधर्मि; अपि नु तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् मम, एषो ऽहम् अस्मि, एष मे आत्मेति? नो भदन्त; किं महाराज वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा? अनित्यम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं वा तन् न वा दुःखम्; दुःखम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं विपरिणामधर्मि; अपि नु तच्छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् ( स्ब्व् इ 160 ) मम, एषो ऽहम् अस्मि, एष मे आत्मेति? नो भदन्त; तस्मात् तर्हि ते महाराज यत् किंचिद् रूपम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वा ओदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा, यद् वा दूरे, यद् वा अन्तिके, तत् सर्वं नैतन् मम नैषो ऽहम् अस्मि, नैष मे आत्मेत्य् एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्; तस्मात् तर्हि महाराज या काचिद् वेदना संज्ञा संस्कारा यत् किंचिद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा, बाह्यं वा, ओदारिकं वा, सूक्ष्मं वा, हीनं वा, प्रणीतं वा, यद् वा दूरे, यद् वा अन्तिके, तत् सर्वं नैतन् मम, नैषो ऽहम् अस्मि, नैष मे आत्मेत्य् एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्; एवंदर्शी महाराज श्रुतवान् आर्यश्रावकः रूपाद् अपि निर्विद्यते; वेदनायाः संज्ञाया संस्कारेभ्यो विज्ञानाद् अपि निर्विद्यते; निर्विण्णो विरज्यते; विरक्तो विमुच्यते; विमुक्तस्य विमुक्तम् एव ज्ञानदर्शनं भवति; क्षीणा मे जातिर्, उषितं ब्रह्मचर्यम्; कृतं करणीयं, नापरम् अस्माद् भवं प्रजानामीति
अस्मिन् खलु धर्मपर्याये भाष्यमाणे राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्; अशितेश् च देवतासहस्राणाम्, अनेकेषां च ब्राह्मणगृहपतिशतसहस्राणाम्; अथ राजा मागधः श्रेण्यो बिम्बिसारो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुश् शासने धर्मेषु वैशारद्यप्राप्त उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: अभिक्रान्तो ऽहं भदन्ताभिक्रान्तः; एषो ऽहं भगवन्तं शरणं गच्छामि, धर्मं च, भिक्षुसङ्घं च; उपासकं च मां धारयाद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतम्, अभिप्रसन्नम्; आगच्छतु भगवान् राजगृहम्; अहं ( अ 408ब् ) भगवन्तम् उपस्थास्यमि यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेनेति; अधिवासयति भगवान् राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य तूष्णींभावेन; अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवतस् तूष्णींभावेन अधिवासनां विदित्वा, भगवतः पादौ शिरसा वन्दित्वा, भगवतो ऽन्तिकात् प्रक्रान्तः
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा मागधेन श्रेण्येन बिम्बिसारेण सपरिवारेण कर्म कृतं, यस्य कर्मणो विपाकेन भगवतो ऽन्तिके सत्यदर्शनं कृतम् इति; भगवान् आह: बिम्बिसारेणैव ( स्ब्व् इ 161 ) भिक्षवो राज्ञा सपरिवारेण कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि; राज्ञा बिम्बिसारेण सपरिवारेण कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥
थे स्तोर्य् ओf थे किन्ग् कृकि
भूतपूर्वं भिक्षव अतीते ऽध्वनि अरनाभी नाम शास्ता लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदमयसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः; तस्य महाजनकायेन शरीरे शरीरपूजां कृत्वा विविक्तावकाशे पृथिवीप्रदेशे महान् स्तूपः प्रतिष्ठापितः; तेन खलु समयेन कृकिर् नाम राजा चक्रवर्ती अष्टादशभिर् भटबलाग्रकोटिभिर् उपरि विहायसा अनुसंयान् तस्य स्तूपस्य समीपम् अनुप्राप्तः; बुद्धाभिप्रसन्नाभिर् देवताभिस् तस्य चक्ररत्नं विधारितम्; कृकी राजा संलक्षयति: यथैतच् चक्ररत्नम् अवस्थितं, माहैव मे पुण्यपरिक्षयः स्याद् इति; तस्य देवताभिर् आरोचितम्: महाराज न ते पुण्यपरिक्षयः; किन्त्व् अरनाभेः सम्यक्संबुद्धस्य एतस्मिन् प्रदेशे स्तूपम्; तेनेदं चक्ररत्नम् अवस्थितम्; न तस्योपरिष्टाद् गच्छतीति; ततः कृकी राजा अष्टादशभिर् भटबलाग्रकोटिभिः सहावतीर्णो यावत् पश्यति स्तूपम् असंमृष्टम्; तेन सपरिवारेण संमृज्य गन्धैर् माल्यैर् धूपैश् चूर्णैर् वाद्यैः पूजां कृत्वा पादयोर् निपत्य सपरिवारेण प्रणिधानं कृतम्: यन् मया एवंविधे सद्भूतदक्षिनीये काराः कृताः, अनेनाहं कुशलमूलेन एवंविधानाम् गुणानां लाभी स्याम्; एवंविधम् एव शास्तारम् आरागयेयम्, मा विरागयेयम् इति; किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन, तेन ( अ 409अ ) समयेन कृकिर् नाम राजाभूच् चक्रवर्ती सपरिवार एष एवासौ राजा बिम्बिसारः तेन कालेन तेन समयेन; यद् अनेन अरनाभेस् सम्यक्संबुद्धस्य ( स्ब्व् इ 162 ) स्तूपे सपरिवारेण पूजा कृता, तस्य कर्मणो विपाकेन अनेकानि कल्पकोटीनियुतशतसहस्राणि दिव्यमानुषं च प्रतिविशिष्टं सुखम् अनुभूतम्; यत् प्रणिधानं कृतम् एवंविधानां गुणानां लाभी स्याम् इति; तेन ममान्तिके सपरिवारेण सत्यदर्शनं कृतम्; यत् प्रणिधानं कृतम् एवंविधम् एव शास्तारम् आरागयेयम्, मा विरागयेयम् इति; अहम् अस्मि भिक्षवो अरनाभिना सम्यक्संबुद्धेन समसमं समजवः, समबलः, समधुरः, समसामान्यप्राप्तः, शास्ता आरागितो न विरागितः; इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लो, व्यतिमिश्राणां च व्यतिमिश्रः; तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यं
भिक्षवः संशयजाताः सर्वसंशायच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता उरुबिल्वाकाश्यपेन कर्म कृतं, येन पञ्चभिः प्रातिहार्यशतैर् विनीतः; नदीगयाकाश्यपौ तु अल्पकृच्छ्रेण विनीताव् इति; भगवान् आह: एभिर् एव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनां
थे स्तोर्य् ओf थे थ्रेए सोन्स् ओf अ गृहपति
भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रयाजां काश्यपो नाम शास्ता लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स वाराणसीनगरीम् उपनिश्रित्य विहरति ऋषिवदने मृगदावे; स सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः; तस्य कृकिना राज्ञा सर्वगन्धकाष्ठैश् चितां चित्वा शरीरं ध्यापितम्; सा चिता क्षीरेण निर्वापिता; तान्य् अस्थीनि चतूरत्नमये कुम्भे प्रक्षिप्य विविक्तावकाशे पृथिवीप्रदेशे शारीरः स्तूपः प्रतिष्ठापितः, योजनम् उच्छ्रायेण अर्धयोजनं विस्तारेण; तेन खलु समयेन वाराणस्याम् अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात् कुलात् कलत्रम् आनीतम्; स ( स्ब्व् इ 163 ) तया सार्धाम् क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः क्रमशः त्रयः पुत्रा जाताः; यावद् असौ गृहपतिर् ग्लान्यं पतितः; स उपस्थीयते मूलगन्धपत्रपुष्पफलभैषज्यैः; न चासौ व्याधिर् उपशमं गच्छति; स कालधर्मणा संयुक्तः; ततस् तैः पुत्रैर् नीलपीतलोहितावदातैर् वस्त्रैः ( अ 409ब् ) शिबिकाम् अलङ्कृत्य श्मशानं नीत्वा ध्यापितः; शोकविनोदनं कृत्वा पितुश् च पितृकार्याणि द्रव्यविभागसञ्जल्पं कर्तुम् आरब्धाः; ज्येष्ठो भ्राता कथयति: द्रव्यं विभजाम इति; तौ कनीयांसौ भ्रातरौ नेच्छतः; स निर्बन्धं कर्तुम् आरब्धः; तौ कथयतः: यद्य् एवं पारलौकिकं पथ्यदनं गृह्णीमः; पश्चाद् विभागं करिष्याम इति; स कथयति: किं कुर्मः? तौ कथयतः: काश्यपस्य सम्यक्संबुद्धस्य पूजाम् इति; स दुःश्रद्दधानः; तेन कृच्छ्रेण प्रतिज्ञातम्; ततस् ते काश्यपस्य सम्यक्संबुद्धय्स पूजां कृत्वा प्रणिधानं कर्तुम् आरब्धाः; द्वाभ्याम् एवं प्रणिधानं कृतम्: अनेन कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतः भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्यावां शासने प्रव्रजेव विशेसं चाधिगच्छाव इति; तयोः प्रणिधानं श्रुत्वा स ज्येष्ठो भ्राता पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः; अहं खतुंको दुःश्रद्दधानश् च; अनेन कुश्लमूलेन ममाप्य् असौ शाक्यमुनिः पञ्चभिः प्रातिहार्यशतैः विनीयात्, प्रव्राजयेत्; प्ररजितश् च विशेषम् अधिगच्छेयम् इति; किं मन्यध्वे भिक्षवः यो ऽसौ ज्येष्ठो भ्राता खटुंकः दुःश्रद्दधानः एष एवासौ उरुबिल्वाकाश्यपः; यौ तौ कनीयांसौ भ्रातरौ एताव् एतौ नदीगयाकाश्यपौ; तत्प्रणिधानवशाद् उरुबिल्वाकाश्यपः पञ्चभिः प्रातिहार्यशतैर् विनीतः नदीगयाकाश्यपौ तु अल्पकृच्छ्रेण विनीतौ
थे स्तोर्य् ओf कलन्दकनिवाप
यदा राजा बिम्बिसारः कुमारो भवति, तदा राजगृहे ऽन्यतमो गृहपतिः; तस्यारामः पुष्पफलसलिलसंपन्नः; स तत्रात्यर्थम् ( स्ब्व् इ 164 ) अध्यवसितः; यावद् बिम्बिसारेण बहिर्निर्गतेन तद् उद्यानं दृष्टम्; सो ऽत्यर्थम् अध्यवसितः कथयति: गृहपते प्रयच्छ ममैतद् उद्यानम् इति; स नानुप्रयच्छति; पुनर् अप्य् उपप्रदानेनाभिहितः; स कथयति: कुमार, कामम् अहं देशपरित्यागं कुर्यां, न चोद्यानं दद्याम् इति; बिम्बिसारः कुमारः कथयति: गृहपते स्मर्तव्यं ते वाक्यम्; यदा अहं राजा भविष्यामि, तदा स्वयम् एव ग्रहीष्यामीति; स कथयति: यदा त्वं राजा भविष्यसि, तदा अहं राजगृहात् प्रक्रमिष्यामीति; बिम्बिसारः कुमारो हुम् इति कृत्वा प्रक्रान्तः; यावद् अपरेण समयेन महापद्मो राजा कालगतः; बिम्बिसारः कुमारो राज्ये प्रतिष्ठापितः तेन तद् उद्यानं हठात् गृहीतम्; स गृहपतिर् हृद्रोगं पतितः, तस्मिन्न् उद्याने अत्यर्थम् अध्यवसितः, कालगतः; स तत्रैव आशीविष उत्पन्नः; स राज्ञो ऽभीक्ष्णं रन्ध्रान्वेषणतत्परो ऽवतिष्ठते; यावद् राजा बिम्बिसारः संप्राप्ते वसन्तकालसमये पुष्पितेषु पादपेष्व् अन्तःपुरसहीयस् तद् उद्यानं निर्गतः; स तत्र निष्पुरुषेण अन्तःपुरजनेन सार्धं रतिक्रीडां प्रत्यनुभूय मिद्धम् अवक्रान्तः; पुष्पफललोलुपो मातृग्रामः समन्तात् पर्यटितुम् आरब्धः; एका स्त्री खड्गं राज्ञ आरक्षिका स्थापिता ..................................................... ( अ 410अ ) राज्ञः पुण्यानुभावात् कलन्दका नाम पक्षिणः; तैस् तम् आशीविषं परिवार्य कलकलाशब्दः कृतः; यं श्रुत्वा असिधारिण्या स्त्रिया खद्गेन जीविताद् व्यपरोपितः; सन्त्रस्तया च महान् शब्दः कृतः; ततो राजा सन्त्रस्तो विबुद्धः कथयति, किम् एतद् इति; तया स्त्रियाभिहितम्: देव एष आशीविषः देवं दष्टुम् अबिसंप्रस्थितः कलन्दकैः पक्षिभिः कोलाहलशब्दः कृतः मया जीविताद् व्यपरोपित इति; राज्ञस् ताम् अवस्थां प्रतिश्रुत्य कुमारभटबलाग्रः राजगृहनिवासी जनकायः सन्निपतितः; अन्तर् बहिस् तद् उद्यानं महता कोलहलशब्देन क्षोभितुम् आरब्धम्; प्रजावत्सलो ( स्ब्व् इ 165 ) राजा; भूयसा अन्तःपुरजनकायो ऽश्रुपर्याकुलेक्षणो व्यवस्थितः; ततो राजा कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं जीवितेनाच्छादयति, कस् तस्य वर इति; जनकायः कथयति: उपार्धं राज्यस्येति; राजा कथयति: भवन्तः कलन्दकैः पक्षिभिर् मम जीवितं दत्तम्; तद् एभ्यो दत्तम् उपार्धं राज्यस्य इति; अमात्याः कथयन्ति: देव पक्षिण एते तिर्यग्योनिगताः; किम् एषाम् उपार्धराज्येन; यस्मिन्न् एते वेणुवने प्रतिवसन्ति तत्रैषां निवापः प्रज्ञप्यताम् इति; राजा कथयति: एवं क्रियताम् इति; तद् उद्यानं वेणुवनपरिवेष्टितम्; अमात्यैस् तेषां वेणुवनसामन्तके निवापः प्रज्ञप्तः; तस्य वेणुवनं कलन्दकनिवाप इति संज्ञा संवृत्ता; राज्ञो बिम्बिसारस्य मातुल आजीविकानां मध्ये प्रव्रजितः; तेन तद् उद्यानं तस्मै निवासाय दत्तं
बिम्बिसार प्रेसेन्त्स् वेणुवन तो थे बुद्ध
यावद् भगवान् मगधेषु जनपदेषु चारिकां चरन् राजगृहम् अनुप्राप्तो ऽन्यतमस्मिन् वृक्षमूले ऽवस्थितः; अश्रौशीद् राजा मागधः श्रेण्यो बिम्बिसारः, भगवान् मागधेसु जनपदेषु चारिकां चरन् राजगृहम् अनुप्राप्तो ऽन्यतमस्मिन् वृक्षमूले ऽवतिष्ठतीति; श्रुत्वा च पुनर् महत्या राजऋद्ध्या, महता राजानुभावेन, राजगृहान् निष्क्रम्य येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्णं राजानं मागधं श्रेण्यं बिम्बिसारं भगवान् रम्यया कथया सन्दर्शयति, समादापयति, समुत्तेजयति, संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया सन्दर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ राजा मागधः श्रेण्यो बिम्बिसार <उत्थायासनाद् एकांशम् उत्तरासन्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: अधिवासयतु मे भगवांश् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसङ्घेन: अधिवासयति भगवान् राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य तूष्णिम्भावेन;> अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा, भगवतः पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः; राजा मागधः श्रेण्यो बिम्बिसारस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय कल्यम् एवोत्थायासनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति: समयो ( स्ब्व् इ 166 ) भदन्त; सज्जं भक्तम् यस्येदानीं कालं मन्यते इति; अथ ( अ 410ब् ) भगवान् पूर्वाह्णे निवास्य, पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य निवासस् तेनोपसङ्क्रान्तः; उपसंक्रम्य पुरस्ताद् भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषण्णः; अथ राजा मागधः श्रेण्यो बिम्बिसारः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति, संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य, भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं सौवर्णं भृङ्गारं गृहीत्वा तद् उद्यानं भगवते निर्यातयति: इदं भदन्त वेणुवनं, कलन्दकनिवापम्; अत्र भगवान् विहरतु यथासुखम् इति; तथा स्थविरैर् अपि सूत्रान्तेषूपनिबद्धं, भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवाप इति
अनाथपिण्डद मेएत्स् थे बुद्ध
तेन खलु समयेन भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे; राजगृहे ऽन्यतमो गृहपतिः; तेन भगवान् गृहे उपनिमन्त्रितः सार्धं भिक्षुसङ्घेन; तस्मिंश् च समये अनाथपिण्डदो गृहपतिः राजगृहम् अनुप्राप्तः केनचिद् एव करणीयेन; स तस्य गृहपतेर् निवेशने रात्रिं वासम् उपगतः; अथ स गृहपतिः सरात्रम् एवोत्थायान्तर्जनम् आमन्त्रयते: उत्तिष्ठत आर्या उत्तिष्ठत भद्रमुखाः; कष्ठानि पाटयत; समिधं प्रज्वालयत; भक्तं पचत; सूपिकं पचत; खाद्यकान्य् उल्लाडयत; प्रतिजागृत मण्डलवाटम् इति; अथानाथपिण्डदस्य गृहपतेर् एतद् अभवत्: किं पुनर् अस्य गृहपतेर् आवाहो वा भविष्यति, विवाहो वा, राष्ट्रं वा, श्रेणी वा, पूगा वा पर्षदो वा राजा <वा> अनेन मागधः श्रेण्यो बिम्बिसारः श्वो ऽन्तर्गृहे भक्तेन निमन्त्रितो भविष्यति; इति विदित्वा तं गृहपतिम् इदम् अवोचत्: किं पुनस् ते गृहपते आवाहो वा भविष्यति विवाहो वा राष्ट्रं वा श्रेणी वा पूगा वा पर्षदो वा राजा वा ते मागधः श्रेण्यो बिम्बिसारः श्वो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः? न मे गृहपते आवाहो, न विवाहो, न राष्ट्रं, न श्रेणी, न पूगा, नापि पर्षदो, नापि राजा मागधः श्रेण्यो बिम्बिसारः श्वो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; अपि तु बुद्धप्रमुखो भिक्षुसङ्घो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; ( स्ब्व् इ 167 ) अनाथपिण्डदस्य गृहपतेर् बुद्ध इत्य् अश्रुतपूर्वं घोषं श्रुत्वा सर्वरोमकूपान्य् आहृष्टानि; स आहृष्टरोमकूपस् तं गृहपतिम् इदम् अवोचत्: क एष गृहपते बुद्धो नाम; अस्ति गृहपते श्रमणो गौतमः शाक्यपुत्रः शाक्यकुलात् केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; सो ऽनुत्तरां सम्यक्संबोधिम् ( अ 411अ ) अभिसंबुद्धः; स एष गृहपते बुद्धो नाम; क एष गृहपते सङ्घो नाम; सन्ति गृहपते क्षत्रियकुलाद् अपि कुलपुत्राः केशश्मश्र्व् अवतार्य काषायाण्य् <वस्त्राण्य्> आच्छाद्य सम्यग् एव श्रद्धया <अगाराद् अनागरिकां> तम् एव भगवन्तं प्रव्रजितम् अनुप्रव्रजिताः; ब्राह्मणकुलाद् अपि वैश्यकुलाद् अपि शूद्रकुलाद् अपि कुलपुत्राः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया <अगाराद् अनागारिकां> तम् एव भगवन्तं प्रव्रजितम् अनुप्रव्रजिताः; स एष गृहपते सङ्घो नाम; श्वः स मया बुद्धप्रमुखो भिक्षुसङ्घो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; कुत्र गृहपते स भगवान् एतर्हि विहरति? अस्मिन्न् एव राजगृहे शीतवने श्मशाने; लभ्यं गृहपते सो ऽस्माभिर् भगवान् द्रष्टुम्; तेन हि गृहपते आगमय तावत् त्वम्; स्थानम् एतद् विद्यते यद् इहागतं श्वो द्रक्ष्यसि; अनाथपिण्ददो गृहपतिस् तां रात्रिं बुद्धालम्बनया स्मृत्या मिद्धम् अवक्रान्तः; सो ऽप्रभाते प्रभातसंज्ञी येन शिविकाद्वारं तेनोपसङ्क्रान्तः; तेन खलु समयेन शिविकाद्वारं रात्र्या द्वौ यामौ विवृतं तिष्ठति, पूर्वकं पश्चिमकं च, माहैव आगन्तुकानां गमिकानां च दूतानां विघातो भविष्यतीति; यावत् पश्यति शिविकाद्वारं विवृतं तिष्ठति; सालोकेन च स्फुटम्; तस्यैतद् अभवत्: नूनं प्रभाता रजनी; तथाहि शिविकाद्वारं विवृतं तिष्ठति; इति विदित्वा तेनैव आलोकेन नगरान् निष्क्रान्तः; समनन्तरनिष्क्रान्तस्य चास्य य आलोकः सो ऽन्तर्हितः; अन्धकारं प्रादुर्भूतम्; तस्याभूद् भयम्; अभूच् छम्भितत्वम्; अभूद् रोमहर्षः; माहैव कश्चिद् विहेठयेन् मनुष्यो वा अमनुष्यो वा धूर्तको वा असंप्राप्तं वा स्वात् प्रभूतम् कुलशुल्कम् इति; विदित्वा प्रतिनिवर्तितुकामो मधुस्कन्धस्य देवपुत्रस्य स्थण्डिलं प्रदक्षिणीकरोति, नमस्करोति च; अथ मधुस्कन्धदेवपुत्रस्य एतद् अभवत्: अद्यैवानाथपिण्डदेन गृहपतिना सत्यदर्शनं कर्तव्यम्; अद्यैवायं बुद्धं भगवन्तम् अपास्य अन्यदेवता नमस्कारं करिष्यति; इति विदित्वा यावच् च शिविकाद्वारं यावच् च शीतवनं श्मशानम् अत्रान्तराद् उदारेणावभासेनावभास्य अनाथपिण्डदं गृहपतिम् इदम् अवोचत्: अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस् ते श्रेयो भवति, न प्रतिक्रमतः; तत् कस्य हेतोः
शतम् अश्वा शतं निष्काः शतम् आश्वतरीरथाः ।
नानावित्तस्य संपूर्णाः शतं च वडवारथाः ॥
पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् ।
अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस् ते श्रेयो <भवति>, न प्रतिक्रमतः; तत् कस्य हेतोः?
शतं हैमवता नागाः सुवर्णमणिकल्पिताः ।
ईषादन्ता महाकाया व्यूढवन्तो मतङ्गजाः ॥
पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् ।
अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस् ( अ 411ब् ) ते श्रेयो भवति; न प्रतिक्रमतः; तत् कस्य हेतोः
शतं काम्बोजिकाकन्याः आमुक्तमणिकुण्डलाः ।
सुवर्णकेयूरधराः निष्कग्रीवाः स्वलङ्कृताः ॥
पदाविहारस्यैकस्य कलां नार्हन्ति षोडशीम् ।
अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस् ते श्रेयो भवति, न प्रतिक्रमतः; अथानाथपिण्डदो गृहपतिस् तं देवपुत्रम् इदम् ( स्ब्व् इ 169 ) अवोचत्: कस् त्वं भद्रमुख; अहम् अस्मि गृहपते मधुस्कन्धो नाम माणवः, तवैव पुराणो गृहसखः; सो ऽहं शारिपुत्रमौद्गल्यायनयोर् भिक्ष्वोर् अन्तिके चित्तम् अभिप्रसाय <कालगतः> चातुर्महाराजिकेषु देवेषूपपन्नः, अस्मिन्न् एव शिविकाद्वारे नैवासिकः; तस्माद् अहम् एवं वदामि: अभिक्रम गृहपते मा प्रतिक्रम; अभिक्रमतस् ते श्रेयो भवति, न प्रतिक्रमत इति; अथानाथपिण्डदस्य गृहपतेर् एतद् अभवत्: नावरो बुद्धो भविष्यति, नावरं धर्माख्यानं, यत्रेदानीं देवता अपि औत्सुक्यम् आपद्यन्ते तस्य भगवतो दर्शनाय; इति विदित्वा येन शीतवनं श्मशानं तेनोपसङ्क्रान्तः; तेन खलु समयेन बहिर् विहारस्याभ्यवकाशे भगवान् चङ्क्रमे चङ्क्रम्यते यद्भूयसा अनाथपिण्डदं गृहप्तिम् आगमयमानः; अद्राक्षीत् अनाथपिण्डदो गृहपतिर् भगवन्तं दूराद् एव; दृष्ट्वा च पुनर् येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तम् गृहपतिः प्रतिसंमोदनया प्रतिसंमोदते: कच्चिद् भगवान् सुखं शायित इति; अथ भगवांस् तस्यां वेलायां गाथा भाषते;
सर्वथा वै सुखं शेते ब्राह्मणः परिनिर्वृतः ।
लिप्यते यो न कामैर् हि विप्रमुक्तो निरुपधिः ॥
छित्वेह सर्वम् आशक्तिं विनीय हृदयज्वरम् ।
उपशान्तः सुखं शेते शान्तिप्राप्तेन चेतसा ॥
अथ भगवान् अनाथपिण्डदं गृहपतिम् आदाय विहारं प्रविश्य प्रज्ञप्त एवासने निषण्णः; अनाथपिण्ददो गृहपतिर् भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णण्; एकान्ते निषण्णम् अनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया सन्दर्शयति समादापयति <समुत्तेज्यति>, संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा, तद्यथा दानकथा शीलकथा स्वर्गकथा कामानाम् अश्वादादीनवसङ्क्लेशव्यवदाननैष्क्रम्यप्रविवेके अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैनं भगवान् अद्राक्षीत् हृष्टचित्तम् कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुम्, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयो निरोधो मार्गश् चत्वार्य् आर्यसत्यानि विस्तरेण संप्रकाशयति; अथानाथपिण्डदो गृहपतिस् तस्मिन्न् एवासने निषण्णश् चत्वार्य् आर्यसत्यान्य् अभिसमेति; तद्यथा ( स्ब्व् इ 170 ) दुःखं समुदयो निरोधो मार्गः; तद्यथा शुद्धं वस्त्रम् अपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति, एवम् एवानाथपिण्डदो गृहपतिस् तस्मिन्न् एव आसने निषण्णश् चत्वार्य् आर्यसत्यान्य् अभिसमेति; तद्यथा दुःखं समुदयो निरोधो मार्ग इति; अनाथपिण्डदो ( अ 412अ ) गृहपतिर् दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षो तीर्णविचिकित्सः अपरप्रत्ययो ऽनन्यनेयः शास्तुश् शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा, येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: अभिक्रान्तो ऽहं भदन्ताभिक्रान्तः; एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसङ्घं च; उपासकं मां च धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतम् अभिप्रसन्नम्; अथ भगवान् अनाथपिण्डदं गृहपतिम् इदम् अवोचत्; किन्नामा त्वं गृहपते? अहम् अस्मि भदन्त सुदत्तो नाम्ना; अपि त्व् अनाथेभ्यः पिण्डकम् अनुप्रयच्छामि; ततो माम् अनाथपिण्डदो गृहपतिर् अनाथपिण्डदो गृहपतिर् इति जनः सञ्जानीते; कुतोभूमकस् त्वं गृहपते? अस्ति भदन्त प्राचीनेषु जनपदेषु श्रावस्ती नाम कोसलानां निगमः; तत्राहं प्रतिवसामि
अनाथपिण्डद इन्वितेस् थे बुद्ध तो श्रावस्ती
आगच्छतु भगवान् श्रावस्तीम्; अहं भगवन्तम् उपस्थास्यामि यावज्जीवं चीवरपिण्डपातग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन; सन्ति गृहपते विहाराः श्रावस्त्याम्? नो भदन्त; यत्र गृहपते विहाराः सन्ति तत्र भिक्षव आगन्तव्यं गन्तव्यं वस्तव्यं मन्यन्ते; आगच्छतु भगवान्; अहं तथा करिष्यामि यथा श्रावस्त्यां विहारा भविष्यन्ति; भिक्षवश् च आगन्तव्यं गन्तव्यं वस्तव्यं मंस्यन्त इति; अधिवासयति भगवान् अनाथपिण्डदस्य गृहपतेस् तूष्णींभावेन; अनाथपिण्डदो गृहपतिर् भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा ( स्ब्व् इ 171 ) वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः; ततो ऽस्य यावद् राजगृहे कृत्यं वा करणीयं वा तत् सर्वं कृत्वा परिप्राप्य येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्णो ऽनाथपिण्डदो गृहपतिर् भगवन्तम् इदम् अवोचत्: अनुप्रयच्छ मे भगवन् भिक्षुं सहायकम् येन सहायकेन भगवतो ऽर्थाय विहारं कारयामीति; भगवान् संलक्षयति: कतरस्य भिक्षोर् अनाथपिण्डदो गृहपतिः सपरिवारो <श्रावस्तीनिवासी च जनकायो> विधेय; पश्यति शारिपुत्रस्य भिक्षोः; तत्र भगवान् आयुष्मन्तम् शारिपुत्रम् आमन्त्रयते: संअन्वाहर शारिपुत्र अनाथपिण्डदं गृहपतिम् <सपरिवारं> श्रावस्तीनिवासिनं च जनकायम् इति; अधिवासयत्य् आयुष्मांश् छारिपुत्रो भगवतस् तूष्णींभावेन; अथायुष्मांश् छारिपुत्रो भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽनित्कात् प्रक्रानतः
शारिपुत्र लेअवेस् fओर् श्रावस्ती
अथायुष्मांश् छारिपुत्रस् तस्या एव रात्रेर् अत्ययात् पूर्वाहाणे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्; राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तो यथापरिभुक्तं शयनासनं प्रतिशमय्य, समादाय पात्रचीवरं, येन श्रावस्ती तेन चारिकां प्रक्रान्तः; अथानाथपिण्डदो गृहपतिः प्रभूतं शम्बलम् आदाय एकैकरात्रिनिवासेन श्रावस्तीम् अनुप्राप्तः स प्रविशन्न् एव श्रावस्तीम् आरामेणारामम् ( अ 412ब् ) उद्यानेनोद्यानम् उपवनेनोपवनं चङ्क्रमम् अनुचङ्क्रम्यमाणो सुविचरन्न् एवम् आह: कतरः स पृथिवीप्रदेशो भविष्यति श्रावस्त्या नातिदूरे नात्यासन्ने दिवा अल्पाकीर्णो ऽल्पविलापो रात्राव् अल्पशब्दो ऽल्पनिर्घोषः अल्पदंशमशकवातातपसरीसृपसंस्पर्शः, यत्राहं भगवतो ऽर्थाय विहारं मापयिष्यामीति; अद्राक्षीद् अनाथपिण्डदो गृहपतिर् जेतस्य कुमरस्यारामं श्रावस्त्या नातिदूरे नात्यासन्ने दिवा अल्पाकिर्णम् अल्पविलापं रात्राव् अल्पशब्दम् अल्पनिर्घोषम् अल्पदंशमशकवातातपसरीसृपस्पर्शम्; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: अत्राहं भगवतो ऽर्थाय विहारं मापयिष्यामीति; स प्रविषन्न् एव स्वं निवेशनं येन जेतः कुमारस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य जेतं कुमारम् इदम् अवोचत्: अनुप्रयच्छ मे कुमार आरामम्; ( स्ब्व् इ 172 ) अहं तत्र भगवतो ऽर्थाय विहारं कारयामि इति; स कथयति:न मे गृहपते स आरामः; किन्तु उद्यानं तन् मेमेति; द्विर् अपि त्रिर् अप्य् अनाथपिण्डदो गृहपतिर् जेतं कुमारम् इदम् अवोचत्: अनुप्रयच्छ मे कुमार आरामम्; अहं तत्र भगवतो ऽर्थाय विहारं मापयामीति; अपरित्यक्तो <गृहपते> मे आरामः कोटिसंस्तरेणापि; पुनर् अप्य् अनाथपिण्डदो गृहपतिर् जेतं कुमारम् इदम् अवोचत्: कृतार्घो ऽसि कुमार आरामस्य; प्रतीच्छ हिरण्यसुवर्णम्; ममारामः; कः कृतार्घः? त्वं कृतार्घः; तौ कृतार्घो न कृतार्घ इति विवादम् आपन्नौ, येन व्यावहारिकपुरुषास् तेन संप्रस्थिताः; अत्रान्तरे चतुर्णां लोकपालानाम् एतद् अभवत्: अयम् अनाथपिण्डदो गृहपतिर् उद्युक्तो भगवतो ऽर्थाय विहारं मापयितुम्; साहाय्यम् अस्यानुष्ठेयम् इति; ततो व्यावहारिकपुरुषम् आत्मानम् अभिनिर्माय अर्थाधिकरणे निषण्णाः; अनाथपिण्डदो गृहपतिर् जेतश् च कुमारो व्यावहारिकसकाशम् उपसङ्क्रान्तौ; अथानाथपिण्डको गृहपतिर् व्यावहारिकपुरुषाणाम् एतम् अर्थं विस्तरेण निवेदयति; ते कथयन्ति: कृतार्घो ऽसि कुमार आरामस्य: प्रतीच्छ सुवर्णम्: गृहपतेर् आराम इति; स तूष्णीम् अवस्थितः; अनाथपिण्डदो गृहपतिः शकतैर् भारैः मूटैः पिटकैर् उष्ट्रैर् गोभिर् गर्द्भैः प्रभूतं सुवर्णम् अभिनिर्हृत्य, सर्वं जेतवनं संस्तर्तुम् आरब्धः; न परिसमाप्यते; तिष्ठते एवानास्तीर्णः कश्चित् पृथिवीप्रदेशः; ततः अनाथपिण्डदो गृहपतिर् एतम् अर्थं चिन्तयन् मुहूर्तस्ं तूष्णीम् अस्थात्: कतरत् तन् निधानं भविष्यति? नातिस्तोकं, नातिप्रभूतं येन अयम् अनास्तीर्णः पृथिवीप्रदेशः आस्तरिष्यति; न च पुनर् गोपयितव्यो भविष्यतीति; जेतः कुमारः संलक्षयति: नूनम् अनाथपिण्डद्स्य गृहपतेर् विप्रतिसारः, कस्माद् आरामकारणाद् इयन्तं महान्तं धनस्कन्धं परित्यजामि; इति विदित्वा अनाथपिण्डदं गृहपतिम् इदम् अवोचत्: सचेत् ते ह गृहपते विप्रतिसारः प्रतीच्छ सुवर्णम्; ममैवारामः; न मे कुमार विप्रतिसारः; अपि त्व् अहम् एतम् एवार्थम् अनुचिन्तयन् मुहूर्तं तूष्णीम् अवस्थितः; कतरत् तन् निधानं भविष्यति? नातिस्तोकं नातिप्रभूतं, येनायम् अनास्तीर्णः पृथिवीप्रदेशः आस्तरिष्यति; न च प्र्नर् गोपयितव्यो भविष्यतीति; अथ जेतस्य कुमारस्य एतद् अभवत्:न बतावरो ( अ 413अ ) बुद्धो भविष्यति; नावरं धर्माख्यानम्; यत्रेदानीम् अयं गृहपतिर् आरामकारणाद् इयन्तं ( स्ब्व् इ 173 ) महान्तं धनस्कन्धं परित्यजति; इति विदित्वा अनाथपिण्डदं गृहपतिम् इदम् अवोचत्: अनुप्रयच्छ मे गृहपते अनास्तीर्णं पृथिवीप्रदेशम्; अत्राहं भगवतो ऽर्थाय द्वारकोष्ठकं मापयामि; अनाथपिण्डदो गृहपतिर् जेतस्य कुमारस्य अनास्तीर्णं पृथिवीप्रदेशम् अनुप्रयच्छति: यत्र जेतः कुमारो भगवतो ऽर्थाय द्वारकोष्ठकं मापयति
ओब्स्त्रुच्तिओन् ब्य् थे तीर्थ्यस्
अथानाथपिण्डदो गृहपतिर् भगवतो ऽर्थाय विहारं मापयितुम् आरब्ध इति तीव्रद्वेषपर्याकुलीकृतमनसस् तीर्थ्यास् ते संभूय येनानाथपिण्डदो गृहपतिस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य कथयन्ति: मा त्वं गृहपते श्रमणस्य गौतमस्य अर्थायात्र विहारं कारय; किं कारणम्? अस्माभिर् नगराणि भाजितानि; श्रमणस्य गौतमस्य राजगृहम्; अस्माकं श्रावस्ती; स कथयति: भाजितानि युष्माभिर् नगराणि, न तु मदीयं स्वापतेयम्; यस्याभिप्रेतं तस्य धर्मस्कन्धं कारयामीति; ते राज्ञः सकाशं गताः; तत्राप्य् अनाथपिण्डदेन पराजिताः; ध्वाङ्क्षास् तीर्थ्या अविकृतवदनाः कथयन्ति: गृहपते न ते कामकारम् अनुप्रयच्छामः; श्रमणस्य गौतमस्याग्रश्रावकः आगतः; च यद्य् अस्मान् वादेन पराजयते कारय विहारम् इति; स कथयति: ओब्ननम्; आर्यशारिपुत्रं तावद् अवलोकयामीति; अथानाथपिण्डदो गृहपतिर् येनायुष्मान् शारिपुत्रः तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मतः शारिपुत्रस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्णो ऽनाथपिण्डदो गृहपतिर् आयुष्मन्तं शारिपुत्रम् इदम् अवोचत्: तीर्थ्या भदन्ते शारिपुत्र एवम् आहुः: गृहपते न ते कामकारम् अनुप्रयच्छामः; श्रमणस्य गौतमस्य अग्रश्रावक आगतः; स यद्य् अस्मान् वादेन पराजयते, कारय विहारम् इति; कथम् अत्र प्रतिपत्तव्यम् इति; आयुष्मान् शारिपुत्रः संलक्षयति: किम् एषां सन्ति कानिचित् कुशलमूलानि उत न सन्तीति; पश्यति, सन्ति; कस्यान्तिके प्रतिबद्धानि; ममैव; पुनः संलक्षयति: किम् एतावन्त एव मम प्रतिबद्धा विनेया आहोस्विद् अन्ये ऽपि वादेन विनेयाः सन्तीति; पश्यति, सन्ति; कियच्चिरेण सन्निपतिष्यन्ति; पश्यति, सप्ताहस्यात्ययाद् इति; समन्वाहृत्य कथयति: गृहपते एवं भवतु; किं तु सप्तमे दिवसे; ततो ऽनाथपिण्डदो गृहपतिः प्रीतिप्रामोद्यजातो येन तीर्थ्यास् तेन उपसङ्क्रान्तह्; उपसङ्क्रम्य ( स्ब्व् इ 174 ) तीर्थ्यान् इदम् अवोचत्: भदन्त आर्यशारिपुत्रः कथयति: शोभनम्, एवं भवतु; किं तु स्पतमे दिवसे इति; ते संलक्षयन्ति; द्वाभ्याम् अत्र कारणाभ्यां भवितव्यम्; अथवासौ निष्पलायितुकामः; अथवा पक्षं समन्वेष्टुकामः; किम् अत्र प्राप्तकालं; वयम् अपि पक्षं समन्वेषामह इति; ते पक्षं समन्वेष्टुम् आरब्धाः; तैः पक्षं समन्वेषमानै रक्ताक्षो नाम परिव्राजको दृष्टः; स तैर् उक्तः: त्वम् अस्माकं सब्रह्मचारी; श्रमणस्य गौतमस्याग्रश्रावको ऽस्माभिर् वादेनाहूतः; ( अ 413ब् ) स पक्षं समन्वेषते; त्वम् अस्माकं साहाय्यं कल्पय; कियता कालेन? इतः सप्तमे दिवसे; शोभनम्, एवं भवतु; यदा युष्माकं सन्निपातो भवति तदा ममारोचयितव्यम्; तीर्थ्याः शङ्कितोद्विग्नमनसो दिवसानुदिवसं पक्षं समन्वेषयन्ते; दिवसांश् च गणयन्ति
थे तीर्थ्यस् अन्द् शारिपुत्र चोन्तेस्त्
यावत् सप्तमे दिवसे अनाथपिण्डदेन गृहपतिना विस्तीर्णावकाशे पृथिवीप्रदेशे आसनप्रज्ञप्तिः कारिता; आयुष्मतश् च शारिपुत्रस्यार्थाय सिंहासनं प्रज्ञप्तम्; नानादेशनिवासिनस् तीर्थ्याः सन्निपतिताः; श्रावस्तीनिवासी जनकायः अनेकानि च तत्सामन्तनिवासीनि प्राणिशतसहस्राणि, कानिचिर् कुतूहलजातानि, कानिचित् पूर्वकैः कुशलमूलैः संचोद्यमानानि; तत आयुष्मान् शारिपुत्रो ऽनाथपिण्डदेन गृहपतिना सपरिवारेण संपुरस्कृतो वादिमण्डलं प्रविश्य विनेयजनम् अभिसमीक्ष्य स्मितपूर्वं समशान्तेर्यापथेन सिंहासनम् अभिरुह्य निषण्णः; सर्वैव सा पर्षद् अवहितचेतस्का आयुष्मन्तम् शारिपुत्रम् अभिसमीक्षमाणा निषण्णा
देfएअत् ओf थे तीर्थ्यस्
तत आयुष्मान् शारिपुत्रस् तीर्थ्यान् आमन्त्रयामास: भवन्तः किं तावत् करिष्यथ? आहोसिव्द् विकरिष्यथ? ते कथयन्ति: वयं कुर्मः; त्वां विकुरु; आयुष्मान् शारिपुत्रः संलक्षयति: यद्य् अहं करिष्यामि; सदेवको ऽपि लोको न शक्ष्यति विकर्तुम्; प्राग् एव रक्ताक्षः परिव्राजकः; इति विदित्वा रक्ताक्षं परिव्राजकम् इदम् अवोचत्: त्वं कुरु, अहं विकरिष्यामीति; स इन्द्रजाले कृतावी; तेन सुपुष्पितः ( स्ब्व् इ 175 ) सहकारपादपो निर्मितः; आयुष्मता शारिपुत्रेण तुमुलो वातवर्ष उत्सृष्टः; येनासौ समूल उत्पाट्य इतश् चामुतश् च विकीर्णो योगिजनानाम् अप्य् अविषयीभूतः; ततस् तेन पद्मिनी निर्मिता; आयुष्मता शारिपुत्रेण कलभहस्ती निर्मितः; तेन सा समन्तान् मर्दिता; तेन सप्तशीर्षो नागो निर्मितः; आयुष्मता शारिपुत्रेण गरुडो निर्मितः येनासाव् अपहृतः; तेन वेताडो निर्मितः; आयुष्मता शारिपुत्रेण मन्त्रैः कीलितः; कुप्रयुक्तो वेतादा आत्मवधाय चेतयते; स तस्यैवोपरि प्रधावितः; ततो ऽसौ भीतस् त्रस्तः संविग्न आहृष्टरोमकूपः आयुष्मतः शारिपुत्रस्य पादयोर् निपतितः: आर्य शारिपुत्र त्रायस्व शरणागतो ऽस्मीति; तत आयुष्मता शारिपुत्रेण मन्त्रा उत्कीलिताः; स वेताडो व्युपशान्तः; तस्यायुष्मता शारिपुत्रेण धर्मो देशितः; स प्रसादजातः कथयति: लभेयाहम् आर्यशारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेयम् अहम् आर्यशारिपुत्रस्यान्तिके ब्रह्मचर्यम् इति; आयुष्मता शारिपुत्रेण स प्रव्राजितः उपसंपादितः; अववादो दत्तः; तेनोद्यच्छमेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्; अर्हन् संवृत्तः; त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो ( अ 414अ ) विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभपराङ्मुखः, सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः; ततः सा पर्षद् विस्मयोत्फुल्ललोचना संवृत्ता; आयुष्मति शारिपुत्रे ऽभिप्रसन्ना कथयति: महान् आर्यशारिपुत्रेण वादिवृषभो निगृहीतः; इति विदित्वा अयुष्मतः शारिपुत्रस्य मुखे ऽवलोकिकाः संवृत्ताः; तत आयुष्मता शारिपुत्रेण तस्याः पर्षदः आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता; यां श्रुत्वा अनेकैः सत्वसहस्रैः महान् विशेष आगतः; कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि; कैश्चित् प्रत्येकायां बोधौ; कैशिद् अनुत्तरायां सम्यक्संबोधौ; कैश्चिच् छरणगमनशिक्षापदानि गृहीतानि; कैश्चित् स्रोतआपत्तिफलं साक्षात्कृतम्; कैश्चित् सकृदागामिफलम्; कैश्चिद् अनागामिफलम्; कैश्चित् प्रव्रज्य सर्वक्लेशसंप्रहाणाद् अर्हत्वं साक्षात्कृतम्; यद्भूयसा सा पर्षद् बुद्धनिम्ना, धर्मप्रवणा, सङ्घप्राग्भारा, ( स्ब्व् इ 176 ) व्यवस्थापिता; तीर्थ्याः संलक्षयन्ति: न शक्यम् अस्माभिर् अयं वादे निग्रहीतुम्; उपायसंविधानं कर्तव्यम्; अत्रैव भृतिकया कर्म कुर्मः; ततश् छिद्रं लब्ध्वा बैष्केणैनं प्रघातयाम इति; ते सर्वे संभूय अनाथपिण्डदस्य गृहपतेः सकाशं गत्वा कथयन्ति: गृहपते त्वयास्माकं सर्वाणि वृत्तिपदानि समुच्छिन्नानि; तद् अनुकम्पां कुरु; त्वदीयविहारे भृतिकया कर्म कुर्मः; चिरं वयम् अत्र अवस्थिताः; मा देशपरित्यागं कुर्म इति; अनाथपिण्डदः कथयति: आर्यशारिपुत्रं तावद् अवलोकयामि; स येनायुष्मान् शारिपुत्रस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मन्तं शारिपुत्रम् इदम् अवोचत्: <आर्य>, तीर्थ्याः कथयन्ति, अस्माकं त्वया सर्वाणि वृत्तिपदानि समुच्छिन्नानि; तद् अनुकम्पां कुरु; त्वदीये विहारे भृतिकया कर्म कुर्मः; चिरं वयम् अत्रावस्थिताः; मा देशपरित्यागं कुर्म इति; आयुष्मांश् छारिपुत्रः समन्वाहर्तुं प्रवृत्तः: किं तेषां सन्ति कानिचित् कुशलमूलानि आहोस्विन् न सन्ति इति; पश्यति, सन्ति; कस्यान्तिके प्रतिबद्धानि; ममैवेति; समन्वाहृत्य कथयति: गृहपते एवं भवतु, को ऽत्र विरोध इति; ते तस्मिन् विहारे भृतिकया कर्म कर्तुम् आरब्धाः; आयुष्मता शारिपुत्रेण लतावारिकः पुरुषो रौद्रो निर्मितः; स तत् कर्म कारयितुम् आरब्धः; आयुष्मान् शारिपुत्रः तेषां विनयकालं ज्ञात्वा तत्समीपे वृक्षमूलस्याधस्ताच् चङ्क्रम्यमाणस् तिष्ठति; स तैर्
दृष्टः; ते संलक्षयन्ति, अयम् अस्य काल प्रघातयितुं प्रविविक्ते तिष्ठतीति; ते तस्य सकाशं उपसङ्क्रम्य परिवार्य अवस्थिताः; आयुष्मान् शारिपुत्रः संलक्षयति: कीदृशेन चित्तेन एते मत्सकाशम् उपसङ्क्रान्ता इति; यावत् पश्यति वधकचित्तेन; तेनासौ लतावारिको निर्मित उत्सृष्टः; तेन ते ऽभिद्रुता गच्छत कर्म कुरुतेति; ते कथयन्ति: आर्य शारिपुत्र परित्रायस्व; स कथयति: आयुष्मन् गच्छ; विश्राम्यन्तु तावद् इति; ते संलक्षयन्ति: ईदृशो ऽस्त्य् अयं महात्मा; वयम् अस्य वधकचित्ताः; एषो ऽस्माकं मैत्रचित्तः इति विदित्वा अभिप्रसन्नाः; तत आयुष्मता ( स्ब्व् इ 177 ) शारिपुत्रेण तेषाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता ( अ 414ब् ) यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं
चोन्वेर्सिओन् ओf थे तीर्थ्यस्
ते दृष्टसत्याः कथयन्ति: लभेमहि वयं शारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेम वयं भदन्तशारिपुत्रस्यान्तिके ब्रह्मचर्यम् इति; ते आयुष्मता शारिपुत्रेण प्रव्राजिता उपसंपादिताः; अववादो दत्तः; तैर् युज्यमानैर्, घटमानैर्, व्यायच्छमानैर् इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशपरहाणाद् अर्हत्वं साक्षात्कृतम् इत्य् अर्हन्तः संवृत्ताः; त्रैधातुकवीतरागाः समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखाः सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश् च संवृत्ताः
चोन्स्त्रुच्तिओन् ओf विहारस्
तत्र आयुष्मता शरिपुत्रेण विहारसूत्रम् एकान्ते गृहीतम्; अनाथपिण्डदेनापि गृहपतिना एकान्ते गृहीतम्; आयुष्मान् शारिपुत्रः स्मितं प्राविष्कर्तुम् आरब्धः; अनाथपिण्डदो गृहपतिः कथयति: नाहेत्वप्रत्ययम् आर्यशारिपुत्र तथागता वा तथागतश्रावका वा स्मितं प्राविष्कुर्वन्ति; कः आर्यशारिपुत्र हेतुः? कः प्रत्ययः स्मितस्य प्राविष्करणाय? एवम् एतद् गृहपते, एवम् एतत्; नाहेत्वप्रत्ययं तथागता वा तथागतश्रावका वा स्मितं प्राविष्कुर्वन्ति; त्वया चेह सूत्रं गृहीतम्; तुषिते देवनिकाये सौवर्णं भवनम् अभिनिर्वृत्तम्; ततो ऽनाथपिण्डदो गृहपतिर् विस्मयोत्फुल्ललोचनः कथयति: आर्यशारिपुत्र यद्य् एवं, तेन हि पुनः सूत्रं प्रसारय भूयस्या मात्रया; चित्तम् अभिप्रसादयामीति; आयुष्मता शारिपुत्रेण तत् सूत्रम् गृहीतम्; अनाथपिण्डदेन गृहपतिना भूयस्या मात्रया तीव्रेण प्रसादवगेन चित्तम् अभिप्रसादितम्; येन प्रसादजातेन समनन्तरम् एव तत् सौवर्णं भवनं चतूरत्नमयं संवृत्तम्; आयुष्मता चास्य शारिपुत्रेण निवेदितम्; ततो ऽनाथपिण्डदेन गृहपतिना उत्तरोत्तरप्रवृद्धपुण्यसन्ततिना ( स्ब्व् इ 178 ) षोडशमहल्लिका विहारा मापिताः; षष्टिश् च कुटिकावस्तूनि; षोडशमहल्लिकान् विहारान् मापयित्वा षष्टिं च कुटिकावस्तूनि सर्वोपकरणैः पूरयित्वा येनायुष्मान् शारिपुत्रस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मन्तं शारिपुत्रम् इदम् अवोचत्: कियत्प्रमाणैर् आर्यशारिपुत्र प्रयाणकैर् भगवान् अध्वानं गच्छति; तद्यथा गृहपते राजा चक्रवर्ती; कियत्प्रमाणै राजा चक्रवर्ती; दशक्रोशकैर् गृहपते राजा चक्रवर्ती प्रयाणकैर् अध्वानं गच्छति; ततो ऽनाथपिण्डदेन गृहपतिना यावच् च श्रावस्ती यावच् च राजगृहम् अत्रान्तराद् वासकान् परिसङ्ख्याय परिक्रमणका मापिताः; दानशला कारिता; कालारोचकः पुरुषः स्थापितः; छत्रध्वजपताकाशोभिताश् चन्दनवारिपरिषिक्ताः सुरभिधूपघटिकोपनिबद्धास् तोरणाः कारिताः; कालिकानि यामिकानि च भैषज्यान्य् उपस्थापितानि
मेस्सेन्गेर् तो थे बुद्ध
ततः संभृतसंभारो ऽन्यतमं पुरुषम् आमन्त्रयते: एहि त्वं भोः पुरुष; येन भगवांस् तेनोपसङ्क्राम; उपसङ्क्रम्यास्माकं वचनेन भगवतः पादौ वन्दित्वा अल्पाबाधतां च पृच्छ अल्पातङ्कतां च, लघूत्थानतां च यात्रां च, बलं च, सुखं च अनवद्यतां ( अ 415अ ) च, स्पर्शविहारतं च; एवं च वद, आगच्छतु भगवान् श्रावस्तीम्; अहं भगवन्तम् उपस्थास्यामि यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन <इति>; एवम् आर्य इति स पुरुषो ऽनाथपिण्डदस्य गृहपतेः प्रतिश्रुत्य येन राजगृहं तेन सम्प्रस्थितं; अनुपूर्वेण राजगृहम् अनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्; एकान्तस्थितः स पुरुषो भगवन्तम् इदम् अवोचत्: अनाथपिण्डदो भदन्त गृहपतिर् भगवतः पादौ शिरसा वन्दते; पूर्ववद् यावत् स्पर्शविहारतां च; सुखी भवतु भोः पुरुष अनाथपिण्डदो गृहपतिस् त्वं च; अनाथपिण्डदो भदन्त गृहपतिर् एवम् आह: आगच्छतु भगवान् श्रावस्तीम्; अहं भगवन्तम् उपस्थास्यामि यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेनेति; अधिवासयति ( स्ब्व् इ 179 ) भगवांस् तस्य पुरुषस्य तूष्णींभावेन; अथ स पुरुषो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः
थे बुद्ध अर्रिवेस् अत् श्रावस्ती
ततो भगवान् दान्तो दान्तपरिवारः, शान्तो शान्तपरिवारः, मुक्तो मुक्तपरिवारः, आश्वस्त आश्वस्तपरिवारः, विनीतो विनीतपरिवारः, अर्हन्न् अर्हत्परिवारः, वीतरागो वीतरागपरिवारः, प्रासादिकः प्रासादिकपरिवारः, ऋषभ इव गोगणपरिवृतः, गज इव कलभपरिवृतः, सिंह इव दंष्ट्रिगणपरिवृतः, हंस इव हंसगणपरिवृतः, सुपर्णीव पक्षिगणपरिवृतो, विप्र इव शिष्यगणपरिवृतः, सुवैद्य इवातुरगणपरिवृतः, शूर इव योधगणपरिवृतो, दैशिक इवाध्व गगणपरिवृतः, सार्थवाह इव वणिग्गणपरिवृतः, श्रेष्ठीव परिजनपरिवृतः, कोट्टराज इव मन्त्रिगणपरिवृतः, चक्रवर्तीव पुत्रसहस्रपरिवृतः, चन्द्र इव नक्षत्रगणपरिवृतः, सूर्य इव रश्मिसहस्रपरिवृतः, धृतराष्ट्र इव गन्धर्वगणपरिवृतः, विरूढक इव कुम्भाण्डगणपरिवृतः, विरूपक्ष इव नागगणपरिवृतः, धनद इव यक्षगणपरिवातः, वेमचित्रीव असुरगणपरिवृतः, शक्र इव त्रिदशगणपरिवृतः, ब्रह्मेव ब्रह्मकायिकपरिवृतः, स्तिमित इव जलनिधिः, सजल इव जलधरः, विमद इव गजपतिः, सुदान्तैर् इन्द्रियैर् असंक्षोभितेर्यापथप्रचारः, द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतः, अशीत्या चानुव्यञ्जनैर् विराजितगात्रः, व्यामप्रभालङ्कृतमूर्तिः, सूर्यसहस्रातिरेकप्रभं, जङ्गम इव रत्नपर्वतः, समन्ततोभद्रको, दशभिर् बलैश्, चतुर्भिर् वैशारद्यैस्, त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च समन्वागतः, महता भिक्षुसङ्घेन, अनाथपिण्डदेन गृहपतिना श्रावस्तीनिवासिना च महाजनकायेन, अनेकैश् च देवताशतसहस्रैर् अनुगम्यमानः, ( अ 415ब् ) श्रावस्तीनगरीम् अनुप्राप्तः; यदा च भगवता श्रावस्तीं नगरीं ( स्ब्व् इ 180 ) प्रविशता साभिसंस्कारं नगरेन्द्रकीले दक्षिणः पादो न्यस्तः तदा षड्विकारः पृथिवीकम्पो जातः; इयं महापृथिवी चलति, संचलति, संप्रचलति; व्यथते, प्रव्यथते, संप्रव्यथते; पूर्वो दिग्भाग उन्नमति; पश्चिमो ऽवनमति; पश्चिम उन्नमति; पूर्वो ऽवनमति; दक्षिन उन्नमति; उत्तरो ऽवनमति; उत्तर उन्नमति; दक्षिणो ऽवनमति; अन्त उन्नमति; मध्यो ऽवनमति; मध्य उन्नमति; अन्तो ऽवनमति; सर्वश् चायं लोक उदारेण अवभासेन स्फुटः संवृत्तः सार्धं लोकान्तरिकाभिः; अन्तरीक्षे च देवदुन्दुभयस् तादिताः; गगनतलस्था देवता <भगवत> उपरिष्टाद् दिव्यान्य् उत्पलानि क्षेप्तुम् आरब्धाः; पद्मानि, कुमुदानि, पुण्डरीकाण्य्, अगरुचूर्णानि, तगरुचूर्णानि, चन्दनचूर्णानि, कुङ्कुमचूर्णानि, तमालपत्रानि, दिव्यानि च मान्दारकाणि पुष्पाणि <क्षिपन्ति> चैलविक्षेपांश् चाकार्षुः
एffएच्त्स् fएल्त् fओल्लोwइन्ग् बुद्धऽस् अर्रिवल्
भगवतः पुरप्रवेशे इमान्य् एवंविधाश्चर्याण्य् अभूवन्; अपराणि च; संक्षिप्तानि विशालीभवन्ति; नीचान्य् उच्चानि भवन्ति; उच्चानि समानि भवन्ति; हस्तिनः क्रौञ्चन्ति; अश्वा हेषन्ते; ऋषभा नर्दन्ति; गृहगतानि विविधानि वादित्रभाण्डानि स्वयम् नदन्ति; अन्धाश् चक्षुंषि प्रतिलभन्ते; बधिराः श्रोत्रम्; मूकाः प्रव्याहरणसमर्था भवन्ति; परिशिष्टेन्द्रियविकला इन्द्रियाणि प्रतिलभन्ते; मद्यमदाक्षिप्ता विमदीभवन्ति; विषपायिता निर्विषीभवन्ति; अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते; गुर्विण्यः स्वस्तिना प्रसूयन्ते; बन्धनबद्धा मुच्यन्ते; अधना धनानि प्रैलभन्ते; इमानि चान्यानि च भगवतः पुरप्रवेशे अद्भुतशतसहस्राणि प्रादुर्भवन्ति
थे जेतवन
ततो भगवान् एवंविधेन महता सत्कारेण श्रावस्तीं प्रविष्टः; प्रविश्य पुरस्ताद् भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषण्णः; अनाथपिण्डदो गृहपतिः सुहृत्संबन्धिबान्धवजनपरिवृतः सौवर्णं ( स्ब्व् इ 181 ) भृङ्गारम् आदाय वारिधारां पातयितुम् आरब्धः; सा न प्रपतति; अनाथपिण्डदो गृहपतिर् दुर्मनाः संलक्षयति: मा मया कानिचित् सापक्षालानि कर्माणि कृतानि स्युर् इति; भगवान् आह: न त्वया गृहपते कानिचित् सापक्षालाणि कर्माणि कृतानि; अपि त्व् एतस्मिन् प्रदेशे स्थितेन त्वया पूर्वकाणां सम्यक्संबुद्धानाम् अयम् एव प्रदेशो निर्यातितः; अन्यस्मिन् प्रदेशे स्थित्वा <पातय; तेनान्यस्मिन् प्रदेशे स्थित्वा> पातिता; भगवान् पञ्चाङ्गोपेतेन स्वरेण स्वयम् एव जेतवनम् उद्घोषयति; उद्घोष्यमाणे जेतवने जेतः कुमारः संलक्षयति: अहो बत भगवान् ममापि तत्प्रथमतो नामोद्ग्रहणं कुर्याद् इति; भगवता जेतस्य कुमारस्य चेतसा चित्तम् आज्ञाय तत्प्रथमतो नामोद्ग्रहनं कृतम्: इदं भिक्षवो जेतवनम् अनाथपिण्डददस्यारामः; इति श्रुत्वा जेतः कुमारो ऽतीव प्रसन्नः मम भगवता तत्प्रथमतो नामोद्ग्रहणं कृतम् इति; तत्प्रीतिप्रामोद्यजातेन तद् द्रव्यजातं भगवतो ऽर्थाय चतूरत्नमयं द्वारकोष्ठकं कारितम्; तथा सङ्गीतिकारैर् अपि स्थविरैस् सूत्रान्त उपनिबद्धम्: ( अ 416अ ) भगवान् श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे इति
किन्ग् प्रसेनजित् मेएत्स् थे बुद्ध
अश्रौषीद् राजा प्रसेनजित् कौशलः श्रमणो गौतमः कौशलेषु जनपदेषु चारिकां चरन् श्रावस्तीम् अनुप्राप्तः; श्रवस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; स खलु भगवान् गौतमो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीत्य् आत्मानं प्रतिजानीत इति; श्रुत्वा च पुनर् येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः; एकान्तनिषण्णो राजा प्रसेनजित् कौशलो भगवन्तम् इदम् अवोचत्: श्रुतं मे भो गौतम भवान् गौतमो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीत्य् आत्मानं प्रतिजानीत इति; ये ते भो गौतम एवम् आहुः कच्चित् ते एवं व्याकुर्वाणा, नो च भवन्तं गौतमम् अभ्याचक्षते, नातिसरन्ति; उक्तवादिनाश् च ते भवतो गौतमस्य <धर्मवादिनश् च धर्मस्य> चानुधर्मं व्याकुर्वन्ति? न च तेषां कश्चिद् आगच्छेत् परतः सहधर्मेण वादानुवादं गर्हास्थानीयो धर्मः; ये ते महाराज एवम् ( स्ब्व् इ 182 ) आहुस् तथ्यत एवं व्याकुर्वाणा नो च माम् अभ्याचक्षते, नातिसरन्ति; उक्तवादिनश् च ते धर्मवादिनश् च धर्मस्य चानुधर्मं व्याकुर्वन्ति; न च तेषां कश्चिद् आगच्छेत् परतः सहधर्मेण वादानुवादं गर्हास्थानीयो धर्मः; तत् कस्य हेतोर्? अहम् अस्मि महाराज अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः; किं चापि भवान् गौतम एवम् आह; अपि तु नाहं भवतो गौतमस्य श्रद्धादेयो गच्छामि; तत् कस्य हेतोर्? ये तावद् इमे, भो गौतम, वृद्धवृद्धाः, श्रमणब्राह्मणाः, तद्यथा पूरणः काश्यपो, मस्करी गोशलीपुत्रः, सञ्जयी वैरडीपुत्रः, अजितः केशकम्बलः, ककुदः कात्ययनो, निर्ग्रन्थो ज्ञातिपुत्रः, ते तावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा स्म इत्य् आत्मानं प्रतिजानते? कुतः पुनर् भवान् गौतमो दह्रश् च जात्या, नवकाश् च प्रव्रज्यया?
थे fओउर् स्मल्ल् ओनेस्
भगवान् आह: चत्वार इमे महाराज दह्रा नावमन्तव्याः; न परिभवितव्याः; कतमे चत्वारः? क्षत्रियो, महाराज, दह्रो नावमन्तव्यः, <दह्रो> न परिभवितव्यः; उरग, महाराज, दह्रो नावमन्तव्यः, दह्रो न परिभवितव्यः; अग्निर्, महाराज, स्तोको नावमन्तव्यः, स्तोको न परिभवितव्यः; भिक्षुर्, महाराज, दह्रो नावमन्तव्यः, दह्रो न परिभवितव्यः; तत् कस्य हेतोर्? धरश् चापि भिक्षुर् भवति अर्हन् महर्धिको; महानुभावः; इदम् अवोचत् भगवान्; इदम् उक्त्वा सुगतो ब्य् अथापरम् एतद् उवाच शास्ता:
क्षत्रियं व्यञ्जनोपेतम् अभिजातं यशस्विनम् ।
दह्रं तं नावजानीयान् नैनं परिभवेद् बुधः ॥
स्थानं हि रज्यते राजन् यद् राज्यं प्राप्य कोविदः ।
क्षत्रियो दण्डम् आदध्यात् तस्मात् तं प्रणमेत् भृशम् ॥
तस्मात् तं नावजानीयाद् रक्षन् जीवितम् आत्मनः ।
सम्यक् चैनं परिहरेत् संपश्यन्न् अर्थम् आत्मनः ॥
ग्रामे वा यदि वारण्ये यत्र पश्येद् भुजङ्गमम् । ( स्ब्व् इ 183 )
दह्रं तं नावजानीयान् नैनं परिभवेद् बुधः ॥
उच्चावचेषु वर्णेषु नागश् चरति हैषिणाम् ।
आसाद्य बालान् दहति नरान् नारीश् च नैकशः ॥
तस्मात् तं नावजानीयाद् रक्षन् जीवितम् आत्मनः ।
सम्यक् चैनं परिहरेत् संपश्यन्न् अर्थम् आत्मनः ॥
प्रभूतपक्षो ज्वलनः कृष्णवर्त्मा हुताशनः ।
स्तोकं तं नावजानीयान् ( अ 416ब् ) नैनं परिभवेद् बुधः ॥
स्तोकं भूत्वा बहुर् भवत्य् उपादानेन पावकः ।
तेजसा दहति क्षिप्रं ग्रामांश् च नगराणि च ॥
तस्मात् तं नावजानीयाद् रक्षन् जीवितम् आत्मनः ।
सम्यक् चैनं परिहरेत् संपश्यन्न् अर्थम् आत्मनः ॥
यम् अग्निर् दहते दावं ग्रामांश् च नगराणि च ।
जायन्ते पल्लवास् तत्र अहोरात्रान्वयाः क्वचित् ॥
यस् तर्हि शीलसंपन्नं भिक्षुम् आसाद्य दह्यते ।
न तस्य पुत्रा पौत्रा वा दायादं न स विन्दति ॥
न चिरात् तालमस्तकवद् उद्दायादा भवन्ति ते ।
तस्मात् तं नावजानीयाद् रक्षन् जीवितम् आत्मनः ॥
सम्यक् चैनं परिहरेत् संपश्यन्न् अर्थम् आत्मनः ।
क्षत्रियं व्यञ्जनोपेतम् उरगं पावकं तथ ॥
भिक्षुं च शीलसंपन्नं नैनान् परिभवेद् बुधः ॥
तस्मात् तान् नावजानीयाद् रक्षन् जीवितम् आत्मनः ।
सम्यक् चैनान् परिहरेत् संपश्यन्न् अर्थम् आत्मनः ॥
अथ राजा प्रसेनजित् कौशलो भगवतो भाषितम् अभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः
उदायिन् ब्रिन्ग्स् मेस्सगेस् fरोम् शुद्धोदन अन्द् हिस् ओwन् चोन्वेर्सिओन्
तत्र बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; राज्ञा प्रसेनजिता कौशलेन राज्ञः शुद्धोदनस्य ( स्ब्व् इ 184 ) लेखो ऽनुप्रेषितः: देव दिष्ट्या वर्धस्व; पुत्रेण ते अमृतम् अधिगतम्; अमृतेन जगत् सन्तर्पयति इति; श्रुत्वा राज्ञा शुद्धोदनेन दूतो ऽनुप्रेषितः; स तत्रैव प्रव्रजितः; द्वितीयो दूतो ऽनुप्रेषितः; सो ऽपि तत्रैव प्रव्रजितः; स्वाख्यातत्वाद् धर्मविनयस्य यं यं दूतम् अनुप्रेषयति, स तत्रैव प्रव्रजति; राजा करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: यं यम् एव दूतं प्रेषयामि स तत्रैव प्रव्रजति स्वाख्यातत्वाद् धर्मविनयस्य;
उदायिना दृष्ट उक्तश् च: देव कस्यार्थे त्वं करे कपोलं दत्वा चिन्तापरस् तिष्ठसीति; स कथयति: उदायिन् कथम् अहं न चिन्तापरो भवामि? यदा सर्वार्थसिद्धः कुमारो दुष्कराणि चरति तदाहं वृत्तान्तवाहकान् पुरुषान् प्रेषयामि; ते समागत्यारोचयन्ति; अनेन चानेन <च> विहारेण सर्वार्थसिद्धः कुमारो विहरतीति; इदानीम् अहं वृत्तान्तवाहकान् पुरुषान् प्रेषयामि न कश्चिद् वृत्तान्तं गृहीत्वा आगच्छति; उदायी कथयति: देव अहं गच्छामि; वृत्तान्तं गृहीत्वा आगमिष्यामीति; राजा शुद्धोदनः कथयति: उदायिन् यो गच्छति <स> शासनसंपत्तिं दृष्ट्वा तत्रैव तिष्ठति; स्थानम् एतद् विद्यते यत् त्वम् अपि तत्रैव गत्वा स्थास्यसीति; उदायी कथयति, देव आगमिष्यामीति; ततो रज्ञा शुद्धोदनेन स्वयम् एव लेखो लिखितः:
गर्भात् प्रभृत्य् उपादाय भवान् संवर्धितो मया ।
क्लेशाग्निसंप्रतप्तेन जिनवृक्षः प्ररोपितः ॥
तस्य ते ऽद्य विवृद्धस्य शिष्यशाखाप्रशाखिनः ।
अन्ये सुखेन मोदन्ते वयं दुःखस्य भागिनः ॥
येनासि वृक्षक इवाङ्कुरमात्रपक्षः
संवर्धितो शिशुर् अपत्यम् इदं ममेति ।
प्राप्ते तनूज विषयस्य फलोपभोगे
तस्मिन् गुणैर् अफलतो न तवास्ति दैन्यम् ॥
यदासि प्रथमं जात प्रतिज्ञातं तदा त्वया ।
कृत्वा स्वकार्यं सुमहत् करिष्ये ज्ञात्यनुग्रहम् ॥ ( स्ब्व् इ 185 )
तत् ते ऽवाप्तं पदं ( अ 417अ ) शान्तं कुरुष्वागमने मतिम् ।
अनुकम्पाम् उपादाय मम ज्ञातिगणस्य च ॥
उदायी लेखं गृहीत्वा सप्तमे दिवसे श्रावस्तीम् अनुप्राप्तः; मार्गश्रमं प्रतिविनोद्य भगवत्सकाशं उपसङ्क्रान्तः; उपसङ्क्रम्य लेखम् उपनामयति: भगवन् राज्ञा शुद्धोदनेन लेखो ऽनुप्रेषित इति; भगवता स्वयम् एव गृहीत्वा वाचितः; वाचयित्वा लेख एकान्ते स्थापितः; उदायी कथयति: किं भगवान् गमिष्यति कपिलवस्त्व् इति; भगवान् कथयति; गमिष्याम्य् उदायिन्न् इति; उदायी भगवतः पूर्वम् अतीव कृतप्रणयः; स तेनैव पूर्वकेण प्रणयेन कथयति: यदि भवान् न गमिष्यति, अहं बलान् नेष्यामीति; अथ भगवान् अस्याम् उत्पत्तौ गाथा भाषते:
यस्य जालिनी विषक्तिका तृष्णा न क्वचिद् अस्ति नेत्रिका ।
तं बुद्धम् अनन्तगोचरम् अपदं केन पदेन नेष्यसि ॥
यस्य जालिनी विषक्तिका तृष्णा न क्वचिद् अस्ति नेत्रिका ।
तं बुद्धम् अनन्तगोचरम् अपदं केन पदेन नेष्यसि ॥
यस्य जितं नोपचीयते जितम् अस्य नान्वेति कथंचिद् एव ।
तं बुद्धम् अनन्तगोचरम् अपदं केन पदेन नेष्यसि ॥
यस्य जितं नोपचीयते जितम् अस्य नान्वेति कथंचिद् एव ।
तं बुद्धम् अनन्तगोचरम् अपदं केन पदेन नेष्यसि ॥
स उत्तरे प्रतिभानम् अलभमानः कथयति: भगवन् गच्छामि; राज्ञः शुद्धोदनस्य कथयामीति; उदायिन्न् एवंविधा बुद्धदूता भवन्ति; उदायी कथयति, भगवन् कीदृशा भवन्ति; प्रव्रजिताः; त्वम् अपि प्रव्रजेति; भगवन् मया राज्ञः शुद्धोदनस्य प्रतिज्ञातम् आगमिष्यामीति; भगवान् आह: उदायिन् यथाप्रतिज्ञातं कुरु; प्रव्रजित्वा गच्छ; तथा हि भगवता बोधिसत्वभूतेन मातापित्रोर् आचार्योपाध्यायानां गुरूणां गुरुस्थानीयानां च धर्म्या आज्ञा न कदाचित् प्रतिव्यूढपूर्वा; उदायी कथयति: भगवन् यद्य् एवं प्रव्रजामीति
उदायिन् मदे अ मोन्क्
तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते: प्रव्राजय शारिपुत्र उदायिनम्; तदास्य भविष्यति दीर्घरात्रम् अर्थाय हिताय ( स्ब्व् इ 186 ) सुखायेति; एवं भदन्त इत्य् आयुष्मान् शारिपुत्रो भगवतः प्रतिश्रुत्य उदायिनं प्रव्राजितः उपसंपादितं; विस्तरेण चास्य आसमुदाचारिकम् आरोचितम् इदं ते करणीयम् इति; अद्याग्रेण ते उदायिन् मातृग्रामेण सार्धम् एकागारे शय्या न कल्पयितव्येति; एवं भदन्तेत्य् उदायी आयुष्मतः शारिपुत्रस्य पादौ शिरसा वन्दित्वा प्रक्रान्तः; येन भगवांस् तेन उपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् इदम् अवोचत्: भगवन् कपिलवस्तु गमिष्यामीति
इन्स्त्रुच्तिओन्स् तो उदायिन्
भगवान् आह: उदायिन् गच्छ; न ते सहसैव राजकुलं प्रवेष्टव्यम्; द्वारे स्थित्वा वक्तव्यम्, शाक्यभिक्षुर् आगत इति; यदि कथयन्ति प्रविशेति, प्रवेष्टव्यम्; प्रविष्टस्य यदि कथयन्ति, सन्त्य् अन्ये ऽपि शाक्यभिक्षव इति, वक्तव्यं सन्तीति; यदि कथयन्ति सर्वार्थसिद्धस्यापि कुमारस्य एवंविध एव वेष इति, वक्तव्यम् एवंविध एवेति; न च ते राजकुले वस्तव्यम्; यदि कथयन्ति सर्वार्थसिद्धः कुमारो राजकुले वासं न कल्पयतीति; वक्तव्यः, न कल्पयतीति; यदि पृच्छन्ति कुत्र वासं कल्पयतीति, वक्तव्यम् अरण्ये विहारे वा; यदि पृच्छन्ति क एवंविधो विहार इति, जेतवनाकारेण लिखित्वा दर्शयितव्यम्; यदि पृच्छन्ति, आगमिष्यति सर्वार्थसिद्धः कुमार इति, वक्तव्यम् ( अ 417ब् ) आगमिष्यति; कियच्चिरेण? सप्ताहस्यात्ययद् इति
उदायिन् रेतुर्न्स्
स कथयति: भगवन् गच्छामीति; भगवान् आह: गच्छेति; वचसा महीपतीनां समृद्ध्यति, चित्तेन देवानां, चित्तोत्पादेन तथा समृद्ध्यति ध्यायिनां सर्वम् इति, स भगवता तथाधिष्ठितो यथायुष्मान् उदायी तत्क्षणाद् एव कपिलवस्तु नगरं गतः; आयुष्मत उदायिनः भगवतो ऽन्तिके तीव्रः प्रसादो जातः; स राजकुलद्वारे स्थित्वा कथयति, भवन्त राज्ञो निवेदयत शाक्यभिक्षुर् आगत इति, ते कथयन्ति: किम् अन्ये ऽपि सन्ति शाक्यभिक्षवः; भवन्तः सन्ति; तै राज्ञो निवेदितं, शाक्यभिक्षुर् आगत इति; राजा कथयति: ( स्ब्व् इ 187 ) प्रविशतु; स प्रविष्टः; राज्ञा शुद्धोदनेन दृष्ट उक्तश् च; उदायिन् प्रव्रजितो ऽसि? <देव> प्रव्रजितो ऽस्मि; ननु भवताभिहितम् आगमिष्यामीति, तत् कथम् एतत्; उदायी कथयति; देव उक्तं भगवता नेदृशा बुद्धदूता भवन्तीति; सो ऽहं स्वाख्यातत्वाद् धर्मविनयस्य प्रव्रजितं; अपि त्व् अहं स्वश्रद्धया प्रव्रजितः; राज्ञा सर्वाङ्गैर् अनुपरिष्वज्य प्रज्ञप्त एवासने निषादितः; तदर्थं च पानीयं परिस्रावितम्; मूलफलानि कल्पितानि; शुचिनाहारेण भोजितः; आयुष्मता उदायिना परमोपशमदमस्थितियुक्तेन यथानुशासनीविधानेन परिभुक्तम्; राजा तम् उपलक्ष्य विस्मयम् आपन्नः कथयति: किं कुमारस्याप्य् एवंविध उपशमः? उदायी कथयति: देव अल्पमात्रं ममोपशमं; यथाकथं सुमेरुसर्षपवत्, समुद्रगोष्पदवत्, आदित्यखद्योतवत्, आकाशविवरवत्; राजा शुद्धोदनः कथयति: उदायिन् सर्वार्थसिद्धस्यापि कुमारस्य एवंविध एव वेषः? एवंविधः; श्रुत्वा राजा शुद्धोदनः मूर्छितः पृथिव्यां निपतितो महता जलप्रक्षेपेण प्रत्यागतप्राणः कथयति: उदायिन् आग्मिष्यति सर्वार्थसिद्दः कुमार इति; उदायी कथयति, आगमिष्यति: कियच्चिरेण? सप्ताहस्यात्ययात्; राजा शुद्धोदनः अमात्यान् आमन्त्रयते; भवन्तो राजकुलं शोधयत, अन्तःपुराणी च; सर्वार्थसिद्धः कुमारा आगमिष्यतीति; उदायी कथयति: देव न भगवान् अन्तःपुरे वासं कल्पयति; राजा कथयति: कुत्र वासं कल्पयति? उदायी कथयत्य् अरण्ये विहारे वा; राजा कथयति: क एवंविधो विहार इति; आयुष्मता उदायिना जेतवनाकारेण लिखित्वा दर्शितः; ततो राजा अमात्या आमन्त्रयते; भवन्तो न्यग्रोधारामे जेतवनाकारेण षोदशमहल्लकान् विहारान् मापयत; षष्टिं च कुटिकावस्तूनि; एवं देवेत्य् अमात्या राज्ञः प्रतिश्रुत्य न्यग्रोधारामे जेतवनाकारेण षोडशमहल्लकान् विहारान् मापिताः; षष्टिं च कुटिकावस्तुनि
थे बुद्ध लेअवेस् fओर् कपिलवस्तु
तत्र भगवान् आयुष्मन्तं महामुद्गल्यायनम् आमन्त्रयते: गच्छ मौद्गल्यायन भिक्षूणाम् आरोचय, भगवान् कपिलवस्तु संप्रस्थितः; यो युष्माकम् उत्सहते पितापुत्रसमागमं द्रष्टुं स चीवराणि प्रतिगृह्णातु; एवं भदन्तेत्य् आयुष्मान् महामौद्गल्यायनो ( स्ब्व् इ 188 ) भगवतः प्रतिश्रुत्य भिक्षूणाम् आरोचयति: भगवान् आयुष्मन्तः कपिलवस्तु गमिष्यति; यो युष्माकम् उत्सहते पितापुत्रसमागमं द्रष्टुं स चीवरकाणि प्रतिगृह्णात्व् इति; ततो भगवान् दान्तो दान्तपरिवारः शन्तो शान्तपरिवारः, मुक्तो मुक्तपरिवारः, आश्वस्त आश्वस्तपरिवारः, विनीतो विनीतपरिवारः, अर्हन्न् अर्हत्परिवारः, वीतरागो वीतरागपरिवारः, प्रासादिकः प्रासादिकपरिवारः, ऋषभ इव गोगणपरिवृतः, गज इव कलभपरिवृतः, सिंह इव दंष्ट्रिगणपरिवृतः, हंस इव हंसगणपरिवृतः, सुपर्णीव पक्षिगणपरिवृतो, विप्र इव शिष्यगणपरिवृतः, सुवैद्य इवातुरगणपरिवृतः, शूर इव योधगणपरिवृतो, दैशिक इवाध्व गगणपरिवृतः, सार्थवाह इव वणिग्गणपरिवृतः, श्रेष्ठीव परिजनपरिवृतः, कोट्टराज इव मन्त्रिगणपरिवृतः, चक्रवर्तीव पुत्रसहस्रपरिवृतः, चन्द्र इव नक्षत्रगणपरिवृतः, सूर्य इव रश्मिसहस्रपरिवृतः, धृतराष्ट्र इव गन्धर्वगणपरिवृतः, विरूढक इव कुम्भाण्डगणपरिवृतः, विरूपक्ष इव नागगणपरिवृतः, धनद इव यक्षगणपरिवातः, वेमचित्रीव असुरगणपरिवृतः, शक्र इव त्रिदशगणपरिवृतः, ब्रह्मेव ब्रह्मकायिकपरिवृतः, स्तिमित इव जलनिधिः, सजल इव जलधरः, विमद इव गजपतिः, सुदान्तैर् इन्द्रियैर् असंक्षोभितेर्यापथप्रचारः, द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतः, अशीत्या चानुव्यञ्जनैर् विराजितगात्रः, व्यामप्रभालङ्कृतमूर्तिः, सूर्यसहस्रातिरेकप्रभं, जङ्गम इव रत्नपर्वतः, समन्ततोभद्रको, दशभिर् बलैश्, चतुर्भिर् वैशारद्यैस्, त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च समन्वागतो, <महता> भिक्षुसङ्घेन सार्धं रोहकाम् अनुप्राप्तह्; अश्रौषीद् राजा शुद्धोदनः सर्वार्थसिद्धः कुमारो रोहकां नदीम् अनुप्राप्त इति; श्रुत्वा च पुनः राज्ञा शुद्धोदनेन कपिलवस्तुनगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितम्; चन्दनवारिपरिषिक्तं विविधसुरभिधूपघटिकासमलङ्कृतम्, आमुक्तपट्टदामकलापम्, यावच् च रोहका नदी यावच् च न्यग्रोधाराम अत्रान्तरान् महती मार्गशोभा कारिता; विस्तीर्णावकाशे पृथिवीप्रदेशे आसनप्रज्ञप्तिर् विचित्रा कारिता; तत्र रोहकायां नद्यां केचिद् भिक्षवो हस्तौ निर्मर्दयन्ति; केचिद् दन्तकाष्ठं विसर्जयन्ति; केचित् स्नान्ति; कापिलवास्तवैः शाक्यैः श्रुतं, सर्वार्थसिद्धः कुमार आगत इति; श्रुत्वा च पुनः सर्वे न्यग्रोधारामं निर्गताः; केचित् पूर्वकैः कुशलमूलैः सञ्चोद्यमानाः, केचित् कृतकुतूहलजाताः ज्ञास्यमः किं पिता पुत्रस्य पादाभिवन्दनं करोति, आहोस्वित् पुत्रः पितुर् इति; अथ भगवत एतद् अभवत्: सचेद् अहं कपिलवस्तु पद्भ्यां प्रवेक्ष्यामि मानिनः शाक्या अप्रसादं प्रवेदयिष्यन्ते: प्रभूतं च सर्वार्थसिद्धेन कुमारेण तपोवनं गत्वावाप्तम्; यो हि नामानेकैर् देवताशतसहस्रैर् अनुगम्यमान उपैर् विहायसा निष्क्रम्य इयन्तं कालं दुष्करशतसहस्राणि चरित्वा अमृतम् अधिगम्य इदानीं पद्भ्यां प्रविष्ट इति
मगिचल् एxप्लोइत्स्
अथ भगवांस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते पूर्वस्यां दिश्य् उपरि विहायसम् अभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति; तद्यथा चङ्क्रम्यते, तिष्ठति, निषीदति, शय्यां कल्पयति, तेजोधातुम् अपि समापद्यते; तेजोधातुसमापन्नस्य भगवतो बुद्धस्य विविधान्य् अर्चींषि कायान् निश्चरन्ति, नीलानि, पीतानि, लोहितान्य्, अवदातानि, माञ्जिष्ठानि, स्फटिकवर्णानि; यमकान्य् अपि प्रातिहार्याणि विदर्शयति; अधःकायः प्रज्वलति; उपरिमात् कायाच् छीतला वारिधारा स्यन्दन्ते; उपरिमः कायः प्रज्वलति; अधःकायाच् छीतला वारिधारा स्यन्दन्ते; यथा पूर्वस्यां दिश्य् एवं दक्षिणस्यां पश्चिमायाम्, उत्तरस्यां दिशीति चतुर्दिशं चतुर्विधम् ऋद्धिप्रातिहार्यं ( स्ब्व् इ 189 ) विदर्श्य तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य सप्ततालमात्रे ऽवस्थितः, <सप्ततालमात्रे> भिक्षवः, षट्सु भगवान्, षट्सु भिक्षवः; पञ्चसु भगवान्, अपि पञ्चसु भिक्षवः; चतुर्षु भगवान्, अपि चतुर्षु भिक्षवः; त्रिषु भगवान्, अपि त्रिषु भिक्षवः; द्वयोर् भगवांश्, द्वयोः भिक्षवः; तालमात्रे भगवांस्, तालमात्रे भिक्षवः; सप्तपौरुषे व्यवस्थितो भगवान्, सप्तपौरुषा भिक्षवः; षट्सु भगवान्, षट्सु भिक्ष्वः; पञ्चसु भगवान्, पञ्चसु भिक्षवः; चतुर्षु भगवान्, चतुर्षु भिक्षवः; त्रिषु भगवान्, त्रिषु भिक्षवः; द्वयोर् भगवान्, द्वयोर् भिक्षवः; साधिकपौरुषे <भगवान्, साधिकपौरुषे> भिक्षवः; पृथिव्यां राज्ञः शुद्धोदनस्य तथाविधं प्रातिहार्यं दृष्ट्वा भिक्षुत्वं च संमोहो जातः; न जानीते कतरो ऽत्र भगवान् इति; तत आयुष्मन्तम् उदायिनम् आमन्त्रयते: उदायिन् बहवो ऽत्र काषायवाससः प्रव्रजिताः; कतरः कुमारः? आयुष्मान् उदायी भगवन्तम् उपदर्शयन्न् आह:
एषो ऽसौ भगवान् भवान्तकरणश् चित्तेश्वरो नायकः
एष क्लेशनिषूदनो दिनकरस् तत्वार्थसन्दर्शकः ।
एष प्राप्तमनोरथो दशबलः सर्वत्र पारङ्गतः
पुत्रस् ते नृपते विभाति विमलः पश्याद्य धर्मेश्वरः ॥
अथ राजा शुद्धोदनस् तथागतस्यावनमत्कायेन पादाभिवन्दनं करोति; गाथां भाषते:
इदं तृतीयं तव भूरिबुद्धे
पादौ नमस्यामि समन्तचक्षोः ।
उत्पद्यमानस्य मही प्रकम्पिता
जम्ब्वाश् च छाया न जहाति कायम् ॥ ( स्ब्व् इ 190 )
ततः शाक्याः शाक्यायनिकाश् च राजानं शुद्धोदनं भगवतः पादयोर् निपतितं दृष्ट्वा अप्रसादं प्रवेदयन्ते: कथम् इदानीं पिता पुत्रस्य पादाभिवन्दनं करोतीति; राजा शुद्धोदनः शाक्यान् शाक्यायनिकाश् च संज्ञापयन्न् एवम् आह: न मया भवन्त इदानीं सर्वार्थसिद्धस्य कुमारस्य पादाभिवन्दनं कृतम्; यदापि सर्वार्थसिद्धस्य कुमारस्य जन्मनि महान् पृथिवीचालो ऽभूत् सर्वश् चायं लोक उदारेणावभासेन स्फुटो ऽभूत्; या अपि ता लोकस्य लोकान्तरिका अन्धास् तमसो ऽन्धकारतामिस्रा यत्रेमौ सूर्यचन्द्रमसौ एवंमहर्धिकाव् एवंमहानुभावाव् आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा अभूवन्; तत्र ये सत्वा उपपन्नास् ते तया आभया अन्योन्यं सत्वं दृष्ट्वा संजानते अन्ये ऽपीह भवन्तस् ( अ 419अ ) सत्वा उपपन्ना अन्ये ऽपीह भवन्तस् सत्वा उपपन्ना इति; तदापि मया बोधिसत्वस्य भगवतः पादाभिवन्दनं कृतम्; यदापि सर्वार्थसिद्धं कुमारो मम कर्मान्तान् अनुसंयान् जम्बूछायायां निषद्य विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखम् अनास्रवसदृशं प्रथमं ध्यानम् उपसंपद्य विहरति, अन्येषां च वृक्षाणां छाया प्राचीननिम्ना <प्राचीनप्रवणा> प्राचीनप्राग्भारा, जम्बूच्छाया बोधिसत्वस्य कायं न विजहाति, तदापि मया तदाश्चर्याद्भुतधर्मावर्जितमतिना भूयो भगवतः पादौ शिरसा वन्दितौ; इदानीं त्रिर् अपि भगवतः पादौ वन्दे यतः एवं वदामि
इदं तृतीयं तव भूरिबुद्धे
पादौ नमस्यामि समन्तचक्षोः ।
उत्पद्यमानस्य मही प्रकम्पिता
जम्ब्वाश् च छाया न जहाति कायम् ॥ इति;
अथ भगवान् तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य अनेकशतसहस्रां पर्षदम् अभ्यवगाह्य पुरस्ताद् भिक्षुसण्घस्य प्रज्ञप्त एवासने निषण्णः
शुद्धोदनऽस् qउएस्तिओन्स् अन्द् बुद्धऽस् रेप्लिएस्
अथ राजा शुद्धोदनः बाष्पोपरुद्ध्यमानहृदयो ऽश्रुपर्याकुलेक्षणो भगवन्तम् गाथाभिर् गीतेन प्रश्नं पृच्छति: ( स्ब्व् इ 191 )
भवनेषु महार्हेषु वसित्वा पैतृके गृहे ।
सभयेषु अरण्येषु एकाकी वससे कथम् ॥
भगवान् आह:
आर्यावासेषु दशसु वसामि मनुजाधिप ।
वसन्ति मुनयो यत्र निर्मुक्ता गृहबन्धनात् ॥
राजा प्राह:
दन्तकाञ्चनपादेषु आस्तीर्णेषु सुखेषु च ।
पर्यङ्केषु शयित्वाथ संस्तरे शयसे कथम् ॥
भगवान् आह:
विमुक्तिशयने रम्ये बोध्यङ्गकुसुमाकुले ।
राजन् स्वपिमि निःसङ्गः परिदाहविवर्जितः ॥
राजा प्राह:
हस्त्यश्वरथयानेन गत्वा वीर स्वके गृहे ॥
सकण्टकां वसुमतीं पद्भ्याम् आक्रमसे कथम् ॥
भगवान् उवचा:
ऋद्धिपादरथेनाहं सम्यग्व्यायामदायिना।
विचरामि महीं कृत्स्नाम् अक्षतः क्लेशकण्टकैः ॥
राजा शुद्धोदनः प्राह:
प्रावृतः काशिकैर् वस्त्रैः पूर्वं वीर विराजसे ।
काषायपरुषं वासं कथं वहति ते तनुः ॥
भगवान् आह:
ह्रीवस्त्रं मम सङ्घाटी राजन् प्रावरणं मम ।
प्रावृता येन शोभन्ते शान्ते हि मुनयो वने ॥
राजा शुद्धोदनः प्राह:
पुरा हि त्वं काञ्चनभाजनस्थं
शाल्योदनं नैकरसोपपन्नम् । ( स्ब्व् इ 192 )
भुक्त्वा विभो पिण्डपातं हि भुङ्क्षे
लूहं कथं कण्ठम् उपैति ते ऽद्य ॥
भगवान् आह:
अग्रं हि मे धर्मरसेन भोज्यम्
नैष्क्रम्ययुक्तस्य समाहितस्य ।
आहारतृष्णां हि विहाय सर्वां
लोकानुकम्पार्थम् अहं चरामि ॥
राजा प्राह:
मृद्वीकाशर्करारसं पीत्वा कण्ठसुखं बहु ।
कथं पिबसि तोयानि तप्तानि कलुषाणि च ॥
भगवान् आह:
अहं धर्मरसं सुख्यं पिबामि मनुजाधिप ।
यं पीत्वा सर्वपानानि विषवत् प्रतिभान्ति मे ॥
राजा शुद्धोदनः प्राह:
पुरा हि त्वं हर्म्यविमानवासी
प्रासादपृष्ठेषु यथार्तवेषु ।
एकाकिनस् ते वसतो वने ऽद्य
कथं भयं नाविशते सुबुद्धे ॥
भगवान् आह:
यद् गौतमा सर्वभयस्य मूलं
ते मे मलाः सानुशयाः प्रहीणाः ॥
सो ऽहं विशोको ह्य् अभयं वसामि
न मे भयं स्वल्पम् अपीह किंचित् ॥
राजा शुद्धोदनः प्राह:
पुरा हि त्वं स्नानगृहे सुरम्ये
स्नातः सदा स्नानवरैर् विशिष्टैः ।
एकाकिनं त्वा वनवासयुक्तम्
इहाद्य कः स्नापयते मुनीन्द्रः ॥
भगवान् आह: ( स्ब्व् इ 193 )
धर्मो ह्रदो गौतम शीलतीर्थो ह्य्
अनाविलस् सद्भिर् अपि प्रशस्तः ।
स्नात्वा यस्मिन् वेदगुणैर् मनुष्या
अनार्द्रगात्राः प्रतरन्ति पारम् ॥
राजा शुद्धोदनः प्राह:
सौवर्णराजतैः कुम्भैर्
स्नात्वा वीर स्वके गृहे ।
कथं स्नायसि तोयेषु
तप्तेषु कलुषेषु च ॥
भगवान् आह:
शुद्धा नदी गौतम पुण्यतीर्था
ह्य् अनाविल सद्भिर् अपि प्रशस्ता ।
स्नात्वा यस्यां वेदगुणैर् मनुष्या
अनार्द्रगात्राः प्रतरन्ति पारम् ॥
राजा शुद्धोदनः प्राह:
हरिचन्दनलिप्ताङ्गः काशिकोत्तमसंवृतः ।
शोभसे त्वं पुरा वीर तैर् वियुक्तो न शोभसे ॥
भगवान् आह:
शीलम् आभरणं ह्य् अग्र्यं शीलम् इवानुलेपनम् ।
किं ममोन्मादजनकैः सुवर्णमणिकुण्डलैः ॥
राजा शुद्धोदनः प्राह:
कुतः परिभवो जातः कुतश् च भवभीरुता ।
निर्वेदो वा यतो जातः पृष्ट आचक्ष्व तन् मम ॥
भगवान् आह:
यतः परिभवो मह्यं यतश् च भवभीरता ।
निर्वेदो वा यतो जातः शृणु त्वं कथयामि ते ॥
जरा व्याधिश् च मृत्युश् च यदि न स्याद् इदं त्रयम् ।
ममापि सुमनोज्ञेषु विषयेषु रतिर् भवेत् ॥
राजा शुद्धोदनः प्राह: ( स्ब्व् इ 194 )
साधु वीर सुजातो ऽसि शाक्यानां कुलनन्दनः ।
अष्टाभिर् लोकदर्मैस् त्वं यद् एवं नोपलिप्यसे ॥
ततः प्रहृष्टो विकसत्प्रसाद<ः>
प्रदक्षिणं सङ्घम् ऋषिं च कृत्वा ।
मुनीन्द्रपादौ शीरसा प्रणम्य
स्थितः समन्तात् सुगतं निरीक्ष्य ॥
अथ राज्ञः शुद्धोदनस्य एतद् अभवत्: लाभा मे सुलब्धा यस्य मे पुत्रेण एवंविधा गुणगणा अधिगताः
चोन्वेर्सिओन् ओf थे शाक्यस्
ततो भगवता न्यग्रोधारामे तस्याः पर्षदः आशयानुशयं धातुं प्रकृतिं च ञात्वा तादृशी धर्मदेशना कृता यां श्रुत्वा शुद्धोदनप्रमुखैः सप्तसप्तत्या शाक्यसहस्रैः स्रोतआपत्तिफलं साक्षात्कृतं स्थापयित्वा राजानं शुद्धोदनं; देवदत्तः पापेच्छो मनाभिमानी; तेन सत्यदर्शनं न कृतम्; स क्रोधपर्यवस्थितः कथयति: यन्व् अहम् अपीदृशीम् अन्वावर्तनीं मायां जानीयाम्; अहम् अपि सर्वं लोकम् अन्वावर्तयेयम् इति; स कृतप्रणयसौमुख्यैः शाक्यैर् अभिहितः, अलं देवदत्त मा मैवं वोचः; महर्धिको भगवान् महानुभाव इति; स तूष्णीम् अवस्थितः; ब्रह्मावर्ते उद्याने तथाविधो धर्मो देशितः यं श्रुत्वा द्रोणोदनप्रमुखैः षट्सप्तत्या शाक्यसहस्रैः स्रोतआपत्तिफलं साक्षात्कृतं स्थापयित्वा राजानं शुद्धोदनं; देवदत्तस् तथैव परिभाषते; रोहीतके उद्याने तथाविधो धर्मो देशितो यं श्रुत्वा अमृतोदनप्रमुखैः पञ्चसप्तत्या शाक्यसहस्रैः स्रोतआपत्तिफलं साक्षात्कृतं स्थापयित्वा राजानं शुद्धोदनं; देवदत्तस् तथैव परिभाषते; अवशिष्टायाः पर्षदः कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि; कैश्चित् प्रत्येकायां बोखौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ; कैश्चित् स्रोतआपत्तिफलं साक्षात्कृतम्; कैश्चित् सकृदागामिफलम्; कैश्चिद् अनागामिफलम्; कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् ( स्ब्व् इ 195 ) अर्हत्वं ( अ 420अ ) साक्षात्कृतम्; केचिद् बुद्धं शरणं गताः; केचिद् धर्मम्; केचित् सङ्घम्; यद्भूयसा सा परिषद् बुद्धनिम्ना धर्मप्रवणा सङ्घप्राग्भारा व्यवस्थापिता
थे प्रिदे ओf शुद्धोदन
अथ राज्ञः शुद्धोदनस्य एतद् अभवत्; पूर्वं भगवान् ससुरासुरस्य जगतः पूज्यश् चाभून् मान्यश् चाभूद् अभिवाद्यश् च; इदानीं मनुष्यपूजितो न देवपूजित इति; अथान्यतमः शाक्यकुमारो गाथां भाषते:
सन्तर्पितेयं जनता महर्षे
सद्धर्मवृष्ट्या वदतां वरेण ।
उद्धृत्य घोराद् विनिपातमार्गात्
लोको ऽह्य् अयं मोक्षपथे नियुक्तः ॥ इति;
राजा शुद्धोदनः अतिहर्षात् सत्यानि न पश्यति, ममैव एकस्य पुत्र एवंमहर्धिको महानुभाव इति; भगवान् संलक्षयति: किं कारणं राजा शुद्धोदनः सत्यानि न पश्यति; तस्यैतद् अभवत्; अतिहर्षेण ममैवैकस्य पुत्र एवंमहर्धिक एवंमहानुभाव इति; सर्वथा मदापनयो ऽस्य कर्तव्य इति; द्वाभ्यां कारणाभ्यां सत्यानि न दृश्यन्ते अतिलीनतया औद्बिल्येन च; तद् अस्य लीनं चित्तम् औद्बिल्यं च; यन्व् अहम् अस्य लीनां सन्ततिम् अपनयेयम् औद्बिल्यं चेति; तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: समन्वाहर मौद्गल्यायन राजानं शुद्धोदनम्; एवं भदन्तेत्य् आयुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य येन राजा शुद्धोदनस् तेनोपसङ्क्रान्तः; अद्राक्षीद् राजा शुद्धोदनः आयुष्मन्तं महामौद्गल्यायनम् दूराद् एव; दृष्ट्वा च पुनर् आयुष्मन्तम् महामौद्गल्यायनम् इदम् अवोचत्: एतु भदन्त महामौद्गल्यायन, स्वागतं भवते महामौद्गल्यायनाय; निषीदतु भदन्त महामौद्गल्यायनः प्रज्ञप्त एवासने; निषण्णः आयुष्मान् महामौद्गल्यायनः प्रज्ञप्त एवासने
अथायुष्मान् महामौद्गल्यायनस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वे आसने ऽन्तर्हितः पूर्वस्यां दिश्य् उपरि विहायसम् अभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति; तद्यथा चाङ्क्रम्यते, तिष्ठति, निषीदति, शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; ( स्ब्व् इ 196 ) तेजोधातुसमापन्नस्य आयुष्मतो महामौद्गल्यायनस्य विविधान्य् अर्चींषि कायान् निश्चरन्ति; तद्यथा नीलानि पीतानि लोहितान्य् अवदातानि माञ्जिष्ठानि स्फटिकवर्णानि; यमकान्य् अपि प्रातिहार्याणि विदर्शयति; अधः कायः प्रज्वलति; उपरिमात् कायाच् छीतला वारिधारा स्यन्दन्ते; उपरिमः कायः प्रज्वलति; अधःकायाच् छीतला वारिधारा स्यन्दन्ते; यथा पूर्वस्यां दिश्य् एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां दिशीति चतुर्दिशं चतुर्विधम् ऋद्धिप्रातिहार्यं विदर्श्य तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः
अथ राजा शुद्धोदनः आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्: सन्ति महामौद्गल्यायन अन्ये ऽपि भगवतः श्रावका एवंमहर्धिका एवंमहानुभावा इति; सन्ति महाराज; गाथां च भाषते:
महानुभावास् त्रैविद्याश् चेतःपर्याककोविदाः ।
क्षीणास्रवास् तथार्हन्तो बहवः श्रावका मुनेः ॥
अथ राज्ञः शुद्धोदनस्य एतद् अभवत्: न खलु ममैव एकस्य पुत्र एवंमहर्धिक एवंमहानुभावः; अपि तु सन्त्य् अन्ये ऽपि प्रव्रजिता एवंमहर्धिका ( अ 420ब् ) एवंमहानुभावा इति; तस्य यद् औद्बिल्यम् अभूत् तत् प्रतिविगतम्; अत्रान्तरे भगवता लौकिकं चित्तम् उत्पादितम्: अहो बत शक्रब्रह्मादयो देवा आगच्छेयुः; शुद्धायां देवपर्षदि धर्मं देशयेयम् इति; धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकं चित्तम् उत्पादयन्ति तदा कुन्तपिपीलका अपि प्राणिनस् तस्मिन् समये भगवतश् चेतसा चित्तम् आजानन्ति; प्राग् एव शक्रब्रह्मादयो देवाः; यस्मिंस् तु समये लोकोत्तरं चित्तम् उत्पादयन्ति तस्मिन् समये महाश्रावका अपि भगवतश् चेतसा चित्तं नाजानन्ति; कः पुनर् वादः शक्रब्रह्मादयो देवाः; कुत एव कुन्तपिपीलिका अपि प्राणिनः
थे बुद्ध तेअछेस् तो थे गोद्स्
अथ शक्रस्य देवेन्द्रस्य एतद् अभवत्: किमर्थं थगवता लौकिकं चित्तम् उत्पादितम् इति; तस्यैतद् अभवत्: शुद्धायां देवपर्षदि धर्मं देशयितुकाम इति; तेन विश्वकर्मणो देवपुत्रस्य आज्ञा दत्ता; निर्मिणु विश्वकर्मन् नयग्रोधारामे चतूरत्नमयं कूटागारं, विचित्रां चासनप्रज्ञप्तिम्; भगवान् शुद्धायं देवपर्षदि धर्मं देशयितुकाम इति; परं भद्रं बत कौशिक इति; विश्वकर्मा देवपुत्रः शक्रस्य देवेन्द्रस्य प्रतिश्रुत्य न्यग्रोधारामे चतूरत्नमयं कूटागारं निर्मिणोति, विचित्रां चासनप्रज्ञप्तिम्; तत्र चत्वारो महाराजाश् चतुर्षु द्वारेष्व् अवस्थिताः, धृतराष्ट्रो, विरूढकः, विरूपाक्षः, कुबेरश् च; पूर्वस्मिन् द्वारे धृतराष्ट्र ( स्ब्व् इ 197 ) अङ्गदकुण्डलविचित्रमाल्याभरणविभूषितः, दक्षिणे विरूढको दिव्यालङ्कारविभूषितः, पश्चिमे च विरूपाक्षो नानारत्नविभूषितः, उत्तरे कुबेरः सर्वालङ्कारविभूषितः; ततः शक्रो देवेन्द्रो न्यग्रोधारामे महतीं विभूतिं कारयित्वा येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवत एतम् अर्थं विस्तरेणारोचयति; ततो भगवान् शक्रादिभिर् अनेकैर् देवताशतसहस्रैऋ परिवृतः कूटागारं प्रविश्य महत्या देवपर्षदः पुरस्तान् नानारत्नविभूषिते सिंहासने निषण्णः; अथ आयुष्मान् महामौद्गल्यायनो राजानं शुद्धोदनम् आदाय येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मान् महामौद्गल्यायनः प्रविष्टः; राजा शुद्धोदनो धृतराष्ट्रेण देवराजेन निवारितः, तिष्ठ <तिष्ठ> महाराज मा प्रविक्षः; किं कारणम्? भगवान् शुद्धायां देवपर्षदि धर्मं देशयति; नात्र मानुषमात्रस्य प्रवेशो ऽस्तीति; अथ राजा शुद्धोदनः दक्षिणं द्वारं गतः; विरूढकेन देवराजेन दृष्ट्वाभिहितः: तिष्ठ तिष्ठ महाराज मा प्रविक्षः; राजा शुद्धोदनः कथयति: कस् त्वं भद्रमुख; अहम् अस्मि महाराज विरूढकः; भगवान् शुद्धायां देवपर्षदि धर्मं देशयति; नात्र मनुष्यप्रवेशो ऽस्तीति; अथ राजा शुद्धोदनः पश्चिमं द्वारं गतः; विरूपाक्षेण देवराजेन दृष्ट्वाभिहितः: तिष्ठ तिष्ठ महाराज, मा प्रविक्षः; राजा शुद्धोदनः कथयति, कस् त्वं भद्रमुख; विरूपाक्षः कथयति; अहम् अस्मि महाराज विरूपाक्षः; भगवान् शुद्धायां देवपर्षदि धर्मं देशयति; यत्र मनुष्यभूतस्य न प्रवेशो लभ्यते; अथ राजा शुद्धोदन उत्तरं द्वारं गतः; वैश्रवणेन महाराजेन दृष्ट्वा अभिहितः, तिष्ठ तिष्ठ महाराज मा प्रविक्षः; राजा शुद्धोदनः कथयति, कस् त्वं भद्रमुख; ( अ 421अ ) वैश्रवणः कथयति, अहम् अस्मि महाराज वैश्रवणः; भगवान् शुद्धायां देवपर्षदि धर्मं देशयति; नात्र मनुष्यभूतस्य प्रवेशो लभ्यत इति
अथ राज्ञः शुद्धोदनस्य स्पृहा उत्पन्ना; अहो बताहं भगवन्तम् शुद्धायां देवपर्शदि धर्मं देशयन्तं पश्येयम् इति; ततो राज्ञः शुद्धोदनस्य यासौ लीना सन्ततिः सा प्रतिविगता; भगवान् संलक्षयति: राजा शुद्धोदनो यदि मां न पश्यति, स्थानम् एतद् विद्यते यद् उष्णं शोणितं छर्दयित्वा कालं करिष्यति; तद् ( स्ब्व् इ 198 ) उपायसंविधानं कर्तव्यम् इति; भगवता यत् तत् चतूरत्नमयं कूटागारं तत् स्फटिकमयं निर्मितम्; येन राजा शुद्धोदन अनावृतं बुद्धशरीरं पश्यति; दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातः भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः
थे बुद्ध तेअछेस् तो शुद्धोदन
अथ राज्ञः शुद्धोदनस्य आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा राज्ञा शुद्धोदनेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षाक्त्कृतम्; स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतम्; न पित्रा, न राज्ञा, न देवताभिः, न पूर्वप्रेतैः, न श्रमणब्राह्मणैः, नान्येन स्वजनबन्धुवर्गेण, यद् भगवता अस्माकं कृतम्; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्य् अपायद्वाराणि; विवृतानि स्वर्गमोक्षद्वाराणि; प्रतिष्ठापिता देवमनुष्येषु; आह च:
यत् कर्तव्यं सुपुत्रेण पितुः प्रत्युपकारिणा ।
तत् त्वया कृतम् अस्माकं चित्तं मोक्षपरायणम् ॥
दुर्गतिभ्यः समुद्दृत्य स्वर्गे मोक्षे च ते वयम् ।
स्थापिता सुप्रयत्नेन साधु ते दुष्करं कृतम् ॥
वणिजा इव लोभेन स्वर्गलोभेन ते वयम् ।
लम्भिता नाथ वात्सल्याद् भवभोगाभिलाषिणः ॥
अथ राजा शुद्धोदनः उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन, सार्धं भिक्षुसङ्घेन; अधिवासयति भगवान् राज्ञः शुद्धोदनस्य तूष्णींभावेन; अथ राजा शुद्धोदनो भगवतस् तूष्णींभावेन अधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तो येन शुक्लोदनस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शुक्लोदनम् इदम् अवोचत्: कुमार राज्याभिषेकस् ते प्राप्तः; प्रतीच्छ राज्यम्; कस्यार्थे? यतो भगवतः सकाशात् सत्यानि दृष्टानि; कतरस्मिन् दिवसे? अद्यैव; ( स्ब्व् इ 199 ) मया यम् एव दिवसं भगवता न्यग्रोधारामे धर्मो देशितस् तम् एव दिवसं सप्तसप्तत्या शाक्यसहस्रैः सार्धं सत्यानि दृष्टानीति; एवं द्रोणोदनो राज्यं प्रतीच्छेत्य् उक्तः; स कथयति: यदा भगवता ब्रह्मावर्ते उद्याने धर्मो देशितस् तदा षट्सप्तत्या शाक्यसहस्रैः सार्धं सत्यानि दृष्टानीति; एवम् अमृतोदनो राज्यं प्रतीच्छेत्य् उक्तः स कथयति, मयापि यदा भगवता रोहीतके उद्याने धर्मो देशितस् तदा पञ्चसप्तत्या शाक्यसहस्रैः सार्धं सत्यानि दृष्टानि; यद्य् एवम् इदानीं कं राज्ये प्रतिष्ठापयामः; ( अ 421ब् ) ते कथयन्ति; भद्रिकं शाक्यराजम् इति; तैः संभूय भद्रिकः शाक्यराजो राज्यैश्वर्याधिपत्ये अभिषिक्तः
देदिचतिओन् ओf न्यग्रोधाराम
अथ राजा शुद्धोदनस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय कल्यम् एवोत्थाय आसनकानि प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति: समयो भदन्त; सज्जं भक्तम्; यस्येदानीं भगवान् कालं मन्यते इति; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन राज्ञः शुद्धोदनस्य भक्ताभिसारस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य पुरस्ताद् भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषण्णः; अथ राजा शुद्धोदनः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति, संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं सौवर्णं भृङ्गारं गृहीत्वा भगवते न्यग्रोधारामं निर्यातितवान्; भगवता च पञ्चाङ्गोपेतेन स्वरेण दक्षिणा आदिष्टा:
इतो दानाद् धि यत् पुण्यं तच् छाक्यान् उपगच्छतु ।
प्राप्नुवन्तु पदं नित्यम् ईप्सितान् वा मनोरथान् ॥ इति;
तत्र भगवान् कपिलवस्तुनि विहरति न्यग्रोधारामे; तथा स्थविरैर् अपि सूत्रान्त उपनिबद्धम्, भगवान् कपिलवस्तुनि न्यग्रोधारामे इति; भगवान् कपिलवस्तुन्य् अवस्थितः एकं दिवसं राजकुले भुक्तः, एकं दिवसम् अन्तःपुरे ( स्ब्व् इ 200 )
थे शाक्यस् fओल्लोw थे बुद्ध
राज्ञा शुद्धोदनेन जटिला प्रव्रजिताः भिक्षवो दृष्टाः; शान्तेर्यापथत्वाच् चित्तप्रासादिका नो तु कायप्रासादिकाः कष्टैस् तपोव्रतविशेषैः कर्शितशरीराः; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: किं वापीमे जटिलाः शान्तेर्यापथत्वाच् चित्तप्रासादिकाः नो तु कायप्रासादिकाः; कथंरूपेण परिवारेण भगवान् शोभेत; संलक्षयति, शाक्यपरिवारेणैति; ततः सर्वशाक्यान् सन्निपात्य कथयति; भवन्तो यदि सर्वार्थसिद्धः कुमारो न प्रव्रजितो ऽभविष्यत्, को ऽभविष्यद्? राजा चक्रवर्ती; यूयं के ऽभविष्यत? अनुयात्रिकाः; इदानीं सर्वार्थसिद्धः कुमारो ऽनुत्तरो धर्मराजः; कस्मान् नानुयात्रिका भवथ; देव किं प्रव्रजामः? प्रव्रजत; किं सर्व एव? कुलैकिकया; एवं कुर्मः; राज्ञा शुद्धोदनेन कपिलवस्तुनगरे घण्टावघोषणं कारितम्; राजा एवं समाज्ञापयति मम विषयनिवासिभिः शाक्यैः कुलैकिकया प्रव्रजितव्यम् इति
अनिरुद्ध अन्द् महानामन्
द्रोणोदनस्य द्वौ पुत्रौ अनिरुद्धो महानामा च; तयोर् महानामा कृषिकर्मान्तानुष्ठाने अत्यर्थम् अभियुक्तः; अनिरुद्धस् तु उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति; महानामा मात्रा अभिहितः: पुत्र राज्ञा घण्टावघोषणं कारितं शाक्यैः कुलैकिकया प्रव्रजितव्यम् इति; स त्वं प्रव्रज; स कथयति, नाहं प्रव्रजामि; यस् ते प्रियः पुत्रः सुखासीनस् तिष्ठति तं प्रव्राजय; पुत्र पुण्यमहेशाख्यो ( अ 422अ ) ऽसौ सत्वो; मा तेन सह स्पर्धां कुरु; अम्ब त्वं तस्याभिप्रसन्ना येनासौ पुण्यमहेशाख्यः; अद्य तस्याम्ब मा किंचित् प्रेषय; ज्ञास्यामि किं पुण्यमहेशाख्यो न वेति; पुत्र एवं भवतु; प्रत्यक्षीकरोमि; तया रिक्तपिठरिकाभि <ः> पेटकं पूरयित्वा शुक्लेन वस्त्रेण आच्छाद्य मुद्रालक्षितं कृत्वा प्रेष्यदारिकाया हस्ते प्रेषितः; सन्दिष्टा, यदि पृच्छेत् किम् अत्रेति, वक्तव्यं न किंचिद् इति; सा तम् आदाय संप्रस्थिता; ( स्ब्व् इ 201 ) शक्रस्य देवेन्द्रस्य अधस्ताज् ज्ञानदर्शनं प्रवर्तते; स संलक्षयति: येन नाम उपारिष्टः प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः; तस्याद्य कथं भोजनेन विघातो भविष्यतीति; भोजनोपसंहारो ऽस्य कर्तव्य इति; तेनासौ पेटको नानासूपिकरसव्यञ्जनोपेतस्याहारस्य पूरितः; यावद् असौ दारिका तम् आदाय अनिरुद्धस्य सकाशं गता; तदा तेनोक्ता दारिका, किम् अत्रेति; सा कथयति, कुमार न किंचिद् इति; अनिरुद्धः संलक्षयति: प्रियो ऽहं मातुः; किम् असौ रिक्तं प्रेषयिष्यतीति; नूनम् अत्र नाम नकिंचिद् भोजनं प्रक्षिप्तम्; पश्यामि तावद् इति समुद्घाटितम्; सर्वं तद् उद्यानम् अनेकोपकरणसुरभिगन्धसंपूर्णं व्यवस्थितम्; घ्रात्वा अनिरुद्धः परं विस्मयम् उपगतः; मातृभक्तो ऽसौ; तेन मातुर् अग्रपिण्डपातः प्रेषितः; सन्दिष्टं च अम्ब प्रतिदिवसम् ईदृशं नकिंचिन्नाम भोजनं प्रेषयितुम् अर्हसीति; सापि दृष्ट्वा परं विस्मयम् उपगता; तया महानाम्नो दर्शितम्; पुत्र दृष्टं ते? अम्ब दृष्टम्; तन् न त्वं मया पूर्वम् एवोक्तः पुण्यमहेशाख्यस् स सत्वमनुष्यसुभगः; मा तेन सह स्पर्धां कुरुष्वेति; स कथयति: अम्ब पुण्यमहेशाख्यो वा भवतु मा वा; नाहं प्रव्रजामीति; यतश् च महानामा सर्वावस्थं नाधिवासितवान् प्रव्रज्यां, ततस् तया अनिरुद्धो ऽभिहितः: पुत्र राज्ञा घण्टावघोषणं कारितम्: शाक्यैः कुलैकिकया प्रव्रजितव्यम् इति; स त्वं किं प्रव्रजसि, आहोस्विद् गृहे तिष्ठसीति; स कथयति: अम्ब प्रव्रज्यायां को ऽनुशंअसः? क आदीनवः? गृहावासे को ऽनुशंसः? क आदीनवः? पुत्र प्रव्रज्या संपद्यमाना निर्वाणावाहिका भवति; विपद्यमाना देवमनुष्यावाहिका भवति; गृहावासः सम्यक्प्रतिपाल्यमानो देवमनुष्यावाहकः; अप्रतिपाल्यमानो नरकतिर्यक्प्रेतावाहकः; अम्ब यः प्रव्रज्यायाम् आदीनवः, स गृहावासे अनुशंसः; तस्माद् अलं गृहावासेन; अनुजानीहि; प्रव्रजामीति; सा कथयति: पुत्र शोभनम्, एवं कुरु; अनिरुद्धस्य भद्रिकः शाक्यराजो वयस्यकः; स तस्य सकाशं गतः; तेन खलु समयेन भद्रिकः शाक्यराजो वीणां सारयति; तस्य वीणां सारयतः तन्त्री च्छिन्ना; स्वरः स्वरान्तरं गतः; अनिरुद्धो वीणायां कृतावी; तेन यथानुस्वरं निमित्तम् उद्गृहीतम्; स द्वारे स्थित्वा दौवारिकं पुरुषम् आमन्त्रयते: गच्छ भोः पुरुष, भद्रिकस्य राज्ञो निवेदय अनिरुद्धो द्वारे तिष्ठति देवं द्रष्टुकाम इति; दौवारिकेण ( स्ब्व् इ 202 ) गत्वा भद्रिकस्य शाक्यराजस्य निवेदितम्: देव अनिरुद्धो द्वारे तिष्ठति ( अ 422ब् ) देवं द्रष्टुकाम इति; स कथयति: प्रविशतु भवान् अनिरुद्धः; को भवन्तम् अनिरुद्धं वारयति; स प्रविष्टः; राज्ञा परिष्वज्य निषादितः; उक्तश् च कियच् चिरं तवागतस्येति; स कथयति; यदा तव वीणां सारयतस् तन्त्री छिन्ना; स्वरो स्वरान्तरं गत इति; स परं विस्मयम् आपन्नः कथयति: वीणायां भवान् कृतावी; भद्रिकः शाक्यराजः कथयति: कुमार किम् आगमनप्रयोजनम्; अनिरुद्धः कथयति: देव राज्ञा शुद्धोदनेन घण्टावघोषणं कारितम्: शाक्यैः कुलैकिकया प्रव्रजितव्यम् इति; तद् अवलोकितो भव; प्रव्रजामिति; राजा कथयति, यद्य् एवम् अहम् अपि प्रव्रजामीति; संप्रधारयावेति; अद्य त्वम् इहैव वासम् <उपगच्छ; स इहैव वासम्> उपगतः: शय्याकर्मान्तिकेन शाय्यायां ज्वरगन्धिकानि वस्त्राण्य् आच्छादितानि; पुष्पाणि चावकीर्णानि; अनिरुद्धः शय्यानिषण्णः; तस्य मल्लिकावृन्तम् अधस्ताद् अवस्थितम्; स स्पर्शप्रतिसंवेदी
कथयति: किम् अत्राधस्ताच् छिलापुत्रकस् तिष्ठतीति; ते प्रत्यवेक्षितुम् आरब्धाः; मल्लिकावृन्तं <दृष्ट्वा> ते परं विस्मयम् आपन्नाः; अनिरुद्धो रात्रौ दुःखं सुप्तः; प्रभातायां रजन्यां राज्ञाभिहितम्: कच्चिद् अनिरुद्धः सुखं सुप्त इति; स कथयति: देव न सुखं सुप्त इति; राज्ञाभिहितम्, किमर्थम्; अनिरुद्धः कथयति; देव ज्वरगन्धानि वस्त्राणि प्रज्ञप्तानि; पुष्पाणि चावकीर्णानि; पुष्पवृन्तैः कायो द्रूयते; राज्ञा शय्याकर्मान्तिक आहूयोक्तः: किमर्थम् त्वया ज्वरगन्धानि वस्त्राणि प्रज्ञप्तानि; शय्याकर्मान्तिकेनाभिहितम्: मम भाण्डागारिकेन अनुप्रदत्तानि; राज्ञा भाण्डागारिक आहूयोक्तः: किमर्थं त्वया ज्वरगन्धिकानि वस्त्राण्य् अनुप्रदत्तानि; स कथयति; देव मम तन्तुवायेनानुप्रदत्तानि; राज्ञा तन्तुवाय आहूयोक्तः; किमर्थं त्वया ज्वरगन्धिकानि वस्त्राण्य् अनुप्रदत्तानि? तन्तुवायः कथयति: देव वस्त्रे ऊयमाने किंचिच् छेषम्; तन् मया ज्वरितेन उतम्; राजा कथयति: कुमार कथं त्वया विज्ञातम्; स कथयति, उष्णस्पर्शप्रतिसंवेदनात्; ज्वरगन्धेन च; राजा परं विस्मयम् आपन्नः कथयति: ( स्ब्व् इ 203 ) भवन्त अनिरुद्धो भवति शाक्यसुभगः; ततो भद्रिकेन शाक्यराजेनाभिहितः: यद्य् अहं प्रव्रजामि, देवदत्तः शाक्यानां राजा भविष्यति; स शाक्यानाम् अनर्थं करिष्यति; यन्नु वयं सर्वे संभूय देवदत्तं प्रोत्साहयाम इति
देवदत्त एन्त्रप्पेद्
स भद्रिकेन शाक्यराजेनाहूतः; ततः सर्वैः सम्भूयाभिहितः: देवदत्त वयं सर्वे प्रव्रजामः; त्वं किं करिष्यसि; देवदत्तः संलक्षयति: यदि वक्ष्यामि न प्रव्रजामीति भद्रिकः शाक्यराजो न प्रव्रजिष्यति; तद् उपायसंविधानेन एनान् विप्रलम्भयामि; अपि नु मया यम् एव दिवसं भगवता न्यग्रोधारामे ऋद्धिप्रातिहार्यं विदर्शितं तदैव मे बुद्धिर् उत्पन्ना, यथैवानेन अन्वावर्तिन्या मायया महाजनकायो ऽन्वावर्तितः, तथैव मया अन्वावर्तितव्यः; इति विदित्वा कथयति: देव यूयं प्रव्रजथ; ( अ 422अ ) अहं किमर्थं तिष्ठामीति; भद्रिकः शाक्यराजः संलक्षयति: मृषावादिको ऽयम्; प्रतिज्ञायां स्थापयित्वा महाजनकायः प्रतिसंविदितः कर्तव्य इति; ततो राज्ञा तस्य तद् वचनं पत्राभिलिखितं कृत्वा कपिलवस्तुनि नगरे घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तः कपिलवस्तुनिवासिनः पौरा, भद्रिकरेवतानिरुद्धदेवदत्तप्रमुखानि पञ्चशाक्यशतानि प्रव्रजिष्यन्ति; श्रुत्वा भवद्भिः प्रामोद्यम् उत्पादयितव्यम् इति; श्रुत्वा देवदत्तस्य महद् दुःखदौर्मनस्यम् उत्पन्नम्; यदि मया विज्ञातम् अभविष्यत् भद्रिकः शाक्यराजो निश्चयेन प्रव्रजेद् इति, न मया प्रतिज्ञातम् अभविष्यत्; इदानीं यदि न प्रव्रजिष्यामि, मृषावादिक इति कृत्वा राज्यम् अपि न लप्स्ये; सर्वथा किम् अत्र प्राप्तकालम्; प्रव्रजामि; प्रव्रजित एव राज्यम् कारयिष्यामीति
ओर्दिनतिओन् ओf fइवे हुन्द्रेद् शाक्यस्
अथ राज्ञः शुद्धोदनस्य एतद् अभवत्: अपश्चिमां शाक्यानां विभूतिं पश्यामीति; तेन तन् नगरम् अपगतपाषाणाशर्करकठल्लं व्यवस्थापितं, चन्दनवारिपरिषिक्तम् उच्छ्रितध्वजपताकम् आमुक्तपट्टदामकलापं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णं रमणीयम्; ततः अनेकशाक्यशतसहस्रपरिवारः नगरद्वारे सिंहासने निषण्णः; शाक्यस्त्रियः शाक्यकुमार्याश् च कुतूहलजाता गवाक्षवातायनवेदिकास्व् अवस्थिताः, शाक्यानाम् विभूतिं द्रष्टुकामः ( स्ब्व् इ 204 ) नानादेशभ्यागतश् च जनकायः रथ्यावीथीचत्वरशृङ्गाटकेषु; नैमित्तिका ब्राहमणा विपञ्चनका आहूताः शाक्यपरीक्षां प्रति, को ऽत्राराधकः को न वेति; अथ शाक्या मातापित्राव् अवलोक्य हारकटककेयूराद्यलङ्कारविभूषिताः प्रत्येकप्रत्येकं रथेष्व् अभिरुह्य निर्गन्तुम् आरब्धाः; पूर्वं भद्रिकः शाक्यराजो निर्गतः; नैमित्तिकैर् दृष्टः; ते कथयन्ति: एष तावद् आराधको भविष्यतीति; एवं रेवतानिरुद्धप्रभृतयो निर्गताः; ते ऽपि नैमित्तिकैर् व्याकृताः; ततो देवदत्तो निर्गतः; तस्य निर्गच्छतः श्येनकेन शकुनकेन चूडामणिर् अपहृतः; नैमित्तिकैर् दृष्टः; ते कथयन्ति: यादृशम् अस्य निमित्तं नियतम् अयं शास्तरि प्रहृत्य नरकपरायणो भवतीति; कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तानां निर्गच्छतां खरेण वाशितम्; ते ऽपि नैमित्तिकैर् व्याकृताः: एते ऽपि महाश्रावकेषु वाग्दुश्चरितं कृत्वा नरकपरायणा भविष्यन्ति इति; उपनन्दस्य हस्तिस्कन्धाभिरूढस्य इतश् चामुतश् च व्यवलोकयतो मुक्ताहारः पतितः; स हस्तिस्कन्धाद् अवतीर्य गृहीतः; सो ऽपि व्याकृतः: अनेनात्यन्तलोभान् नरकेषूपपत्तव्यम् इति; ततस् तेषां शाक्यानां भद्रिकानिरुद्धदेवदत्तप्रमुखानि पञ्चशाक्यशतानि उद्यानयात्राप्रतिस्पर्धया शोभया येन भगवांस् तेनोपसङ्क्रान्तानि; भगवान् संलक्षयति: सचेद् अहं शाक्यान् एहिभिक्षुकया प्रव्राजयिष्यामि केचिद् आराधका भविष्यन्ति, केचिद् अनाराधकाः; ये अनाराधकास् तेषां भविष्यत्य् अन्यथात्वम्; सर्वश् चैहिभिक्षुश् चरमभविकः; यन्व् अहं सर्वान् एव भिक्षून् ( अ 422ब् ) ज्ञप्तिचतुर्थेन कर्मणा प्रव्राजयेयम् उपसंपादयेयम्; इति विदित्वा भिक्षून् आमन्त्रयते: प्रव्राजयत भिक्षवः कापिलवास्तवान् शाक्यान्, उपसंपादयत ज्ञप्तिचतुर्थेन कर्मणा इति; एवं भदन्तेति ते भिक्षवो भगवतः प्रत्यश्रौषुः
उपालिन्, थे बर्बेर्
शाक्यानाम् उपाली नाम कल्पकः राज्ञा शुद्दोदनेन तेषां प्रव्रजतां केशावरोपकः प्रेषितः; भद्रिकस्य शाक्यराजस्य केशान् अवतारयन् सो ऽश्रुदुर्दिनवदनो बाष्पोपरुद्ध्यमानहृदयो मुहुर् ( स्ब्व् इ 205 ) निश्वासपरायणः केशान् अवतारयति; भद्रिकः शाक्यराजः कथयति: उपालिन् किमर्थं रोदिषि? स करुणदीनविलम्बितैर् अक्षरैः कथयति: देव मया जम्बूद्वीपप्रधानानां पुरुषाणाम् उपस्थानं कृत्वा, इदानीं प्राकृतपुरुषाणाम् उपस्थानं कर्तव्यं भविष्यति; कामं प्राणवियोगः, न युष्माभिः परित्यक्तस्य जीवितम् इति; भद्रिकः शाक्यराजः कथयति: अलम् उपालिन् दर्शितस् त्वया स्वामिभक्त्यनुरागः; नियच्छ शोकम्; अहं तथा करिष्यामि यथा प्राकृतपुरुषाणाम् उपस्थानं न करिष्यसि; इति विदित्वा तेनैकस्मिन् प्रदेशे पटकः प्रसारितः, शाक्यकुमाराश् च अभिहिताः: शृण्वन्तु भवन्तः कुमारा एषो ऽस्माकम् उपाली कल्पकः कृतोपस्थानः; तद् अस्य जीविकानिमित्तम् अलङ्कारं पटे स्थापयत; नास्माभिः पुनर् अगारे वस्तव्यम् इति; तैर् हारार्धहारकटककेयूरकुण्डलानां नानारत्नप्रत्युप्तानाम् अलङ्कारविशेषाणां पटके महान् राशिः कृतः; उपालिना तेषाम् अनुपूर्वेण केशावरोपणं कृतम्; ते स्नातुं गताः; स संलक्षयति: इमे तावत् कुमाराः कुलविभवयौवनोपेताः स्फीतान्य् अन्तःपुराणि, स्फीतानि कोशकोष्ठागाराण्य् अपास्य प्रव्रजिताः; अहम् अस्मिन्न् अलङ्कारमात्रे सक्तो ऽनयेन व्यसनम् आपत्स्ये; यद्य् अहं न नीचकुलोत्पन्नः स्याम्, अहम् अपि स्वाख्याते धर्मविनये प्रव्रज्योद्युज्येयं, घटेयं, व्यायच्छेयम्, ओघानाम् उत्तरणाय, योगानां समतिक्रमणायेति
धर्मता ह्य् एषा यथा बुद्धा भगवन्तस् त्री रात्रेः, त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोकयन्ति, एवं महाश्रावका अपि; अद्राक्षीद् आयुष्मान् शारिपुत्रः उपालिनं कल्पकम् अतीव संविग्नम्; दृष्ट्वा च पुनर् येनोपाली कल्पकस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य उपालिनं कल्पकम् इदम् अवोचत्: कस्मात् त्वम् उपालिन् अतीव संविग्नः करे कपोलं दत्वा चिन्तापरस् तिष्ठसीति; स कथयति: कथम् अहं भदन्त शारिपुत्र न चिन्तापरो भवामि यत्रेदानीम् अमी कुमाराः कुलविभवयौवनोपेताः स्फीतान्य् अन्तःपुराणि स्फीतानि च कोशकोष्ठागाराण्य् अपास्य प्रव्रजिताः; अहम् अस्मिन्न् अलङ्कारमात्रे सक्तो ऽनयेन व्यसनम् आपत्स्ये? यद्य् अहं न नीचकुलोत्पन्नः स्याम् अहम् अपि स्वाख्याते धर्मविनये प्रव्रज्य उद्युज्येयं, घटेयं, ( स्ब्व् इ 206 ) व्यायच्छेयम् ओघानाम् उत्तरणाय, योगानां समतिक्रमणायेति; आयुष्मान् शारिपुत्रः कथयति: भद्रमुख नेदं मुनीन्द्रप्रवचनं जातिसारकं, न गोत्रसारकं, न श्रुतसारकम्; अपि तु प्रतिपत्तिसारकम् इदं मुनीन्द्रप्रवचनम्; ( अ 423अ ) न जातिकुलगोत्राणि परीक्षन्ते तथागताः; कर्माणि तु परीक्षन्ते चिरकालकृतान्य् अपि; सचेद् आकाङ्क्षसि स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदां भिक्षुभावम्, एहि भगवत्सकाशं गच्छाव; प्रव्राजयिष्यति ते भगवान् इति; तेनाधिवासितम्
उपालिन् ओर्दैनेद्
अथायुष्मान् शारिपुत्रः उपालिनं कल्पकम् आदाय येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् इदम् अवोचत्: अयं भदन्त उपाली आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; ततो भगवान् प्रव्राजयतु, उपसंपादयतु, अनुकम्पाम् उपादायेति; स भगवता आभाषितः एहि भिक्षो चर ब्रह्मचर्यम् इति; भगवतो वाचो ऽवसानसमनन्तरम् एव मुण्डः संवृत्तः, सङ्घाटीप्रावृतः, पात्रकरकव्यग्रहस्तः, सप्ताहावरोपितकेशश्मश्रुः, वर्षशतोपसम्पन्नस्य भिक्षोर् ईर्यापथेनावस्थितः; आह चात्र:
एहीति चोक्तः स तथागतेन
मुण्डश् च सङ्घाटिपरीतदेहः ।
सद्यः प्रशान्तेन्द्रिय एव तस्थौ
नेपथ्यितो बुद्धमनोरथेन ॥
शाक्याः प्रव्रजिताः यथावृद्धिकया सामीचीं कार्यन्ते; भद्रिकेन शाक्यराजेन सामीचीं कुर्वता उपालिनः पादौ प्रत्यभिज्ञातौ, ततो मुखं व्यवलोकितम्; स कथयति: भगवन्न् एष उपाली; किम् अस्यापि मया पादयोर् निपतितव्यम् इति; भगवान् आह: वत्स मानप्रहाणाय प्रव्रज्या; तवैष वृद्धो निहतमदमानः; निपतेति; स तस्य पादयोर् निपतितः; षड्विकारं पृथिवीकम्पो जातः; इयं महापृथिवी चलति, संचलति, संप्रचलति; व्यथते, प्रव्यथते संप्रव्यथते; पूर्वा दिग् उन्नमति; पश्चिमावनमति; पश्चिमा उन्नमति; पुर्वा अवनमति; दक्षिणा उन्नमति; उत्तरा अवनमति; उत्तरा उन्नमति; दक्षिणा अवनमति; ( स्ब्व् इ 207 ) मध्य उन्नमति, अन्तो ऽवनमति; अन्त उन्नमति, मध्यो ऽवनमति; एवम् अनुपूर्वेण निपतिताः; देवदत्तो न निपतति; भगवान् कथयति: वत्स मानप्रहाणाय प्रव्रज्या, निपतेति; स कथयति; तव किं विद्यते? नाहम् अस्य पादयोर् निपतामीति; स न निपततीति तत्र देवदत्तेन भगवतस् तत्प्रथमतः आज्ञा प्रतिव्यूढा
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भद्रिकेन शाक्यराजेन उपालिनो वन्दनायां कृतायां षड्विकारं पृथिवीकम्पो जातः इति; भगवान् आह: न भिक्षव एतर्हि, यथातीते ऽपि अध्वन्य् एषा धर्मता; यो ऽसौ पादयोर् निपतितः; षड्विकारश् च पृथिवीकम्पो जातः; तच् छ्रूयताम्
सुन्दर, थे स्तुदेन्त्, अन्द् भद्रा, थे हर्लोत्
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; तेन खलु समयेन वाराणस्यां नगर्यां भद्रा नाम रूपाजीविनी प्रतिवसति; सुन्दराश् च नाम्ना माणवकः; स तस्याः सकाशम् उपसङ्क्रान्तः कथयति: भद्रे आगच्छ परिचारयाम इति; सा कथयति; सन्ति ते पञ्च कार्षापणशतानीति; ( अ 423ब् ) स कथयति, न सन्ति; गच्छ, पञ्च कार्षापणशतानि गृहीत्वा आगच्छ; तस्य विभवो नास्ति; स तस्याम् अत्यर्थम् अध्यवसितः; कालेन कालं नानाविचित्राणि पुष्पाणि, फलानि चोपनाम्यति; तस्यास् तस्मिन्न् अनुनय उत्पन्नः; यावद् अपरेण समयेन वाराणस्यां पर्वा प्रत्युपस्थितः; सर्वास् स्त्रियो वस्त्रमाल्यालङ्कारविभूषिताः स्वकस्वकेषु क्रीडारतिहर्षबहुला अवतिष्ठन्ते; ता दृष्ट्वा सुन्दरो माणवः परितस्यति; भद्रा रूपाजीविनी संलक्षयति: अद्य वाराणसेया मनुष्या वस्त्रालङ्कारविभूषिता स्वकस्वकाभिः स्त्रीभिः सार्धं परिचारयिष्यन्ति; सुन्दरो माणवकः मया सार्धं परिचारयिष्यति; सा चैवं चिन्तयति; सुन्दरश् च माणवकस् तं प्रदेशम् अनुप्राप्तः; सा तं दृष्ट्वा पूर्वोपकारसञ्जनितसौमनस्या कथयति: माणव गच्छ; सुगन्धानि पुष्पाण्य् आदायागच्छ; मया सार्धं परिचारयिष्यसीति; स नष्टोपलब्धप्राण इव विस्मयावर्जितसन्ततिः प्रक्रान्तः; तस्या रूपयौवनचातुर्यगुणान् विकल्पयन् मदाविष्टः कृत्स्नां रात्रिं जागरितः; प्रभातायां रजन्याम् अत्यर्थमिद्धर्पर्याकुलीकृतनयनस् तावत् सुप्तो यावद् आधित्योदय इति; सर्वोपयोगाय लोकेन यदा सर्वाणि पुष्पाण्य् उच्चितानि तदा प्रतिविबुद्धः; पुष्पनिमित्तम् इतश् ( स्ब्व् इ 208 ) चामुतश् च परिभ्रमति; नारागयति; शिरीषपुष्पाण्य् आदाय तस्याः सकाशम् उपसङ्क्रान्तः; सा गाथां भाषते:
अलसो ऽजिनधार्य् अकर्मशीलो
बटुकः सुन्दरको निरर्धमाषः ।
परिपुष्पितपादपे ऽद्य काले
प्रददात्य् एष हि यच् छिरीषपुष्पम् ॥
इति विदित्वा कथयति: गच्छ अन्यानि पुष्पाण्य् आदायागच्छेति; कामान् खलु प्रतिसेवमानस्य संयोजनान्य् उपचयं गच्छन्तीति स प्रवृद्धकामरागो ग्रीष्मणां पश्चिमे मासे व्यभ्रे दिने विगतबलाहके, स्थिते मध्याह्नसमये, नगराद् अतिविप्रकृष्टदेशेष्व् अरण्येषु वक्त्रापरवक्त्रं गायन् पुष्पाण्य् उच्चिनोति; राजा च ब्रह्मदत्तो मृगवधाय निर्गतः; स तीक्ष्णार्करश्मिसन्तापितः छायायाः शीतलं प्रदेशम् अनुप्राप्तः; तस्य गीतशब्दं श्रुत्वा गाथां भाषते:
ऊर्ध्वं तपति आदित्यः अधस्ताद् दहति वालुका ।
कस्माद् गायसि गात्राणि न ते दहति आतपः ॥ इति;
सुन्दरको ऽपि गाथां भाषते:
न मां तापयत्य् आदित्यः सङ्कल्पास् तापयन्ति माम् ।
कार्याकार्याणि लोके ऽस्मिंस् तापयन्ति तु नातपः ॥ इति;
राजा संलक्षयति: नूनम् अयं माणवः शैत्यकथासु कृतावी येन स्थिते मध्याह्नसमये पुष्पाण्य् उच्चिनोतीति; स तेनाभिहितः: कुरु माणव शैत्यां तावत् कथाम्; शृणोमीति; स संलक्षयति; नूनम् अस्य राज्ञः शरीरदाहः, येनैवं वदतीति; तेन तस्य विचित्रा शैत्यकथा कृता, यां श्रुत्वा राज्ञः शरीरदाहः प्रतिविगतः; राजा अभिप्रसन्नः; अमात्यान् पृच्छति; भवन्तो यो राज्ञो क्षत्रियस्य मूर्धाभिषिक्तस्य जीवितम् अनुप्रयच्छति, तस्य कः प्रत्युपकारः? देव उपार्धराज्यम्; ततस् स राज्ञा अभिहितः; माणव अद्य राजकुले वासं कल्पयस्व; उपार्धराज्यं ते प्रयच्छामि इति; तस्य राजकुले प्रणीतं शयनासनं दत्तम्; स तस्मिन् शयितः भद्राम् अनुस्मृत्य चिन्तयति; तद् उपार्धराज्यं गृह्णामि यत्र भद्रा रूपाजीविनी इति; भूयः संलक्षयति: कीदृशः स राजा यत्र उपार्धराज्यं भुङ्क्ते; यन्व् अहम् एनम् जीविताद् व्यपरोपयेयम् इति; पुनः संलक्षयति: ( अ 424अ ) अलम् अनेन राज्येन यद् राजानं प्रघात्य इति; ग्मथां च भाषते: ( स्ब्व् इ 209 )
अप्राप्ते अर्थतर्षः प्राप्ते चार्थे न तर्षविनिवृत्तिः ।
अप्राप्ते च विघातस् तस्माद् अर्थे मतिर् अनर्थाय ॥ इति
यावत् प्रभाता रजनी संवृत्ता, स विप्रतिसारजातः शयनाद् अवतीर्य कृष्णाजीनम् आस्तीर्य भूमौ शयितः; प्रभातायां रजन्यां राजा कथयति: भवन्तः शब्दयत तं माणवम्; उपार्धराज्यं तस्मै अनुप्रयच्छामीति; राजदूता गताः पश्यन्ति; महाशयनाद् अवतीर्य भूमौ शयितः; दृष्ट्वा च पुनर् अप्रसादं प्रवेदयन्तो राज्ञः सकाशं गताः कथयन्ति: देव नासाव् अर्हति राज्यम्; राजा कथयति, किमर्थम्? ते कथयन्ति: देव यो हि नाम प्रणीतं शयनासनम् अपहाय भूमौ कृष्णाजिने शयितस् तस्य हीनाधिमुक्तस्य किं राज्येनेति; राजा कथयति: भवन्तः स प्राज्ञः, कारणेनात्र भवितव्यम्; शब्दयत इति; तैर् असौ शब्दितः: राज्ञा पृष्टः: भो माणव किमर्थं त्वं महाशयनासनाद् कृष्णाजिने शयित इति; तेन यथावृत्तं राज्ञे समाख्यातम्; ततः कथयति: देव अनुजानीहि प्रव्रजामीति; राजा कथयति: समयतो ऽनुजानामि; यदि प्रव्रजित्वा किञ्चिद् गुणगणम् अधिगच्छसि ममारोचयितव्यम् इति; तेन प्रतिज्ञातम् एवं भवत्व् इति; ततस् तेन शान्तं प्रदेशं गत्वा अनाचार्यकेण अनुपाध्यायकेन प्रत्येकबोधिर् अनुगता; स प्रत्येकबुद्धः संलक्षयति; मया तस्य राज्ञः प्रतिज्ञातम्; गच्छामि तां पूर्विकां प्रतिज्ञां निर्यातयामि इति; स राज्ञः सकाशं गत्वा उपरि विहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरब्धः; राजा तस्य पादयोर् निपत्य गाथां भाषते:
पश्याल्पकल्पप्रभवं विपाकं
महान् विशेषो ह्य् उपगेन लब्धः ।
लाभाः सुलब्धा बत माणवेन
यत् प्राव्रजत् किं कुशलं गवेषी ॥
गङ्गापाल, थे बर्बेर्
राज्ञो ब्रह्मदत्तस्य गङ्गापालो नाम कल्पकः; तेनासौ सुन्दरप्रोक्तां गाथां गाथां ग्राहितः; उक्तश् च: गङ्गापाल भूयो भूयः माम् एतां गाथां स्मारयिष्यसीति; गङ्गापालः कल्पकः स्वशिल्पे अत्यर्थं कृतावी; स यदा राज्ञो ब्रह्मदत्तस्य श्मश्रुकर्म करोति तदासौ मिद्धम् अवक्रामति; रिच्छतया प्रबोध्यते; प्रबुद्धश् ( स्ब्व् इ 210 ) च गङ्गापालं वरेण प्रवारयति, वद कं ते वरम् अनुप्रयच्छामीति; स कथयति, देव विज्ञापयिष्यामीति; यदा गङ्गापालो राजानं गाथां स्मारयति तदा राज्ञः कामकथायाम् अपि चित्तं न क्रामति; प्राग् एव कामाध्याचरणे; सो ऽन्तःपुरं अन् व्यवलोकयति; अन्तःपुरिकाः क्लेशमदाविष्टाः गङ्गापालस्य कथयन्ति: मातुल यदा ते देवो वरेण प्रवारयति, तदा वक्तव्यम्, यदि मे देवो ऽभिप्रसन्नः तद् अस्या गाथाया अर्थं विस्तरेण संप्रकाशयेद् इति; राज्ञा तस्या गाथाया अर्थो विस्तरेण संविभक्तः; स संविग्नः पादयोर् निपत्य कथयति: देव कृतोपस्थानो ऽहम्; प्रव्रजाम्य् अगाराद् अनगारिकाम् इति; राजा कथयति: यदि प्रव्राजितः किञ्चिद् गुणगणम् अधिगमिष्यसि मम निवेदयिष्यसीति; स कथयति: देव एवं भवतु निवेदयिष्यामीति; ( अ 424ब् ) स गत्वा ऋषीणां मध्ये प्रव्रजितः; तेन पञ्चाभिज्ञाः साक्षात्कृताः; तस्यैतद् अभवत्: मया राज्ञो ब्रह्मदत्तस्य प्रतिज्ञातम्; गच्छामि, तां पूर्विकां प्रतिज्ञां निर्यातयामीति; स येन राजा ब्रह्मदत्तस् तेन उपसङ्क्रान्तः; उपसङ्क्रम्य उपरि विहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरभः; अस्ति पृथग्जनस्य ऋद्धिर् आवर्जनकरी; स पादयोर् निपत्य कथयति: आर्य त्वया एवंविधगुणगणा अधिगताः? अधिगताः; राजा ब्रह्मदत्तः गङ्गापालस्य ऋषेः <पादयोर् निपतति> षड्विकारः पृथिवीकम्पो जातः; माता चास्य गाथां भाषते:
एतत् ते देवाम्रवणं ब्रह्मदत्तस्य धीमतः ।
प्रविभज्य हि यत्रैष प्राव्रजत् क्षुरभाण्डिकम् ॥ इति;
राजा ब्रह्मदत्तो मातरम् अनुसंज्ञपयन् गाथां भाषते:
मा वोचत ग्ङ्गपालम् एवं
किञ्चिन् मौनपदेषु शिक्षमाणम् ।
तस्यैष हि दुष्करस्य कर्ता
यत्कृत्वा पृथुबुद्धयो भवन्ति ॥
तपसा ह्य् अभिभूय सर्वपापम्
तपसा चाप्य् अभिभूय सर्वलोकम् ।
तपसा ह्य् अभिभूय कर्मभाण्डम्
तपसा भाति न वाच्य एष किञ्चित् ॥ इति; ( स्ब्व् इ 211 )
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्रह्मदत्तो नाम राजाभूद् एष एव स भद्रिकः शाक्यराजः; यो ऽसौ गङ्गपालनामा ऋषिर् एष एवासाव् उपाली; तदापि भद्रिकेन शाक्यराजेन ब्रह्मदत्तभूतेन उपालिनो गङ्गपालऋषिभूतस्य प्रणामे कृते षड्विकारः पृथिवीकम्पो जातः; एतर्ह्य् अपि भद्रिकेन शाक्यराजेन उपालिनः प्रव्रजितस्य प्रणामे कृते षड्विकारः पृथिवीकम्पो जात इति.
अप्पेन्दिx इइ
चोन्वेर्सिओन् ओf नन्दा अन्द् नन्दबला
अथ भगवान् नन्दां च नन्दबलां च ग्रामिकदुहितरौ धार्म्यया कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनात् प्रक्रान्तः
मर्वेल्लोउस् देएद्स् ओf थे बुद्ध बेfओरे उरुबिल्वा काश्यप
अ) थे बुद्ध सुब्दुएस् अ नाग
( च्प्स् 24अ.1 ) अथ भगवतः सेनायनग्रामकात् प्रक्रम्यैतद् अभवत्: अस्तीह मगधेषु जनपदेषु कश्चिच् छ्रमणो वा ब्राह्मणो वा सुशीलः संमतो यम् अहम् अन्वावर्तयेयं यस्मिन् मे ऽन्वावृत्ते ऽल्पकृच्छ्रेण महाजनकायो ऽन्वावर्तिष्यते; तेन खलु समयेनोरुबिल्वाकाश्यपो जटिलो जीर्णो वृद्धो महल्लको; स विंशतिवर्षशतिको जात्या मागधकानां मनुष्याणां सत्कृतो गुरुकृतो मानितो पूजितो ऽर्हन् संमतः; पंचशतपरिवारो नद्या नैरंजनायास् तीर आश्रमपदे शाम्यते; अथ भगवत एतद् अभवत्: अयम् उरुबिल्वाकाश्यपो जटिलो जीर्णो महल्लकः पूर्ववद् यावच् छाम्यते; यन्व् अहम् उरुबिल्वाकाश्यपं जटिलम् अन्वावर्तयेयं यस्मिन् मे ऽन्वावृत्ते ऽल्पकृच्छ्रेण महाजनकायो ऽन्वावर्तिष्यते ( च्प्स् 24अ.4 ) अथ भगवान् येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; अद्राक्षीद् उरुबिल्व्लाकाश्यपो जटिलो भगवन्तं दूरत एव; दृष्ट्वा च पुनर् भगवतो ऽर्थायासनं प्रज्ञप्य भगवन्तम् इदम् अवोचत्: आगच्छ महाश्रमण स्वागतं महाश्रमण; महाश्रमणश् चिरचिरस्य पर्यायम् अकार्षीद् इहागमनाय; निषीदतु महशृअमणः प्रज्ञप्त एवासने; न्यषीदद् भगवान् प्रज्ञप्त एवासने; अथोरुबिल्वाकाश्यपो भगवता सार्धं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते न्यषीदत्; ( स्ब्व् इ 218 ) एकान्तनिषण्णं भगवान् उरुबिल्वाकाश्यपं जटिलम् इदम् अवोचत्: यदि ते काश्यप अगुर्व् अहं तवाग्न्यागार एकरात्रीं विहरेयं; न मे महाश्रमण अगुरु; अपि तु तत्राशीविषो नागः प्रतिवसति; मा ते स विहेठयिष्यति; अङ्ग त्वं काश्यप अनुजानीहि न मे स विहेटयिष्यति; सचेन् महाश्रमण न ते विहेठयति तत्र महाश्रमण विहर यथासुखम् एव; ( च्प्स् 24अ.9 ) अथ भगवान् बहिर् अग्न्यागारस्य पादौ प्रक्षाल्य अग्न्यागारं पर्विश्य न्यषीदत् पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य; अद्राक्षीद् आशीविषो नागो भगवन्तं दूरत एव; दृष्ट्वा च क्रोधानुभावेन धूमयति; भगवान् अप्य् ऋद्ध्यानुभावेन धूमयति; अथाशिविषो नागः क्रोधानुभावेन प्रज्वलितः; भगवांश् च तेजोधातुसमाधिं समापन्नः; अथाशीविषस्य नागस्य क्रोधानुभावेन भगवतश् च ऋद्ध्यानुभावेन सर्वो ऽग्न्यागार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वलीभूतो ध्यायति; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानः सर्वम् अग्न्यागारम् आदीप्तं प्रदीप्तं संप्रज्वलितम् एकज्वलीभूतं ध्यायन्तं; ( च्प्स् 24अ.13 ) दृष्ट्वा च तस्यैतद् अभवत्: तथा प्रासादिको महाश्रमणः; मा हैवाशीविषेण नागेन भस्मीकृतो भविष्यति; हा कष्टं मम वचनं नाश्रौषीत्; अथ भगवत एतद् अभवत्: धर्मदेशनार्थाय उरुबिल्वाकाश्यपस्य जटिलस्य सपरिषत्कस्य यन्व् अहं तद्रूपान् ऋद्ध्यभिसंस्कारान् अभिसंस्कुर्यां यथाशीविषस्य नागस्य तेजसा तेजः पर्यादद्यां न चास्य कायः क्लाम्येत दान्तं च तं कृत्वा पात्रेणादाय उरुबिल्वाकाश्यपस्य जटिलस्य प्रयच्छेयम्; अथ भगवान् तद्रूपान् ऋद्ध्यभिसंस्कारान् अभिसंकरोति यथा समाहिते चित्ते आशीविषस्य नागस्य तेजसा तेजः पर्याददाति न चास्य कायः क्लाम्यति; दान्तं च तं कृत्वा पात्रेणादाय येनोरुबिल्वाकाश्यपो जटिलस् तेनोपजगाम; ( च्प्स् 24अ.17 ) अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो भगवन्तं दूरत एव; दृष्ट्वा च भगवन्तम् इदम् अवोचत्: जीवसि महाश्रमण; जीवामि काश्यप; किं नु ते महाश्रमण पात्रे; यस्य ते काश्यप आशीविषस्य नागस्यानुभावेन तवाग्न्यागार् ....... स मया दान्तः कृत्वा पात्रेणानीतः; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमनो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
ब्) थे बुद्ध हिन्देर्स् थे लिघ्तिन्ग् ओf थे fइरेस् ओf काश्यपऽस् स्तुदेन्त्स्
( च्प्स् 24ब्.1 ) तत्रेदानिं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे पञ्च माणवशतानि अग्निं परिचरन्ति; एकैकस् त्रीण्य् ( स्ब्व् इ 219 ) अग्निकुण्डानि संक्षेपेण पञ्चदशाग्निकुण्डशतानि; अथ ते माणवका अग्निं प्रज्वालयित्वा परिचर्तुकामा न शक्नुवन्ति प्रज्वालयितुम्; अथ ते माणवका येनोरुबिलाकाश्यपो जटिलस् तेनोपजग्मुः; उपेत्योरुबुल्वाकाश्यपं जटिलम् इदम् अवोचत्: इह वयम् उपाध्यायाग्निं प्रज्वालयित्वा परिचर्तुकामा न शक्नुमः प्रज्वालयितुम्; ( च्प्स् 24ब्.5 ) अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इहास्मकं महाश्रमण ते माणवका अग्निं प्रज्वालयित्वा परिचर्तुकामा न शक्नुवन्ति प्रज्वालयितुम्; तस्य मे एतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; ( च्प्स् 24ब्.8 ) प्रज्वलतु काश्यपाग्निः; प्रज्वलतु महाश्रमण; अथ सो ऽग्निः स्वयम् एव प्रज्वलितो यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
च्) थे बुद्ध हिन्देर्स् थे एxतिन्च्तिओन् ओf थे fइरे ओf काश्यपऽस् स्तुदेन्त्स्
( च्प्स् 24च्.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ ते माणवका अग्निं परिचरित्वा निर्वापयितुकामा न शक्नुवन्ति निर्वापयितुम्; अथ ते माणवका येनोरुबिलाकाश्यपो जटिलस् तेनोपजग्मुः; उपेत्योरुबुल्वाकाश्यपं जटिलम् इदम् अवोचत्: इह वयम् उपाध्यायाग्निं परिचरित्वा निर्वापयितुकामा न शक्नुमो निर्वापयितुम्; ( च्प्स् 24च्.4 ) अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इहास्मकं महाश्रमण ते माणवका अग्निं परिचरित्वा निर्वापयितुकामा न शक्नुवन्ति निर्वापयितुम्; तस्य मे तद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; ( च्प्स् 24ब्.7 ) निर्वातु काश्यपाग्निः; निर्वातु महाश्रमण; अथ सो ऽग्निः स्वयम् एव निर्वृतो यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन् ( स्ब्व् इ 220 )
द्) थे बुद्ध हिन्देर्स् थे लिघ्तिन्ग् ओf काश्यपस्ऽस् fइरे
( च्प्स् 24द्.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपो जटिलो ऽग्निं प्रज्वालयित्वा परिचर्तुकामो न शक्नोति प्रज्वालयितुम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इहाहं महाश्रमणाग्निं प्रज्वालयित्वा परिचर्तुकामो न शक्नोमि प्रज्वालयितुम्; तस्य मे तद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; प्रज्वलतु काश्यपाग्निः; प्रज्वलतु महाश्रमण; अथ सो ऽग्निः स्वयम् एव प्रज्वलितो यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
ए) थे बुद्ध हिन्देर्स् थे एxतिन्च्तिओन् ओf काश्यपऽस् fइरे
( च्प्स् 24ए.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपो जटिलो ऽग्निं परिचर्य निर्वापयितुकामो न शक्नोति निर्वापयितुम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इहाहं महाश्रमणाग्निं परिचर्य निर्वापयितुकामा न शक्नोमि निर्वापयितुम्; तस्य मे एतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; निर्वातु काश्यपाग्निः; निर्वातु महाश्रमण; अथ सो ऽग्निः स्वयम् एव निर्वृतो यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
f) थे बुद्ध सेत्स् fइरे तो थे fइरे-होउसे ओf काश्यप
( च्प्स् 24f.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथापरेण समयेनोरुबिल्वाकाश्यपस्य जटिलस्य सर्वो ऽग्न्यागार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्यायति ( स्ब्व् इ 221 ) तम् उरुबिल्वाकाश्यपः सपरिषत्को महता जनकायेन सार्धम् उद्यतो न शक्नोति निर्वापयितुम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: जानीहि महाश्रमण इहास्माकं महाश्रमनो सर्वो ऽग्न्यागार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्यायति; तम् अहं सपरिषत्को महता जनकायेन सार्धम् उद्यतो न शक्नोमि निर्वापयितुम्; तस्य मे एतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; निर्वापय काश्यपाग्न्यागारं; निर्वापयितु महाश्रमण; अथ सो ऽग्न्यागारः स्वयम् एव निर्वृतो यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
ग्) थे fओउर् हेअवेन्ल्य् किन्ग्स् विसित् थे बुद्ध
( च्प्स् 24ग्.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ तं रात्रिं चत्वारो महाराजानो ऽतिक्रान्तवर्णा अभिक्रान्तायां रात्र्यां येन भगवांस् तेनोपजग्मुः; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन्; तेषाम् अयम् एव रूपआत्मभावस् तद्यथा चतुर्णाम् अग्निस्कन्धानाम् आदीप्तानां प्रदीप्तानां संप्रज्वलितानां एकज्वलीभूतानां ध्यायताम्; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो भगवतः पुरस्ताच् चत्वारो महान्तो ऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूता ध्यायन्ति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरतो चत्वारो महान्तो ऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूता ध्यायन्ति; अथोरुबिल्वाकाश्यपो जटिल आश्रमपदम् अन्वाहिण्ड्य येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्; ( च्प्स् 24ग्.7 ) इहाहं महाश्रमणाद्राक्षं रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो महाश्रमणस्य पुरस्ताच् चत्वारो महान्तो ऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूत ध्यायन्ति; दृष्ट्वा च पुनर् मे एतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरस्ताच् चत्वारो महान्तो ऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूता ध्यायन्ति; नाहं काश्यप अग्निं परिचरामि; न अग्निं परिचरिष्ये; अपि तु इमां रात्रिं चत्वारो महाराजानो ऽतिक्रान्तवर्णा अभिक्रान्तायां रात्र्यां येनाहं तेनोपसंक्रान्ताः; उपेत्य मम पादौ शिरसा वन्दित्वा ( स्ब्व् इ 222 ) एकान्ते न्यषीदन्; तेषाम् अयम् एव रूपआत्मभावस् तद्यथा चतुर्णाम् अग्निस्कन्धानाम् आदीप्तानां प्रदीप्तानां संप्रज्वलितानाम् एकज्वालीभूतानां ध्यायताम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
ह्) शक्र विसित्स् थे बुद्ध
( च्प्स् 24ह्.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ तां रात्रिं शक्रो देवेन्द्रो ऽतिक्रान्तवर्णो अभिक्रान्तायां रात्र्यां येन भगवांस् तेनोपजगाम; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायम् एव रूपआत्मभावस् तेषाम् एव चतुर्णाम् अग्निस्कन्धानाम् उत्तरे अतिक्रान्ततरश् च प्रणीततरश् च; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो भगवतः पुरस्तान् महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपो जटिल आश्रमपदम् अन्वाहिण्ड्य येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्; इहाहं महाश्रमणाद्राक्षं रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो महाश्रमणस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; दृष्ट्वा च पुनर् मे एतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; नाहं काश्यप अग्निं परिचरामि; न मयाग्निं परिचरितः; अपि तु तां रात्रिं शक्रो देवेन्द्र अतिक्रान्तवर्ण अभिक्रान्तायां रात्र्यां येनाहं तेनोपसंक्रान्तः; उपेत्य मम पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायम् एव रूपआत्मभावस् तेषाम् एव चतुर्णाम् अग्निस्कन्धानाम् उत्तरे अतिक्रन्ततरश् च प्रणीततरश् च; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
ह्) ब्रह्म विसित्स् थे बुद्ध
( च्प्स् 24इ.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ तां रात्रिं ब्रह्मा सभापतिर् अतिक्रान्तवर्णो अभिक्रान्तायां रात्र्यां येन भगवांस् तेनोपजगाम; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायम् एव रूपआत्मभावस् ( स्ब्व् इ 223 ) तेषाम् एव पंचानाम् अग्निस्कन्धानाम् उत्तरे अतिक्रान्ततरश् च प्रणीततरश् च; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो भगवतः पुरस्तान् महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपो जटिल आश्रमपदम् अन्वाहिण्ड्य येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्; इहाहं महाश्रमणाद्राक्षं रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो महाश्रमणस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; दृष्ट्वा च पुनर् मे एतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; नाहं काश्यप अग्निं परिचरामि; न मयाग्निं परिचरितः; अपि तु तां रात्रिं ब्रह्मा सभापतिर् अतिक्रान्तवर्ण अभिक्रान्तायां रात्रौ येनाहं तेनोपसंक्रान्तः; उपेत्य मम पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायम् एव रूपआत्मभावस् तेषाम् एव पंचानाम् अग्निस्कन्धानाम् उत्तरे अतिक्रन्ततरश् च प्रणीततरश् च; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
ज्) थे बुद्ध रेअद्स् काश्यपऽस् थोउघ्त्स्
( च्प्स् 24ज्.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपस्य जटिलस्यावसथे सप्ताहिको यज्ञः प्रत्युपस्थितः; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: सचेद् मागधका मनुष्या जानीयुर् एवंमहर्धिको महाश्रमण एवंमहानुभावः स्थानम् एतद् विद्यते यद् अस्यैव कारा कर्तव्या मन्येरन् न तथा मम; अहो बत महाश्रमण इदं सप्ताहम् एवान्यत्र विप्रक्रमेत; अथ भगवान् उरुबिल्वाकाश्यपस्य जटिलस्य चेतसा चित्तम् आज्ञाय तत् सप्ताहम् एवान्यत्र विप्रक्रान्तः; तत् खलु सप्ताहम् उरुबिल्वाकाश्यपस्य जटिलस्य महां लाभसत्कारः प्रादुर्भूतः प्रभूतं खादनीयभोजनीयं संपन्नं महाजनकायश् च वशे वृत्तः; अथोरुबिल्वाकाश्यपस्य जटिलस्य तस्य सप्ताहस्यात्ययाद् एतद् अभवत्: अहो तत् सप्ताहं मे महां लाभसत्कारः प्रादुर्भूतः प्रभूतं खादनीयभोजनीयं संपन्नं महाजनकायश् च वशे वृत्तः; अहो बत महाश्रमण आगच्छेत् सो ऽपीतः परिभुंजीत; अथ भगवान् उरुबिल्वाकाश्यपस्य जटिलस्य चेतसा चित्तम् आज्ञाय येनोरुबिल्वाकाश्यपो जटिलस् तेनोपजगाम ( स्ब्व् इ 224 ) अद्राक्षीद् उरुबिल्वाकाश्यपो भगवन्तं दूरत एव; दृष्ट्वा च पुनर् एवम् आह: आगतो ऽसि महाश्रमण; आगतो ऽस्मि काश्यप; कस्यार्थं त्वं महाश्रमण तत् सप्ताहम् एवान्यत्र विप्रक्रान्तः; ननु ते काश्यप एतद् अभूद् यदि मागधका मनुष्या जानीयुर् एवंमहर्द्धिको महाश्रमण एवंमहानुभावः स्थानम् एतद् विद्यते यद् अस्यैव पूर्ववद् यावद् अहो बत महाश्रमण इदं सप्ताहम् एवान्यत्र विप्रक्रमेत; एवं महाश्रमण; अहं तव चेतसा चित्तम् आज्ञायान्यत्र विप्रक्रान्तः; कस्यार्थं त्वं महाश्रमण आगतः; ननु ते काश्यप तस्य सप्ताहस्यात्ययाद् एतद् अभवद् अहो तत् सप्ताहं मे महां लाभसत्कारः प्रादुर्भूतः प्रभूतं खादनीयभोजनीयं संपन्नं महाजनकायश् च वशे वृत्तः; अहो बत महाश्रंअण आगच्छेत् सो ऽपीतः परिभुंजीत; एवं महाश्रमण; अहं तव चेतसा चित्तम् आज्ञायागतः; परिभुंक्तां महाश्रमणो यथासुखम् एव; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवद् आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
क्) थे बुद्ध प्रोचुरेस् fरुइत्स् ओf जम्बु एत्च्.
( च्प्स् 24क्.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथोरुबिल्वाकाश्यपो जटिलो भगवन्तम् इदम् अवोचत्: तेन हि महाश्रमणास्माकं सामन्तके प्रतिवस; अहं ते यात्राधर्मेण; अधिवासयति भगवान् उरुबिल्वाकाश्यपस्य जटिलस्य तूष्णींभावेन; अथोरुबिल्वाकाश्यपो जटिलो भगवतो ऽर्थाय भोजनं प्रतिपादयित्वा येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: समयो महाश्रमण सद्यो भक्तं यस्येदानीं महाश्रमणः कालं मन्यते; तेन हि काश्यप गच्छ; एष आगच्छामि; अथ भगवान् अचिरप्रक्रान्तम् उरुबिल्वाकाश्यपं जटिलं विदित्वा यस्या जंब्वा नाम्ना जंबुद्वीपः प्रज्ञायते ततो जंबुपेशीनां वर्णगन्धरसोपेतानां पात्रपूरम् आदाय येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; उपेत्य प्रज्ञप्त एवासने न्यषीदत्; ततः पश्चाद् आगत उरुबिल्वाकास्यपो जटिलः; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो भगवन्तम् आश्रमपदे निषण्णम्; दृष्ट्वा च पुनर् एवम् आह: आगतो ऽसि महाश्रमण; आगतो ऽस्मि काश्यप; किन् नु ते महाश्रमण पात्रे; इहाहम् अचिरप्रक्रान्ते त्वयि तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते यस्या जंब्वा नाम्ना जंबुद्वीपः प्रज्ञायते ततो जंबुपेशीनां वर्णगन्धरसोपेतानां पात्रपूरम् आदायागतः; सचेद् आकांक्षसि परिभुंक्ष्व; परिभुंक्तां महाश्रमणो यथासुखम् एव; अथोरुबिल्वाकास्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; ( स्ब्व् इ 225 ) अपि त्व् अहम् अप्य् अर्हन्; ( च्प्स् 24ल्-न् ) यथा जम्बुपेशीनां तथापि आमलकपेशीनाम्; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तानां तण्डुलफलशालीनां पात्रपूरम् आदाय येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; उपेत्य प्रज्ञप्त एवासने न्यषीदत्; ततः पश्चाद् आगत उरुबिल्वाकाश्यपो जटिलः; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो भगवन्तम् आश्रमपदे निषण्णम्; दृष्ट्वा च पुनर् एवम् आह: आगतो ऽसि महाश्रमण; आगतो ऽस्मि काश्यप; किन् नु ते महाश्रमण पात्रे; इहाहम् अचिरप्रक्रान्ते त्वयि तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तानां तण्डुलफलशालीनां पात्रपूरम् आदाय आगतः; सचेद् आकांक्षसि परिभुंक्ष्व; परिभुंक्तां महाश्रमणो यथासुखम् एव; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
ओ) शक्र सुप्प्लिएस् थे बुद्ध wइथ् wअतेर्
( च्प्स् 24ओ.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथोरुबिल्वाकाश्यपो जटिलो भगवतो ऽर्थाय भोजनं प्रतिपादयित्वा येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्; समयो महाश्रमण सद्यो भक्तं यस्येदानीं महाश्रमणः कालं मन्यते; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; उपेत्य प्रज्ञप्त एवासने न्यषीदत्; अथोरुबिल्वाकाश्यपो जटिलः सुखोपनिषण्णं भगवन्तं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन पात्रं पूरयित्वा पर्तिपादितः; अथ भगवान् उरुबिल्वाकाश्यपस्य जटिलस्यान्तिकात् पिण्डपातम् आदाय अन्यतरस्मिं प्रदेशे भक्तकृत्यम् अकार्षीत्; तत्र भगवत उदकेनोदककार्यम् उत्पन्नम्; अथ शक्रो देवेन्द्रो भगवत उदकेनोत्पन्नम् उदककार्यं विदित्वा भगवतः पुरतः पाणिना पृथिवीं पराहन्ति; तत्र महद् उदपानं प्रादुर्भूतं वारिविष्यन्दि; यतो भगवान् उदककार्यम् अकार्षीत्; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिल आश्रमपदे चंक्रमन् महद् उदपानं प्रादुर्भूतं वारिविष्यन्दि; दृष्ट्वा च तस्यैतद् अभवत्: न इदं पूर्वे उदपानं मया दृष्टम्: एतर्हि उदकं कुत आगतम्: अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: जानीहि महाश्रमण; इहाहम् आश्रमपदे चंक्रमन्न् अद्राक्षं महद् उदपानं वारिविष्यन्दि; दृष्ट्वा च ममैतद् अभवत्: न इदं महाश्रमण पूर्वे उदपानं मया दृष्टं, एतर्हि उदकं कुत आगतं; अत्र तव काश्यप अन्तिकात् पिण्डपातम् आदाय अन्यतरस्मिं प्रदेशे भक्तकृत्यं कृत्वा मम उदकेनोदककार्यम् ( स्ब्व् इ 226 ) उत्पन्नम्; अथ शक्रो देवेन्द्रो मम उदकेनोत्पन्नम् उदककार्यं विदित्वास्मिं प्रदेशे पाणिना पृथिवीं पराहन्ति; अत्र महद् उदपानं प्रादुर्भूतं यतो ऽहम् उदकेनोदककार्यम् अकार्षम्; पाणिखाता नाम काश्यप एषा पुष्करिणी; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
प्) अन् अर्जुन-त्रेए इन्च्लिनेस् थे ब्रन्छ्
( च्प्स् 24प्.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थाय येन पाणिखाता पुष्करिणी तेनोपजगाम; उपेत्य पाणिखातायाः पुष्करिण्यास् तीरे एकान्तं चीवरकाण्य् उपनिक्षिप्य पाणिखातां पुष्करिणीम् अभ्यवगाह्य गात्राणि परिषिच्य पाणिखातायाः पुष्करिण्या उत्तर्तुकामो येन ककुभवृक्षस् तेन बाहुं प्रसारयति; ततः सा महती ककुभशाखा नता याम् अवलंब्य भगवान् पाणिखातायाः पुष्करिण्या उत्तीर्णः; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिल आश्रमपदम् अन्वाहिण्डन् पाणिखातायाः पुष्करिण्यास् तीरे महतीं ककुभशाखां नतां; दृष्ट्वा च तस्यैतद् अभवत्: नैषा मे पूर्वे ककुभशाखा नमति; न को महतीं ककुभशाखां नमयति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: जानीहि महाश्रमण; इहाहं आश्रमपदम् अन्वाहिण्डन्न् अद्राक्षं पाणिखातायाः पुष्करिण्यास् तीरे महतीं ककुभशाखां नताम्; दृष्ट्वा च ममैतद् अभवत्: नैषा मे महाश्रमण पूर्वे ककुभशाखा नमति; मा कश्चिन् महतीं ककुभशाखां नमयति; इहाहं काश्यप सायाह्ने प्रतिसंलयनाद् व्युत्थाय येन पाणिखाता पुष्करिणी तेनोपजगाम; उपेत्य पाणिखातायाः पुष्करिण्यास् तीरे एकान्तं चीवरकाण्य् उपनिक्षिप्य पाणिखातां पुष्करिणीम् अभ्यवगाह्य; गात्राणि परिषिच्य पाणिखातायाः पुष्करिण्या उत्तर्तुकामो येन ककुभवृक्षस् तेन बाहुं प्रसारयमि; ततः सा महती ककुभशाखा नमति याम् अवलंब्य पाणिखातायाः पुष्करिण्या अहम् उत्तीर्णः; बाहुगृहीतो नाम काश्यप एष ककुभः; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
q) शक्र मकेस् थे wअस्हिन्ग् ओf च्लोथेस् पोस्सिब्ले
( च्प्स् 24q.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेन भगवतः शाणकानि पांसुकूलानि संपन्नानि; अथ भगवत एतद् अभवत्: कुत्र न्व् अहं शाणकानि ( स्ब्व् इ 227 ) पांसुकूलानि प्रविषिंचेयम्; अथ खलु शक्रो देवेन्द्रो भगवतश् चेतसा चित्तम् आज्ञायान्यतरस्मात् प्रदेशां महतीं पाषाणशिलाम् आदाय येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इह भगवाञ् शाणकानि पांसुकूलानि प्रविषिंचतु; तत्र भगवता शाणकानि पांसुकूलानि प्रविषिक्तानि; अथ भगवत एतद् अभवत्: कुत्र न्व् अहं शाणकानि पांसुकूलानि शोचयेयम्; अथ खलु शक्रो देवेन्द्रो भगवतश् चेतसा चित्तम् आज्ञायान्यतरस्मात् प्रदेशान् महतीं पाषाणशिलाम् आदाय येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इह भगवाञ् शाणकानि पांसुकूलानि शोचयतु; तत्र भगवता शाणकानि पांसुकूलानि शोचितानि; अद्राक्षीद् उरुबिल्वाकाश्यप आश्रमपदम् अन्वाहिण्डंस् ते महत्यौ पाशाणशिले; दृष्ट्वा च तस्यैतद् अभवत्: नैते महत्यौ पाषाणशिले पूर्वे अभूतम्; केन ते एतर्ह्य् आनीते; अथ उरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: जानीहि महाश्रमण; इहाहम् आश्रमपदम् अन्वाहिण्डन्न् अद्राक्षं महत्यौ पाषाणशिले; दृष्ट्वा च ममैतद् अभवत्: नैते महत्यौ पाषाणशिले पूर्वे अभूतम्; केन ते एतर्ह्य् आनीते; इह मम काश्यप शाणकानि पांसुकूलानि संपन्नानि; तस्य मे एतद् अभवत्: कुत्र न्व् अहं शाणकानि पांसुकूलानि प्रविषिंचेयम्; अथ खलु शक्रो देवेन्द्रो मम चेतसा चित्तम् आज्ञायान्यतरस्मात् प्रदेशां महतीं पाषाणशिलाम् आदाय येनाहं तेनोपजगाम; उपेत्य माम् इदम् अवोचत्: इह भगवाञ् शाणकानि पांसुकूलानि प्रविषिंचतु; तत्र मया शाणकानि पांसुकूलानि प्रविषिक्तानि; तस्य मे एतद् अभवत्: कुत्र न्व् अहं शाणकानि पांसुकूलानि शोचयेयम्; अथ खलु शक्रो देवेन्द्रो मम चेतसा चित्तम् आज्ञायान्यतरस्मात् प्रदेशान् महतीं पाषाणशिलाम् आदाय येनाहं तेनोपजगाम; उपेत्य माम् इदम् अवोचत्: इह भगवाञ् शाणकानि पांसुकूलानि शोचयतु; तत्र मया शाणकानि पांसुकूलानि शोचितानि; यक्षाहृता नाम काश्यप एषा महती पाषाणशिला; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
र्) बुद्धऽस् चोम्मन्द् ओन् थे एलेमेन्त् wअतेर्
( च्प्स् 24र्.1 ) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेन नैरंजनाया महोदकवाहः प्रादुर्भूतः; अथ भगवान् साधिकपौरुषेणोदकस्कन्धेन परिक्षिप्तो रेणुहते ऽभ्यवकाशे चंक्रमति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: तथा प्रासादिको महाश्रमणः; मा हैवोदकवाहेन हृतो भविष्यति इति महाश्रमणं समन्वेषिष्यामीत्य् एकवृक्षिकां ( स्ब्व् इ 228 ) नावम् अधिरोहन् भगवन्तं समन्वेषति; अद्राक्षीद् उरुबिल्वाकास्यपो जटिलो भगवन्तं साधिकपौरुषेणोदकस्कन्धेन परिक्षिप्तं रेणुहते ऽभ्यवकाशे चंक्रमन्तम्; दृष्ट्वा च पुनर् भगवन्तम् इदम् अवोचत्: जीवसि महाश्रमण; जीवामि काश्यप; अधिरोह महाश्रमण; अधिरोक्ष्यसि महाश्रमण एकवृक्षिकां नावम्; अधिरोहामि काश्यप; अथ भगवत एतद् अभवत्: यन्व् अहं तद्रूपान् ऋद्ध्याभिसंस्कारान् अभिसंस्कुर्यां यथा समाहिते चित्ते यथोदकम् एव एकवृक्षिकां नावम् अधिरोहेयम्; अथ भगवान् तद्रूपन् ऋद्ध्याभिसंस्कारान् अभिसंस्करोति यथा समाहिते चित्ते यथोदकम् एव एकवृक्षिकां नावम् अधिरोहति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्
चोन्वेर्सिओन् ओf उरुबिल्वाकाश्यप अन्द् ओf हिस् fइवे हुन्द्रेद् स्तुदेन्त्स्
( च्प्स् 25अ.1 ) अथ भगवान् उरुबिल्वाकाश्यपस्य जटिलस्य चेतसा चित्तं आज्ञाय उरुबिल्वाकाश्यपं जटिलम् इदम् अवोचत्: नैव त्वं काश्यपार्हन् नैवार्हत्वफलसाक्षात्क्रियां समापन्नो नैवाजानास्य् अर्हत्वमार्गम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: जानाति मे महाश्रमणश् चेतसा चित्तम्; इति विदित्वा भगवन्तम् इदम् अवोचत्: लभेयाहं महाश्रमणस्यान्तिके प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेयम् अहं महाश्रमणस्यान्तिके ब्रह्मचर्यम्; अथ भगवान् उरुबिल्वाकाश्यपम् आमन्त्रयते: अवलोकिता ते काश्यप परिषन् नो श्रमण; तेन हि काश्यप परिषदं तावद् अवलोकय; परिषदवलोकनम् एव साधु यथापितत् त्वादृशानां यशस्विनां ज्ञातमनुष्याणाम्; अथोरुबिल्वाकाश्यपो जटिलो माणवकान् आमन्त्रयति: अहं माणवका महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यामि; भवन्तः किं करिष्यन्ति; यत् किञ्चिद् वयम् उपाध्याय प्रजानीमः सर्वं तद् उपाध्यायम् आगम्य; सचेद् उपाध्यायो महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यति ते वयम् उपाध्यायं प्रव्रजितम् अनुप्रव्रजिष्यामः; तेन हि यूयं माणवका एतान्य् अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि नद्यां नैरंजनायां प्रक्षिपत; एवम् उपाध्याय; इति ते माणवका अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि नद्यां नैरंजनायां प्रक्षिप्य येनोरुबिल्वाकाश्यपो जटिलस् तेनोपजग्मुः; उपेत्योरुबिल्वाकाश्यपं जटिलम् इदम् अवोचन्: उपाध्याय एवम् अस्माभिः कृतम्; अस्ति किंचित् करणीयम्; अथोरुबिल्वाकास्यपो जटिलः पंचशतं जटिलमाणवकान् आदाय येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: अवलोकिता मे महाश्रमण परिषत्; लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं ( स्ब्व् इ 229 ) भिक्षुभावम्; चरेयम् अहं महाश्रमणस्यान्तिके ब्रह्मचर्यम्; लब्धवान् उरुबिल्वाकाश्यपो जटिलो भगवतो ऽन्तिके ब्रह्मचर्यम्; सा एवास्यायुष्मतः प्रव्रज्याभूद् उपसंपद् भिक्षुभावः
चोन्वेर्सिओन् ओf नदी- अन्द् गयाकाश्यप wइथ् थेइर् त्wओ हुन्द्रेद् अन्द् fइfत्य् स्तुदेन्त्स्
( च्प्स् 25ब्.1 ) तेन खलु समयेनोरुबिल्वाकाश्यपस्य जटिलस्य नदीगयाकाश्यपौ भ्रातराव् अर्धतृतीयशतपरिवारौ नद्या नैरंजनाया अधस्ताद्भागेनाश्रमपदे शाम्येते; अद्राष्टां नदीगयाकाश्यपौ भ्रातराव् अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि नद्यां नैरंजनायाम् उह्यमानानि; दृष्ट्वा च काश्यपयोर् एतद् अभवत्: मा हैवावयोः सब्रह्मचारिणां कश्चिद् एवादीनवो भविष्यति राजतो वा चौरतो वा अग्नितो वा उदकतो वा; यन्व् चावां सब्रह्मचारिणो ऽन्वेषेव; अथ नदीगयाकाश्यपौ भ्रातराव् अन्वेषन्ताव् उरुबिल्वाकाश्यपं येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदम् तेनोपजग्मतुः; तेन समयेनोरुबिल्वाकाश्यपो जटिलो मुण्डः संघाटीप्रावृतो भगवतः पुरतो निषण्णः धर्मश्रवणाय; अपश्यतां नदीगयाकाश्यपौ भ्रातराव् उरुबिल्वाकाश्यपं जटिलं मुण्डं संघाटीप्रावृतं भगवतः पुरतो निषण्णं धर्मश्रवणाय; दृष्ट्वा चोरुविल्वाकास्यपं जटिलम् इदम् ऊचतुः; एतत् काश्यप वरं नेदम्; इदं काश्यपौ वरं नैतत्; अथ नदीगयाकाश्यपयोर् एतद् अभवत्: न बतावरो बुद्धो भविष्यति नावरं धर्माख्यानं यत्रेदानीं उरुबिल्वाकाश्यपो जटिलो जीर्णो वृद्धो महल्लकः स विंशतिवर्षशतिको जात्या मागधकानां मनुष्याणां सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हन् सम्मतः स महाश्रमणस्यान्तिके द्विर् अपि प्रव्रज्याम् उपगतः; यन्व् आवाम् अपि महाश्रमणस्यान्तिके ब्रह्मचर्यां चरेव; इति विदित्वा भगवन्तम् इदम् अवोचतां: लभेवह्य् आवां महाश्रमण स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेव आवां महाश्रमणस्यान्तिके ब्रह्मचर्यम्; अवलोकिता वां काश्यपौ परिषन् नो महश्रमण; तेन हि काश्यपौ परिषदं तावद् अवलोकयताम्; परिषदवलोकनम् एव साधु यथापितद् युष्मद्विधानां यशस्विनां ज्ञातमनुष्याणाम्; अथ नदीगयाकाश्यपौ भ्रातरौ येन स्वकीयाश्रमस् तेनोपजग्मतुः; उपेत्य स्वकान् माणवकान् इदम् अवोचताम्: आवां माणवका महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यावः; भवन्तः किं करिष्यन्ति; यत् किंचिद् वयम् उपाध्यायौ प्रजानीमः सर्वं तद् उपाध्यायाव् आगम्य; सचेद् उपाध्यायौ महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यतस् ते वयम् उपाध्यायौ प्रव्रजिताव् अनुप्रव्रजिष्यामः; यस्येदानीं माणवकाः कालं मन्यध्वे; अथ नदीगयाकाश्यपौ ( स्ब्व् इ 230 ) भ्रातराव् अर्धतृतीय्शतपरिवारौ येन भगवांस् तेनोपजग्मतुः; उपेत्य भगवन्तम् इदम् अवोचताम्; अवलोकिता नौ महाश्रमण परिषत्; लभेवह्य् आवां महाश्रमणस्यान्तिके प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेवावां महाश्रमणस्यान्तिके ब्रह्मचर्यम्; लब्धवन्तौ नदीगयाकाश्यपौ भ्रातरौ भगवतो ब्रह्मचर्यम्; सा एवानयोर् आयुष्मन्तोः प्रव्रज्याभूद् उपसंपद् भिक्षुभावः
थे सेर्मोन् अत् गयाशीर्ष
( च्प्स् 26.1 ) अथ भगवांस् तद् जटिलसहस्रं प्रव्राजयित्वोपसंपादयित्वा यथाभिरम्यम् उरुबिल्वायां विहृत्य येन गया तेन चार्यां प्रक्रान्तः; अनुपूर्वेण चार्यां चरन् गयाम् अनुप्राप्तः; विहरति गयाशीर्षे चैत्ये सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः; तत्र भगवांस् तद् भिक्षुसहस्रं तृभिः प्रातिहार्यैर् अववदति; ऋद्धिप्रातिहार्येणादेशनाप्रातिहार्येणानुशासनीप्रातिहार्येण; तत्रेदं भगवत ऋद्धिप्रातिहार्यम्; अथ भगवांस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वस्मिन्न् आसने ऽन्तर्हितः पूर्वस्यान् दिश्य् उपरि विहायसम् अभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति चंक्रमति तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; तेजोधातुं समापन्नस्य बुद्धस्य भगवतो विविधान्य् अर्चींषि कायान् निश्चरन्ति नीलानि पीतानि लोहितान्य् अवदातानि मांजिष्ठानि स्पटिकवर्णानि; यमकानि च प्रातिहार्याणि विदर्शयति; अधः कायः प्रज्वलति; उपरिमात् कायाच् छीतला वारिधाराः स्यन्दन्ते; उपरिमः कायः प्रज्वलति; अधः कायाच् छीतला वारिधाराः स्यन्दन्ते; एवं दक्षिणस्यां पश्चिमस्याम् उत्तरस्यान् दिश्य्; अथ चतुर्दिशं चतुर्विधं विविधम् ऋद्धिप्रातिहार्यं विदर्शयित्वा तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत्; इदं तत्र भगवत ऋद्धिप्रातिहार्यम्; तत्रेदं भगवत आदेशनाप्रातिहार्यम्; युष्माकं भिक्षवश् चित्तम् एवम्; मन इदम्; विज्ञानम् इदं; वितर्कयतेदं मा वितर्कयतेदम्; मनसिकुरुतेदं; न मनसिकुरुतेदम्; प्रजहतेदं; मा प्रजहतेदम्; इदं कायेन साक्षात्कृत्वोपसंपद्य विहरत; इदं तत्र भगवता आदेशनाप्रातिहार्यम्; तत्रेदं भगवतो ऽनुशासनीप्रातिहार्यम्; सर्वं भिक्षवः आदीप्तं; किं च सर्वम् आदीप्तं; चक्षुर् आदीप्तं रूपं चक्षुर्विज्ञानं चक्षुःसंस्पर्शः; यद् अपि चक्षुःसंस्पर्शप्रत्ययम् आध्यात्मम् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखम् असुखं वा तद् अप्य् आदीप्तं; एवं श्रोत्रं घ्राणं जिह्वा कायो मन आदीप्तम्; आदीप्तं मनोविज्ञानं मनःसंस्पर्शः; यद् अपि मनःसंस्पर्शप्रत्ययम् ( स्ब्व् इ 231 ) अध्यात्मम् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखम् असुखं वा तद् अप्य् आदीप्तं; केनादीप्तं; रागाग्निना द्वेषाग्निना मोहाग्निना; आदीप्तं जातिजराव्याधिमरणपरिदेवदुःखदौर्मनस्योपायासैः; आदिप्तं दुःखेनेति; इदं तत्र भगवतो ऽनुशसनीप्रातिहार्यम्; अस्मिन् खलु धर्मपर्याये भाष्यमाणे तस्य भिक्षुसहस्रस्यानुपादायास्रवेभ्यश् चित्तं विमुक्तं
थे fइर्स्त् अनोउन्चेमेन्त् ओf थे बिर्थ् ओf अ ग्रेअत् मन्
( च्प्स् 27अ.1 ) अथ भगवान् गयायां गयाशीर्षे चैत्य एव विहरति सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः सर्वैश् चार्हद्भिः क्षीणास्रवैः कृतकृत्यैः कृतकरणीयैर् अवहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञया सुविमुक्तचित्तैः; अश्रौषू राज्ञो मागधस्य श्रैण्यस्य बिंबिसारस्य पौरुषेया जनपदान् अन्वाहिण्डन्तः; शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास् तीरे कपिलस्यर्षेर् आश्रमपदस्य नातिदूरे; स ब्राह्मणैर् निमित्तिकैर् विपंचनकैर् व्याकृतः; सचेद् अगारम् अध्यावत्स्यति राजा भविष्यति चक्रवर्ती चतुरन्त्यां विजेता धार्मिको धर्मराजा सप्तरत्नसमन्वागतः; तस्यैवंरूपाणि सप्त रत्नानि भविष्यन्ति तद्यथा चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहहपतिरत्नं परिणायकरत्नम् एव सप्तमम्; पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्; स इमां समुद्रपर्यन्तां महापृथिवीम् अखिलाम् अकण्टकाम् अनुत्पाताम् अदण्डेनाशस्त्रेण धर्मेण समेनाभिनिर्जित्याध्यवत्स्यति; सचेत् केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजिष्यति तथागतो भविष्यत्य् अर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोके; श्रुत्वा च पुनर् येन राजा मागधः श्रैण्यो बिंबिसारस् तेनोपजग्मुः; उपेत्य राजानं मागधं श्रैण्यं बिंबिसारम् इदम् अवोचन्: यत् खलु देव जानीयाः; इह वयम् अश्रौष्म देवस्य जनपदान् अन्वाहिण्डन्तः; शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास् तीरे कपिलस्यर्षेर् आश्रमपदस्य नातिदूरे; स ब्राह्मणैर् निमित्तिकैर् विपंचनकैर् व्याकृतः; सचेद् अगारम् अध्यावत्स्यति राजा भविष्यति चक्रवर्ती चतुरन्त्यां विजेता पूर्ववद् यावद् परिणायकरत्नम् एव सप्तमम्; पूर्णं चास्य भविष्यति सहस्रं पुत्राणां पूर्ववद् यावद् धर्मेण समेनाभिनिर्जित्याध्यवत्स्यति; सचेत् केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य पूर्ववद् याचद् अर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोके; तं देवो घातयतु; ( स्ब्व् इ 232 ) म् #### ग्रामण्य शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास् तीरे कपिलस्यर्षेर् आश्रमपदस्य नातिदूरे पूर्ववद् यावत् सचेद् अगारम् अध्यावत्स्यति राजा भविष्यति चक्रवर्ती पूर्ववद् यावद् धर्मेण समेनाभिनिर्जित्याध्यवत्स्यति; पुर्ववद् यावत् सचेत् केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजिष्यति तथागतो भविष्यत्य् अर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोके; तं देवो घटयितु; म् ### मा ग्रामन्य एवं वोचत; तत् कस्य हेतोः; ( च्प्स् 27अ.14 ) मा ग्रामन्य शाक्यानां कुमार उत्पन्नो इति पूर्ववद् यावत् सचेत् राजा भविष्यति चक्रवर्ती अनुयात्रका अस्य भविष्यामः; अथ राजा मागधः श्रैण्यो बिंबिसार उपरि प्रासादतलगतः पंचायाचनवस्तून्य् आयाचते; अहो बतायं मम विजिते तथागत उत्पद्येतार्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; तं चाहं दर्शनायोपसंक्रमयेयम्; उपसंक्रान्तस्य च मे धर्मं देशयेत्; तं चाहं धर्मं आजानीयां; आज्ञातधर्मस्य च मे शिक्षां प्रज्ञापयेत्; यच् चाहं तां शिक्षां समादाय वसेयम्; तत्र भगवान् भिक्षून् आमन्त्रयते; एष भिक्षवो राजा मागधः श्रैन्यो बिंबिसार उपरि प्रासादतलगतः पंचायाचनवस्तून्य् आयाचते: अहो बतायं मे विजिते तथागत उत्पद्येतार्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; तं चाहं दर्शनायोपसंक्रमयेयम्; उपसंक्रान्तस्य च मे धर्मं देशयेत्; तं चाहं धर्मं आजानीयां; आज्ञातधर्मस्य च मे शिक्षां प्रज्ञापयेत्; यच् चाहं तां शिक्षां समादाय वसेयम्
थे बुद्ध इन् मगध. थे इन्विततिओन् ओf बिम्बिसार
( च्प्स् 27ब्.1 ) अश्रौषू रज्ञो मागधस्य श्रैण्यस्य बिम्बिसारस्य पौरुषेया जनपदान् अन्वाहिण्डन्तः: शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास् तीरे कपिलस्यर्षेर् आश्रमपदस्य नातिदूरे; स ब्राह्मणैर् निमित्तिकैर् विपंचनकैर् व्याकृतः पूर्ववद् यावद् विघुष्टशब्दो लोके; स केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजितः; सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो गयायां विहरति गयाशीर्षे चैत्ये सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः सर्वैश् चार्हद्भिः ( स्ब्व् इ 233 ) क्षीणास्रवैः कृतकृत्यैः कृतकरणीयैर् अवहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञया सुविमुक्तचित्तैः; श्रुत्वा च पुनर् येन राजा मागधः श्रैण्यो बिम्बिसारस् तेनोपजग्मुः; उपेत्य राजानं मागधं श्रैण्यं बिम्बिसारम् इदम् अवोचन्: यत् खलु जानीयाः; इह वयं अश्रौष्म देवस्य जनपदान् अन्वाहिण्डन्तः: यः शाक्यानां कुमार उत्पन्नः पूर्ववद् यावद् विघुष्टशब्दो लोके; स केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजितः; सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो गयायां गयाशीर्षे चैत्ये एव विहरति सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः सर्वैश् चार्हद्भिः क्षीणास्रवैः कृतकृत्यैः पूर्ववद् यावद् सम्यगाज्ञया सुविमुक्तचित्तैः; तन् देवः पर्युपासीत; एवं देवः ### भविष्यति; अथ राजा मागधः श्रैण्यो बिंबिसारो ऽन्यतमं पुरुषम् आमन्त्रयते: एहि भोः पुरुष येन भगवांस् तेनोपसंक्रम; उपेत्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दस्व; अल्पाबाधतां च पृच्छाल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च; एवं च वद; आगच्छतु भगवान् राजगृहम्; अहं भगवन्तं यावज्जीवम् उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; एवं देवेति स पुरुषो राज्ञो मागधस्य श्रैण्यस्य बिंबिसारस्य प्रतिश्रुत्य येन भगवांस् तेनोपजगाम; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; एकान्तनिषण्णः स पुरुषो भगवन्तम् इदम् अवोचत्: राजा भदन्त मागधः श्रैण्यो बिंबिसारो भगवत्पादौ शिरसा वन्दत्य् अल्पाबाधतां च पृच्छत्य् अल्पातङ्कतां च पूर्ववद् यावत् स्पर्शविहारतां च; सुखी भवतु पुरुष राजा मागधः श्रैण्यो बिंबिसारस् त्वं च
थे विसित् ओf बिंबिसार. उरुबिल्वाकाश्यप अन्द् थे बुद्ध
( च्प्स् 27ब्.14 ) राजा भदन्त मागधः श्रैण्यो बिंबिसार एवं वदति: आगच्छतु भगवान् राजगृहम्; अहं भगवन्तं यावज्जीवम् उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अधिवासयति भगवांस् तस्य पुरुषस्य तूष्णींभावेन; अथ सो पुरुषो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवत्पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः; ( च्प्स् 27च्.1 ) अथ भगवान् महता भिक्षुसंघेन सार्धं भिक्षुसहस्रेण सर्वैः ( स्ब्व् इ 234 ) पुराणजटिलैः सर्वैश् चार्हद्भिः क्षीणास्रवैः कृतकृत्यैः कृतकरणीयैर् अवहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञया सुविमुक्तचित्तैर् मागधेषु जनपदेषु चर्यां चरन् येन यष्टिवनं सुप्रतिष्ठितो मागधकानां चैत्यस् तेन चर्यां प्रक्रान्तः; अथ भगवान् सुप्रतिष्ठितं चैत्यं अनुप्राप्तो यष्टिवने सुप्रतिष्ठिते विहरति मागधकानां चैत्ये; अश्रौषीद् राजा मागधः श्रैन्यो बिंबिसारः; भगवान् महता भिक्षुसंघेन सार्धं भिक्षुसहस्रेण सर्वैः पूर्ववद् यावत् सम्यगाज्ञया सुविमुक्तचित्तैर् मागधेषु जनपदेषु चर्यां चरन् येन यष्टिवनं सुप्रतिष्ठितो मागधकानां चैत्यस् तेनानुप्राप्तो यष्टिवने विहरति मागधकानां चैत्ये
fओल्. 513ff. fइर्स्त् एद्. इन् म्स्व् इव् 213ff.
उद्दानम्:
कौण्डिन्यो नन्दीपालश् च मोदका उदकं पिबेत् ।
पूपको मधुवासिष्ठो विनयाग्रं गणितेन च ॥
करकः कलभुश् चैव विश्वभुग् वनरथेन च ।
छत्रं कीतशिरामैत्री तथा घण्टेन घोषिता ॥
यदा आयुष्मता कौण्डिन्येन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् <इति> भगवता सङ्घाटीध्वजधारिणाम् अग्रो निर्दिष्टः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता कौण्डिन्येन कर्म कृतम् येन भगवता सङ्घाटीध्वजधारिणाम् अग्रो निर्दिष्टः?
भगवान् आह: कौण्डिन्येन भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; कौण्डिन्येनैव कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; ( स्ब्व् इइ 2 ) अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥
स्तोर्य् ओf कौण्डिन्य
भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे वर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; *स वाराणसीं नगरीम् उपनिश्रित्य विहरति करकच्छेदके पर्वते; यावद् अपरेण समयेन काश्यपः सम्यक्संबुद्धः पूर्वाह्णे निवास्य, पात्रचीवरम् आदाय वाराणसीं प्रविशति; पञ्चमात्राणि च गोष्ठिकशतानि निर्गच्छन्ति; अद्राक्शुस् ते गोष्ठिकास् तं बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतम्, अशित्या चानुव्यञ्जनैर् विराजितगत्रम्, व्यामप्रभालङ्कृतं, सूर्यसहस्रातिरेकप्रभम्, जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्; सहदर्शनाच् च प्रसादजाताः सञ्जल्पं कर्तुम् आरब्धाः: भवन्तो ऽस्माभिर् अस्य सकाशे प्रव्रजितव्यम् इति; तेषाम् एवं कृतसङ्केतानां केचिन् महासमुद्रम् अवतीर्णाह्; केचिद् देशान्तरं गताः; केचित् कालधर्मेण संयुक्ताः; षोदशजनाः परिशिष्टाः; ते कर<क>च्छेदकं पर्वतं गत्वा काश्यपस्य सम्यक्संबुद्धस्य सकाशे प्रव्रजिताः; ते तत्र ध्यानाध्ययनयोगेनावस्थिताः; यावद् अपरेण समयेन काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निः ऋषिवदने मृगदावे निरुपधिशेषे निर्वाणधातौ परिनिर्वृतह्; तेषां देवताभिर् आरोचितम्: भवन्तः काश्यपः परिनिर्वृतः; सप्ताहपरिनिर्वृतस्य चास्य शासनम् अन्तर्हितम्; किं यूयम् अफलकंबुका पुरतस्तिष्ठत इति; ते श्रुत्वा अकृतकार्यत्वान् महता दुःखेनाभ्याहताह्; पञ्च सहश्रवणाद् एव करकच्छेदकात् पर्वताद् अवतीर्य वाराणसीं प्रविष्टाः; षड्भिस् तेनैव संवेगेन वीर्यम् अवलम्ब्य प्रत्येकबोधिः साक्षात्कृता; पञ्च पश्चाद् अवतीर्य वाराणसीं प्रवेष्टुम् ( स्ब्व् इइ 3 ) आरब्धाः; यावच् छकटसार्थो निर्गच्छति; एकस्य शाकटिकस्य बलीवर्दा दुर्बलाः; स तान् प्रतोदयष्ट्या भूयो ताडयति; दुर्बलप्राणत्वान् न शक्नुवन्ति गन्तुम्; स च शाकटिकस् तस्य शकटसार्थस्याग्रतो यायी; स तैर् भिक्षुभिर् उक्तः: भोः शाकटिक तवेमे बलीवर्दा दुर्बलाः; किम् एतान् प्रतोदयष्ट्या भूयोभूयस् ताडयसि? यदि न शक्नुवन्ति गन्तुम्, विस्रब्धगतिप्रचारतया पृष्ठतो ऽनुगच्छेति; स कथयति: ममाग्रतो गच्छतो न शक्यम् अनेन शकटसार्थेन सार्धं गन्तुम्; यद्य् अहं पृष्ठतो ऽनुगच्छामि, नूनम् अयं शकटसार्थो छोरयित्वा गच्छतीति; ते शाकटिकस्यान्तिके असद्विकल्पसंज्ञनितवैमुख्याः परस्परं कथयन्ति: भवन्तः काश्यपे सम्यक्संबुद्धे परिनिर्वृते वयं विलम्बिता इत्य् अनेनास्माकम् एषा चोदना कृता; यन् नु वयं वीर्यम् आरभेमहि; इति विदित्वा गाथां भाषन्ते:
यद्य् अप्य् अन्तर्हितो धर्मः काश्यपस्य महामुनेः ।
वीर्यं न स्रंसयिष्यामः सम्यक्संबुद्धदेशितम् ॥
परिक्षयं न यास्यन्ति यद्य् अप्य् अस्माकम् आस्रावाः ।
श्रावकाग्रा भविष्यामः शाक्यसिंहस्य तायिनः ॥ इति;
ते वाराणसीं प्रविश्य पिण्डपातं चरित्वा पुनर् अपि करकच्छेदकं पर्वतं गत्वा ध्यानाध्ययनयोगेनावस्थिताः; तेषां चत्वारः कालगताः; एको ऽवस्थितः; स उत्सुक उदानम् उदानयति: अयम् एव स करकच्छेदकः पर्वतो यत्र मया काश्यपः सम्यक्संबुद्धः पर्युपासितः; दृष्टश् च तस्य विंशतिभिक्षुसहराणाम् एकः ( अ 425ब् ) सकलजम्बूद्वीपे ऽपि सङ्घाटीध्वजधारीति; स प्रणिधानं कर्तुम् आरब्धः: यन् मया भगवति काश्यपे सम्यक्संबुद्धे यावदायुर् ब्रह्मचर्यं चरितम्; न कश्चिद् गुणगणो ऽधिगतः; अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतः, भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतः अर्हन् सम्यक्संबुद्धः इति; तस्याहं शासने प्रव्रज्य तत्प्रथमतः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम्; मां च भगवान् शाक्यमुनिः सङ्घाटीध्वजधारिणाम् अग्रं निर्दिशेद् इति.
किं मन्यध्वे भिक्षवः? यो ऽसौ तेन कालेन समयेन भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वृतस्य विंशतिभिक्षुसहराणाम् ( स्ब्व् इइ 4 ) सकलजम्बूद्वीपे एको भिक्षुर् अवशिष्टः सङ्घाटीध्वजधारी, येन तत्करकच्छेदके पर्वते प्रणिधानं कृतम्, एष एवासौ कौण्डिन्यो भिक्षुः; तत्प्रणिधान्वशाद् एतर्हि भगवता सङ्घाटीध्वजधारिणाम् अग्रतायां निर्दिष्टः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्.
यदा भगवता आयुष्मतः कौण्डिन्यस्य आकार्याकार्य धर्मो देशितः, आज्ञातस् ते कौण्डिन्य धर्मः? आज्ञतो भगवन्; आज्ञतस् ते कौण्डिन्य धर्मः? आज्ञतस् सुगत, इति, तदा भिक्षवः संशयजातः सर्वसंशयछेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आज्ञातकौण्डिन्येन कर्म कृतं येनास्य भगवता आकार्याकार्य धर्मो देशितः, आज्ञातस् ते कौण्डिन्य धर्मः? आज्ञतो भगवन्; आज्ञतस् ते कौण्डिन्य धर्मः? आज्ञतस् सुगत इति; भगवान् आह: कौण्डिन्येनैव भिक्षवो भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनाम्.
स्तोर्य् ओf काशिसुन्दरक (क्षान्तिवादिन्)
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf कौण्डिन्य)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः, अभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अमात्याः ऊचुः: देव आचरितं मध्यदेशे यो ऽभिरूपो भवति प्रासादिकः स सुन्दर इत्य् उच्यते; अयं च दारकः अभिरूपो दर्शनीयः प्रासादिकः, काशिराजस्य च पुत्रः; भवतु दारकस्य काशिसुन्दर इति नामेति; तस्य काशिसुन्दर इति नामधेयं व्यवस्थापितम्; काशिसुन्दरो दारकः अष्टाभ्यो धात्रीभ्यो दत्तः; द्वाभ्याम् अङ्गधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां ( अ 426अ ) मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्; अष्टाभिर् धात्रीभिर् उन्नीयते क्षीरेण ( स्ब्व् इइ 5 ) दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्.
भूयो ऽपि राज्ञः क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; यस्मिन्न् एव दिवसे वाराणस्यां पौरजानपदानां महान् कलिर् उत्पन्नः; तस्यापि जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अन्तःपुरजनः कथयति: देव अस्य जन्मनि वाराणस्यां पौरजानपदानां महान् कलिर् अभूत्; तस्माद् भवतु दारकस्य कलिभूर् इति नामेति; राजा ब्रह्मदत्तः धर्माधर्मेण राज्यं कारयति; काशिसुन्दरः कुमारः पश्यति पितरं धर्माधर्मेण राज्यं कारयन्तम्; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: अहम् अपि पितुर् अत्ययाद् राजा भविष्यामि; अहम् अपि धर्माधर्मेण राज्यं कारयित्वा नरकपरायणो भविष्यामि; यन्न्व् अहम् अगाराद् अनगारिकां प्रव्रजेयम् इति; स पितुस् सकाशम् उपसंक्रान्तः; पादयोर् निपत्य कथयति: तात अनुजानिष्व, प्रव्रजाम्य् अगाराद् अनगारिकाम् इति; स कथयति: पुत्र यस्यार्थे यज्ञा इज्यन्ते, होमा हूयन्ते, तपांसि तप्यन्ते, तत् तव करतलगतं राज्यम्; कस्यार्थे अपास्य प्रव्रजसीति; स गाथां भाषते:
वरं वने वल्कलचीरवाससा फलाशिना व्याडमृगैः सहोषितम् ।
न राज्यहेतोर् वधबन्धताडनं बुधेन कर्तुं परलोकभीरुणा ॥ इति;
राज कथयति; यत् खलु कुमार जानीयास् त्वम् अस्माकम् एकपुत्रः प्रियो मनापः क्षान्तो ऽप्रतिकूलः; मरणेन ते वयम् अकामका वियुज्येम; न तु जीवन्तं परित्यक्ष्यामः; काशिसुन्दरः कुमारः कथयति; तात सचेद् अनुज्ञास्यसीत्य् एवं कुशलम्; नो चेद् अनुज्ञास्यसि, अद्य न भोक्ष्ये, न पास्यामीति; तत्र काशिसुन्दरः कुमारः एकम् अपि भक्तच्छेदम् अकार्षीद्, द्वौ, त्रीन्, यावद् षड् भक्तच्छेदान् अकार्षीत्; अथ राज ब्रह्मदत्तः काशिसुन्दरं कुमारम् इदम् अवोचत्: ( स्ब्व् इइ 6 ) यत् खलु तात कुमार जानीया दुश्चरं ब्रह्मचर्यम्, दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वे, दुरभिसंबुधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्, दुःखम् एकाकिनो ऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्य आवरणं कर्तव्यम्; एहि त्वं तात कुमार इहैव स्थितो यौवराज्यं कारय; कामांश् च परिभुंक्ष्व;
दानानि च देहि पुण्यानि च कुरु; एवम् उक्त काशिसुन्दरः कुमारस् तूष्णीम्.
अथ राजा ब्रह्मदत्तः अन्तःपुरम् अमात्यान् पौरोहितांश् चोद्योजयति; अङ्ग तावद् भवन्तः कुमारम् उत्थापयत; एवं देवेत्य् अन्तःपुरामात्यपौरोहिता येन काशिसुन्दरः कुमारस् तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारं इदम् अवोचन्: यत् खलु ( अ 426ब् ) तात कुमार जानीयास्, त्वं हि सुकुमारः सुखैषी; न त्वं ज्ञाता दुःखस्य; दुश्चरं ब्रह्मचर्यम्; दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वे, दुरभिसंबुधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्, दुःखम् एकाकिनो ऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्य आवरणं कर्तव्यम्; एहि त्वं तात कुमार इहैव स्थितो यौवराज्यं कारय; कामांश् च परिभुंक्ष्व;
दानानि च <देहि पुण्यानि च> कुरु; एवम् उक्त काशिसुन्दरः कुमारस् तूष्णीम्.
अथ राजा ब्रह्मदत्तः काशिसुनद्रस्य कुमारस्य पांसुक्रीडनकामात्यपुत्रान् पौरोहितपुत्रान् अन्यांश् च कुमाराण् उद्योजयति; अङ्ग तावद् कुमारकाः काशिसुन्दरं कुमारम् उत्थापयत; अथामात्यपुत्राः पुरोहितपुत्राः कुमाराश् च राज्ञो ब्रह्मदत्तस्य प्रतिश्रुत्य,
येन काशिसुन्दरः कुमारस् तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारं इदम् अवोचन्: यत् खलु सोम्य कुमार जानीयास् त्वं हि सुकुमारः सुखैषी; न त्वं ज्ञाता दुःखस्य; दुश्चरं ब्रह्मचर्यम्; दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वे; दुरभिसंबुधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्, दुःखम् एकाकिनो ऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः ( स्ब्व् इइ 7 ) सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्यः आवरणं कर्तव्यम्; एहि त्वं सोम्य कुमार इहैव स्थितो यौवराज्यं कारय; कामांश् च परिभुंक्ष्व; दानानि <च> देहि; पुण्यानि च कुरु; एवम् उक्त काशिसुन्दरः कुमारस् तूष्णीम्.
अथामात्यपुत्राः पुरोहितपुत्राः च येन राजा ब्रह्मदत्तस् तेनोपसंक्रान्ताः; उपसंक्रम्य राजानं ब्रह्मदत्तम् इदम् अवोचन्: अनुजानीहि देव सोम्यं काशिसुन्दरं कुमारम्; किं हि मृतेन करिष्यसि? विज्ञप्रशस्ता हि प्रव्रज्या; सचेद् अभिरंस्यसे, जीवन्तम् एनं द्रक्ष्यसि; नो चेद् अभिरंस्यसे, पुनर् आवर्तिका हि ऋषयो भवन्ति; कान्या पुत्रस्य गतिर्, अन्यत्र मातापितृभ्याम्.
राजा ब्रह्मदत्तः कथयति: कुमारका यद्य् एवम्, अनुज्ञतो भवतु; अथामात्यपुत्राः पुरोहितपुत्राः कुमाराश् च येन काशिसुन्दरः कुमारस् तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारं इदम् अवोचन्: यत् खलु सोम्य कुमार जानीयाः, अनुज्ञतो ऽसि राज्ञा प्रव्रज्यायै, यस्येदानीं कालं मन्यसे:
अथ काशिसुन्दरः कुमारः मण्डानुपूर्वीं कृत्वा कायस्य स्थाम च बलं च वीर्यं च सञ्जन्य वाराणस्याः च निष्क्रम्य ऋषीणां मध्ये प्रव्रजितः; तेनोद्यच्छमानेन, व्यायच्छमानेन, कामेषु वैरग्यं कृत्वा मैत्री समधिगता; सो ऽत्यन्तं सत्वेषु दयावान् संवृत्तः; तस्यैतया मत्र्या व्याडमृगा अप्य् आश्रमपदे विश्वासम् आपद्यन्ते; नापराध्यन्ते; तस्य क्षान्तिवादी क्षान्तीवादीति संज्ञासंवृत्ता; यावद् अपरेण समयेन ( अ 427अ ) राजा ब्रह्मदत्तः कालगतः; कलभू राज्ये प्रतिष्ठापितः; स धर्माधर्मेण <राज्यं> कारयति; क्षान्तिवादी ऋषिः कथयति: उपाध्याय ममान्नपानाभिवर्जितम्; न शक्नोम्य् आरण्यकाभिर् ओषधीभिर् यापयितुम्; ग्रामान्तं समवसरामीति; कथयति: वत्स ग्रामे वारण्ये <वा> वसतो ऋषिणो रक्षितव्याण्य् एवेन्द्रियाणि; गच्छ वाराणसीसामन्तकम्; गत्वा शाखापर्णकुटीरकाणि कृत्वा वासं कल्पयेति; स उपाध्यायाल् लब्धानुज्ञो वाराणसीं ( स्ब्व् इइ 8 ) गत्वा शान्तविहारसमन्वेषणया इतश् चामुतश् च परिभ्रमन्न् अनुपूर्वेण पितुः सन्तकम् उद्यानं गतः; तेन तस्मिन् पर्यटता शान्तः प्रदेशो दृष्टः; स तत्रावस्थितः.
यावद् अपरेण समयेन कलभू राजा संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकोन्नादिते वनषण्डे अन्तःपुरसहीयः उद्यानभूमिं निर्गतः; स तत्रोद्याने सुखम् अनुभूय खेदम् आपन्नो मिद्धम् अवक्रान्तः; पुष्पफललोलुपो मातृग्रामस् तस्मिन्न् उद्याने इतश् च अमुतश् च परिभ्रमितुम् आरब्धः; यावत् पश्यन्ति क्षान्तिवादिनम् ऋषिम् एकान्ते शान्तेर्यापथे निषण्णम्; दृष्ट्वा च पुनर् गौरवाप्यायितचित्तसन्तत्यः तस्य ऋषेः प्रणामं कृत्वा परिवार्यावस्थिताः; क्षान्तिवादी ऋषिस् तास् स्त्रियो शान्ततरेणेर्यापथेन धर्मं देशयितुम् आरब्धः; यावत् कलभू राजा निद्राक्लमं प्रतिविनोद्य प्रबुद्धो न पश्यत्य् अन्तःपुरजनम्; स खड्गम् आदाय युवतिजनं समन्वेषितुम् आरब्धः; यावत् पश्यति क्षान्तिवादिनं रिषिं परिवार्य अवस्थिताः; दृष्ट्वा च पुनर् ईर्ष्याजनितक्रोधपर्याकुलीकृतात्मभावः तस्य रिषेः सकाशम् उपसंक्रान्तः; मातृग्रामो राज्ञः सकाशम् अवस्थानं दृष्ट्वा सन्त्रस्तो विद्रुतः; राजा सावष्टम्भं क्षान्तिवादिनम् उवाच: भोः पुरुष, कस् त्वं? स कथयति: क्षान्तिवादी; कलभू राजा कथयति: मयि विकुपिते क्षान्तिवादिनम् आत्मानं प्रतिजानीषे? इदानीं क्षान्तिवादी वा भवान् न वेति तेन तस्य हस्तौ छिन्नौ; भूयः पृच्छति; को भवान् इति; स कथयति, क्षान्तिवादी; तेन तस्य पादौ छिन्नौ; स छिद्यमानेष्व् अङ्गप्रत्यङ्गेषु गाथां भाषते:
यदि तिलशतम् अपि कृत्वा क्षेप्स्यसे कायम् उर्व्याम्
न त्यजामि क्षान्तिं तिलशतो ऽपि चूर्णितगात्रः ।
यस्य मम शुभा मैत्री चेतसि परिभाविता सदा क्षान्तिम्
तां नोत्सहे विहन्तुं सुतम् इव सुतवत्सला जननी ॥
स एवं गाथाभिर् गीतेन रुजं विनोद्य प्रणिधानं कर्तुम् आरब्धः: यथैष राजा क्लेशाभिनिविष्टबुद्धिर् ममाकार्याकार्य अङ्गप्रत्यङ्गानि छिनत्ति; तथाहं क्षान्तिसौरत्यसमन्वागतेन ( स्ब्व् इइ 9 ) कुशलमूलेन क्लेशगणम् आत्मीयम् अभिनिर्जित्य अनुत्तरायां सम्यक्संबोधौ अभिसंबुद्धः स्याम्; ततः प्रज्ञाशस्त्रेणस्य आकार्याकार्य तत्प्रथमतः क्लेशान् प्रम्लायेयम् इति.
अथ या देवता क्षान्तिवादिन्य् अभिप्रसन्ना सा संलक्षयति: अनेन कलिराजेन अयम् ऋषिर् अदूष्य् अनपकारी करचरणशून्यो व्यवस्थापितः; यन्व् अहम् अस्य वैरं निर्यातयेयम्; इति विदित्वा तीव्रेण ( अ 427ब् ) पर्यवस्थानेन क्षान्तिवादिनः पुरस्ताद् गाथां भाषते:
कलभूं सपुत्रदारं सबन्धुवर्गं सपौरजानपदम् ।
कृत्स्नं च जीवलोकम् आज्ञापय नाशयिष्यामि ॥ इति;
सो ऽपि गाथां भाषते:
करचरणनाशविकलं कृतं मम शरीरम् आकुलं येन ।
तस्यापि पापम् अण्व् अपि नेच्छामि कुतः पुनर् अदूषिनो जगतः ॥
तस्यापि या देवता वाराणस्याम् ईतिस् तत इतः सृष्टा; मूषिकाः शलभाः
शुकाः प्रबलाः संवृत्ताः; देवो न वर्षति; जनकायो म्रियते; राज्ञा नैमित्तिका आहूय पृष्टाः: भवन्तः किमर्थं देवो न वर्षति? मुषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; जनकायश् च म्रियते इति; ते कथयन्ति: देव देवताप्रकोप इति; या देवता क्षान्तिवादिनो ऋषेर् अभिप्रसन्ना सा कुपिता; तया एषा ईतिः सृष्टा इति; राजा कथयति: भवन्तः कथम् अत्र प्रतिपत्तव्यम् इति; नैमित्तिकाः कथयन्ति: देव बलिमाल्योपहारेण देवताः प्रकुपिता आराध्यन्ते; बलिमाल्योपहारं कृत्वा क्षमापयितव्या स च ऋषिर् इति; ततो राज्ञा वाराणस्यां घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः, उद्याननिवासिनी देवता क्षान्तिवादिनो ऋषेर् अभिप्रसन्ना; तया ईतिर् उत्सृष्टा; येन देवो न वर्षति; मूषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; जनकायश् च म्रियते; तद् युष्माभिर् ईतिव्युपशमार्थं श्वो बलिमाल्योपहारसमेतैर् उद्यानं गत्वा तस्याः पूजा संविधातव्या इति. ( स्ब्व् इइ 10 )
जनकायस् ताम् एव रात्रिं बलिमाल्योपहारं समुदानीय तद् उद्यानं गतः; राजा चान्तःपुरसहीयः; ततो जनकायेन श्रमणब्राह्मणकृपणवनीपकेभ्यो दानानि दत्वा देवतास्थाने च महतीं पूजां कृत्वा सा देवता क्षमिता; ततो राजा ऋषेः क्षान्तिवादिनः सकाशं गत्वा पादयोर् निपत्य क्षमयितुम् आरब्धः: क्षमस्व मे महर्षे यन् मया विषयाध्यवसितेन क्रोधपर्याकुलीकृतमतिना तवापराद्धम् इति; क्षान्तिवादी कथयति: क्षान्तं महाराज; यथाकथं ज्ञायते? स गाथां भाषते:
गात्रेषु वहसि शस्त्रं मैत्री मे सर्वसत्वेषु ।
यदि संशयो ऽत्र भवतां पश्यत रुधिरं प्रसन्नं मे ॥ इति;
तस्य तद् रुधिरं परावृतम्; पापकर्मकारी स राजा प्रातिहार्यसन्दर्शनेनापि न श्रद्धत्ते; स भूयः कथयति, क्षमस्व महर्षे; क्षान्तं महाराज; यथाकथं ज्ञायते? ततो बोधिसत्वः छिन्नान्य् अङ्गप्रत्यङ्गानि यथास्वे स्थाने स्थापयित्वा सत्योपयाचनया गाथां भाषते:
छिद्यमानेषु गात्रेषु त्वया राजन् यथा न मे ।
आघातो ऽस्ति सुसूक्ष्मो ऽपि स्यान् मे कायस् तथा पुरा ॥ इति;
तस्य सत्योपयाचनया शरीरं यथापुरं संवृत्तम्; ततो राजा विस्मयोत्फुल्ललोचनो गाथां भाषते:
अहो व्रतम् इदं सिद्धम् अहो धर्मस् स्वनुष्ठितः ।
छिद्यमानेषु गात्रेषु यस्य ते नास्ति विक्रिया ॥
राजा कलभूः सान्तःपुरामात्यपौरनजानपदः तस्य ऋषेः पादौ शिरसा वन्दित्वा प्रक्रान्तः.
किं मन्यध्वे भिक्षवो यो ऽसौ <तेन कालेन समयेन> ( अ 429अ ) क्षान्तिवादी ऋषिर् अहम् एव स; यो ऽसौ कलिभू राजा एष एवासौ कौण्डिन्यभिक्षुः; यन् मया तस्यान्तिके मैत्रचित्तम् उत्पाद्य प्रणिधानं कृतम्, अनेनाहं कुशलमूलेनास्य आकार्याकार्य क्लेशान् छेदयेयम् इति; ( स्ब्व् इइ 11 ) तत्प्रणिधानवशाद् एतर्हि तथागतेन अस्य आकार्याकार्य धर्मो देशितः; एकान्तकृष्णानां एकान्तकृष्णो विपाकः, पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्.
यदा भगवता अशीतिर् देवतासहस्राणि धर्मरसेन संगृह्य सत्येषु प्रतिष्ठापितानि तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता अशीतिर् देवतासहस्राणि धर्मरसेन संगृह्य सत्येषु प्रतिष्ठापितानि; भगवान् आह: न भिक्षव एतर्हि यथातीते ऽप्य् अध्वनि मयैतानि अशीतिर् वणिक्सहस्राणि आमिषेण संगृह्य पंचसु व्रतपदेषु प्रतिष्ठापितानि; तच् छ्रूयताम्.
थे स्तोर्य् ओf थे त्wओ मेर्छन्त्स्
भूतपूर्वं भिक्षवो द्वौ सार्थवाहौ अभूवतां विश्वभुक् सुयात्रश् च; एकैकश् च चत्वारिंशद्वणिक्सहस्रपरिवारः; तत्र सुयात्रो नैष्क्रम्याभिनन्दी; स रिषीनां मध्ये प्रव्रजितः; तेनैकाकिना वीर्यम् आस्थाय अनाचार्येणानुपाध्यायकेन सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् संमुखीकृत्य प्रत्येकबोधिः साक्षाकृता; तस्य ते सार्थिका सार्थवाहम् अपश्यन्तः इतश् चामुतः च समन्वेषितुम् आरब्धाः; यदा सर्वथा नारागयन्तस् तदानीं विश्वभुजः सार्थवाहो ऽनवलोक्य प्रक्रान्तः; समन्विष्टो ऽस्माभिर् नारागितः; कथम् अत्र प्रतिपत्तव्यम्? इति; स कथयति: तिष्ठत, मा काहलीभवत; समन्वेषामः सार्थवाहम् इति; ततो विश्वभुक् सार्थवाह अशीत्या वणिक्सहस्रैः परिवृतः सुयात्रं सार्थवाहं समन्वेषितुम् आरब्धः उद्यानावसथतपोवनेषु; स तेन दृष्टः पृष्टश् च: कस्मात् त्वं सार्थम् अपहाय प्रव्रजित इति; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; तेनासौ सार्थवाहः सपरिवारो ज्वलनतपनवर्षनविद्योतनप्रातिहार्यैर् आवर्जितः; तेन तान्य् अशीतिर् वणिक्सहस्राणि आमिषोपसंहारोपसंहृतान्य् उक्तानि: अस्मै कारान् कुरुत; अस्मै काराः कृता नियतं फलदायका भवन्ति; तैः तस्मिन्न् अनेकाः काराः कृताः.
किं मन्यध्वे भिक्षवो योऽ साव् विश्वभुक् सार्थवाह अहम् एव ( स्ब्व् इइ 12 ) स तेन कालेन तेन समयेन; यानि वणिक्सहस्राण्य् एतान्य् एव तान्य् अशीतिर् देवतासहस्राणि; तदाप्य् एतानि मयामिषेणोपसंहृत्य पंचसु व्रतपदेषु प्रतिष्ठापितानि; एतर्ह्य् अप्य् एतानि मया सद्धर्मरसेनोपसंहृत्य सत्येषु प्रतिष्ठापितानि; इति हि भिक्षवः एकान्तकृष्णानां कर्माणां व्यतिमिश्रः यावद् एवं वो भिक्षवः शिक्षितव्यम्.
यदा भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः सद्धर्मरसेन संतर्पिताः, तदा भिक्षवः ( अ 429ब् ) संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य सद्धर्मरसेन संतर्पिता इति; भगवान् आह: किम् अत्र, भिक्षव, आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः संसारकान्ताराद् उत्तर्य सद्धर्मरसेन संतर्पिताः; यत् तु मयापि अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सार्थवाहभूतेन पंचकैः कान्तारमार्गे कृच्छ्रसंकटसंबाधप्राप्ताः सलिलं विना प्राणैर् वियुज्यमाना देवतायाचनं कृत्वा माहेन्द्रा सलिलवर्षेण संतर्पिताः; तच् छ्रूयताम्.
थे स्तोर्य् ओf थे थिर्स्त्य् चरवन्
भूतपूर्वं भिक्षवः विश्वभुङ् नाम सार्थवाहः पंचवणिक्शतैः सार्धं संव्यवहरन्न् अल्पसलिलकान्तारमार्गं प्रतिपन्नः अनुपूर्वेण विन्ध्याटवीं संप्राप्तः; तेषां तत्र सर्वं सलिलं परिक्षीणम्; वणिक्सार्थः सलिलविरहात् प्रतिसंख्याने संप्रस्थितः; पंच तु वणिजः सलिलम् अलभमाना अत्यर्थं काहलीभूताः; विश्वभुक् सार्थवाहस् तान् तथाविधान् दृष्ट्वा कारुण्याद् आकंपितहृदयो ऊर्ध्वमुखो देवतायाचनं कर्तुम् आरब्धः: शृण्वन्तु भवन्तः शिववरुणकुबेरवासवाद्या देवा येन सत्येन सत्यवचनेन मम सर्वेषु समप्रवृत्ता दया अनेन सत्येन सत्यवचनेन माहेन्द्रो देवो वर्षतु; बोधिसत्वानुभावेन माहेन्द्रं भवनम् आकम्पितम्; शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते; स संलक्षयति: केन माहेन्द्रं भवनम् आकम्पितम्? पश्यति बोधिसत्वेनानुभावात्; तेन तथाविधं माहेन्द्रं वर्षम् उत्सृष्टं एनासौ वणिक्सार्थः संतर्पितः कान्तारमार्गं समतिक्रान्तः. ( स्ब्व् इइ 13 )
किं मन्यध्वे भिक्षवः, यो ऽसौ विश्वभुक् सार्थवाहः अहम् एव स तेन कालेन तेन समयेन; ये ते पंच वणिजः सलिलविरहाद् अत्यर्थं काहलीभूता एत एव ते पंचका भिक्षवः; तदाप्य् एते मया सलिलेन संतर्प्य कान्तारमार्गाद् उत्तारिताः; एतर्ह्य् अपि मया एते सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तारिताः.
यदा भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गैः संविभक्ताः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः; भगवान् आह: किम् अत्र, भिक्षव, आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः संसारकान्ताराद् उत्तर्य इन्द्रियबलबोध्यङ्गरत्नैः ( अ 430अ ) संविभक्ताः; यत् तु मयापि अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सार्थवाहभूतेन एते स्वजीवितपरित्यागेन महासमुद्राद् उत्तार्य रत्नैः संविभक्ताः; तच् छ्रूयताम्.
थे स्तोर्य् ओf थे मेर्छन्त् धनरथ
भूतपूर्वं, भिक्षवो, धनरथो नाम महासार्थवाहो बभूव; पंचभिः सार्थवाहैः सार्धं महासमुद्रं संप्रस्थितः; ते तस्य सार्थवाहस्य अन्योन्यकथालापसौमुख्या अन्योन्यकृतप्रणया संवृत्ताः; यावद् अनुपूर्वेण समुद्रतीरम् अनुप्राप्तैः प्रत्येकं वहनानि सज्जीकृतानि; अवतरणकाले तैर् धनरथः सार्थवाहो ऽभिहितः; सार्थवाह वयं त्वया विना धृतिं न लभामहे; स कथयति: यद्य् एवम् इहैवाभिरुहतः वहनानि मुच्यन्ताम् इति; ते तत्राभिरूढाः, वातश् चोत्थित्ः; संत्रस्तानां धनरथः कथयति: भवन्तो मा बिभीत; यदा वहनं विनाशम् उपैति तदा मम कण्ठे लगेत, अहं वो उत्तारयिष्यामि इति; कुशला भवन्ति ( स्ब्व् इइ 14 ) बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन महार्हानि रत्नानि कक्षायाम् उपनिबद्धानि; यानपात्रं विपन्नम्; ते सार्थवाहस्य् लग्नाः; ते तेन श्रान्तकायेन ईषज्जीवितावशेषेण समुद्रतीरसंप्राप्तिताः; तैश् चासौ स्थलप्राप्तैः प्रतिमुक्तः; सो ऽत्यन्तनिरुत्साहः कालगतः; तैर् असौ जलात् स्थलम् उत्तारितः; यावत् पश्यन्ति कक्षोपनिबद्धानि महार्हानि रत्नानि; ते तान्य् आदाय प्रक्रान्ताः.
किं मन्यध्वे भिक्षवः? यो ऽसौ धनरथो नाम सार्थवाह अहम् एव स तेन कालेन तेन समयेन; ये ते पंचका भिक्षवः तदाप्य् एते मया महासमुद्राद् उत्तार्य रत्नैः संविभक्ताः; एतर्ह्य् अप्य् मया संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः.
यदायुष्मान् आज्ञातकौण्डिन्यो वृद्धान्ते निषीदति, तदा पर्षदं छत्रीकृत्य निषीदति; भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आज्ञातकौण्डिन्येन कर्म कृतं यस्य कर्मणो विपाकेन छत्रीकृत्य पर्षदं निषीदति? भगवान् आह: कौण्डिन्येन भिक्षवो भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभारानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्.
थे स्तोर्य् ओf संधान, थे होउसेहोल्देर्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf कौण्डिन्य)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां संधनो नाम गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन खलु समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; यावन् नैमित्तिकैर् द्वादशवार्षिका अनावृष्टिर् अदिष्टा; ब्रह्मदत्तेन राज्ञा स्वविषये घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तो मद्विषयनिवासिनः पौराः; नैमित्तिकैर् द्वादशवार्षिका अनावृष्टिर् आदिष्टा; तद् येषां युष्माकं द्वादशवर्षिकम् अन्नपानम् अस्ति तैर् मद्विषये वस्तव्यम्; अन्यैर् नानादिक्षु विप्रक्रमितव्यम्; द्वादशवर्षसमतिक्रमे पुनर् आगन्तव्यम् इति; ततः संधानो गृहपतिः ( अ 430ब् ) कोष्ठागारिकपुरुषम् आमन्त्रयते: भोः पुरुष अस्ति कोष्ठागारे द्वादशवार्षिकम् अन्नपानम् इति; स कथयति: आर्य ( स्ब्व् इइ 15 ) भविष्यति इति; <ततः संधानो गृहपतिः सपरिवारो निषण्णः> जनकायः समन्ताद् विद्रुतः; महद् दुर्भिक्षं प्रादुर्भूतं कृच्छ्रः कान्तारः दुर्लभः पिण्डको याचनकेन; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पका प्रान्ताशयनासनभक्ता एकदक्षिणीया लोकस्य; तेन खलु समयेन वाराणस्यां नातिदूरे अन्यतमस्मिन्न् आश्रमपदे पंच प्रत्येकबुद्धशतानि प्रतिवसन्ति; यदा दुर्भिक्षकालमृत्युभयभीतो जनकायः समन्ताद् विद्रुतः तदा तेषां पिण्डका समुच्छिन्नाः; ते सर्व एव संभूय संधनस्य गृहपतेस् सकाशम् उपसंक्रान्ताः कथयन्ति: गृहपते, अस्माकं पंचानां प्रव्रजितशतानाम् पिण्डकेन योगोद्वहनं कुरुष्व इति; स कथयति: कोष्ठागार्कं तावद् अवलोकयामि इति; स कोष्ठागारिकम् आमन्त्रयते: अस्ति भोः पुरुष अस्माकं कोष्ठागारे अन्नपानम् यद् अस्माकं स्याद् एषां च पंचानां प्रव्रजितशतानां द्वादशवर्षाणि इति; स कथयति आर्य भविष्यति इति; संधानेन गृहपतिना पंचानां प्रव्रजितशतानां पिण्डक उपनिबद्ध इति; श्रुत्वा अपराणि पंच प्रत्येकबुद्धशतानि संधानस्य गृहपतेः सकाशम् उपसंक्रान्तानि; उपसंक्रम्य संधानं गृहपतिम् इदम् अवोचन्: गृहपते अस्माकं पंचानां प्रव्रजितशतानां पिण्डकेन योगोद्वहनं कुरुष्व इति; स कथयति: आर्यका दत्तम् एव युष्माकं किं भूयः प्रार्थयत इति; ते कथयन्ति गृहपते अन्ये ते वयम् अन्ये इति; स कथयति: आर्यका, यद्य् एवं कोष्ठागारिकं तावद् अवलोकयामि इति; स कोष्ठागारिकं पुरुषम् आमन्त्रयते: भोः पुरुष अस्ति अस्माकं कोष्ठागारे अन्नपानं यद् अस्माकं स्याद् अस्य च प्रव्रजितसहस्रस्य द्वादशवर्षाणि इति; स कथयति: भविष्यति इति; तेन ते प्रत्येकबुद्धा उक्ता: आर्यका तिष्ठत; को युष्माकं भक्तकाल इति; ते कथयन्ति: गृहपते अपरिणतो मध्याह्नः; ततः संधानेन गृहपतिना दानशाला मापिता दानाधिस्थायिकः पुरुषः स्थापितः कालारोचकश् च; ते प्रतिदिनम् आगम्य भक्तकृत्यं कुर्वन्ति; तस्य प्रत्येकबुद्धसहस्रस्य यः संघस्थविरः सो ऽतीव प्रासादिकः छत्राकारशिरास् तां पर्षदं छत्रीकृत्यावतिष्ठते; संधानस्य गृहपतेर् दुहिता तस्य संघस्थविरस्य ( स्ब्व् इइ 16 ) छत्राकारशिरस्कतां वर्णपुष्कलतां दृष्ट्वातीवाभिप्रसन्ना; यावद् अपरेण समयेन भक्तकाले देवो वर्षितुम् आरब्धः; ततः तया दारिकया संघस्थविरस्य मूर्ध्नि छत्रं धारितम्; भुक्तस्य च पादयोर् निपत्य प्रणिधानं कृतम्: अनेनाहं कुशलमूलेन एवंविधानां गुणानां लाभी स्यां यादृशो ऽयम् आर्यः यथा चायं छत्रीकृत्य पर्षदि निषण्णः एवम् अहम् अपि छत्रीकृत्य पर्षदं निषीदेयम् इति.
किं मन्यध्वे भिक्षवः? यासौ संधानस्द्य गृहपतेर् दुहिता एष एवासौ ( अ 431अ ) कौण्डिन्यो भिक्षुः; यद् अनेन कुमारिकाभूतेन प्रत्येकबुद्धसंघस्थविरस्य छत्रं विधार्य प्रणिधानं कृतं एवंविधानां गुणानां लाभी स्यां छत्रीकृत्य च पर्षदं निषीदेयम् इति, तद् एतर्हि सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं छत्रीकृत्य च पर्षदम् अवस्थितः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्.
यदा भगवता आज्ञातकौण्डिन्यम् आगम्य अशीतिर् देवतासहस्राणि सद्धर्मरसेन संतर्पितानि तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता आयुष्मन्तम् आज्ञातकौण्डिन्यम् आगम्य अशीतिर् देवतासहस्राणि सद्धर्मरसेन संतर्पितानि; भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन आज्ञातकौण्डिन्यम् आगम्य अशीतिर् देवतासहस्राणि धर्मरसेन संतर्पितानि? यत् तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः विनिपतितशरीरेण तिर्यग्योनाव् उपपन्नेन अशितिकीटसहस्राणि कौण्डिन्यं कीटिकीभूतम् आगम्य स्वरुधिरेण संतर्पितानि; तच् छ्रूयताम्.
थे स्तोर्य् ओf थे तोर्तोइसे
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf कौण्डिन्य)
भूतपूर्वं, भिक्षव, अनियतराश्यवस्थितो बोधिसत्वो महासमुद्रे कच्छपेषूपपन्नस् तेषाम् अधिपतिर् बभूव; यावत् पंचवणिक्शतानि महासमुद्रयानपात्रं प्रतिपद्य महासमुद्रम् ( स्ब्व् इइ 17 ) अवतीर्णानि; ततो नानारत्नसंग्रहं कृत्वा प्रतिनिर्वृत्तानि; यावद् वहनं मकरेण मत्स्यजातेनानयेन व्यसनम् आपादितम्; तत्र महान् कोलाहलो जातः; तच्छब्दश्रवणात् कच्छपो महासमुद्राद् उत्थितः; स तेषां सकाशम् उपसंक्रम्य कथयति: अलं भवतां विषादेन मम पृष्ठम् अभिरुहेत अहं वस् तारयिष्यामि इति; ते नष्टोपलब्धप्राणाः सर्वे कूर्मपृष्ठम् अभिरूढाः; स तान् आदाय समुद्रतीराभिमुखः संप्रस्थितः; अत्यन्तभारावष्टब्धो ऽपि वीर्यम् आस्थाय विषादं नापद्यते; स श्रान्तकायः तेषु संकीर्णेषु ग्रीवाम् अभिप्रसार्य सुप्तः; तस्य नातिदूरे कीटिकानां नगरम्; तस्माद् एका कीटिका परिभ्रमन्ती गन्धं घ्रात्वा तस्य सकाशम् उपसंक्रान्ता; ततस् तं महत्प्रमाणाकारविकारं दृष्ट्वा त्वरितगतिप्रचारिकी कीटिकानगरम् अभिगता; स्वस्वसंज्ञया कीटिकाः प्रबोध्य अशीतिः कीटिकासहस्राण्य् आदाय कच्छपसकाशं गता; ततः तं सुओतं मृतम् इव निश्चेष्टप्राणं भक्षयितुम् आरब्धाः; यदास्य स्थूलं मांसं भक्षयन्ति श्रमनपरिखिन्नो गाढमिद्धावष्टब्धो न चेतयते; यदा तु मर्मस्थानेषु मांसं भक्षयन्ति तदा प्रबुद्धः पश्यति कीटिकाभिः सर्वं शरीरम् आकीर्णम्; स संलक्षयति: यदि कायं चलयिष्ये ( अ 431ब् ) वा संपरिवर्तयिष्ये वा नियतम् एताः प्रघातयिष्यामि; कामं प्राणवियोगो न तु प्राणोपरोधः; इति विदित्वा छिद्यमानेषु मर्मसु मुच्यमानेषु संधिषु प्रणिधानं कर्तुम् आरब्धः: यथा मया एतानि अशीतिर् कीटिकासहस्राणि मांसरुधिरेण संतर्पितानि, तान्य् एवम् अहम् अनागते ऽध्वनि अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सद्धर्मरसेन संतर्पयेयम् इति.
किं मन्यध्वे भिक्षवः? यो ऽसौ कीटिकानां मार्गोद्देशिक एष एवासौ कौण्डिन्यो भिक्षुः; यानि तानि अशीतिर् कीटिकासहस्राणि तम् आगम्य मांसरुधिरेण संतर्पितानि, तान्य् अशीतिर् देवतासहस्राणि; तदाप्य् एतानिमया स्वरुधिरेण संतर्पितानि; एतर्ह्य् अप्य् एतानि मया सद्धर्मरसेन संतर्पितानि; इति हि भिक्षवः एकान्तकृष्णानाम् इति यावद् एवं वो भिक्षवः शिक्षितव्यम्.
यदा भगवता पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता ( स्ब्व् इइ 18 ) तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः इति; भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः? यत् तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् एते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; तच् छ्रूयताम्.
थे स्तोर्य् ओf थे किन्ग् वज्रबाहु
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां वज्रबाहुर् नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; स राजा श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते; तेनात्यन्तं मैत्री स्वभ्यस्ता; त्रिर् दिवसस्य मैत्रीं समापद्यते; तस्य मैत्रीं समापद्यमानस्य याचनकजनो विहन्यते; तेनामात्यानाम् आज्ञा दत्ता; भवन्तो वाराणस्यां चतुर्षु नगरद्वारेषु दानशाला मापयित्वा श्रमणब्राह्मणकृपणवणीपकाध्वगयाचनकेभ्यो यो येनार्थी तस्मै तद् अनुप्रयच्छत इति; एवं देव इत्य् अमात्या रज्ञो वज्रबाहोर् प्रतिशुत्य वाराणस्यां चतुर्षु नगरद्वारेषु दानशाला मापयित्वा अन्नपानवस्त्रशयनासनहिरण्यसुवर्णमुक्तावैडूर्यशंखशिलाप्रवाडजातरूपरजताश्मगर्भमुसारगल्बलोहितिकादक्षिणावर्तादिद्रव्यसंभारेनावस्थिताः याचनकजनं संतर्पनाय; यावद् अपरेण ( अ 432अ ) समयेन वैश्रवणेन राज्ञा अडकवत्तायां राजधान्यां पंच यक्षा ओजोहारा निर्वासिताः; इतश् चामुतश् च परिभ्रमन्तो वाराणसीम् अनुप्राप्ताः; ते गोपालकान् पशुपालकान् तृणहारकान् काष्ठहारकान् पथाजीवान् उत्पथाजीवांश् च मनुष्यान् दृष्ट्वा कथयन्ति: भवन्तो न यूयम् अस्मान् बिभीत? ( स्ब्व् इइ 19 ) इति; भवन्तः किमर्थं बिभीमः येषाम् अस्माकं राजा मैत्र्यात्मकः कारुणिकः सर्वसत्वहिताध्याशयेन त्रिर् दिवसस्य मैत्रीं समापद्यते? इति; ततः ते ब्राह्मणवेषम् आत्मानम् अभिनिर्माय वाराणस्याम् चतुर्षु द्वारेषु दानशालां प्रत्यवेक्ष्य वज्रबाहुं राजानं मैत्र्या व्युत्थितं ज्ञात्वा विनीतवेषधारिणो रज्ञः सकाशम् उपसंक्रान्ताः; उपसंक्रम्य जयेनायुषा च राजानं वर्धयित्वा ऊचुः: देव बुभुक्षिताः स्माहारेण अनुग्रहं कुरुष्व इति; राज्ञा अमात्यान् आहूयोक्ताः: भवन्त एतान् ब्राह्मणान् प्रणीतेनाहारेण संतर्पयत इति; ते कथयन्ति: मांसरुधिरभक्षा वयमिति; राज्ञा अमात्या अभिहिता: भवन्तो यदि मांसस्य <न> संभवो ऽस्ति रुधिरस्य वा वीथ्या धर्मन्यायलब्धं रुधिरं प्रयच्छत इति; ते कथयन्ति: सद्योहतरुधिरमांसभक्षका वयम्; सद्योहतेन मांसरुधिरेणानुग्रहं कुरुष्व इति; राजा संलक्षयति: कुतः सद्योहतस्य मांसरुधिरस्य संभवः परस्य पीडाम् अकृत्वा? यन्व् अहम् एभ्यः स्वरुधिरम् अनुप्रयच्छेयम् इति; ततो वैद्यान् आहूय कथयति: भवन्तो मम सर्वाङ्गिकं शिरावेधं कुरुत; याचनकजनं संतर्पयिष्यामि इति; वैद्याः कथयन्ति: न वयं प्राकृतपुरुषाणाम् अर्थाय देवस्य शरीरे शस्त्रं निपातयामः; कुशलाः भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयम् एव पंचसु गात्रेषु शस्त्रनिपातः कृतः; ततः स्वरुधिरेण संतर्प्य तेषां तादृशी धर्मदेशना कृत्वा यां श्रुत्वा ते यक्षाः पंचसु व्रतपदेषु प्रतिष्ठापिताः.
<किं मन्यध्वे भिक्षवः? यो ऽसौ वज्रबाहुर् नाम राजा अहम् एव स तेन कालेन तेन समयेन; ये अमी पंच यक्षा ओजोहारास् ते एवामी पंच भिक्षवः; तदाप्य् एते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः>; एतर्ह्य् अप्य् एते मया सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता.
यदा भगवता पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापितास् तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः सद्धर्मरसेन ( स्ब्व् इइ 20 ) संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः इति; भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण यावत् सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः; यत् तु मयातीते ऽध्वनि सरागेण पूर्ववत् दुःखदौर्मनस्योपायासैः एते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; तच् छ्रूयताम्.
थे स्तोर्य् ओf मैत्रबल
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां मैत्रबलो नाम राजा राज्यं कारयति ऋद्धं च यावद् बहुजनमनुष्यं च; मैत्र्यात्मकः कारुणिको महात्मा सर्वसत्वेषु दयावान्; ( अ 432ब् ) यावद् अपरेण समयेन वैश्रवणेन राज्ञा अडकवत्तायां राजधान्यां पंच ओजोहारा यक्षाः कस्मिण्चिद् एव अपराधे प्रवासिताः; ते तं जनपदम् अन्वाहिण्ड्य वाराणसीम् अनुप्राप्ताः; तेषां न कश्चिद् बलिमाल्योपहारं कुरुते; तैः प्रकोपम् आपन्नैर् ईतिर् उत्सृष्टा; वाराणस्यां जनकायो म्रियते; अमात्यै राज्ञे मैत्रबलाय निवेदितम्: देव वाराणस्याम् अतीव जनकायो मृत इति; राज्ञा तेषाम् आज्ञा दत्ता: गच्छत वाराणस्याम् एवं घण्टावघोषणं कारयत: भदन्तो राजा मैत्रबलः समाज्ञापयति, अहं सर्वसत्वहिताध्याशयतत्परेण मनसा रात्रिन्दिवम् अतिनमयामि; तद् युष्माभिर् अपि सर्वसत्वानुगता मैत्री मनसि कर्तव्या; एवं वः शान्तिर् भविष्यतीति; ते सर्वसत्वानुगतां मैत्रीं मनसि कर्तुम् आरब्धा; ओजोहारा यक्षा वाराणसीसामन्तकेन परिभ्रमितुम् आरब्धाः; प्रवेशं न लभन्ते; ते प्रवेशम् अलभमाना गोपालकां पशुपालकान् तृणहारकां काष्ठहारकां पथाजीवान् उत्पथाजीवांश् च मनुष्यान् दृष्ट्वा कथयन्ति: भवन्तो न यूयम् अस्मद् बिभीत? इति; ते कथयन्ति: न बिभीमः; किं कारणं? वयं हि यद् राजा मैत्रबलश् चिन्तयति तच् चिन्तयामः; किं मैत्रबलो राजा चिन्तयति? सर्वसत्वानुगतां मैत्रीं; ते संलक्षयन्ति: इदम् अत्र कारणं येन वयम् इदानीम् अवतारं न लभामह इति; ते वाराणस्यां द्वारेण ( स्ब्व् इइ 21 ) द्वारं परिभ्रमन्ति: कदाचिद् राजानं मैत्रबलं द्रक्ष्यामः इति; यावद् अपरेण समयेन मैत्रबलो राजा बहिर् उद्यानाय संप्रस्थितः; ततस् ते ब्राह्मणवेषम् आत्मानम् अभिनिर्माय शान्तेर्यापथेन राजानम् उपसंक्रम्य जयेनायुषा च वर्धयित्वोचुः: देव बुभुक्षिता स्म; आहारेणानुग्रहं कुरुष्व इति; राज्ञा अमात्या आहूयोक्ताः: भवन्त एतान् ब्राह्मणान् प्रणीतेनाहारेण संतर्पयत; ते कथयन्ति: देव मांसरुधिरभक्षा वयम् इति; राज्ञा अमात्या अभिहिताः: भवन्त यदि मांसस्य <न> संभवो ऽस्ति रुधिरस्य वा विथ्या धर्मन्यायलब्धं मांसं रुधिरं च प्रयच्छत इति; देव सद्योहतरुधिरमांसभक्षा वयं सद्योहतेन मांसेनानुग्रहं कुरुष्व इति; राजा संलक्षयति: कुतस् सद्योहतस्य मांसरुधिरस्य संभवः परस्यपीडाम् अकृत्वा; यन्व् अहम् एभ्यः स्वरुधिरम् अनुप्रयच्छेयम् इति; ततो वैद्यान् आहूय कथयति: भवन्तो मम सर्वाङ्गिकं शिरावेधं कुरुत इति याचनकजनं संतर्पयिष्यामि इति; वैद्याः कथयन्ति: देव न वयं प्राकृतपुरुषाणाम् अर्थाय देवस्य शरीरे शस्त्रं निपातयामः; कुशला भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयम् एव पंचसु गात्रेषु शास्त्रनिपातः कृतः; ततः स्वरुधिरेण संतर्प्य तेषां तादृशी धर्मदेशना कृता यां श्रुत्वा ते यक्षा पंचसु व्रतपदेषु प्रतिष्ठापिताः.
किं मन्यध्वे भिक्षवः? यो ऽसौ मैत्रबलो नाम राजा ऽभूद् अहम् एव स तेन कालेन तेन समयेन; ये ते पंच ओजोहारास् यक्षा ( अ 433अ ) एते एव ते पंचका भिक्षवः; तदाप्य् एते मया स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; एतर्ह्य् अप्य् एते मया सद्धर्मरसेन संतर्पिताः संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता.
यदा भगवता षड्वर्षाणि दुष्करं चरितम्; अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, वाराणस्यां गत्वा धर्मचक्रं प्रवर्तितं, पंचका विनीत उपपंचकाः षष्टिभद्रवर्गीयाः पूगाः, भिक्षुबहुत्वं जातम्, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन षड्वर्षाणि दुष्करं चरितम्; भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभारानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्. ( स्ब्व् इइ 22 )
थे स्तोर्य् ओf नन्दपाल थे पोत्तेर् (= घटीकरसुत्त, म्न् 81, च्f. म्व् इ 319ff.)
भूतपूर्वं भिक्षवो वैभिडिङ्गी नाम ग्रामनिगमो ऽभूद् ऋद्धश् च स्फीतश् च बहुजनमनुष्यश् च; वैभिडिङ्ग्यां भिक्षवो ग्रामनिगमे न्यग्रोधो नाम ब्राह्मणमहाशालः प्रतिवसति, आढ्यो महाधनो महाभोगः स्फीतः, वैभिडिङ्गीं परिभुंक्ते सोत्सदां सतृणकाष्ठोदकां कृकिना राज्ञा ब्रह्मदेयां दत्ताम्; न्यग्रोधस्य खलु भिक्षवो ब्राह्मणमहशालस्य उत्तरो नामो माणवो ऽन्तेवासी उपेतो मातृतः पितृतः संशुद्धो गृहिण्याम् अनाक्षिप्तो जातिवादेन गोत्रवादेन च यावद् आसप्तमं मातामहपैतामहं युगम् उपादाय; अध्यापको मन्त्रधरो त्रयाणां वेदानां पारंगतः सनिघण्टुकैटभानां साक्षरप्रभेदानाम् इतिहासपंचमानां सादृशो व्याकरकः, अभिरूपो दर्शनीयः प्रासादिकः; न्यग्रोधस्य ब्राह्मणमहशालस्य पंचमात्राणि माणवकशतानि ब्राह्मणकान् मन्त्रान् वाचयन्ति; वैभिडिङ्ग्यां भिक्षवो ग्रामनिगमे नन्दीपालो घटीकरः प्रतिवसति; बुद्धे ऽभिप्रसन्नो धर्मे संघे ऽभिप्रसन्नः; बुद्धं शरणं गतो धम्मं संघं शरणं गतः; बुद्धे एकान्तिको धर्मे संघे एकान्तिकः; बुद्धे निष्कांक्षो निर्विचिकित्सो धर्मे संघे निष्कांक्षो निर्विचितः; दुःखे समुदये निरोधे मार्गे निष्कांक्षो निर्विचिकित्सो दृष्टसत्य आगतफलाभिसमितवां निक्षिप्तपर्णमुसलो न स्वहस्तं पृथिवीं खनति न खानयति; नान्यत्र, यत् तद् भवति दकप्ररुग्नं वा मूषिकोत्किरा वा ततः कायेन मृत्तिकां संहृत्य निष्प्राणकेनोदकेन तीमयित्वा भाजनानि कृत्वा एकान्तम् उपनिक्षिप्य एवम् आह: एत आर्या एत भद्रमुखा तिलान् वा तण्डुलान् वा मुद्गप्रभृतीन् वा माषप्रभृतीन् वा एकान्त उपनिक्षिप्य यो वा येन भाजनेनार्थी स तद् आदाय प्रक्रामतु इति; स तस्माद् अन्धौ मातापितरौ बिभर्ति; काश्यपं सम्यक्संबुद्धं कालेन ( स्ब्व् इइ 23 ) कालं पिण्डकेन प्रतिपादयति; उत्तरस्य माणवस्य मित्रं सुहृद् वयस्यको च नन्दीपालो घटीकरो येन काश्यपः सम्यक्संबुद्धः तेनोपसंक्रान्तः; उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्तनिषण्णः; एकान्तनिषण्णं ( अ 433ब् ) नन्दीपालं घटीकरं काश्यपः सम्यक्संबुद्धः धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ नन्दीपालो घटीकरः काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः; तेन खलु समयेन उत्तरो माणवः सर्वश्वेतं वडवारथम् अभिरुह्य सौवर्णेन दण्डकमण्डलुना धार्यमानेन माणवकगणपरिवृतो माणवकगणपुरस्कृतो वैभिडिङ्ग्यान् निर्याति; बहिर् वैभिडिङ्ग्याः ब्राह्मणकान् मन्त्रान् वाचयितुकामः अद्राक्षीद् उत्तरो माणवो नन्दीपालं घटीकरं दूराद् एव; दृष्ट्वा च पुनर् एवम् आह: कुतस् त्वं सोम्य नन्दीपाल एतर्ह्य् आगच्छसि? इतो ऽहं सोम्य उत्तर एतर्ह्य् आगच्छामि काश्यपं सम्यक्संबुद्धं पर्युपास्य; एह्य् आवां सोम्य उत्तर गमिष्यावाः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे; अलं सोम्य नन्दीपाल काश्यपेन सम्यक्संबुद्धेन दृष्टेनालं पर्युपासितेन; तत् कस्य हेतोः; कुतस् तस्मिन् मुण्डके श्रमणके बोधिः; बोधिर् हि परमदुष्करा; मा त्वं सोम्य उत्तर एवं वद: कुतस् तस्मिन् श्रमणके बोधिः; बोधिर् हि परमदुष्करा; अपि तु बुद्धः स भगवान्, बुद्धाश् चानेन सर्वधर्मा इति; द्विर् अपि त्रिर् अपि नन्दीपालो घटीकरः उत्तरं माणवकम् इदम् अवोचत्: एह्य् आवां सोम्य उत्तर गमिष्यावः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे इति; द्विर् अपि त्रिर् अपि उत्तरो माणवो नन्दीपालं घटीकरम् इदम् अवोअत्: अलं सोम्य नन्दीपाल काश्यपेन सम्यक्संबुद्धेन दृष्टेन अलं पर्युपासितेन; तत् कस्य हेतोः? कुतस् तस्मिन् मुण्डले श्रमणके बोधिः; बोधिर् हि परमदुष्करा; मा त्वं सोम्योत्तर एवं वद कुतस् तस्मिन् मुण्डके श्रमणके बोधिः; बोधिर् हि परमदुष्करा; अपि तु बुद्धः स भगवान्, बुद्धाश् चानेन सर्वधर्मा इति; अथ नन्दीपालो घटीकर उत्तरस्य माणवस्य रथम् अभिरुह्य उत्तरं माणवम् इदम् अवोचत्: एह्य् आवां सोम्य उत्तर गमिष्यावः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे इति; अथोत्तरस्य माणवस्यैतद् अभवत्: न बतावरो बुद्धो भविष्यति; ( स्ब्व् इइ 24 ) नावरं धर्माख्यानं; यत्रेदणीं नन्दीपालो घटीकरो दीर्घरात्रम् अचण्डो ऽरभसो ऽकर्कश ऽसाहसिकः केशग्रहणम् अप्य् अगमद् इति विदित्वा नन्दीपालं घटीकरम् इदम् अवोचत्: सोम्य नन्दीपाल अतो ऽपि यावत्; सोम्य उत्तर, अतो ऽपि यावत्; अतो ऽपि यावत् सोम्य नन्दीपाल; अतो ऽपि यावत्, सोम्य उत्तर; तेन हि सोम्य नन्दीपाल मुंच, गमिष्यावः, काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे; अथोत्तरो माणवो नन्दीपालश् च घटीकरः रथम् अभिरुह्य येन काश्यपः सम्यक्संबुद्धस् तेनोपसंक्रान्तौ; तयोर् यावती यानस्य भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य येन काश्यपः सम्यक्संबुद्धस् तेनोपसंक्रान्तौ; उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णो नन्दीपालो घटीकरः काश्यपं सम्यक्संबुद्धम् इदम् अवोचत्: अयं भदन्त उत्तरो ( अ 434अ ) माणवो न बुद्धे ऽभिप्रसन्नो न धर्मे न संघे ऽभिप्रसन्नः; साध्व् अस्य भगवान् तथा धर्मं देशयेद् यथा उत्तरो माणवो बुद्धे ऽभिप्रसीदेद् धर्मे संघे ऽभिप्रसीदेद् इति; अधिवासयति काश्यपः सम्यक्संबुद्ध उत्तरं माणवं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथोत्तरो माणवो नन्दीपालं घटीकरम् इदम् अवोचत्: कस्मात् त्वं, सोम्य नन्दीपाल, स्वाख्यातं धर्मविनयं श्रुत्वा न प्रव्रजसि सम्यग् एव श्रद्धया अगाराद् अनागारिकाम्? न त्वं, सोम्य कुमार, जानीषे यथाहम् अन्धं मातापितरं बिभर्मि,
काश्यपं सम्यक्संबुद्धं कालेन च कालं पिण्डकेन प्रतिपादयामि; प्रव्रज त्वं सोम्य नन्दीपाल मा वा; अहं तावत् प्रव्रजिष्ये इति; अथ नन्दीपालो घटीकरः काश्यपं सम्यक्संबुद्धम् इदम् अवोचत्: अयं भदन्त उत्तरो माणव आकांक्षति स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; तं भगवान् प्रव्राजयतूपसंपादयतु अनुकंपाम् उपादाय इति; अधिवासयति काश्यपः ( स्ब्व् इइ 25 ) सम्यक्संबुद्धो नन्दीपालस्य घटीकरस्य तूष्णींभावेन; अथ नन्दीपालो घटीकरः काश्यपस्य सम्यक्संबुद्धस्य तूष्णींभावेनाधिवासनां विदित्वा काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः; अथ काश्यपः सम्यक्संबुद्धश् अचिरप्रक्रान्तं नन्दीपालं घटीकरं विदित्वा उत्तरं माणवं प्रव्राज्य उपसंपाद्य यथाभिरम्यं वैभिडिंग्यां विहृत्य येन वाराणसी काशीनां निगमस् तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् वाराणसीम् अनुप्राप्तः; वाराणस्यां विहरति ऋषिवदने मृगदावे.
अश्रौषीत् कृकी राजा काश्यपः सम्यक्संबुद्धः काशिषु जनपदे चारिकां चरन् वाराणसीम् अनुप्राप्तो वाराणस्यां विहरति ऋषिवदने मृगदावे इति; श्रुत्वा च पुनर् वाराणस्याः निष्क्रम्य येन काश्यपः सम्यक्संबुद्धस् तेनोपसंक्रान्तः; उपसंक्रम्य उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णं कृकिं राजानं काश्यपः सम्यक्संबुद्धो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ कृकी राजा उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन काश्यपः सम्यक्संबुद्धः तेनाञ्जलिं प्रणम्य काश्यपम् इदम् अवोचत्: अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन इति; अधिवासयति काश्यपः सम्यक्संबुद्धः कृकिनो राज्ञस् तूष्णींभावेन; अथ कृकी राजा काश्यपस्य सम्यक्संबुद्धस्य तूष्णींभावेनाधिवासनां विदित्वा कास्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः; अथ कृकी राजा ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्य उदकमणिं प्रतिष्ठाप्य ( अ 434ब् ) काश्यपस्य सम्यक्संबुद्धस्य दूतेन कालम् आरोचयति: समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते इति; अथ कास्यपः सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन कृकेः राज्ञो भक्ताभिसारस् तेनोपसंक्रान्तः; उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; अथ कृकी राजा सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य काश्यपं सम्यक्संबुद्धं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं सौवर्णं भृङ्गारम् आदाय काश्यपस्य सम्यक्संबुद्धस्य ( स्ब्व् इइ 26 ) पुरतो ऽस्थाद् आयाचमानः: अधिवासयतु मे भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अहं भगवतो ऽर्थाय पंच विहारशतानि मापयिष्यामि; पंच मंचपीठवृषिकोचवबिम्बोपधानचतुरश्रकशतानि कारयिष्यामि; अनेन चैवंरूपेन पर्णोपगूढेन शालिना भगवन्तं उपस्थास्यामि भिक्षुसंघं च; अलं महाराजा कृतम् एतावद् यावद् एव चित्तम् अभिप्रसन्नम्; द्विर् अपि त्रिर् अपि कृकी राजा काश्यपं सम्यक्संबुद्धम् इदम् अवोचत्: अधिवासयतु मे भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अहं भगवतो ऽर्थाय पंच विहारशतानि मापयिष्यामि; पंच मंचपीठवृषिकोचवबिम्बोपधानचतुरश्रकशतानि कारयिष्यामि; अनेन चैवंरूपेन पर्णोपगूढेन शालिना भगवन्तं उपस्थास्यामि भिक्षुसंघं च; द्विर् अपि त्रिर् अपि काश्यपः सम्यक्संबुद्धाः कृकिं राजानम् इदम् अवोचत्: अलं महाराजा कृतम् एतावद् यावद् एव चित्तम् अभिप्रसन्नम्; अथ कृकी राजा काश्यपं संयक्संबुद्धम् इदम् अवोचत्: अस्ति कश्चिद् भगवन् यो ऽप्य् एवंरूप उपस्थायकः तद्यथा अहम् एतर्ह्य्? अस्ति महाराज तवैव विजिते वैभिडिंगी नाम ग्रामनिगमः; तत्र नन्दीपालो नाम घटीकर प्रतिवसति; स बुद्धे ऽभिप्रसन्नो धर्मे संघे ऽभिप्रसन्नः; बुद्धं शरणं गतो धम्मं संघं शरणं गतः; बुद्धे एकान्तिको धर्मे संघे एकान्तिकः; बुद्धे निष्कांक्षो निर्विचिकित्सो धर्मे संघे दुःखे समुदये निरोधे मार्गे निष्कांक्षो निर्विचिकित्सो दृष्टसत्ये आगतफलो ऽभिसमितवां निक्षिप्तपर्णमुसलः स न स्वहस्तं पृथिवीं खनति न खानयति; नान्यत्र, यत् तद् भवति दकप्ररुग्नं वा मूषिकोत्किरा वा ततः कायेन मृत्तिकां संहृत्य निष्प्राणकेनोदकेन तीमयित्वा भाजनानि कृत्वैकान्तम् उपनिक्षिप्यैवम् आह: एत आर्या एत भद्रमुखा तिलान् वा तण्डुलान् वा मुद्गप्रभृतीन् वा माषप्रभृतीन् वा एकान्त उपनिक्षिप्य यो वा येन भाजनेनार्थी भवति स तद् आदाय प्रक्रामतु; स तस्माद् अन्धं मातापितरौ बिभर्ति; मां च कालेन कालं पिण्डकेन प्रतिपादयति; ( स्ब्व् इइ 27 ) एकम् अहं महाराज समयं वैभिडिंगीं ग्रामनिगमम् उपनिश्रित्य विहरामि; सो ऽहं पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैभिडिंगीं ग्रामनिगमं पिण्डाय प्राविक्षम्; ( अ 435अ ) सावादानं वैभिडंगीं पिण्डाय चरन् येन घटीकरस्य निवेशनं तेनोपसंक्रान्तः; उपसंक्रम्य शनैर् मन्दमन्दम् अर्गडम् आकोटयामि; तेन खलु समयेन नन्दीपालो घटीकरः बहिर् निर्गतो ऽभूत् केनचिद् एव करणीयेन; अश्रौष्टां नन्दीपालस्य घटीकरस्यान्धौ मातापितराव् अर्गडस्याकोटनशब्दम्; श्रुत्वा च पुनर् एवम् आहतुः; क एष आर्यः क एष भद्रमुखः शनैर् मन्दमन्दम् अर्गडम् आकोटयति? ताव् अहम् एवं वदामि: अहं काश्यपः सम्यक्संबुद्धः पिण्डकेनार्थी; ताव् एवम् आहतुः: प्रविशतु आर्यः प्रविशतु भद्रमुख एते कुण्डालिकायां कुल्माषाः पिठिरिकायां च सूपिकम्; सचेद् आकांक्षस्य् आत्मना गृहीत्वा परिभुंक्ष्व; बहिर्गत ते उपस्थायक इति; सो ऽहं महाराज उत्तरकौरवं समयम् अधिष्ठाय स्वयम् एव कुण्डलिकायाः कुल्माषान् पिठिरिकायाश् च सूपिकं गृहीत्वा भुक्तवान्; ततः पश्चाद् आगतो नन्दीपालो घटीकरः; अद्राक्षीन् नन्दीपालो घटीकरः कुण्डलिकायां कुल्माषान् पिठिरिकायां च सूपिकं परिभुक्तम्; दृष्ट्वा च पुनर् अन्धौ मातापितराव् इदम् अवोचत्: अम्ब तात केनैते कुण्डलिकायां कुल्माषाः पिठिरिकायां
च सूपिकं परिभुक्तम्; ताव् एवम् आहतुः: इह ते सोम्य नन्दीपाल अचिरनिर्गतस्याश्रौष्व अर्गडकस्याकोटनशब्दम्; श्रुत्वा च पुनर् एवं वदावः: क एष आर्यः क एष भद्रमुखः शनैर् मन्दमन्दम् अर्गडम् आकोटयति? स एवम् आह: अहं काश्यपः सम्यक्संबुद्धः पिण्डकेनार्थी; तम् एनम् एवं वदावः: प्रविशतु आर्य प्रविशतु भद्रमुख; एते कुण्डलिकायां कुल्माषाः पिठिरिकायां सूपिकम्; सचेद् आकांक्षस्य् आत्मना गृहीत्वा परिभुंक्ष्व; बहिर्गतस् ते उपस्थायकः; तेन ते कुण्डालिकायां कुल्माषाः पिठिरिकायां च सूपिकं परिभुक्तं भविष्यति; अथ नन्दीपालस्य घटीकरस्यैतद् अभवत्: लाभा मे सुलब्धा यस्य मे काश्यपः सम्यक्संबुद्धः कुले ऽत्यर्थं विश्वस्तो विश्वासम् आपन्नः इति विदित्वा तेनैव प्रीतिप्रामोद्येन सप्ताहम् एकपर्यंकेनातिनामयति अर्धमासं चास्य सततसहगता स्मृतिः कायं न विजहाति; साव्युच्छिन्ना काये वर्तते; सप्ताहं मातापित्रोः यथा कुण्डालिकायाः कुल्माषम्. पिठिरिकायश् च सूपिकम् एवं कुण्डिकाया ओदनं पिठिरिकायाश् च सूपिकम्; एकम् इमं महाराज ( स्ब्व् इइ 28 ) समयं वैभिडिंगीं ग्रामनिगमम् उपनिश्रित्य अहं वर्षा उपगतः; तस्य मम तत्प्रथमवर्षिणा देवेन विहारो ऽभिवृष्यते; तेन खलु समयेन नन्दीपालस्य घटीकारस्यावेशनशाला नवतृणप्रतिच्छन्ना ऽभूत्; सो ऽहम् उपस्थायकान् भिक्षून् आमन्त्रयामि: गच्छत यूयं भिक्षवो नन्दीपालस्य घटीकारस्यावेशनशालां नवतृणप्रतिच्छन्नाम् अवच्छाद्य मम विहारं छादयत; ते मम ओम् इति प्रतिश्रुत्य नन्दीपालस्य घटीकारस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादयन्ति; तेन खलु समयेन नन्दीपालो घटीकरो बहिर्निर्गतो ऽभूत् केनचिद् एव करणीयेन; अश्रौष्टां नन्दीपालस्य ( अ 435ब् ) घटीकरस्यान्धौ मातापितराव् आवेशनशालायाम् अवच्छादनशब्दं; श्रुत्वा च पुनर् एवम् आहतुः: क एष आर्यः क एष भद्रमुखो नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादयति? ते एवम् आहुर् वयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्योपस्थायिकाः; काश्यपस्य सम्यक्संबुद्धस्य तत्प्रथमवर्षिणा देवेन विहारो वृष्यते; ते वयं नन्दीपालस्य घटीकारस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छाद्य काश्यपस्य सम्यक्संबुद्धस्य विहारं प्रतिच्छादयामः; ताव् एवम् आहतुः हरत आर्या हरत भद्रमुखा बहिर्निर्गतो वः उपस्थायकः; तैस् ताम् अवच्छाद्य मम विहारः प्रतिच्छादितः; पश्चाद् आगतो नन्दीपालो घटीकरो ऽद्राक्षीन् नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादितां; दृष्ट्वा च पुनर् अन्धौ मातापितराव् इदम् अवोचत्: अम्ब तात केनैषा नवतृणप्रतिच्छन्ना आवेशनशाला अवच्छादिता; ताव् एवम् आहतुः: इह ते सोम्य नन्दीपाल अचिरनिर्गतस्य अश्रौष्व नवतृणप्रतिच्छन्नाया आवेशनशालाया अवच्छादनशब्दम्; श्रुत्वा च पुनर् एवं वदावः क एष आर्यः क एष भद्रमुखो नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादयति? ते एवम् आहुर् वयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्योपस्थायिकाः; काश्यपस्य सम्यक्संबुद्धस्य तत्प्रथमवर्षिणा देवेन विहारो वृष्यते; ते वयं नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छाद्य काश्यपस्य सम्यक्संबुद्धस्य विहारं प्रतिच्छादयामः; तान् आवाम् एवं वदावः हरत आर्या हरत भद्रमुखा बहिर्निर्गतो वः उपस्थायकः; तैर् एषा आवेशनशाला अवच्छादिता भविष्यति.
अथ नन्दीपालस्य घटीकरस्यैतद् अभवत्: लाभा मे सुलब्धा यस्य मे काश्यपः सम्यक्संबुद्धः कुले ऽत्यर्थं विश्वस्तो विश्वासम् ( स्ब्व् इइ 29 ) आपन्नः इति विदित्वा तेनैव प्रीतिप्रामोद्येन सप्ताहम् एकपर्यंकेनातिनामयति अर्धमासं चास्य सततसमिता स्मृतिः कायं न जहाति; सा चाव्युच्छिन्ना काये वर्तते; सप्ताहं मातापित्रोः तं खलु वर्षावासं नन्दीपालस्य घटीकरस्यावेशनशाला एकवारिबिन्दुनापि नाभिवृष्टा; यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन.
स्यात् खलु ते महाराज चेतसो ऽन्यथात्वम् नाधिवासयति मे काश्यपः सम्यक्संबुद्धस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्? न त्व् एव नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नायाम् आवेशनशालायाम् अवच्छादितायां चेतसो ऽन्यथात्वं; लाभा भदन्त नन्दीपालेन घटीकरेण सुलब्धा यस्यास्य भगवान् कुले ऽत्यर्थं विश्वस्तो विश्वासम् आपन्नः.
अथ कास्यपः सम्यक्संबुद्धः कृकेः राज्ञस् तद्दानम् अनयाभ्यनुमोदनयाभ्यनुमोदते;
अग्निहोत्रमुखा यज्ञाः गायत्री छन्दसां मुखम् ।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥
नक्षत्राणां मुखं चन्द्र आदित्यस् तपतां मुखम् ।
ऊर्ध्वं तिर्यग् अधश् चापि यावती जगतो गतिः ।
सदेवकेषु लोकेषु संबुद्धो हीज्यतां वरः ॥
अथ काश्यपः सम्यक्संबुद्धः कृकिणं राजानं धर्म्यया कथया ( अ 436अ ) संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः; अथ कृकी राजा अचिरप्रक्रान्तं काश्यपं सम्यक्संबुद्धं यत्रोत्सदनधर्मकं तत् सर्वं विसर्जनधर्मकम् इति कृत्वा काश्यपं सम्यक्संबुद्धं पृष्ठतः पृष्ठतः समनुबद्धः; अथ कृकी राजा कास्यपं सम्यक्संबुद्धं यावत् तावत् पृष्ठतः पृष्ठतः समनुबद्ध्य काश्यपस्य पादौ शिरसा वन्दित्वा काश्यपं सम्यक्संबुद्धं त्रिर् प्रदक्षिणीकृत्य तत एव प्रतिनिवृत्तः; अथ कृकी राजा अचिरप्रक्रान्तं काश्यपं सम्यक्संबुद्धं विदित्वा अन्यतमं पुरुषम् आमन्त्रयते: एहि त्वं भोः पुरुष पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि पूरयित्वा येन नन्दीपालो घटीकरस् तेनोपसंक्राम; उपसंक्रम्य नन्दीपालं ( स्ब्व् इइ 30 ) घटीकरम् इदम् अवोचः: इमानि ते सोम्य नन्दीपाल कृकिणा राज्ञा पंचमात्राणि शकटशतानि पर्णोपगूढस्य शालेर् अनुप्रेषितानि; अतस् त्वम् आत्मानं सम्यक् सुखेन प्रीणय अन्धं च मातापितरम्; काश्यपं च सम्यक्संबुद्धं कालेन कालं पिण्डकेन प्रतिपादय; एवं देव इति स पुरुषः कृके रज्ञः प्रतिश्रुत्य पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि पूरयित्वा येन नन्दीपाल्प् घटीकरस् तेनोपसंक्रान्तः; उपसंक्रम्य नन्दीपालं घटीकरम् इदम् अवोचत्: इमानि ते सोम्य नन्दीपाल कृकिणा राज्ञा पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतान्य् अनुप्रेषितानि; अतस् त्वम् आत्मानं सम्यक् सुखेन प्रीणय अन्धं च मातापितरम्; काश्यपं च सम्यक्संबुद्धं कालेन कालं पिण्डकेन प्रतिपादय; भोः पुरुष राजा बहुकृत्यो बहुकरणीय इत्य् उक्त्वा नाधिवासयति.
किं मन्यध्वे भिक्षवः? यो ऽसौ उत्तरो माणवः अहम् एव स तेन कालेन तेन समयेन; यन् मया काश्यपे सम्यक्संबुद्धे खरं वाक्कर्म निश्चरितं: कुतः तस्मिन् मुण्डके श्रमणके बोधिः; बोधिर् हि परमदुष्करा; तस्य कर्मणो विपाकेन एतर्हि मया षड्वर्षाणि दुष्करं चरितं; यदि पुनर् बोधिर् अपवदिताभविष्यत् पुनर् अपि मया त्रिणि कल्पासंख्येयानि आत्मबोधिनिमित्तं परिखेदितो ऽभविष्यम्; इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्.
यशोधरा ब्रिन्ग्स् fओर्थ् अ सोन्
यम् एव दिवसं बोधिसत्वो निर्गतस् तम् एव दिवसं यशोधरा आपन्नसत्वा संवृत्ता; यदा बोधिसत्वो दुष्कराणि चरति तदान्तःपुरम् अपि दुष्करं चरितुम् आरब्धं; यशोधरायाः स गर्भो लयं गतः; यदा भगवान् निष्किंचनं दुष्करम् इति विदित्वा यथासुखम् आश्वसिति; यथासुखं प्रश्वसिति; ओदारिकम् आहारम् आहरत्य् ओदनकुल्माषं, सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति सुखोदकेन च कायं परिषिंचति; अन्तःपुरम् अपि तदा यथासुखम् आश्वसिति, यथासुखं प्रश्वसिति, ओदारिकम् आहारम् आहरत्य् ओदनकुल्माषान्, सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति, सुखोदकेन च कायं परिषिंचति; तदासौ गर्भः पुनर् अपि पुष्टिं गतः तस्या ( स्ब्व् इइ 31 ) गर्भनिमित्तानि प्रादुर्भूतानि; सा शाक्यैः सपरिहासम् उच्यते: त्वं बोधिसत्वे तपोवनं गते व्यभिचरिता इति; सा कथयति: शान्तं पापं, नाहं व्यभिचरामि; कथं ज्ञायते? युष्माकं प्रत्याययिष्यामि; यावद् असौ प्रसूता, दारको जातः; यम् एव दिवसं जातः, तम् एव दिवसं राहुणा चन्द्रो गृहीतः; तस्य जातौ जातिमहं कृत्वा नामधेयं ( अ 436ब् ) व्यवस्थाप्यते; किं भवतु दारकस्य नाम इति; तस्य ज्ञातयः कथयन्ति: अस्य जन्मनि राहुणा चन्द्रो गृहीतः तद् भवतु दारकस्य राहुल इति नाम इति; जाते कुमारे भूयस्या मात्रया शाक्या विब्रुवते एव; तयासौ सत्योपयाचनं कृत्वा राहुलभद्रो बोधिसत्वस्य व्यायामशिलायां स्थापयित्वा क्रीडापुष्करिण्याम् आप्लावितः: यद्य् अयं बोधिसत्वेन जातः प्लवताम् इति; प्लवितुम् आरब्धः; सा कथयति: पाराद् अपारम् आगच्छतु इति; स पाराद् अपारम् आगतः; ते विस्मयम् आपन्नाः; यशोधरा कथयति: भूयो ऽपि भवतां प्रत्यक्षीकरिष्यामि यथायं बोधिसत्वेन जातः, नाहं व्यभिचरिता इति.
यदा भगवान् अतिक्रान्तः षड्वर्षाण्य् अभिसंबुद्धः कपिलवस्त्व् अनुप्राप्तः एकं दिवसं राजकुले भुंक्ते, एकम् अन्तःपुरे; तदा यशोधराया एतद् अभवत्: को ऽसाव् उपायः स्याद् येनाहं भगवन्तम् अन्वावर्तेयम् इत्; कपिलवस्तुनि चान्यतमा परिव्राजिका वशीकरणादिकर्मस्व् अत्यर्थं प्रवीणा; यशोधरया तस्याः पंचकार्षापणशतानि दत्तानि: आर्ये कार्षापणैर् वशीकरणं कृत्वा प्रेषय इति; तया वशीकरणमोदको यशोधरायाः प्रेषितः; यशोधरया राहुलस्य हस्ते दत्त उक्तश् च: पुत्र यस् तव पिता तस्मै अनुप्रयच्छ इति; अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; भगवान् संलक्षयति: यशोधराया असच्छब्दो निर्गतः; तस्यापन्नयाः कर्तव्य इति; भगवता पंचबुद्धशतानि निर्मितानि; राहुलेन सर्वान् बुद्धान् प्रत्यवेक्ष्य भगवतो वृद्धान्ते स्थितस्य दत्तः; भगवता गृहीत्वा पुनस् तस्यैव दत्तः; राहुलेन भक्षितः; भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः; राहुलभद्रः कुमारो भगवतः पृष्ठतः पृष्ठतो ऽनुबद्धः निर्वर्त्यमानो ऽपि न निर्वर्तते: अरोदीत् इति; भगवान् संलक्षयति: चरमभविको ऽयं सत्वः, न शक्यम् अनेन गृहवासे वस्तुम् ( स्ब्व् इइ 32 ) इति; राहुलेन भगवतः प्रत्यभिज्ञातेन कृतेन राजा शुद्धोदनः सान्तःपुरजनः शाक्याश् च परं विस्मयम् उपगताः यशोधरायां चात्यर्थम् अभिप्रसन्नाः; ततो यशोधराभ्याख्यानं सर्वेण सर्वं प्रतिवुगतं; भगवान् राहुलं कुमारं प्रव्राजयितुम् आरब्धः; राज्ञा शुद्धोदनेन श्रुतं; स भगवत्सकाशम् उपसंक्रान्तः; उपसंक्रम्य भगवन्तम् इदम् अवोचत्: भगवन्, यदि राहुलभद्रः कुमारो ऽवश्यं प्रव्राज्यते अद्यैकं दिवसं तिष्ठतु यावद् अहम् अस्य पूजां करोमि इति; राज्ञा शुद्धोदनेन राहुलस्य महान् उत्सवः कृतः; तत्र भगवता आयुष्मान् शारिपुत्रो ऽभिहितः; प्रव्राजय, शारिपुत्र, राहुलं कुमारम् इति; एवं भदन्त इत्य् आयुष्मता शारिपुत्रेण भगवतः प्रतिश्रुत्य राहुलभद्रः कुमारः प्रव्राजितः.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्तायुष्मता राहुलेन भगवान् मोदकेन महाजनकायस्य मध्ये विज्ञात इति; भगवान् आह: न भिक्षव एतर्ह्यि यथातीते ऽप्य् अध्वनि अहम् अनेन राहुलेन मालया विज्ञातः; तच् छ्रूयताम्.
थे स्तोर्य् ओf थे ग्रेअत् थिएf
भूतपूर्वं भिक्षवो अन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः ( अ 437अ ) पुत्रो जातः; स पत्नीम् आमन्त्रयते: भद्रे जातो ऽस्माकं धनहरो ऋणहरः; गच्छामि पण्यम् आदाय महासमुद्रम् अवतरामि इति; सा कथयति: आर्यपुत्र एवं कुरुष्व इति; स पण्यम् आदाय महासमुद्रम् अवतीर्णः; स तत्रैव च निधनम् उपयातः; ततस् तस्य पत्न्या शोकविनोदनं कृत्वा स दारको हस्तबलेन ज्ञातिबलेन चाप्यायितः पोषितः संवर्धितः; तस्य नातिदूरे कुविन्दः प्रतिवसति स्वशिल्पकृतावी; तस्य स्वशिल्पात् सर्वं संपद्यते; सा तस्य स्वशिल्पाद् भोगसंपत्तिं दृष्ट्वा कथयति: वरं कुविन्दकर्म न समुद्रावतरणं; तस्मिन् गते अनयेन व्यसनम् आपद्यन्ते इति; तयासौ कुविन्दो ऽभिहितः: भ्रात इमम् अपि भागिनेयं कुविन्दकर्म शिक्षयेति; स कथयति: शोभनम् एवं ( स्ब्व् इइ 33 ) भवतु इति; स तं शिक्षयितुम् आरब्धः; पटुप्रचारो ऽसौ; तेनाल्पीयसा कालेन कुविन्दकर्म शिक्षितं; स कुविन्दः सुस्नातः सुप्रावृतः प्रणीतम् आहारं भुंक्ते; सा दारकः कथयति: मातुल त्वम् अपि तद् एव कर्म करोषि; अहम् अपि तद् एव; अथ कस्मात् त्वं सुस्नातः सुप्रावृतः प्रणीतम् आहारं भुंक्षे; मम तु न संपद्यते इति; स कथयति: भागिनेय अहं कर्मद्वयं करोमि, दिवा कुविन्दत्वं रात्रौ चौर्यम् इति; स कथयति: मातुल यद्य् एवम् अहम् अपि चौर्यं करोमि; भागिनेय शक्ष्यसि त्वं चौर्यं कर्तुं? मातुल शक्ष्यामि; स संलक्षयति: जिज्ञासयामि तावद् एनम् इति; स तम् आदाय वीथिं गतः; तेन तत्र शशकः क्रीत्वा तस्य दत्तः भागिनेय साधय तावद् यद् अहं स्नात्वागच्छामि; स स्नात्वा आगतः; तेन तं लघु लघ्व् एव साधयित्वा एकपादो भक्षितः; स कुविन्दः स्नात्वा आगतः; भागिनेय साधितः शशकः? मातुल साधितः; पश्यामि तावत्; तेन समर्पितः; पश्यति पादत्रयं; स कथयति भागिनेयास्य चतुर्थः पादः क्व गतः? स कथयति: मातुल शशकस्य चतुर्थः पादो नास्ति; क्व गमिष्यति? इति; स संलक्षयति: अहं तावच् चोरः, अयं तु महाचोर इति; स तम् आदाय त्रिपादकं च शशकं पानागारं प्रविष्टः: भागिनेय मद्यं पिबामः; पिबामः; ताभ्यां पीतं; कुविन्दः कथयति: भागिनेय मद्यमूल्यम् अपलपामः; स कथयति: मातुल येन पीतं सो ऽपलपतु; अहं नैव पिबामि; किम् अपलपामि इति; स कुविन्दः संलक्षयति: महाचोरो ऽयं; शक्यम् अनेन सार्धं चौर्यं कर्तुम् इति; स तेन सार्धं चौर्यं कर्तुम् आरब्धः; स कुविन्दः सन्धौ शिरः प्रक्षिपति; तेनोच्यते: मातुल चौर्यम् अपि न ज्ञायते त्वया कर्तुं; पादौ पूर्वं प्रक्षेप्तव्यं न शिरः; यदि शिरः छिद्यते प्रत्यभिज्ञायते, कुलं सर्वं विनाशम् उपैति; पादौ प्रक्षिप इति; तेन पादौ प्रक्षिप्तौ; ततश् चोरश् चोर इति कोलाहलो जात इति पद्भ्यां गृहीतः; महाजनकायो लग्नः; स एको न शक्नोत्य् आकर्ष्टुं; स शिरश् छित्वा तद् आदाय प्रक्रान्तः; अमात्यै राज्ञो निवेदित: देव एकश् चोरः सन्धिं प्रविष्टो गृहीतः; तस्य को ऽपि शिरश् छित्वा तद् आदाय प्रक्रान्तः; राज कथयति: भवन्तः यः शिरश् ( स्ब्व् इइ 34 ) छित्वा प्रक्रान्तः स महाचोरः; गच्छत तं कबन्धं चतुर्महापथे स्थापयित्वा प्रतिगुप्ते प्रदेशे तिष्ठत; यस् तं गृहीत्वा रोदिति तेनैकचोरेण भवितव्यं, गृह्णीत इति; ततस् ते राजपुरुषाः तं कबन्धं चतुर्महापथे स्थापयित्वा प्रतिगुप्ते प्रदेशे स्थिताः; स एकचोरः संलक्षयति: न नाम मया मातुलं कण्ठे गृहीत्वा रोदितव्यं; स उन्मत्तकवेषम् ( अ 437ब् ) आत्मानं कृत्वा स्त्रियम् अपि कण्ठे गृह्णाति; पुरुषम् अपि वृक्षम् अपि अश्वम् अपि वृषभम् अपि महिषम् अपि छागम् अपि कुक्कुरम् अपि ग्रहीतुम् आरब्धः; यदा लोकेन विज्ञात उन्मत्तको ऽयम् इति तदा तं कबन्धं कण्ठे गृहीत्वा यावदाप्तं रुदित्वा प्रक्रान्तः; राजपुरुषै राज्ञो निवेदितं: देव उन्मत्तकस् तं कबन्धं कण्ठे गृहीत्वा यावदाप्तं रुदित्वा प्रक्रान्त इति; राज कथयति: भवन्तः स एवासाव् एकचोरकः; न शोभनं कृतं यन् न गृहीतः; इदानीं गृह्णीत इति; एकचोरकः संलक्षयति: न नाम मया मातुलः सत्कारयितव्यः? इति; स शाकटिकवेषं कृत्वा काष्ठस्य शकटं पूरयित्वा तं प्रदेशं गतः; तस्योपरि शकटं काष्ठपूर्णं स्थापयित्वा बलीवर्दान् उत्सृज्य शकटे अग्निं दत्वा प्रक्रान्तः;
तेन दह्यमानेन स कबन्धो दग्धः; राजपुरुषै राज्ञ निवेदितं: देव स एकचोरको दग्धः; राजा कथयति, केन; तैर् यथावृत्तं समाख्यातं; राजा कथयति: भवन्तो यो ऽसौ शाकटिकः स एवासाव् एकचोरिकः; न शोभनं कृतं यन् न गृहीतः; गृह्णीत इति; स एकचोरिकः संलक्षयति: न नाम मया मातुलस्य श्मशाने पितृकार्यं कृतम् इति; स ब्रह्मणवेषं कृत्वा अधिष्ठाने भिक्षाम् अटित्वा तय तां भिक्षां श्मशाने पक्त्वा पिण्डान् दत्वा प्रक्रान्तः; राजपुरुषै राज्ञो निवेदितं: देव ब्राह्मणेनाधिष्ठाने भिक्षाम् अटित्वा यस्मिन् प्रदेशे स कबन्धो दग्धः तत्र पंच पिण्डान् दत्वा प्रक्रान्त इति; राजा कथयति: भवन्तः स एवासाव् एकचोरिकः; न शोभनं कृतं यन् न गृहीत इति; एकचोरिकः संलक्षयति: न नाम मया मातुलस्यास्थीनि गंगायां प्रक्षेप्तव्यानि? इति; स कापालिकवेषं कृत्वा तं प्रदेशं गतः; स तत्र गात्रं भस्मना उद्धूलयित्वा अस्थीनां भस्मनां च कर्परकं पूरयित्वा गंगायां प्रक्षिप्य प्रक्रान्तः; राजपुरुषै राज्ञो यथावृत्तम् आरोचितं; राजा कथयति: भवन्तः स एवासाव् एकचोरिकः; ( स्ब्व् इइ 35 ) न शोभनं कृतं यन् न गृहीतः; सर्वथा तिष्ठत यूयं; अहम् एवैनं गृह्णामि इति; राज्ञा गंगायां नौभिर् उद्यानं कारितं; उभयकूले आरक्षकाः पुरुषाः स्थापिताः; राज्ञो दुहिता अभिरूपा दर्शनीया प्रासादिका तस्मिन् जलोद्याने स्थापिता; उक्ता च यदि त्वां कश्चिद् गृह्णाति रावयिष्यसि इति: आरक्षकपुरुषाणां चाज्ञा दत्ता: यदैषा रावयति तदा युष्माभिर् जलोद्यानं गन्तव्यं; यदि कश्चित् तत्र पुरुषो भवति स गृहीत्वा मां नेयः इति; एकचोरकः संलक्षयति: न नाम मया राजदुहित्र्या सार्धं परिचारयितव्यम् इति; स तत्र गंगायाम् अनुस्रोतो ऽवस्थितः; स तत्र रिक्तपिठरिकान् क्षेप्तुम् आरब्धः; एकः क्षिप्तः; आरक्षकपुरुषाः चोर इति कृत्वा धाविताः; तैर् असौ प्रहारेण भग्नः; द्वितीयः क्षिप्तः; सो ऽपि भग्नः; तृतीयः क्षिप्तः; सो ऽपि भग्नः; आरक्षका रिक्तपिठरिका एत उह्यन्ते इत्य् अप्य् उपेक्षिता व्यवस्थिताः; ततो ऽसाव् एकचोरिकः रिक्तपिठरिकायां शिरः प्रक्षिप्य श्रोतसा उह्यमानस् तं प्रदेशम् आगतः; ततो नावम् अभिरूढो दारिकायाः कथयति: मा शब्दं करिष्यसि; न त्वां प्रघातयिष्यामि इति; सा संत्रस्ता तूष्णीम् अव्स्थिता; तया सार्धं परिचार्य प्रक्रान्तः; सा प्रलपितुम् आरब्धा: एष चोरो मां परिचार्य गच्छति इति; आरक्षकाः कथयन्ति: यदा परिचारयति तदा तूष्णीं तिष्ठसि; यदा परिचारयित्वा प्रक्रान्तस् तदा रोदिषि; इदानीं कुत्र समन्वेषाम इति; आरक्षकै राज्ञो यथावृत्तम् आरोचितं; राजा कथयति: न शोभनं कृतं यन् न गृहीतः इति; दारिका चोरेण सार्धं परिचारयित्वा आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् ( अ 438अ ) अत्ययात् प्रसूता; दारको जातः; एकचोरकेन श्रुतं; स संलक्षयति: न मया पुत्रस्य जन्मनि प्रमोदः कृतः इति; स कांचुकीयम् आत्मानं कृत्वा राजकुलान् निर्गम्य पौरुषेयान् आमन्त्रयते: भवन्तो देव आज्ञापयति पत्तनं लुण्ठयत इति; ते संलक्षयन्ति: राज्ञो नप्ता जातः; तेनास्माभिर् आज्ञा दत्ता; लुण्ठयामः; ते लुण्ठयितुम् आरब्धाः; उच्चशब्दमहाशब्दो जातः; राजा पृच्छति किम् एतद् इति; अमात्यैर् विस्तरेण समाख्यातं; स कथयति: एवम् अप्य् अहं तेन खलीकृतः; राज्यं वा परित्यजामि तस्य वा निग्रहं करोमि इति; तेन विदित्वा मण्डलवाटः कारितः; कंचित् कालं विनोद्य अमात्यानाम् ( स्ब्व् इइ 36 ) आज्ञा दत्ता: भवन्त अधिष्ठाने एवंविधं घण्टावघोषणं कारयत; यावन्तो पुरुषाः प्रतिवसन्ति तैः सर्वैर् निष्परिहारैर् भूत्वा मण्डलवाटं प्रवेष्टव्यं; यो न प्रविशति तस्य वधो दण्ड इति; आमत्यैर् घण्टावघोषणा कारिता; सर्वे ऽधिष्ठाननिवासिनः पुरुषा प्रविष्टाः; ततो राज्ञा तस्मै दारकाय मालां दत्वा उक्तं: यस् तव पिता तस्मै तां मालाम् अनुप्रयच्छ इति; आरक्षकाश् च पुरुषा उक्ताः: यस्यायं दारको मालां ददाति युष्माभिर् गृहीत्वा मत्सकाशम् उपनेयः इति; ततस् तां पुष्पमालां गृहीत्वा परिभ्रमितुम् आरब्धो जनकायान् निरीक्षमाणः; तेनासौ चोरो दृष्टः; अचिन्त्यः सत्वानां कर्मविपाकः; तेन तस्मै माला दत्ता; राजपुरुषै एकचोरो गृहीत्वा राज्ञ उपनामितः; राजा अमात्यान् आमन्त्रयते: भवन्तः कथम् अत्र प्रतिपत्तव्यं? इति; ते कथयन्ति; देव प्रघात्यताम् इति;
राजा कथयति: भवन्तः कथम् ईदृशो वीरपुरुषः प्रघात्यः; उपसंग्रहो ऽस्य कर्तव्यः इति; तेन तस्मै सा दुहिता सर्वालंकारविभूषिता भार्यार्थं दत्ता; उपार्धराज्येन संविभक्तः.
किं मन्यध्वे भिक्षवः? यो ऽसाव् एकचोरिक अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ तस्य पुत्रः एष एवासौ राहुलस् तेन कालेन तेन समयेन; तदाप्य् अनेन मालया विज्ञातः; एतर्ह्य् अप्य् अहम् अनेन मोदकेन विज्ञातः; एवं हि वो भिक्षवो ऽचिन्त्यः सत्वानां कर्मविपाकः इति कर्मपरायणैर् भवितव्यं.
यशोधरा सेएक्स् तो ब्रिन्ग् थे बुद्ध बच्क् तो हेर्
यशोधरा संलक्षयति: यदि राहुलस्य पिता अन्तःपुरं प्रविशति तथाइवानुचरितव्यो यथा न भूयो निर्गच्छति इति; तत आत्मानम् आदौ कृत्वा गोपिकामृगजाप्रमुखानि षष्टिस्त्रीसहस्राणि नानाविधालंकारैर् अलंकृतानि सुरभिमाल्यधूपवस्त्रैर् विभूषितानि; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो विनेयजनापेक्षा अन्तःपुरं प्रविष्टः; ततो यशोधरामृगजागोपिकाप्रमुखानि षष्टिस्त्रीसहस्राणि रूपयौवनविभ्रमाशाखेदाकुलविलसितचलितशिथिलमेखलाकलापनिस्वनैर् ( अ 438ब् ) हसितमधुरगीतमधुनेत्रभ्रूविकारोत्कंपनपयोधरोदरदर्शनांगविस्पष्टचेष्टितैर् भावं दर्शयाम् आसुः; अथ भगवत एतद् अभवत्: सचेद् भोक्ष्ये वैनेयजनकालातिक्रमो भविष्यति; एताः स्त्रियाः कामरागाभिभूताः सत्यानाम् अभाजनभूता ( स्ब्व् इइ 37 ) भविष्यन्ति; अस्त्य् आशु पृथग्जनस्य रिद्धिर् आवर्जनकरी; यन्न्व् अहम् अन्तःपुरम् ऋद्धिप्रातिहार्येणावर्जयेयम् इति; विदित्वा पूर्वस्यां दिश्य् उपरि विहायसम् अभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति; तद्यथा चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; तेजोधातुसमापन्नस्य बुद्धस्य भगवतो विविधान्य् अर्चींषि कायान् निश्चरन्ति; तद्यथा नीलानि पीतानि लोहितान्य् अवदातानि मंजिष्ठानि स्फटिकवर्णानि; यमकान्य् अपि प्रातिहार्याणि विदर्शयति; अधःकायः प्रज्वलति, उपरिमात् कायाच् छितला वारिधाराः स्यन्दन्ते, उपरिमः प्रज्वलति, अधःकायाच् छितला वारिधारा स्यन्दन्ते; यथा पूर्वस्यां दिश्य् अवं दक्षिणायां पश्चिमायाम् उत्तरस्यां दिशि इति चतुर्दिशं चतुर्विधम् ऋद्धिप्रातिहार्यं विदर्शयन् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; अथ ताः स्त्रियो भगवत ऋद्धिप्रातिहार्यं दृष्ट्वा आवर्जिता मूलनिकृन्ता इव द्रुमा भगवतः पादयोर् निपत्य पुरस्तान् निषण्णाः धर्मश्रवणाय; ततो भगवता तासाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा गोपिकामृगजाप्रमुखैः षष्टिस्त्रीसहस्रैः स्रोतआपत्तिफलं साक्षात्कृतं; यशोधराया अत्यर्थं कामरागाभिभूताया सत्यदर्शनं न कृतं; तस्या एतद् अभवत्: यन्न्व् अहं भगवन्तं रसतृष्णया अन्वावर्तेयम् इति; विदित्वा स्वयम् एव भगवतो ऽर्थाय अन्नपानं साधयित्वा कथयति: अद्याहं स्वहस्तं भगवन्तं संतर्पयामि इति; श्रुत्वा भिक्षुभिर् भगवत आरोचयन्ति: यशोधरा भदन्त भगवन्तं स्वहस्तं रसतृष्णया अन्वावर्तयितुकाम इति; भगवान् आह: पूर्वम् अहं भिक्षवः सरागः सद्वेषः समोहः रसप्रतिसंवेदी रसरागप्रतिसंवेदी च; एतर्ह्य् अहं विगतरागो विगतद्वेषो विगतमोहो रसप्रतिसंवेदी नो तु रसरागप्रतिसंवेदी; तत् कथम् इदानीं यशोधरा रसतृष्णया अन्वावर्तयति इति.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यशोधरा भगवन्तं वशीकरणमोदकेनान्वावर्तयितुकामारब्धा; भगवान् आह: न भिक्षव एतर्हि यथातीते ऽप्य् अध्वनि अहम् अनया मोदकेनान्वावर्तितः; तच् छ्रूयताम् ( स्ब्व् इइ 38 )
थे स्तोर्य् ओf ऋष्यशृङ्ग
भूतपूर्वं भिक्षवो अन्यतमस्मिन् ग्रामके ऽरण्यायतने पुष्पफलसलिलकन्दसंपन्ने रिषिः ( अ 439अ ) प्रतिवसति; स कष्टतपा मूलफलाम्बुभक्षो ऽजिनवल्कलवासा; अनेन पंचाभिज्ञाः साक्षात्कृता; तस्य व्याडमृगा अप्य् आश्रमपदे विश्वस्तविहारिणो विहरन्ति; सो ऽन्यतमं प्रदेशं प्रस्रावं कर्तुम् अभिसंप्रस्थितः; मृगी पृष्ठतः समनुबद्धा; तेन सशुकः प्रस्रावः कृतः; स तया मृग्या पीतः; स्त्रीन्द्रियं जिह्वया निर्लीढम्; अचिन्त्यः सत्वानां कर्मविपाकः; आपन्नसत्वा संवृत्ता; प्रसवनकाले तम् एव देशम् आगम्य प्रसूता; दारको जातः; सा गन्धं घ्रात्वा विसभागः सत्वः इति संत्रस्ता मूत्रपुरीषम् उत्सृजन्ती छोरयित्वा प्रक्रान्ता; यावद् असौ रिषिस् तं प्रदेशम् अनुप्राप्तः; तेन स दारको दृष्टः; स समन्वाहर्तुं प्रवृत्तः कस्यायं पुत्रः इति; पश्यति अत्मनः; तेन स्वाश्रमपदं नीत्वा आपायितः पोषितः संवर्धितः; तस्यापि वृद्धिं गच्छतः शिरसि मृगडृङ्गे प्रादुर्भूते; तस्य मृगस्य यादृशे शृङ्गे इति रिष्यशृण्ग इति संज्ञा संवृत्ता; यावद् असौ रिषिर् म्लानः संवृत्तः; स ऋषिः प्रतिरूपैर् भैषज्यैर् उपस्थीयते; न चासौ व्याधिर् उपशमं गच्छति; यदा तस्य मरणान्तिकी वेदना प्रादुर्भूता न चिरेण कालं करिष्यामि इति; तदा तेनासौ पुत्रो ऽभिहितः; पुत्र अस्मिन्न् आश्रमपदे नानादेशनिवासिनः रिषयः कालेन कालम् उपसंक्रामन्ति; ते त्वया मत्प्रियतया स्वागतवादसमुदाचारेण संमोद्य आसनेनोपनिमन्त्रयितव्या यथाशक्तितश् च फलमूलैः प्रतिपाद्याः इत्य् उक्त्वा
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्* ॥
इति कालधर्मेण संयुक्तः; स तेन ऋषिधर्मसमुदाचारेण ध्यापितः; तेन पितृशोकाभिभूतेन संवेगात् पंचाभिज्ञाः साक्षात्कृताः; सो ऽपरेण समयेन सलिलार्थी घटम् आदाय संप्रस्थितः; देवश् च वर्षितुम् आरब्धः; स पानीयघटं पूरयित्वा आगन्तुम् आरब्धः; स्खलितः पतितः; आशुप्रकोपिनो रिषयः; तेन पानीयस्तोकं गृहीत्वा क्षिपता शापो दत्तः; दुराचार त्वया पानीयघटः पूर्णो भग्नः; तस्मात् त्वया इदं दिवसम् उपादाय द्वादशवर्षाणि न वर्षितव्यम् ( स्ब्व् इइ 39 ) इति; देवो न वर्षितुम् आरब्धः; वाराणस्यां महादुर्भिक्षं प्रादुर्भूतं; जनकायः समन्ताद् विद्रुतः; रज्ञा नैमित्तिका आहूय पृष्टाः: भवन्तः कस्यानुभावाद् देवो न वर्षति इति; ते कथयन्ति: देव रिषिप्रकोपाद् यद्य् अयं रिषिस् तस्मात् तपसः चालयितुं शक्येत, एवं देवो वर्षति, अन्यथा न इति; राजा चिन्तापरो व्यवस्थितः; अन्तःपुरामात्यकुमारैर् उच्यते: देव किमर्थं चिन्तापरः? स कथयति: रिषिप्रकोपाद् देवो न वर्षयति; नैमित्तिकाश् चैवं कथयन्ति, यद्य् असौ रिषिस् तस्मात् तपसश् चाल्यते एवं देवो वर्षयति; अन्यथा न; तन् न विज्ञायते: कस् तं शक्नोति तस्मात् तपशश् चालयितुम् ( अ 439ब् ) इति; तस्य राज्ञो दुहिता शान्ता नाम; सा कथयति: देव यद्य् एवम् अल्पोत्सुको भव; अहं तथा करिष्यामि यथासौ रिषिस् तस्मात् तपसः चलति इति; स कथयति केनोपायेन? सा कथयति: मां ब्राह्मणकान् मन्त्रान् पाठय अन्यांश् च कन्याः; नौसंक्रमे च आश्रमपदं कारय पुष्पफलसलिलसंपन्नम् इति; तेन ब्राहम्णकान् मन्त्रान् पाठिता अन्याश् च कन्याः, नौसंक्रमे च तादृशम् आश्रमपदं कारितं, ततः तया तानि फलानि वशीकरणद्रव्यैः मद्येन च समापूरितानि; अपराणि च नानाविचित्राणि च फलानि कारितानि; रिषिवेषः कृतः; सा चीवरवल्कलप्रावृता; सा ताभिः कन्याभिः ब्राह्मणकान् मन्त्रान् पाठयन्ती आश्रमपदं गता; रिषेः शिष्यैर् निवेदितम् उपाध्याय बहवस् तवाश्रमपदं रिषय आगताः; स्वागतं रिषीणां प्रविशन्तु इति; ते प्रविष्टाः; स दृष्ट्वा गाथां भाषते:
व्यायामहीना च गतिः सलीला मुखानि च श्मश्रुविवर्जितानि ।
उरांसि चैषां विषमोन्नतानि वेषो ह्य् अपूर्वो ऽयं महारिषीनाम्* ॥
इति; तेन ता विचिकित्सापर्याकुलीकृतमतिनापि मूलफलैः प्रवारिताः; ताभिस् तानि फलानि परिभुज्य स रिषिर् अभिहितो: युष्माकम् एतानि फलानि कटुकतिक्तकषयानि; अस्माकं त्व् आश्रमो जलमध्ये यत्र फलान्य् अमृतप्रख्यानि; अपि तु त्वम् अस्माभिर् आश्रमपदे उपनिमन्त्रितो भव; तेनाधिवासितं; स ताभिः नौसंक्रमोद्यानम् ( स्ब्व् इइ 40 ) अभिरोहितः; तस्य तत्र मद्यपूर्णानि वशीकरणद्रव्यसंयुक्तानि नारिकेलफलानि च दत्तानि; स मद्यमदाक्षिप्तो वशीकरणद्रव्ययोगात् तया सार्धं विप्रतिपन्नः रिद्धिपरिहीणः; मेघाः समन्ताद् उन्नताः; वर्षाभिप्राया देवतेति ऋषिणा सन्तर्जिता; शान्ता कथयति: अद्यापि त्वम् आत्मानं न जानीषे को ऽहम् इति; स तया रागपाशपाशितो राज्ञः सकासम् उन्नीतः देव अयं स रिषिः इति; ततो देवो वर्षितुम् आरब्धः; सुभिक्षं प्रादुर्भूतं; राज्ञा सा तस्यैव रिषेर् भार्यार्थं सपरिवारा दत्ता; स शान्तां प्रत्याख्याय ताभिर् अन्याभिः सार्धं परिचारयितुम् आरब्धः; तत्र शान्ता ईर्ष्याकुलीकृतहृदया तस्यासत्कारं कर्तुम् आरब्धा; तत उत्तराद् उत्तरं; स तया सोपानत्केन पादेन शिरसि पराहतः; स संलक्षयति: यो ऽहं मेघस्यापि गर्जितं न सहे स इदानीं रागपाशितः स्त्रीमात्रेणैवं खलीकृतः इति; तेन वीर्यम् आस्थाय पुनर् अपि पंचाभिज्ञाः साक्षात्कृताः.
किं मन्यध्वे भिक्षवः? यो ऽसाव् ऋषिर् अहम् एव स तेन कालेन तेन समयेन; यासौ शान्ता एषैव सा यशोधरा; तदाप्य् अहम् अनया रसतृष्णया अन्वावर्तितः; एतर्ह्य् अप्य् एषा मां मोदकेनान्वावर्तितुं प्रवृत्ता.
यशोधरा अत्तेम्प्त्स् तो चोम्मित् सुइचिदे
यदा भगवान् अन्तःपुरान् भुक्त्वा निष्क्रामति तदा यशोधरया नैराश्यम् आपन्नया भर्तुः स्नेहवैमुख्याच् छरणपृष्ठम् अभिरुह्य आत्मा मुक्तः; ( अ 440अ ) असंमोषधर्माणो बुद्धा भगवतः; सा भगवता ऋद्ध्या प्रतिगृहीता.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यशोधरया भगवन्तो ऽर्थाय शरणपृष्ठाद् आत्मा मुक्तः इति; भगवान् आह: न भिक्षव एतर्हि यथातीते ऽप्य् अध्वन्य् अनया ममार्थायात्मा परित्यक्तः; तच् छ्रूयताम् ( स्ब्व् इइ 41 )
थे स्तोर्य् ओf थे किन्नर अन्द् थे किन्नरी
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा बभूव; सो ऽपरेण समयेन मृगवधाय निर्गतः; अनुपूर्वेण पर्वतकन्दरं प्रविष्टः; तेन तत्र किन्नरः किन्नरी च दृष्टा; किन्नरः सुप्तः, किन्नरी जागर्ति; रज्ञा आकर्णं धनुः पूरयित्वा किन्नरः शरेण मर्मनि ताडितः; प्राणैर् वियुक्तः; राज्ञा किन्नरी गृहिता भार्याऋथाय; राजा ताम् आदाय संप्रस्थितः; सा कथयति: देव तिष्ठतु तावत्, अनुजानीहि मां यावद् अस्य किन्नरस्य शरीरपूजां करिष्यामि इति; राजा संलक्षयति: क्व गमिष्यति; पश्यामि तावत् कथम् अस्य शरीरपूजां करोति इति; सा तेन समनुज्ञाता; ततस् तया तं किन्नरं काष्ठैर् अवष्टभ्य चितां प्रज्वाल्यात्मा प्रक्षिप्तः; देवता गाथां भाषते
अन्यथा चिन्तितो प्य् अर्थ अन्यथा परिवर्तितः ।
किन्नरीं रमयामीति कृतं प्राणिवधद्वयम् ॥ इति
किं मन्यध्वे भिक्षवः? यो ऽसौ किन्नर अहम् एव स तेन कालेन तेन समयेन; यासौ किन्नरी एषैव सा यशोधरा; तदाप्य् अनया ममार्थायात्मा चितायां मुक्तः; एतर्ह्य् अप्य् अनया ममार्थायात्मा शरणपृष्ठान् मुक्तः इति.
चोन्वेर्सिओन् ओf यशोधरा
भगवान् संलक्षयति: इदानीं यशोधराया प्राप्तो विनयकालः; यद् अहम् एनां संसारकान्ताराद् उत्तारयेयम् इति विदित्वा तस्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा यशोधरया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; सा सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिता; यावद् अर्हन्तिनी संवृत्ता; स्वकुलसंशानुरूपतया आर्यमार्गप्रतिलम्भाच् च भिक्षुणीनां मध्ये समुत्पन्नेषु कार्येष्व् अत्यर्थं जिह्रेति; तत्र भगवान् भिक्षून् आमन्त्रयति: एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकानां ह्रीमतीनां यदुत यशोधरा राहुलमाता इति.
पुनर् अपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त यशोधरया कर्म ( स्ब्व् इइ 42 ) कृतं यस्य कर्मणो विपाकेन षड्वर्षाणि कुक्षिणा गर्भो धारितः इति; भगवान् आह: यशोधरयैव भिक्षवः पूर्वम् अन्यासु जातीषु कर्माणि कृतान्य् उपचितानि पूर्ववद् यावद् फलन्ति खलु देहिनाम्.
थे स्तोर्य् ओf थे त्wओ आभीरीस्
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् गोकुले द्वौ आभीर्यौ प्रतिवसतः; माता च दुह्ता च; ते अभिक्ष्णं मथितघटम् आदाय ग्रामान्तं गच्छतः; तयोर् दुहिता शाठ्यसमुदाचारजाता माता ऋजुका; दुहिता कथयति: अम्ब गृहाण ( अ 440ब् ) तावन् मथितघटं प्रस्रावं करोमि इति; सागृहीत्वा संप्रस्थिता; सा शाठ्यसमुदाचारेण पृष्ठतो लम्बत एव, न ताम् अनुगच्छति; एवं तयासौ माता षट्क्रोषान् मथितघटं वाहिता.
किं मन्यध्वे भिक्षवः? यासाव् आभीरीदुहिता एषा एव सा यशोधरा तेन कालेन तेन समयेन; यद् अनया माता शाठ्यसमुदाचारेण षट्क्रोषान् मथितघटं वाहिता, तस्य कर्मणो विपाकेनानया राहुलः षड्वर्षाणि कुक्षिणा ऊढः इति हि भिक्षव एकान्तकृष्णानाम् कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता राहुलेन कर्म कृतं यस्य कर्मणो विपाकेन मातुः कुक्षौ षड्वर्षाण्य् अवस्थितः इति; भगवान् आह: राहुलेनैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; राहुलेन कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्य् उपचितानि न बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ ( स्ब्व् इइ 43 )
स्तोर्य् ओf शङ्ख अन्द् लिखित
भूतपूर्वं भिक्षवः वाराणस्यां नातिदूरे पुष्पफलसंपन्नम् आश्रमपदं नानाविहगनिकूजितं विश्वस्तमृगपक्षिनिषेवितम्; तत्र द्वाव् ऋषी भ्रातरौ प्रतिवसतः फलमूलाम्बुभक्षाव् अजिनवल्कलधारिणौ शङ्खश् च लिखितश् च; शङ्ख उपाध्याय लिखितश् च शिष्यः; तौ वाराणस्यां सर्वलोकप्रख्यातौ; राज्ञापि ब्रह्मदत्ते<न> विदितौ: अमुष्मिन्न् उद्याने द्वाव् ऋषी भ्रातरौ प्रतिवसतः शङ्खश् च लिखितश् च; तत्र शङ्ख उपाध्यायो लिखितश् च शिष्यः इति; यावद् अपरेण समयेन शङ्ख उदकस्य कुण्डिकां पूरयित्वा मूलफलानाम् अर्थे वनं गतः; लिखितस् तु सरात्रम् एवोत्थाय पूर्वतरं गतः; स पुष्पफलान्य् आदाय त्वरितम् आगतः; आत्मीयाम् आटिकां प्रत्यवेक्षते; स्वल्पं पानीयं; स तृष्णार्तः संलक्षयति उपाध्यायसन्तकं पानीयं पिबामि इति; तेन पीतं; यावत् शङ्ख रिषिर् मूलफलान्य् आदाय तृषापर्याकुलीकृतमुखः आश्रमं प्रविष्टः; कुण्डिकां प्रत्यवेक्षते; पश्यति रिल्तिकां; स संजातामर्षः कथयति, केन चोरेण पानीयम् अपहृतं? इति; लिखितः कथयति: उपाध्याय अहं चोरः; मया पीतं; दण्डं प्रयच्छ इति; स कथयति: त्वं मम भ्राता शिष्यश् च; यदि पीतं सुपीतं यथासुखम् इति; स कथयति: उपाध्याय न शक्नोम्य् अहम् एतत् कौकृत्यं प्रतिविनोदयितुं; प्रयच्छ मे गुरुकं दण्डं यश् चोरस्य प्रदीयते इति; एवम् उक्तः शङ्ख ऋषिः ( अ 441अ ) प्रकुपितः कथयति: नाहं दण्डम् अनुप्रयच्छामि: यदि त्वं दण्डेनार्थी राज्ञः सकाशं गच्छ इति; स राज्ञः सकाशं गतः; तस्मिंश् च समये राजा मृगवधाय संप्रस्थितः; तेनासौ जयेनायुषा वर्धयित्वा गाथया विज्ञप्तः:
अहं चोरो महाराज यो ऽस्यादत्तं जलं पिबेत् ।
प्रयच्छ मे गुरुं दण्डं यश् चोरस्य प्रदीयते ॥
राजा कथयति: नास्ति पानीयस्यादत्तादानम् इति; अपि तु कस्य सन्तकं त्वया जलम् अपहृतं? <इति>; तेन यथावृत्तं समाख्यातं; राजा कथयति: स तव भ्राता उपाध्यायश् च; गच्छ न त्वं दण्डार्हः इति; स कथयति देव न शक्नोम्य् अहं कौकृत्यं ( स्ब्व् इइ 44 ) प्रतिविनोदयितुं; प्रयच्छ मे गुरुं दण्डं यश् चोरस्य प्रदीयते इति; एवम् उक्ते राजा प्रकुपितः तीव्रेण पर्यवस्थानेन पर्यवस्थितः; स कथयति: यद्य् एवम् अत्रैव तिष्ठ न तावत् प्रयातव्यं यावद् अहं प्रतिनिर्वृत्तः इति; स राजा मृगवधं कृत्वा संचिन्त्यान्येन द्वारेण प्रविष्टः न भूयो निर्गच्छति; अमात्यै षष्टे दिवसे राज्ञो निवेदितं: देव तस्य रिषेर् अद्य षड्दिवसा<न्> तस्मिन्न् एव प्रदेशे तिष्ठतः आज्ञां दातुम् अर्हसि इति; राजा कथयति: उद्धृतदण्डो भवतु; गच्छतु, एषैवास्य दण्डः इति; अमात्यैस् तस्य रिषेर् आख्यातं: ऋषे देव कथयति उद्धृतदण्डो ऽसौ गच्छत्व् एष एवास्य दण्डः इति; स विगतकौकृत्यः प्रक्रान्तः.
किं मन्यध्वे भिक्षवः? यो ऽसौ राजा ब्रह्मदत्त एष एव स राहुलः तेन कालेन तेन समयेन; यद् अनेन चित्तं प्रदूष्य रिषिर् अभिहितः; तस्मिन् प्रदेश तिष्ठ; न ते गन्तव्यम् इति; तस्य कर्मणो विपाकेन मातुः कुक्षौ षड्वर्षाण्य् उषितः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता भद्रिकेण कर्म कृतं यस्य कर्मणो विपाकेन प्रधानपुरुषाणां राजा संवृत्तः? भगवान् आह: भद्रिकेणैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; भद्रिकेणैव कर्माण्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्य् उपचितानि <न> बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥
स्तोर्य् ओf थे बेग्गर् (चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf किन्ग् भद्रिक)
भूतपूर्वं भिक्षवः अन्यतमः कोट्टमल्लकः जनपदाद् वाराणसीम् आगतः; स तन्निवासिभिः कोट्टमल्लकैः ईर्ष्या<स्वभावैः> ( स्ब्व् इइ 45 ) प्रत्याखचपेटाप्रहारादिभिः प्रताडितं कृत्वा निष्कासितः; स बहिर् वाराणस्यां राजकीय उद्याने ऽवस्थितः; यावद् राजा ब्रह्मदत्तः सम्प्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकोन्नादिते वनषण्डे ( अ 441ब् ) ऽन्तःपुरसहीयः उद्यानभूमिं निर्गतः; स तत्रान्तःपुरेण सार्धम् उद्याने सुखम् अनुभूय मिद्धम् अवक्रान्तः; पुष्पफललोलुपो मातृग्रामः पुष्पफलानि समन्वेषमाणः परिभ्रमितुम् आरब्धः; यावद् राजा ब्रह्मदत्तः निद्रालस्यं प्रतिविनोद्य लघु लघ्व् एव वाराणसीं प्रविष्टः; अन्तःपुरजनो ऽपि त्वरितत्वरितं संप्रस्थितः; यावद् अन्यतमा स्त्री संभ्रान्ता मुक्ताहारं छोरयित्वा प्रक्रान्ता; यावद् असौ कोट्टमल्लकस् तस्मिन्न् उद्याने परिभ्रमितुम् आरब्धः; तेनासौ मुक्ताहारो दृष्टः; स संलक्षयति: किं ममानेन प्रयोजनं; स्थानम् एतद् विद्यते यद् अर्थायानर्थं प्रापयामि इति; तेनासौ लतायां बद्ध्वा उद्याने ऽवस्थितः; यस्य सन्तको भविष्यति स ग्रहीष्यति इति; यावद् अन्तःपुरिकाभिः राजा विज्ञप्तः; देव अमुकया उद्याने मुक्ताहारो विस्मृतः इति; राज्ञामात्यानाम् आज्ञा दत्ता: भवन्त उद्याने उक्ताहारो विस्मृतः, समन्वेषत इति; ते उद्यानं गत्वा समन्वेषयितुम् आरब्धाः; यावत् पश्यति लतायाम् उपनिबद्धं; ते संलक्षयन्ति: विचारयामस् तावत् केनैष बद्ध इति; ते उद्यानं परिभ्रमितुम् आरब्धाः; यावत् पश्यन्ति कोट्टमल्लकं; स तैर् उक्तः: भोः पुरुष केनैष मुक्ताहारो लतायां बद्ध्वावस्थापितः; तेन यथावृत्तं तेषां समाख्यातम्; अमात्यै रज्ञो मुक्ताहारो दत्तः; यथावृत्तम् आरोचितं; राजा कथयति भवन्तस् तं कोट्टमल्लकं शब्दापयत; पश्यामि इति; तैः शब्दितः; राज्ञा पृष्टः भोः पुरुष कस्मात् त्वया मुक्ताहारो लतायां बद्ध्वावस्थपितः, न स्वीकृतः इति; स कथयति: देव नाहम् अस्य भागी देवस्यैवार्हति इति; राजा अभिप्रसन्नः कथयति: भोः पुरुष वरार्हस् त्वं; वद कं ते वरम् अनुप्रयच्छामि इति; स कथयति: यदि देवः परितुष्टः कोट्टमल्लकान् भोजयित्वा तेषां प्रत्येकम् एकैकं वस्त्रयुगेनाच्छाद्य माम् ( स्ब्व् इइ 46 ) अधिपतिं स्थापयतु इति; राज्ञामात्यानाम् आज्ञा दत्ता: भवन्तो युष्माभिः कोट्टमल्लकान् भोजयित्वा प्रत्येकम् एकैकं वस्त्रयुगेनाच्छाद्य एतं पुरुषं तेषाम् अधिपतिं स्थापयत; तैः वाराणस्यां घण्टावघोषणं कारितं: देवसमाज्ञापयति यावन्तः कोट्टमल्लकाः वाराणस्यां सर्वैर् अमुष्मिन्न् उद्याने संनिपतितव्यम्; अहं कोट्टमल्लकान् भोजयामि एकैकं वस्त्रयुगेनाच्छादयामि इति; ते सर्वे संनिपतिताः आमत्यैः प्रणीतेनाहारेण संतर्पिताः; प्रत्येकं वस्त्रयुगेनाच्छादिताः; उक्ताश् च: देव समाज्ञापयति, अद्याग्रेण युष्माकम् एष कोट्टमल्लको राजा; युष्माभिर् अस्याज्ञा कर्तव्या इति; ते प्रणीतेनाहारेण संतर्पिताः वस्त्रयुगेनाच्छादिताः प्रीतमनसः कथयन्ति यथा देवः समाज्ञापयति इति; सो कोट्टमल्लको ऽधिपतिः संवृत्तः; प्रकृत्यैव कोट्टमल्लकाः क्षुत्पिपासाभिभूताः वीथ्याम् अन्नपानम् आच्छिन्दन्ति; ते राज्ञा सत्कृता इति भूयस्या मात्रया आच्छेत्तुम् आरब्धाः; पत्तनोपजीवि जनकायः क्षुब्धः; राज्ञो निवेदितं; राजा कथयति ( अ 442अ ) अप्रमत्तैर् भवद्भिर् आरक्षा कर्तव्या, न तु ते ताडयितव्याः इति; यावद् अन्यतमः पुरुषः पूपकान् आदाय वीथीमध्येन गच्छति; तेन कोट्टमल्लकाधिपतिना तस्य सकाशात् पूपिका आच्छिन्नाः; स तान् आदाय प्रतिगुप्तं प्रदेशं गतः; कोट्टमल्लकैर् अनुबद्धः; स तैर् उपद्रूयमानो नदीं वारकाम् उत्तीर्य अन्यतमस्मिन् वृक्षमूले ऽवस्थितः; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य; यावद् अन्यतमः प्रत्येकबुद्धो दैवात् तं प्रदेशम् आगतः; तेनासौ दृष्टः कायप्रासादिकः शान्तेर्यापथश् च; स संलक्षयति: नूनं मया एवंविधे सद्भूतदक्षिणीये कारा न कृता येनाहं मानुष्यम् आसाद्य कोट्टमल्लको जातः; यद्य् अयं महात्मा ममान्तिकात् पूपान् प्रतिगृह्णीयाद् अहम् अस्मै दद्याम् इति; ततस् तेन प्रत्येकबुद्धेन तस्य चेतसा चित्तम् आज्ञाय परानुग्रहकारणात् पात्रम् उपनामितं; तेन तस्मै सत्कृत्य पूपिका दत्ताः; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; स उपरि विहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरब्धः; अस्त्य् आशु पृथग्जनस्य रिद्धिर् आवर्जनकरी; स मूलनिकृन्त इव ( स्ब्व् इइ 47 ) द्रुमः प्रत्येकबुद्धस्य पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: यन् मयैवंविधे सद्भूतदक्षिणीये काराः कृताः, अनेनाहं कुशलमूलेन प्रधानपुरुषाणां राजा स्याम्*; प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयम् एव न विरागयेयम् इति;
ततः ते कोट्टमल्लकाः संप्राप्ताः कथयन्ति: अस्माकम् अपि पूपिकां प्रयच्छ इति; स कथयति: अयं महात्मा रिषिः; अस्मै मया प्रतिपदिता इति; ते कथयन्ति: प्रतिपाद्य किं त्वया प्रणिधानं कृतम् इति; स कथयति: प्रधानपुरुषाणां राजा स्याम् इति; ते कथयन्ति: वयम् एव ते प्रधानपुरुषाः स्याम येषां त्वं राजा भविष्यसि इति; स कथयति: शोभनम् एवं भवतु; किं त्व् अस्य रिषेः पादयोर् निपत्य प्रणिधानं कुरुत इति; तैस् तस्य प्रत्येकबुद्धस्य पादयोर् निपत्य प्रणिधानं कृतं वयं ते प्रधानपुरुषाः स्याम येषाम् अयं राजा भविष्यति इति.
किं मन्यध्वे भिक्षवः? यो ऽसौ कोट्टमल्लकाधिपतिर् एष एव स भद्रिकः शाक्यराजः इति तेन कालेन तेन समयेन; ये ते कोट्टमल्लका एतान्य् एव तानि पञ्चशाक्यशतानि; भद्रिकेण कोट्टमल्लकभूतेन प्रत्येकबुद्धे प्रणिधानं कृतं; तस्य कर्मणो विपाकेन एषां पञ्चानां शाक्यशतानां राजा संवृत्तः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्.
थे स्तोर्य् ओf मधुवासिष्ठ
बुद्धो भगवान् नादिकायां विहरति गुञ्जिकावसथे; तेन खलु समयेन संबहुलानि पात्राण्य् अभ्यवकाश उपरि क्षिप्तानि; भगवतश् च पात्रम्; अथान्यतमो मर्कतः शालवृक्षाद् अवतीर्य येन पात्राणि ( अ 442ब् ) तेनोपसंक्रमति; भिक्षवस् तं वारयन्ति, मा भेत्स्यति पात्राणि इति; तत्र भगवान् भिक्षूणाम् आमन्त्रयते स्म: मा भिक्षवः एतं मर्कटं वारयत; तत् कस्य हेतोः; नैष भेत्स्यते पात्राणि; अथ स मर्कटो येन भगवतः पात्रं तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पात्रम् आदाय तं शालावृक्षम् अभिरुह्य क्षौद्रस्य मधुनो ऽनेडकस्य पूरयित्वा शनैर् मन्दमन्दं शालवृक्षाद् अवतीर्य भगवत उपनामयति; तस्य भगवान् न प्रतिगृह्णाति सप्राणकम् इति कृत्वा; अथ स मर्कट एकान्ते प्रक्रम्य ( स्ब्व् इइ 48 ) निष्प्राणकं कृत्वा भगवत उपनामयति; तस्य भगवान् न प्रतिगृह्णाति अकल्पिकम् इति कृत्वा; अथ स मर्कट एकान्ते प्रक्रम्य शीतलेन वारिणा परिषिच्य भगवत उपनामयति; तस्य भगवान् प्रतिगृह्णाति कृतकल्पिकम् इति; अथ स मर्कट प्रतिगृहीतं मे भगवता मधुपात्रम् इति विदित्वा हृष्टतुष्टप्रमुदितः उदग्रप्रीतिसौमनस्यजातः प्राञ्जलीकृतः प्रतिपुटकं प्रत्यवसृतो नर्तमानः भगवन्तं नमस्यमानः भगवति प्रसादजातो भगवन्तं निरीक्षमाणः पृष्ठतो नावलोकयति; कूपे पतितः; कालगतः; नादिकायाम् एव षट्कर्मनिरते ब्राह्मणकुले उपपन्नः; यम् एव दिवसं प्रतिसन्धिर् गृहीतस् तम् एव दिवसं मधुवर्षं पतितं; पित्रा चास्य नैमित्तिका आहूय पृष्टाः; ते कथयन्ति: अस्य सत्वस्यानुभाव इति; यावद् असौ ब्राह्मणी अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; यम् एव दिवसं जातस् तम् अपि दिवसं मधुवर्षं पतितं; तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्य् एकविंषतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नाम इति; ज्ञातय ऊचुः: अयं दारको यम् एव दिवसं मातुः कुक्षिम् अवक्रान्तस् तम् एव दिवसं मधुवर्षं पतितं; यम् अपि दिवसं जातः तम् अपि दिवसं मधुवर्षं पतितं; वासिष्ठसगोत्रश् च; तस्माद् भवतु दारकस्य मधुवासिष्ठ इति नामधेयं व्यवस्थापितं; स उन्नीतो वर्धितो महान् संवृत्तः; यदा महान् संवृत्तः तदा स्व्याख्याते धर्मविनये प्रव्रजितः; तस्य प्रव्रजितस्यापि सतः दिने दिने त्रीणि मधुपात्राणि संपद्यन्ते; स तेषाम् एकं भगवतो ऽनुप्रयच्छति; द्वितीयं संघाय; त्रितीयं सप्रेमकैः सार्धं परिभुङ्क्ते.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मता मधुवासिष्ठेन कर्म कृतं यस्य कर्मणो विपाकेनास्य दिने दिने त्रीणि पात्राणि संपद्यन्ते इति; भगवान् आह: मधुवासिष्ठेनैव भिक्षवः ( स्ब्व् इइ 49 ) कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितानि पूर्ववद् यावद् फलन्ति खलु देहिनां; दृष्टो युष्माभिर् भिक्षवः स मर्कटः येन तथागतस्य मधुपात्रम् उपनामितं? ( अ 443अ ) दृष्टो भदन्त; यो ऽसौ मर्कट एष एवासौ मधुवासिष्ठः तेन कालेन तेन समयेन; तेन तथागतस्य मधुपात्रम् उपनामितं; तस्य कर्मणो विपाकेन षट्कर्मनिरते ब्राह्मणकुले उपपन्नः प्रतिसन्धौ चास्य जातौ च मधुवर्षं पतितं; यावद् एतर्ह्य् अपि दिवसे दिवसे त्रीणि मधुपात्राणि संपद्यन्ते; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; तत् कस्य हेतोः; यदि मधुवासिष्ठो भिक्षुः पूर्वं महासमुद्रं मध्व् अधिमुच्यते; तद् अपि मधु स्यात्; एवं हि भिक्षवः अप्रमेया तथागतदक्षिणा इति.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मता उपालिना कर्म कृतं यस्य कर्मणो विपाकेन राजेनापितः संवृत्तः; भगवान् आह: उपालिनैव भिक्षवः अप्रमेया तथागतदक्षिणा इति पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावद् फलन्ति खलु देहिनां.
थे स्तोर्य् ओf थे रोयल् बर्बेर्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf उपालिन्)
भूतपूर्वं भिक्षवो ऽन्यतमस्य राजनापितस्य प्रत्येकबुद्धः उपसंक्रान्तः: भद्रमुख केशान् मे ऽवतार्य, पुण्यं भविष्यति इति; स च राजकुलं संप्रस्थितः; तेन भागिनेय उक्तः: भागिनेय अस्य प्रव्रजितस्य केशान् अवतारय; अहं राजकुलं संप्रस्थितः; तथा चावतारय यथा राज्ञः इति; स संलक्षयति: यथा मातुलः कथयति; नूनम् अत्र पुण्येन भवितव्यम् इति; तेनादरं कृत्वा केशश्मश्र्व् अवतारितं; प्रत्येकबुद्धः संलक्षयति: बह्व् अनेन सत्वेन पुण्यं प्रसुतं; कुशलमूलावरोपणम् अस्य कर्तव्यम् इति विदित्वा तस्यानुकम्पार्थम् उपरि विहायसम् ( स्ब्व् इइ 50 ) अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरब्धः; अस्त्य् आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी; स मूलनिकृन्त इव द्रुमः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन यथा मे मातुलो राजनापितः एवम् अहम् अपि राजनापितः स्याम् इति.
किं मन्यध्वे भिक्षवः? योऽ सौ राजनापितस्य भागिनेय एष एवासाव् उपालिर् भिक्षुः; यद् अनेन प्रत्येकबुद्धस्य केशश्मश्रूण्य् अवतार्य प्रणिधानं कृतं तस्य कर्मणो विपाकेन रजनापितः संवृत्तः; भूयो ऽपि यद् अनेन प्रणिधानं कृतं तच् छ्रूयताम्.
अनोथेर् स्तोर्य् ओf अ बर्बेर्
भूतपूर्वं भिक्षवो ऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; भूयो ऽपि क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; भूयो ऽपि क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; यावत् क्रमेण सप्त पुत्राः जाताः; तस्य राजनापितो वयस्यः; सो ऽपुत्रः; करे कपोलं कृत्वा चिन्तापरो ऽवस्थितः; न मे पुत्रो न दुहिता; ममात्ययात् सर्वं स्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यति इति; स तेन गृहपतिना दृष्ट उक्तश् च: वयस्य किम् असि चिन्तापरः? स ( अ 443ब् ) कथयति: वयस्य कथं न चिन्तापरो भविष्यामि यस्य मे इयत् धनजातं न पुत्रो न दुहिता, ममात्ययात् सर्वम् एतद् राजविधेयं भविष्यति इति; स कथयति: यद्य् एवम् एष मम सर्वकनीयान् पुत्रः: स मया तव दत्तः इति; तेनासौ प्रतिगृहीतः; यावद् गृहपतिः कालगतः; ते तस्य पुत्राः यदा केनचित् सार्धं कलिं कुर्वन्ति तदा तेन परिभाष्यन्ते: यूयम् अपि कलिं कुरुथ येषां भ्राता नापितः इति; ते दौर्मनस्यजाताः संलक्षयन्ति: यत् किंचिद् वयं परिभूताः सर्वं तद् अस्य भ्रातुर् दोषात्; सर्वथा आच्छेत्तव्य इति; स तैर् आच्छिन्नो नापितः; तेन सर्वनापिताः क्रियाकारं कारिताः, अमुकस्य गृहपतेः पुत्राणां न केनचित् श्मश्रुकर्म कर्तव्यम् इति; ते दीर्घश्मश्रुनखा जाताः; ते राज्ञा दृष्टा उक्ताश् च: भवन्तः किमर्थं यूयं दीर्घश्मश्रुनखास् तिष्ठथ? इति ते कथयन्ति ( स्ब्व् इइ 51 ) अनेन नापितेन सर्वनापिता निवारिताः; न केनचिद् एषां श्मश्रुकर्म कर्तव्यम् इति; किं कारणात्; तैर् यथावृत्तं समाख्यातं; राजा कथयति: अर्हति पिता पुत्रं दातुं; किम् इति युष्माभिर् आच्छिन्नः? तस्यैव प्रयच्छत इति; तैर् अकामकैः प्रतिमुक्तः; ते दौर्मनस्यजाताः लोकापवादभयात् तं घातयितुम् इच्छन्ति; मित्रामित्रमध्यमो लोकः; तस्यापरैः समाख्यातं; तेनासौ नापित उक्तः: ते मां प्रघातयितुम् इच्छन्ति; अनुजानीहि प्रव्रजामि इति; स संलक्षयति: कामम् एव प्रव्रजतु मा तैः प्राणान् वियोक्ष्यत इति विदित्वा उक्तः: पुत्र यद्य् एवं गच्छ प्रव्रज; यत् किंचिद् गुणगणम् अधिगच्छेथास् तदा ममारोचयिष्यसि इति; स लब्धानुज्ञो रिषीणां मध्ये प्रव्रजितः; तेनानुपचार्यकेनानुपाध्यायकेन प्रत्येकबोधिः साक्षात्कृता; स संलक्षयति: मया तस्य पितुः प्रतिज्ञातम् उपदर्शयिष्यामि इति; गच्छामि, ताम् इमां पूर्विकां प्रतिज्ञां निर्यातयामि इति; स तस्य सकाशं गत्वा ज्वलनतपनवर्षणविद्योतनप्रातिहार्यं यावत् मूलनिकृन्त इव द्रुमः स पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: यन् मया एवंविधे सद्भूतदक्षिणीये काराः कृताः अनेनाहं कुशलमूलेन राजनापितः स्याम् इति; भूयो ऽपि अनेन पञ्चसु प्रत्येकबुद्धशतेषु कारान् कृत्वा प्रणिधानं कृतम्: अनेनाहं कुशलमूलेन राजनापितः स्याम् इति; पुनर् अपि चतुर्षु सम्यक्संबुद्धेषु कारान् कृत्वा प्रणिधानं कृतम् अनेनाहं कुशलमूलेन राजनापितः स्याम् इति; तस्य कर्मणो विपाकेन बहून् वारान् राजनापितः संवृत्तः.
भूयो ऽपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त उपालिना कर्म कृतं येन विनयधाराणाम् अग्रो निर्दिष्टः इति; भगवान् आह: कुत्र प्रणिधानं कृतं?
उपालि इस् थे fओरेमोस्त् अमोन्ग् थोसे wहो मस्तेर् अन्द् क्नोw थे विनय
भूतपूर्वं भिक्षवो ऽस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि पूर्ववद् यावत् स वाराणसीं नगरीम् ( अ 444अ ) उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्यायं प्रवचने प्रव्रजितः; यः प्रव्रजितो ( स्ब्व् इइ 52 ) भिक्षुः स पुनः काश्यपेन सम्यक्संबुद्धेन विनयधराणाम् अग्रो निर्दिष्टः; तत्रानेन यावदायुर् ब्रह्मचर्यं चरितं; न कश्चिद् गुणगणो ऽधिगतः; तद् अनेन मरणकालसमये प्रणिधानं कर्तुम् आरब्धं: यद् मया काश्यपे भगवति सम्यक्संबुद्धे यावदायुर् ब्रह्मचर्यं चरितं, न कश्चिद् गुणगणो ऽधिगतः; अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति; तस्याहं प्रवचने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम्; यथा च मे उपाध्यायेन भगवता काश्यपेन सम्यक्संबुद्धेन विनयधाराणाम् अग्रो निर्दिष्टः; एवं माम् अपि स भगवांस् शाक्यमुनिर् विनयधराणाम् अग्रं निर्दिषेद् इति तत्प्रणिधानवशात् तथागतेन विनयधराणाम् अग्रो निर्दिष्टः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्.
उन्त्रुए अन्नोउन्चेमेन्त् ओf थे देअथ् ओf थे बुद्ध अन्द् थे बिर्थ् ओf आनन्द
यदा भगवता षट्त्रिंशद्भूतकोटिपरिवारं मारं पपीयंसम् अभिनिर्जित्य अनुत्तरं ज्ञानम् अधिगतं, तदा सान्तःपुरामात्यपौरजनपदस्यारोचितम्: अद्य श्रमणो गौतमः कालगतः इति; राजा शुद्धोदनः सान्तःपुरकुमारामात्यपौरजनपदः शोचितुम् आरब्धः; देवतानां दर्शनम् अधस्तात् प्रवर्तते; शुद्धावासकायिकाभिर् देवताभिर् अरोचितं: न भगवान् कालगतो ऽपि तु भगवतानुत्तरं ज्ञानम् अधिगतम् इति; ततो राजा शुद्धोदनः परम् आनन्दम् उपागतः; तेन् असमयेनामृतोदनस्य दारको जातः; तस्य जातौ जातिमहं विस्तरेण कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नाम इति; ज्ञातस्य कथयंति: अयं दारकः आनन्दे वर्तमाने जातः; तद् भवतु दारकस्यानन्द इति नामधेयं व्यवस्थापितम्; आनन्दो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः; द्वाभ्याम् अंशधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां; स धात्र्यंशगतो नैमित्तिकैर् व्याकृतो ऽनेन दारकेण भगवतः शाक्यमुनेर् उपस्थानं कर्तव्यम् इति; दारको नैमित्तिकैर् व्याकृत इति श्रुत्वा अमृतोदनः संलक्षयति: यद्य् एवं भगवान् प्रव्राजयिष्यति, न तत्पुरस्ताद् अवतारो ऽप्य् अनेन कर्तव्य इति; स यदा भगवान् कपिलवस्त्व् आगच्छति तदा ( स्ब्व् इइ 53 ) वैशालीन् नीयते; यदा भगवान् वैशालीं गच्छति तदा पुनः कपिलवस्तु नीयते; अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितमतीनां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीनानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य च बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकतप्राप्तः कः संबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं; कस्य अनवरोपितानि कुशलमुलान्य् अवरोपयेयं? कस्यावरोपितानि परिपाचयेयं? कस्य पक्वानि विमोचयेयम्? आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥
आनन्दऽस् चोन्वेर्सिओन्
भगवान् संलक्षयति: चरमभविको आनन्दो दारकः; स मम शासने प्रव्रजिष्यति, प्रव्रज्य चानेन ममोपस्थानं कर्तव्यं वचनं च धारयितव्यं मयि च परिनिर्वृते अमृतम् अधिगन्तव्यं यन् न्व् अहम् आनन्दं कुमारं शासने ऽवतारयेयम् इति; अप्रविदित एव कपिलवस्तुनगरं प्रविश्यामृतोदनस्य भवनम् आगम्य प्रज्ञप्त एवासने निषण्णः; अमृतोदनेनानन्दः कुमारो ऽववरकं प्रविश्य स्थापितः; भगवता तथाधिष्ठितो येन स्वयम् एव द्वारम् अपावृतं; प्रथमत एव च भगवतो पादौ शिरसा ( स्ब्व् इइ 54 ) वन्दित्वा भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा च भगवन्तं वीजयमानः; ततो ऽमृतोदनो भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः; एकान्ते निषण्णंम् अमृतोदनं भगवान् धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य आसनाद् उत्थाय प्रक्रान्तः; महद् अपि हेतुबलं प्रत्ययबलम् अपेक्षते; इत्य् आनन्दश् चरमभविकः सत्वो भगवन्तः पृष्ठतः पृष्ठतः समनुबद्धः; अमृतोदनेन सान्तःपुरपरिवारेण न शक्यते निवर्तयितुं; भगवान् आह: अयं चरमभविकः सत्वः न त्वया शक्यते निवर्तयितुं, मा निवर्तेत इति; अमृतोदनः कथयति; भगवन् यद्य् एवम् आनुपूर्वीम् अस्य कुर्मः; भगवान् आह: एवं कुरु; ततो ऽमृतोदनेन श्रमणब्राह्मणकृपणवणीपकपरिव्राजकयाचनकेभ्यो दानानि दीयन्ते; पुण्यानि क्रियन्ते; स्वबन्धुजनं च क्षमापयित्वा सर्वालंकारविभूषितो हस्तिस्कन्धम् अभिरुह्य अनेकजनपरिवृतो न्यग्रोधारामाभिमुखो भगवत्सकाशं प्रेषितः; ( अ 445अ ) ततश् च तस्य वीथीमध्येन गच्छतो हस्तिना उत्पलहस्तको निगीर्णः; नैमित्तिकैर् दृष्टः; ते कथयन्ति: अनेन कुमारेण श्रुतिधराणाम् अग्रेण भवितव्यम् इति; तस्य यानस्य यावती भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एव न्यग्रोधारामं प्रविश्य येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः; भगवता दशबलकाश्यपस्य समर्पितः काश्यप प्रव्राजय कुमारम् इति; तेन प्रव्राजित उपसंपादितः; अथ भगवान् यथाभिरम्यं कपिलवस्तुनि विहृत्य येन राजगृहं तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् राजगृहम् अनुप्राप्तः; राजगृहे विहरति वेणुवने कलन्दकनिवापे.
आयुष्मतः आनन्दस्य मूर्ध्नि पिटको जातः; भगवता जीविकस्याज्ञा दत्ता आनन्दस्य भिक्षोश् चिकित्सां कुरुष्व इति; एवं भदन्त इति जीविकः कुमारभृतो भगवतः प्रत्यशौषीद्; अथ भगवान् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः धर्मं देशयति; आयुष्मान् अप्य् आनन्दस् तत्रैव निषण्णः धर्मश्रवणाय; जीविकः कुमारभृतः संलक्षयति: अयम् अस्य कलश् चिकित्सायाः; ( स्ब्व् इइ 55 ) धर्मवेगप्राप्तो ऽयं न चेतयिष्यति इति; तेन तस्य पिटके पाचनं दत्तं; तत्रैव च पाटितः; तत्र पर्यवसिते धर्मे जीवकः कथयति: भगवन् मया अर्यानन्दस्यात्रैव निषण्णस्य पिटकः पाचितः पाटितो रोहितश् च; आयुष्मान् आनन्दः कथयति: यदि मम शरीरं तिलशश् छिन्नम् अभविष्यत् तथापि मया न परिज्ञातम् अभविष्यद् भगवतो धर्मं देशयतो धर्मान्वयप्रसादावर्जितसन्ततिना; जीवकः परं विस्मयम् आपन्नः.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं येनास्य पृष्ठे पिटको जातः इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्य् उपचितानि पूर्ववद् यावद् फलन्ति खलु देहिनां.
थे स्तोर्य् ओf थे किन्ग् किरातस्
(अ प्रेविओउस् बिर्थ् ओf आनन्द)
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके किरातानाम् अधिपतिः प्रतिवसति; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अथान्यतमः प्रत्येकबुद्धस् तेन तेनान्वाहिण्डमानः किरातनगरम् अनुप्राप्तः; स तत्र पिण्डार्थी किरातराजस्य गृहं प्रविष्टः; स तेन संजातामर्षेण चित्तं प्रदूष्य गुडिकया पृष्ठे ताडितः; स महात्मा निहतमदमानत्वात् तस्याभव्यतां ज्ञात्वा प्रक्रान्तः.
किं मन्यध्वे भिक्षवः? यो ऽसौ किरातराजः एष एव स आनन्दो भिक्षुः; यद् अनेन प्रत्येकबुद्धः संजातामर्षेण चित्तं प्रदूष्य पृष्ठे गुडिकया ताडितः तस्य कर्मणो विपाकेन यत्र यत्र जायते तत्र तत्रास्य पंचजन्मशतानि पृष्ठे पिटको जायते; यावद् एतर्ह्य् अप्य् अस्य चरमे भवे पृष्ठे पिटको जातः ( स्ब्व् इइ 56 )
आनन्द fओल्लोwस् थे बुद्ध अन्द् मकेस् अन् एxहिबितिओन् ओf मथेमतिचल् क्नोwलेद्गे
यदा आयुष्मान् आनन्दो भगवता सार्धं गच्छति तदास्य भगवति तीव्रप्रसादगौरवं ( अ 445ब् ) ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यदा निर्माणेन न तादृशं प्रसादगौरवं ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यावद् अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः तस्य गृहपतेर् गृहं प्रविश्य भुक्त्वा प्रक्रान्तः; भिक्षुभिर् आयुष्मान् आनन्दः पृष्टः; आयुष्मन्न् आनन्द किं त्वम् अद्य भगवता सार्धं गतः आहोस्विन् निर्माणेन इति; स कथयति: भगवता सार्धं गतो न बुद्धनिर्माणेन; कथं कृत्वा; यदाहं भगवता सार्धं गच्छामि ततो मम भगवतो ऽन्तिके तीव्रप्रसादगौरवं ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यदा बुद्धनिर्माणेन तदा न तथा इति
भिक्षवः परस्परं मन्त्रयन्ति: आयुष्मान् आनन्दो निमित्तकुशलः इति; दिग्विदिक्षु शब्दो विसृतः आनन्दो भिक्षुर् निमित्तकुशलः इति; अथ भगवान् यथाभिरम्य राजगृहे विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् श्रावस्तीम् अनुप्राप्तः; श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे; अथायुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्; अन्यतमेन ब्राह्मणेन दृष्टः; स संलक्षयति: अयं श्रमणस्य गौतमस्य श्रावकः आनन्दो भिक्षुः, यो ऽसौ श्रूयते निमित्तकुशल इति; पृच्छामि तावद् एनम् अस्याः शिंशपायाः कियन्ति पत्राणि इति; स तेन पृष्टः: आर्य अस्याः शिंशपायाः कियन्ति पत्राणि इति; स कथयति: एतावन्ति शतानि सहस्राणि शतसहस्राणि इत्य् उक्त्वा प्रक्रान्तः; तेन ब्राह्मणेन कतिपयानि पत्राण्य् अपनीय गणयित्वा छोरितानि; आयुष्मान् आनन्दः पिण्डपातम् अटित्वा प्रतिनिवृत्तः; तेन ब्राह्मणेन भूय उक्तः; आर्य इदानीं जानीष्व अस्याः शिंशपायाः कियन्ति पत्राणि इति; स कथयति: पूर्वम् एतावन्ति शतानि सहस्राणि शतसहस्राणि च; अत एतावन्त्य् अपनीतानि इति उक्त्वा प्रक्रान्तः; स ब्राह्मणः परं विस्मयम् आपन्नः; ईदृशो ऽप्य् आर्यो गणिते कृतावी इति.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मतानन्देन कर्म ( स्ब्व् इइ 57 ) कृतं येन निमित्तकुशलो जातः इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनां.
थे स्तोर्य् ओf थे अस्त्रोनोमेर्
(अ प्रेविओउस् बिर्थ् ओf आनन्द)
भूतपूर्वं भिक्षवो वाराणस्याम् अन्यतमो ब्राह्मणः, तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्य त्रीणि सप्तकान्य् एकविंषतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थाप्यतं; स उन्नीतो वर्धितो महान् संवृत्तः; तेन देशान्तरं गत्वा षष्टिसहस्रकं होराशास्त्रम् अधीतम्; एवं यावत् संसारे संसरता पंच जन्मशतानि होराज्ञानम् अधीतं; परेषां चोपदिष्टं; तेन हेतुना तेन प्रत्ययेन यत्र यत्रोपपन्नः तत्र तत्र ( अ 446अ ) नैमित्तिकानाम् अग्रो जातः; यावद् एतर्ह्य् अपि पश्चिमे भवे नैमित्तिकानाम् अग्रो जातः.
थे स्तोर्य् ओf थे रिचे, थे त्wओ पत्रिद्गेस् अन्द् थे सुगर्-चने
(चोन्चेर्निन्ग् किन्ग् प्रसेनजित् अन्द् अ प्रेविओउस् बिर्थ् ओf हिम्)
राज्ञः प्रसेनजितः कोशलस्य प्रतिदिनं भोजनकाले शाल्योदनं फेलायां निपतति तित्तिरी द्वाव् इक्षुयष्टिश् च; तयोर् एकः फेलायां द्वितीयो भूम्यां; तेनायुष्मत आनन्दस्य निवेदितं; तेन भिक्षूणाम्.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा प्रसेनजिता कोशलेन कर्म कृतं येनास्य भोजनवेलायां शाल्योदनं फेलायां निपतति तित्तिरी द्वाव् इक्षुयष्टिश् च; तयोर् एकः फेलायां, द्वितीयो भूम्यां? इति; भगवान् आह: राज्ञैव भिक्षवः प्रसेनजिता कोशलेन पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि येनास्य भोजनवेलायां ( स्ब्व् इइ 58 ) शाल्योदनं फेलायां निपतति तित्तिरी द्वाव् इक्षुयष्टिश् च; तयोर् एकः फेलायां, द्वितीयो भूम्यां.
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां अन्यतमो गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगः; तस्य परिचारकैः क्र्षिग्रामान् नवशालिर् आनीतः; द्वे तित्तिरी इक्षुषष्टिश् च; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अन्यतमः प्रत्येकबुद्धो वाराणसीम् अनुप्राप्तः; स पूर्वाह्णे निवास्य पात्रचीवरम् आदाय पिण्डपातम् अटंस् तस्य गृहपतेर् निवेशनं प्रविष्टः; स तेन दृष्टः कायप्रासादिकः चित्तप्रासादिकश् च; तेन तस्मै तत्प्रथमतो नवान्नम् आनेतव्यम् इति कृत्वा शाल्योदनम् इक्षुयष्टिस् तित्तिरिद्वयं दत्तं; तत्रैकः पात्रे निपतितो द्वितीयो भूम्यां.
भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ गृहपतिर् एष एवासौ राजा प्रसेनजित् कोशालस् तेन कालेन तेन समयेन; यद् अनेन प्रत्येकबुद्धाय नवं शाल्योदनम् इक्षुयष्टिस् तित्तिरिद्वयं च दत्तं तेन कर्मणा बहूनि वर्षाणी बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि दिव्यमानुषं सौख्यम् अनुभूतम्; एतर्ह्य् अप्य् अस्य भोजनवेलायां शाल्योदनम् इक्षुयष्टिस् तित्तिरिद्वयं एकः फेलायां पतति द्वितीयो भूम्यां.
राज्ञा प्रसेनजिता कोशलेन श्रुतं: मम भगवता एवं कर्मप्लोतिर् व्याकृता; तद् अयं प्राक्तनस्य कर्मणः फलविपाक इति विदित्वा भगवति सश्रावकसंघे प्रसन्नः; स चैवं कर्मविपाकावर्जितमतिस् तिष्ठति; नैमित्तिकेन च व्याकृतम् आर्यानन्दस्य पट्टबन्धो भविष्यति इति; यावत् प्रभातायां रजन्याम् आयुष्मत आनन्दस्य ललाटे पिटको जातः; राज्ञा प्रसेनजिता कोशलेन श्रुतं; तस्यैतद् अभवत्; भवति दक्षिणीयेषु कारान् कृत्वा अवन्ध्यपुण्यफलविशेषः; यन्न्व् अहम् अस्य स्वयम् एवोपस्थानं कूर्याम् इति; तेन सर्ववैद्या आहूतः: आर्यानन्दस्य चिकित्सां कुरुत इति; ते तस्य चिकित्सां कर्तुम् आरब्धाः; राज्ञा प्रसेनजिता कोशलेन आयुष्मत आनन्दस्य स्वयम् एव शतशलाकं छत्रं धारितं; शिरायां च मुक्तायां ललाटे ( अ 446ब् ) पट्टो बद्धः. ( स्ब्व् इइ 59 )
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मतानन्देन कर्म कृतं यस्य कर्मणो विपाकेन राज्ञा प्रसेनजिता कोशलेन मूर्ध्नि शतशलाकं छत्रं धारितं स्वयम् एव शुक्लपट्टो बद्धः उपस्थानं च कृतम् इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनां.
थे स्तोर्य् ओf थे फ्य्सिचिअन्
(अ प्रेविओउस् बिर्थ् ओf आनन्द)
भूतपूर्वं भिक्षवो वाराणस्याम् अन्यतमो वैद्यः प्रतिवसति; तस्य समीपे प्रत्येकबुद्धो ग्लान उपसंक्रान्तः; स तेन सर्वोपकरणैः प्रवारितः; स्वयम् एव चिकित्सा कृता उपस्थानं च.
किं मन्यध्वे भिक्षवः? यो ऽसौ वैद्य एष एवासौ आननदभिक्षुः तेन कालेन तेन समयेन; यद् अनेन प्रत्येकबुद्धाय कारान् कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन अनेकानि वर्षाणि वर्षशतानि वर्षसहस्राणि राजामात्यब्राह्मणगृहपतिभिर् अस्योपस्थानं कृतं; यावद् एतर्ह्य् अस्य राज्ञा प्रसेनजिता कोशलेन शतिशलाकं छत्रं धारितं; स्वयं चोपस्थानं कृतम् इति.
थे बुद्ध छोओसेस् आनन्द अस् सेर्वन्त्
अथ भगवान् यथाभिरम्यं श्रावस्त्यां विहरति; येन शाला तेन चारिकां <चरन्> प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् शालाम् अनुप्राप्त्ः; शालायां विहरति ब्राह्मणग्रामके; तेन खलु समयेन एवंरूपा संबहुला स्थविरस्थविरा महाश्रावका भगवतः सामन्तकम् उपनिश्रित्य विहरन्त्य् अरण्यकुटिकाया<ं>, तद्यथा आयुष्मान् आज्ञातकौण्डिन्यः, आयुष्मान् अश्वजिद् भद्रिकः बाष्पः महानामा यशा पूर्णः विमलः गवाम्पतिः सुबाहुः आयुष्मान् शारिपुत्रः आयुष्मान् महामौद्गल्यायनः आयुष्मान् महाकाश्यपः ( स्ब्व् इइ 60 ) आयुष्मान् महाकौष्ठिलः आयुष्मान् महाकप्फिनः आयुष्मान् अनिरुद्धः नन्दिकः किम्पिलः यशा शालाविहरीयकस्थविरः पूर्णः कुण्डोपधानीयकस्थविर इतीमे चान्ये च स्थविरस्थविरा महाश्रावका भगवतः सामन्तकम् उपनिश्रित्य विहरन्ति.
तत्र भगवान् भिक्षून् आमन्त्रयते स्म: अहम् अस्मि भिक्षवः एतर्हि जीर्णो वृद्धो महल्लकः, क्लाम्यामि चतस्रः पर्षदो ऽववदितुं भिक्षून् भिक्षुणीः उपासिकान् उपासिक्यः; उत्साहयत मे भिक्षवो भिक्षुम् उपस्थायकं यो माम् उपस्थानं करिष्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वम् अर्थं च न रिंचिष्यति; अथायुष्मान् आज्ञातकौण्डिन्य उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्*: अहं भदन्तम् उपस्थास्यामि मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यामि, स्वं चार्थं न रिंचिष्यामि; त्वं तावत् कौण्डिन्य जीर्णो वृद्धो महल्लकः; तवैव तावद् उपस्थायकेन करणीयं; निषीद त्वं कौण्डिन्य यथास्वके आसने; निषण्ण आयुष्मान् ( अ 447अ ) आज्ञातकौण्डिन्यो यथास्वके आसने; अथायुष्मान् अश्वजिद् भद्रिकः बाष्पः महानामा यशा पूर्णः विमलः गवंपतिः सुबाहुः आयुष्मान् शारिपुत्रः आयुष्मान् महामौद्गल्यायनः आयुष्मान् महाकाश्यपः आयुष्मान् महाकौष्ठिलः आयुष्मान् महाकप्फिनः आयुष्मान् अनिरुद्धः नन्दिकः किंपिलः यशा शालाविहारीयकस्थविरः पूर्णः कुण्डोपधानीयकस्थविर उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचन्*: अहं भदन्तम् भगवन्तम् उपस्थास्यामि मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यामि, स्वं चार्थं न रिंचिष्यामि; त्वम् अपि पूर्णो जीर्णो वृद्धो महल्लकः; तवैव तावद् उपस्थायकेन करणीयं; निषीद त्वं पूर्ण यथास्वके आसने; निषण्ण आयुष्मान् पूर्णो यथास्वके आसने.
अथायुष्मतो महामौद्गल्यायनस्यैतद् अभवत्*: कः पुनर् भगवतो भिक्षुर् अभिप्रेत उपस्थायको भविष्यति? यन्न्व् अहं तद्रूपं समाधिं समापद्येयं यथा समाहिते चित्ते भगवतो मानसम् ( स्ब्व् इइ 61 ) अवलोकयेयम्; अथायुष्मान् महामौद्गल्यायनस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते भगवतः मानसम् अवलोकयति; अद्राक्षीद् आयुष्मान् महामौद्गल्यायनो भगवतो मानसं आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; दृष्ट्वा च पुनस् तस्मात् समाधेर् व्युत्थायायुष्मन्तं शारिपुत्रम् इदम् अवोचत्*: यत् खलु आयुष्मन् जानीयाः भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; तद्यथा कूटागारे वा कूटागारशालायां वा उत्तरायतायां प्राचीनायतायां पूर्वेण वातायनेन सूर्यरश्मयः प्रविष्य पश्चिमां भित्तिं निश्रित्य तिष्ठेयुः; एवम् एव भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; एहि गत्वा उत्साहयावः.
अथायुष्मान् छारिपुत्र आयुष्मां च महामौद्गल्यायनो येनायुष्मान् आनन्दस् तेनोपसंक्रान्तौ; उपसंक्रम्यायुष्मता आनन्देन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णौ; एकान्तनिषण्णाव् आयुष्मत्शारिपुत्रमौद्गल्यायनौ; आयुष्मान् शारिपुत्र आयुष्मन्तम् आनन्दम् इदम् अवोचत्: उत्सह त्वम् आयुष्मन् आनन्द भगवन्तम् उपस्थातुं, महर्द्धिका ते भविष्यति सुगतपरिचर्या; नाहं आयुष्मन् शारिपुत्र उत्सहे भगवन्तम् उपस्थातुं; तत् कस्य हेतोः; दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः; तद्यथा अग्निः प्रज्वलितो दुरासदो भवति दुष्प्रसहो यदुतार्चिरन्तरिकया, एवम् एव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; नाहम् उत्सहे भगवन्तम् उपस्थातुं; तद्यथा सिंहो मृगराजा ( अ 447ब् ) गिरिगुहागतो दुरासदो भवति दुष्प्रसहो यदुत दंष्ट्रान्तरिकया, एवम् एव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; तद्यथा राज्ञो नागो मत्तो मातङ्गः कुञ्जरः षष्टिहायन ईषादन्तो व्यूढोरस्कः संग्रामावचरः संग्राममध्यगतो दुरासदो भवति दुष्प्रसहो यदुत दन्तान्तरिकया, एवम् एव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; नाहं आयुष्मन् शारिपुत्र उत्सहे भगवन्तम् उपस्थातुं. ( स्ब्व् इइ 62 )
अथायुष्मान् महामौद्गल्यायन आयुष्मन्तम् आनन्दम् इदम् अवोचत्: यत् खलु आयुष्मन् जानीयः भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; तद्यथा कूटागारे वा कूटागारशालायां वा उत्तरायतायां प्राचीनायतायां पूर्वेण वातायनेन सूर्यरश्मयः प्रविष्य पश्चिमां भित्तिं निश्रित्य तिष्ठेयुः; एवम् एव भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; उत्सह त्वम् आयुष्मन् आनन्द भगवन्तम् उपस्थातुं, महर्द्धिका ते भविष्यति सुगतपरिचर्या; एवम् अहम् आयुष्मान् महामौद्गल्यायन उतसहे भगवन्तम् उपस्थातुं सचेन् मे भगवान् त्रीन् वरान् दद्यात्, नाहं भगवतो निर्वसनं चीवरं धारयेयं; नाहं भगवतः पौद्गलिकं निमन्त्रणं स्वीकूर्यां; न च मे कश्चिद् अकालः स्याद् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय; सचेन् मे आयुष्मन् महामौद्गल्यायन भगवान् इमान् त्रीन् वरां दद्यात्, एवम् अहम् उत्सहे भगवन्तम् उपस्थातुं, नान्यथा.
अथायुष्मान् महामौद्गल्यायन आयुष्मान् शारिपुत्र आयुष्मन्तम् आनन्दं भगवत उपस्थायकम् उत्साह्य येन भगवांस् तेनोपसंक्रान्तौ; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णौ; एकान्तनिषण्णो आयुष्मान् महामौद्गल्यायनो भगवन्तम् इदम् अवोचत्*: उत्साहित आवाभ्यं भदन्त भिक्षुर् भगवत उपस्थायको यदुतायुष्मान् आनन्द; स एवम् आह: सचेन् मे आयुष्मन् महामौद्गल्यायन भगवांस् त्रीन् वरान् दद्याद् एवम् अहम् उत्सहे भगवन्तम् उपस्थातुं; नाहं भगवतो निर्वसनं चीवरं धारयेयं, नाहं भगवतः पौद्गलिकं निमन्त्रणं स्वीकूर्यां; न च मे कश्चिद् अकालः स्याद् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय; सचेद् भगवान् इमान् त्रीन् वरान् दद्यात्, एवम् अहम् उत्सहे भगवन्तम् उपस्थातुं; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स पश्यत्य् अनागतं ( स्ब्व् इइ 63 ) सब्रह्मचारिणाम् अन्तिकाद् वादानुवादं गर्हस्थानीयं धर्मं; स्युर् मे अतोनिदानं सब्रह्मचारिणो वक्तारः, चीवरहेतोर् आनन्दो भिक्षुः शास्तारम् उपतिष्ठति; मौद्गल्यायन आनन्दस्य भिक्षोर् आश्चर्याद्भुतो धर्मः; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स पश्यत्य् अनागतं सब्रह्मचारिणाम् अन्तिकाद् वादानुवादं गर्हस्थानीयं धर्मं; स्युर् मे अतोनिदानं सब्रह्मचारिणो वक्तारः, ( अ 448अ ) पिण्डपातहेतोर् आनन्दो भिक्षुः शास्तारम् उपतिष्ठति; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः कालज्ञः कालवित्*; स कालं ज्ञास्यत्य् अयं मे कालो भगवन्तं दर्शनयोपसंक्रमितुम्, अयम् अकालः; अयं कालो भिक्षुसंघस्य भिक्षुणीसंघस्य उपासकपर्षदः उपासिकापर्षदः अयं कालो ऽन्यतीर्थिकपरिव्राजकानां दर्शनयोपसंक्रमितुम्, अयम् अकालः; अमी अन्यतीर्थिकपरिव्राजिका भगवतः कथाप्रातिभानिका अमी न कथाप्रातिभानिकाः; इदं खादनीयभोजनीयं भगवतः सुखोपचयाय संवर्तेत, इदं न सौखोपचयाय; मौद्गल्यायन पण्डित आनन्दो भिक्षुः कालज्ञः कालवित्; स कालं ज्ञास्यति अयं मे कालो भगवन्तं दर्शनयोपसंक्रमितुम्, अयम् अकालः; अयं कालो भिक्षुसंघस्य भिक्षुणीसंघस्योपासकपर्षदः उपासिकापर्षदः अयं कालो ऽन्यतीर्थिकपरिव्राजकानां भगवन्तं दर्शनयोपसंक्रमितुम्, अयम् अकालः; अमी अन्यतीर्थिकपरिव्राजिका भगवतः कथाप्रातिभानिका अमी न कथाप्रातिभानिकाः; इदं खादनीयभोजनीयं भगवतः सुखोपचयाय संवर्तेत, इदं न सौखोपचयाय; अयं मौद्गल्यायन आनन्दस्य भिक्षोर् आश्चर्याद्भुतो धर्मः; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स चेतःपर्यायकुशलः; एवं संज्ञास्यति तथागतं सायाह्ने प्रतिसंलयनाद् व्युत्थितं निमित्तेन वा परिकथया वा आदेष्टुम्; अनेन चानेन च सुखविहारेण भगवान् बहुलं व्याहार्षीद्; अनेन चानेन च सुखविहारेण सुगतो बहुलं व्याहार्षीद्; यच् च यदा आदेक्ष्यति तत् सर्वं तथैव भविष्यति, नान्यथा; अयं मौद्गल्यायन आनन्दस्य भिक्षोर् आश्चर्याद्भुतो धर्मः; स तथागतम् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; यन् मौद्गल्यायनानन्दो भिक्षुः तथागतम् उपस्थास्यति मनापेन नामनापेन, ( स्ब्व् इइ 64 ) भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति, अयम् आनन्दस्य भिक्षोः आश्चर्याद्भुतो धर्मः.
यदायुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्याम् आयुष्मान् आनन्दो भगवत उपस्थायक उत्साहितः, भगवता चानुवर्णितः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं यस्य कर्मणो विपाकेन भगवतो भ्राता संवृत्तः, उपस्थायको, बहुश्रुतः., श्रुतधरः, श्रुतसन्निचय इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनां.
थे स्तोर्य् ओf भानुमान् अन्द् भानुमन्तः
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf आनन्द)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां भानुर् नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; स देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अमात्याः कथयन्ति; ( अ 448ब् ) पितास्य भानुः, तस्माद् भवतु दारकस्य भानुमान् इति नाम; तस्य भानुमान् इति नाम कृतं; स उन्नीतो वर्धितो महान् संवृत्तः; पित्रा यौवराज्ये ऽभिषिक्तः; भूयो ऽप्य् अस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्यापि जातौ जातिमहं कृत्वा भानुमन्त इति नाम कृतं; भानुमान् कुमारो नैष्क्रम्याभिनन्दी; स पितरं पश्यति धर्माधर्मेण राज्यं कारयन्तं; स संलक्षयति; अहम् अपि पितुर् अत्ययाद् राजा भविष्यामि; अहम् अपि धर्माधर्मेण राज्यं कारयित्वा नरकपरायणो भविष्यामि इति; स पितुः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति: देव अनुजानीहि प्रव्रजामि इति; स कथयति: पुत्र यस्यार्थे यज्ञा इज्यन्ते होमा हूयन्ते तपांसि तप्यन्ते तत् तव करतलगतं राज्यं; कस्यार्थे प्रव्रजसि इति; स निवार्यमाणो ऽपि नावतिष्ठते; राज्ञा अवश्यनिर्बन्धं ज्ञात्वा अनुज्ञातः; स ऋषीणां मध्ये प्रव्रजितः; राज्ञा भानुमन्तः कुमारो यौवराज्ये अभिषिक्तः; भानुमता ऋषिमध्ये प्रव्रजितेन एकान्ते प्रक्रम्य अनाचार्यकेण अनुपाध्यायकेन प्रत्येकबोधिः साक्षात्कृता; सो ऽपरेण समयेन ग्लानः संवृत्तः; स इतश् चानुतश् च परिभ्रमन् वाराणसीम् अनुप्राप्तः; राज्ञा श्रुतं; भानुमता ( स्ब्व् इइ 65 ) प्रत्येकबोधिः साक्षात्कृता, स चेह इति; स तस्य सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति: महर्षे त्वं पिण्डकेनार्थी, अहं पुण्येन; इहैव मदीये उद्याने प्रतिवस; अहं ते सर्वोपकरणैर् वैघातं करोमि इति; तेनाधिवासितं; राज्ञा तस्य भानुमन्तः कुमारः उपस्थायको दत्तः; स तस्योपस्थानं कर्तुं प्रवृत्तः; प्रत्येकबुद्धेन तस्य अल्पलक्षणं दृष्टं, सप्ताहस्यात्ययात् कालं करिष्यतीति; स तेनोक्तः: भ्रातः किमर्थं न प्रव्रजसि? इति; स कथयति: महर्षे प्रव्रजामि; यद्य् एवं गच्छ, पितरम् अवलोक्य; स राज्ञः सकाशं गतः; देव अनुजानीहि मां, प्रव्रजामि; राजा कथयति: तव भ्राता प्रव्रजितः; ममात्ययात् त्वम् एव राजा; किमर्थं प्रव्रजसि इति; स न लभते प्रव्रज्यां; स प्रत्येकबुद्धः स्वयम् एव राज्ञः सकाशम् उपसंक्रान्तः; उपसंक्रम्य गाथया कथयति:
मुञ्च भानो भानुमन्तं प्रव्राजयति भानुमान् ।
प्रव्रज्या श्रेयसि भानो यस्मात् संवर्णिता जिनैः ॥ इति;
राजा कथयति: महर्षे त्वं प्रव्रजितः; एष ममात्ययाद् राजा भविष्यति; इहैव दानानि दास्यति; पुण्यानि करिष्यति; किमर्थं प्रव्रजति इति; प्रत्येकबुद्धो गाथां भाषते:
अन्यथा चिन्तिता ह्य् अर्था अन्यथा परिवर्तिताः ।
अल्पकं जीवितं भानो परं सप्ताहम् एव तु ॥
महर्षे अस्य सप्ताहं जीवितं? प्रत्येकबुद्धः कथयति, सप्ताहं; राजा कथयति: महर्षे यद्य् एवम् अनुज्ञातो भवतु; प्रव्राजय; स आत्मनः अल्पकं जीवितं ज्ञात्वा तीव्रेण प्रसादेन तस्योपस्थानं कर्तुम् आरब्धः; स प्रत्येकबुद्धो व्यावाबाधिकः; तस्य पात्रं करतले हृहीत्वा भुंजानस्य वायुना हस्तः कम्पते; ततस् तेन राजकुमारेण कटकम् अवतार्य पात्रस्य ( अ 449अ ) आधारको दत्तः; तत्पात्रं निश्चलं स्थितं; स तं दृष्ट्वा प्रणिधानं कर्तुम् आरब्धः: यथैतत् पात्रं निश्चलं, एवं ममानेन ( स्ब्व् इइ 66 ) कुशलमूलेन ये धर्मसन्ताने प्रविशेयुः ते निश्चला अवतिष्ठेयुः इति; स तस्य पूर्वं परिमण्डलैः पदव्यञ्जनैर् धर्मं देशयति; स कथयति: त्वं पूर्वम् आगारिकभूतः परिमण्डलपरिमण्डलैः पदैर् व्यञ्जनैर् धर्मं देशयसि; इदानीं त्वया प्रत्येकबोधिः साक्षात्कृता; किमर्थं न देशयसि इति; स कथयति: नाहं देशयामि; अर्थो को देशयति? ये ते तथागता अर्हन्तः सम्यक्संबुद्धाः ते बुद्धा भगवन्तः परिमण्डलपरिमण्डलैः पदव्यञ्जनैर् धर्मं देशयन्ति इति; तेन प्रणिधानं कृतं; यो ऽसौ बुद्धो भगवान् परिमण्डलपरिमण्डलैः पदव्यञ्जनैर् धर्मं देशयति, तस्याहं भ्राता स्याम् उपस्थायकश् च; स तेन प्रत्येकबुद्धेन प्रव्राजितः उक्तश् च: वत्स एतद् एव ते मनसि कर्तव्यं मया सप्ताहस्यात्ययात् मर्तव्यम् इति; तेन तेन सप्ताहेन न किंचिद् अधिगतं; स मरणकालसमये प्रणिधानं करोति; अनेनाहं कुशलमूलेन तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्य शासने प्रव्रज्य बहुश्रुतः स्यां, श्रुतधरः, श्रुतसन्निचय इति.
किं मन्यध्वे भिक्षवो यो ऽसौ राजकुमारः प्रत्येकबुद्धस्य भ्राता एष एवासाव् आनन्दो भिक्षुः; यद् अनेन प्रत्येकबुद्धस्य भ्रातुर् उपस्थानं कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन भगवतो भ्राता संवृत्तः उपस्थायको बहुश्रुतः श्रुतधरः श्रुतसन्निचयश् च.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं यस्य कर्मणो विपाकेन भगवता बहुश्रुताणां श्रुतधराणां श्रुतसन्निचयाणाम् अग्रो निर्दिष्ट इति; भगवान् आह: आनन्देनैव भिक्षवो भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनां.
आनन्द इस् थे fओरेमोस्त् अमोन्ग् थे लेअर्नेद् मोन्क्स्
भूतपूर्वं भिक्षवो ऽस्मिन्न् एव भद्रके कल्पे विंशतिवर्षशतायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः यावद् बुद्धो भगवान्; स वाराणसीं नगरीम् ( स्ब्व् इइ 67 ) उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्यायं प्रवचने प्रव्रजितः; तत्रानेन न कश्चिद् गुणगणो ऽधिगतः; यस्य सकाशे प्रव्रजितः भगवता काश्यपेन बहुश्रुतानां श्रुतधराणां श्रुतसन्निचयानाम् अग्रो व्याकृतः; स मरणकालसमये प्रणिधानं करोति: यन् मया भगवति काश्यपे सम्यक्संबुद्धे अनुत्तरे दक्षिणीये यावदायुर् ब्रह्मचर्यं चरितं, न कश्चिद् गुणगणो ऽधिगतः; अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो माणवो व्याकृतः, भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति; तस्याहं प्रवचने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम्; यथा च मे उपाध्यायो भगवता काश्यपेन सम्यक्संबुद्धेन बहुधाराणाम् ( अ 449ब् ) श्रुतधराणां श्रुतसन्निचयाणाम् अग्रो व्याकृतः; एवं माम् अपि स भगवान् शाक्यमुनिर् शाक्याधिराज बहुश्रुतानां श्रुतधराणां श्रुतसन्निचयानाम् अग्रं व्याकुर्याद्; इति हि भिक्षवः एकान्तकृष्णानाम् इति यावद् इत्य् एवं वो भिक्षवः शिक्षितव्यम्.
उद्दानं:
ऋद्धिः शास्ता तृका वक्ता चण्डालेनायं गया ।
यस्य चैते पराध्यन्ति सत्वश्राणाश् च कुक्कुराः ॥ ( स्ब्व् इइ 68 )
fअमिने इन् राजगृह
च्f. मत्सुद, "अ विनय fरग्मेन्त् ओf थे म्स्व् fरोम् ऽबेन्दल्ल्ऽस् पुकऽ", fएस्त्स्. बेछेर्त् (1997)
भगवान् राजगृहे विहरति वेनुवने कलन्दकनिवापे; तेन खलु समयेन दुर्भिक्षम् अभूत् कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन; तत्र ये भिक्षवः ऋद्धेर् लाभिनस् ते यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; सतश् च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते.
देवदत्त स्त्रिवेस् तो wइन् मगिचल् पोwएर्
च्f. मत्सुद, "अ विनय fरग्मेन्त् ओf थे म्स्व् fरोम् ऽबेन्दल्ल्ऽस् पुकऽ", fएस्त्स्छ्. बेछेर्त् (1997)
अथ देवदत्तस्य एतद् अभवत्*: एतर्हि दुर्भिक्षं कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन; ये भिक्षवः ऋद्धिलाभिनस् ते यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; सतश् च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; अहम् अपि यदि ऋद्धेर् लाभी स्याम् अहम् अपि यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजीय; सतश् च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते. ( अ 450अ ) अथ को नु मे प्रतिलभः स्याद् ऋद्धेर् मार्गं व्यपदेष्टुम् इति; अथ देवदत्तो येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तो भगवन्तम् इदम् अवोचत्*; व्यपदिशतु मे भगवान् ऋद्धेर् मार्गम् इति; अथ भगवान् देवदत्तस्य इदम् एवंरूपं पापकम् इच्छागतम् उत्पन्नं विदित्वा देवदत्तम् इदम् ( स्ब्व् इइ 69 ) अवोचत्: अधिशीले त्वं गौतम योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; अधिचित्ते अधिप्रज्ञे त्वं गौतम योनिशो मनसि कुरु; ऋद्धिश् च ते भविष्यति, अन्यच् च; अथ देवदत्तस्यैतद् अभवत्: न व्यपदिशति मे भगवान् ऋद्धेर् मार्गम् इति विदित्वा प्रक्रान्तः; येन आयुष्मान् आज्ञातकौण्डिन्यस् तेनोपसंक्रान्तः; उपसंक्रम्य आयुष्मन्तम् आज्ञातकौण्डिन्यम् इदम् अवोचत्: व्यपदिशतु मे स्थविर ऋद्धेर् मार्गं; अथायुष्मान् आज्ञातकौण्डिन्यो भगवतो मानसं व्यवलोक्य देवदत्तस्य चेदम् एवंरूपं पापकम् इच्छागतं विदित्वा देवदत्तम् इदम् अवोचत्: रूपं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; अथ देवदत्तस्यैतद् अभवत्: स्थविरो ऽपि मे कौण्डिन्यो न व्यपदिशति ऋद्धेर् मार्गम् इति विदित्वा आयुष्मान् अश्वजिद् भद्रिको बाष्पो महानामा पूर्णो विमलो गवंपतिः सुबाहुर् येन पंच स्थविरशतानि तेनोपसंक्रान्तः; उपसंक्रम्य पंच स्थविरशतानि इदम् अवोचत्: व्यपदिशन्तु मे स्थविरा ऋद्धेर् मार्गं; अथ पंच स्थविरशतानि भगवतो मानसं व्यवलोक्य स्थविरस्थविराणां च भिक्षूणां देवदत्तस्य चेदम् एवंरूपं पापकम् इच्छागतं विदित्वा देवदत्तम् इदम् अवोचत्: रूपं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; वेदनासंज्ञासंस्कारान् विज्ञानं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; अथ देवदत्तस्यैतद् अभवत्: पंचापि स्थविरशतानि ऋद्धेर् मार्गं न व्यपदिशन्ति; किं पुनर् एभिर् आयुष्मद्भिर् भगवता सार्धं पुर्वम् एव सङ्गीतं भविष्यति? तथा हि मे न कश्चिद् व्यपदिशन्ति ऋद्धेर् मार्गं; अथ देवदत्तस्यैतद् अभवत्*: अथ को नु मे प्रतिबलः स्याद् ऋद्धेर् मार्गं व्यपदेष्टुं?
दशबलकाश्यप तेअछेस् तो देवदत्त थे wअय् तो ओब्तैन् मगिचल् पोwएर्
च्f. मत्सुद, "अ विनय fरग्मेन्त् ओf थे म्स्व् fरोम् ऽबेन्दल्ल्ऽस् पुकऽ", fएस्त्स्छ्. बेछेर्त् (1997)
तेन खलु समयेन आयुष्मान् दशबलकाश्यपो राहगृहे विहरति सेनिकागुहायं ( अ 450ब् ) अथ देवदत्तस्यैतद् अभवत्*: अयं स्थविरो दशबलकाश्यपो दीर्घरात्रम् अशठ अमायावी; ऋजुकऋजुकजातीयो भ्रातृसालोहितस्य च मे नन्दस्य उपाध्यायो भवति; प्रतिबलश् च मे स्थविरो दशबलकाश्यपः ऋद्धेर् मार्गं व्यपदेष्टुम् इति विदित्वा येनायुष्मान् दशबलकाश्यपस् तेन उपसंक्रान्तः; उपसंक्रम्य ( स्ब्व् इइ 70 ) आयुष्मतो दशबलकाश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तः आयुष्मन्तं दशबलकाश्यपम् इदम् अवोचत्*: व्यपदिशतु मे स्थविरो ऋद्धेर् मार्गं; अथायुष्मान् दशबलकाश्यपः भगवतो मानसम् अव्यवलोक्य स्थविरस्थविराणां च भिक्षूणां देवदत्तस्य चेदम् एवंरूपं पापकम् इच्छागतम् उत्पन्नम् इत्य् अविदित्वा ऋद्धेर् मार्गं व्यपदिशति; तत्र देवदत्तेन पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरता प्रथमं ध्यानं निश्रित्य ऋद्धिर् अभिनिर्हृता; स एको भूत्वा बहुधा भवति; बहुधा भूत्वा एकीभवति: आविर्भावतिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारम् असज्जमानेन कायेन गच्छति तद्यथा आकाशे; पृथिव्यां उन्मज्जननिमज्जनं करोति तद्यथा उदके; उदके ऽप्य् अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनकः इमौ वा सूर्याचन्द्रमसौ एवंमहर्धिकाव् एवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि.
अथ देवदत्तस्यैतद् अभवत्*: किं पुनर् मे यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभोक्तुं? सतश् च भिक्षून् शेषेण संविभक्तुं? यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं? उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं? चातुर्महाराजिकान् त्रयस्त्रिंशान् च देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं? ये वा ते जनपदा ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं?
देवदत्त सेदुचेस् प्रिन्चे अजातशत्रु
अथ देवदत्तस्यैतद् अभवत्*: किं पुनर् अहम् अस्मिन् मगधक्षेत्रे प्रधानपुरुषम् अन्वावर्तयेयं: यस्मिन्न् अन्वावृत्ते ( स्ब्व् इइ 71 ) अकृच्छ्रेण महाजनकायो ऽन्वावर्तेत; अथ देवदत्तस्यैतेअद् अभवत्*: अयम् अजातशत्रुः कुमारः पितुर् अत्ययात् पैत्र्यराज्यैश्वर्याधिपत्ये प्रतिष्ठास्यति; यन्न्व् अहम् अजातशत्रुम् अन्वावर्तयेयं; यस्मिन् मे अन्वावृत्ते अल्पकृच्छ्रेण महाजनकायो ऽन्वावर्तिष्यते; अथ देवदत्तः अभिजातो हस्त्याजानेयो भूत्वा अजातशत्रोः कुमारस्य ( अ 451अ ) निवेशनम् अपद्वारेण प्रविश्य द्वारेण प्रतिनिष्क्रामति; द्वारेण प्रविश्य अपद्वारेण प्रतिनिष्क्रामति अभिजातः अश्वाजानेयः भिक्षुर् अपि मुण्डः सङ्घाटीप्रावृतः; दह्रो ऽपीदानीं कुमारः सुवर्णमेखलाधारी भूत्वा अजातशत्रोः कुमारस्य उत्सङ्गे आवर्तते; परिवर्तते संवर्तते; अजातशत्रुर् अपि एनं कुमारम् आलिङ्गति चुम्बति परिष्वजति; अपीदानीं खेटपिण्डम् अप्य् आस्ये प्रक्षिपति; तद् अपि देवदत्तो ऽभ्यवहरति यथापितल् लाभसत्कारेण अभिभूतः पर्यादत्तचित्तः इति; तत्राजातशत्रुः कुमारो भूयस्या मात्रया पापकं दृष्टिगतं प्रतिलब्धवान्: महर्धिकतरो बतार्यो देवदत्तः शास्तुर् अन्तिकात्* इति; प्रसन्नश् चास्य प्रसन्नाधिकारम् अकार्षीत्; पंचमात्रै रथशतैः सार्धं सायं च प्रातश् च उपस्थानकरो निर्याति; पंचमात्राणि चास्य स्थालीपाकशतानि भक्ताभिसारे भक्ताभिसारे उपसंहरति; देवदत्तो ऽपि पंचमात्रैर् भिक्षुशतैर् भक्ताग्र उपनिषीदति.
थे गिfत्स् अन्द् होनोउर्स् ओf अजातशत्रु इन्fअतुअते देवदत्त अन्द् हिस् मगिचल् पोwएर्स् लेअवे हिम् एन्तिरेल्य्
अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षन्; अश्रौषुः संबहुला भिक्षवः राजगृहं पिण्डाय चरन्तः; देवदत्तस्य अयम् एवंरूपो लाभसत्कार उदपादि; राजास्य मागधः अजातशत्रुः वैदेहीपुत्रः पंचमात्रै रथशतैः सार्धं सायं च प्रातश् च उपस्थानकरो निर्याति; पंचमात्राणि चास्य स्थालीपाकशतानि भक्ताभिसारे भक्ताभिसारे उपसंहरति; देवदत्तः पंचमात्रैर् भिक्षुशतैः सार्धं भक्ताग्र ( स्ब्व् इइ 72 ) उपनिषीदति इति; श्रुत्वा पुनः राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस् तेनोपसंक्रन्ताः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तम् इदम् अवोचन्: इह वयं भदन्त संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं प्राविक्षाम; अश्रौष्म वयं भदन्त संबहुला भिक्षवो राजगृहं पिण्डाय चरन्तो: देवदत्तस्यायम् एवंरूपो लाभ्सत्कारः उदपादि; राजस्य मागधः अजातशत्रुर् वैदेहीपुत्रः पंचमात्रै रथशतैः सार्धं सायं च प्रातश् च उपस्थानकरो निर्याति; पंचमात्राणि चास्य स्थालीपाकशतानि भक्ताभिसारे भक्ताभिसारे उपसंहरति; देवदत्तो ऽपि पंचमात्रैर् भिक्षुशतैः सार्धं भक्ताग्र उपनिषीदति; मा यूयं भिक्षवो देवदत्तस्य लाभसत्कारं स्पृहयत; तत् कस्य हेतोः? वधाय देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा भिक्षवो वधाय कदली फलं ददाति पराभवाय कदली फलं ददाति; एवम् एव वधाय ( अ 451ब् ) देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा वधाय वेणुर् नडः फलं ददाति; एवम् एव वधाय देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा वधाय अश्वतरी गर्भं गृह्णाति; पराभवाय अश्वतरी गर्भं गृह्णाति; एवम् एव वधाय देवदत्तस्य लाभसत्कारः; यावच् च भिक्षवो देवदत्तस्य अयम् एवंरूपो लाभसत्कारः उत्पद्यते, तत् कस्य भविष्यति मोहपुरुषस्य दीर्घरात्रम् अनर्थाय दुःखाय; तस्मात् तर्हि भिक्षवः एवं शिक्षितव्यं यल् लाभसत्कारम् अभिभविष्यामः; न च न उत्पन्नो लाभसत्कारः चित्तं पर्यादाय स्थास्यति; इत्य् एवं वो भिक्षवः शिक्षितव्यं;
फलं वै कदलीं हन्ति फलं वेणुं फलं नडम्* ।
<सत्कारः> पुरुषं हन्ति स्वगर्भो ऽश्वतरीं यथा ॥ ( स्ब्व् इइ 73 )
यावद् एव ह्य् अनर्थाय ज्ञातो भवति बालिशः ।
हन्ति बालस्य शुक्लांसं मूर्ध्नो ऽप्य् अस्य निपातयत्* ॥
अथ देवदत्तस्य लाभसत्काराभिभूतस्य पर्यादत्तचित्तस्य इदम् एवंरूपो पापकम् इच्छागतम् उत्पन्नम्: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदो ऽववदितुम्; अहो वत भगवान् मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारम् अनुयुक्तः इति; सहचित्तोत्पादात् स पुनर् देवदत्तस् तस्य ऋद्धेः परिहीणः; परिहीणश् च पुनर् नाज्ञासीद् इत्य् अप्य् अहं परिहीणः इति.
मौद्गल्यायन इन्fओर्म्स् थे बुद्ध अस् देवदत्त इस् ऐमिन्ग् अत् थे दिरेच्तिओन् ओf थे चोन्ग्रेगतिओन्
तेन खलु समयेन ककुदो भिक्षुः क्रोडपुत्रो भगवतः श्रावको भगवतो ऽन्तिके ब्रह्मचर्यं चरित्वा चतुरो ब्रह्मविहारान् भावयित्वा, कामेषु कामच्छन्दं प्रहाय, तद्बहुलविहारी ब्रह्मलोकसभागतायाम् उत्पन्नः; तेन खलु समयेन आयुष्मान् महामौद्गल्यायनः भार्गवेषु विहरति शिशुमारगिरौ भीषणिकावने मृगदावे; अथ ककुदो ब्रह्मा देवदत्तं तस्या ऋद्धेः परिहीणं विदित्वा, तद्यथा बलवान् पुरुषः संकुचितं वा बाहुं प्रसारयेत्, प्रसारितं वा संकुचयेद् एवम् एव ककुदो ब्रह्मा ब्रह्मलोके ऽन्तर्हितो भार्गवेषु प्रत्यष्ठाद् आयुष्मतो महामौद्गल्यायनस्य पुरस्ताद्; अथ ककुदो ब्रह्मा आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*; यत् खलु भदन्त मौद्गल्यायन जानीया देवदत्तस्य लाभसत्कारेणाभिभूतस्य पर्यादत्तचित्तस्य इदम् एवंरूपो पापकम् इच्छागतम् उत्पन्नम्: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदो ऽववदितुम्; अहो ( स्ब्व् इइ 74 ) वत भगवान् मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारयोगम् अनुयुक्तः इति; सहचित्तोत्पादात् स पुनस् तस्या ऋद्धेः परिहीणः; परिहीणश् च पुनर् नाज्ञासीद् इत्य् अप्य् अहं परिहीण इति; भदन्त साधु मौद्गल्यायन ( अ 452अ ) येन बहगवांस् तेनोपसंक्रामेः; उपसंक्रम्य भगवन्तम् एतम् एवार्थं विस्तरेणारोचयेः अनुकम्पाम् उपादाय; अधिवासयत्य् आयुष्मान् महामौद्गल्यायनः ककुदस्य ब्रह्मणस् तूष्णींभावेन; अथ ककुदो ब्रह्मा आयुष्मतो महामौद्गल्यायनस्य तूष्णींभावेनाधिवासनां विदित्वा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा तत्रैवान्तर्हितः; अथायुष्मान् महामौद्गल्यायनः अचिरप्रक्रान्तं ककुदं ब्रह्माणं विदित्वा तद्रूपं समाधिं समापन्नः, यथा समाहिते चित्ते भार्गेष्व् अन्तर्हितः राजगृहे प्रत्यष्ठाद् वेणुवने कलन्दकनिवापे; अथायुष्मान् महामौद्गल्यायनो येन भगवांश् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्ण आयुष्मान् महामौद्गल्यायनो यावान् एवाभूत् ककुदेन ब्रह्मणा सार्धम् अन्तराकथासमुदाहारस् तत् सर्वं विस्तरेणारोचयति; एवम् उक्तो भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: न खलु मौद्गल्यायन देवदत्तः पूर्वम् एव चेतसा स्फरित्वा विदितः? किं ततः पश्चात् ककुदेन ब्रह्मणा आरोचितम्? एवं भदन्त इति; इयं च पुनर् भगवत आयुष्मता महामौद्गल्यायनेन सार्धम् अन्तराकथा विप्रसृता.
देवदत्त विसित्स् थे बुद्ध अन्द् देपर्त्स् इन्दिग्नन्त्
अथ देवदत्तश् चतुभिर् भिक्षुभिः सहायकैः कोकालिकेन खण्डद्रव्येण कटमोरकतिष्येण समुद्रदत्तेन च सार्धं येन भगवांस् तेनोपसंक्रान्तः; अद्राक्षीद् भगवान् देवदत्तं दूराद् एव दृष्ट्वा च पुनर् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: रक्षेदानीं मौद्गल्यायन, रक्षेदानीं मौद्गल्यायन, एष गच्छति देवदत्तः; इदानीं एष मोहपुरुषो मम पुरस्ताद् आत्मनैवात्मानं व्याकरिष्यति; अथायुष्मान् महामौद्गल्यायनः भगवतः ( स्ब्व् इइ 75 ) पादौ शिरसा वन्दित्वा तद्रूपं समाधिं समापन्नः, यथा समाहिते चित्ते वेणुवने ऽन्तर्हितो भार्गवेषु प्रत्यष्ठाद् शिशुमारगिरौ भीषणिकावने मृगदावे.
अथ देवदत्तो येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तओ भगवन्तम् इदम् अवोचत्*: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदो ऽववदितुम्; अहो वत भगवान् मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारयोगम् अनुयुक्त; शारिपुत्रमौद्गल्यायनयोस् तावद् अहं मोहपुरुष पेशलयोः सब्रह्मचारिणोर् अपि भिक्षुसंघं न प्रतिनिसृजामि; कुतः पुनस् त्वयि निस्रक्ष्यामि शवे खेटाशके?
अथ देवदत्तस्यैतद् अभवत्*: भगवान् शारिपुत्रमौद्गल्यायनयोर् वर्णं भाषते; मां च शवखेटाशकवादेन समुदाचरति इति; तत्र देवदत्तो ( अ 452ब् ) भगवतो ऽन्तिके कोपं च द्वेषं च मानं च म्रक्षं च आघातं च अक्षान्तिं च अप्रत्ययं च प्राविष्कार्षीत्*; अथ देवदत्तो हुम् इति कृत्वा त्रिः शिरः कम्पयित्व भगवतो अन्तिकात् प्रक्रान्तः.
थे बुद्ध अस्सेम्ब्लेस् थे मोन्क्स्
थे सेर्मोन् ओन् थे fइवे तेअछेर्स्
तेन खलु समयेन आयुष्मान् आनन्दो भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा च भगवन्तं वीजयमानः; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छानन्द यावन्तो वेणुवनं कलन्दकनिवापम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपातय; एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य, यावन्तो भिक्षवो वेणुवनं कलन्दकनिवापम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपात्य येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् ( स्ब्व् इइ 76 ) इदम् अवोचत्*: यावन्तो भदन्त भिक्षवो वेणुवनं कलन्दकनिवापम् उपनिश्रित्य विहरन्ति, ते सर्वे उपस्थानशालायां सन्निषण्णाः, सन्निपतिताः; यस्येदानीं भगवान् कालं मन्यत इति.
अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः, उपसंक्रम्य पुरस्तात् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; निषद्य भगवान् भिक्षून् आमन्त्रयते स्म; पंचेमे भिक्षवः शास्तारः सन्तः संविद्यमाना लोके; कतमे पंच?
1) इहैकः शास्ता अपरिशुद्धशील एव सन् परिशुद्धं मे शीलम् अक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता अपरिशुद्धशील एव सन् परिशुद्धं मे शीलम् असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः शीलवन्तो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् शीलानुरक्षनं प्रत्याशंसति; अयं प्रथमः शास्ता सन् सन्विद्यमानो लोके.
2) पुनर् अपरम् इहैकः शास्ता अपरिशुद्धजीव एव परिशुद्धो मे अजीवः अक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता अपरिशुद्धजीव एव सन् परिशुद्धो मे आजीव असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः आजीवतो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् शीलानुरक्षनं प्रत्याशंसति; अयं द्वितीयः शास्ता सन् सन्विद्यमानो लोके.
3) पुनर् अपरम् इहैकः शास्ता ( अ 453अ ) अपरिशुद्धज्ञानदर्शन एव सन् परिशुद्धं मे ज्ञानदर्शनम् अक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता ( स्ब्व् इइ 77 ) अपरिशुद्धज्ञानदर्शन एव सन् परिशुद्धं मे ज्ञानदर्शनम् असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः ज्ञानदर्शनतो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकाद् ज्ञानदर्शनानुरक्षनं प्रत्याशंसति; अयं तृतीयः शास्ता सन् सन्विद्यमानो लोके.
4) पुनर् अपरम् इहैकः शास्ता असंपन्नव्याकरण एव सन् संपन्नं मे व्याकरणम् असंक्लिष्टम् इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता असंपन्नव्याकरण एव सन् संपन्नं मे व्याकरणम् असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः संपन्नव्याकरणो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् संपन्नव्याकरणानुरक्षनं प्रत्याशंसति; अयं चतुर्थः शास्ता सन् सन्विद्यमानो लोके.
5) पुनर् अपरम् इहैकः शास्ता दुराख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता दुराख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः स्वाख्यातधर्मविनयतो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् स्वाख्यातधर्मविनयानुरक्षनं प्रत्याशंसति; अयं पंचमः शास्ता सन् सन्विद्यमानो लोके.
अथ खलु भिक्षवः परिशुद्ध्शील एव सन् परिशुद्धं ( स्ब्व् इइ 78 ) मे शीलम् असंक्लिष्ट इति प्रतिजाने; न मे श्रावका शीलवतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकात् शीलानुरक्षनं प्रत्याशंसामि; अयं खलु भिक्षवः परिशुद्धजीव एव सन् परिशुद्धो मे अजीवः असंक्लिष्ट इति प्रतिजाने; न मां श्रावका आजीवतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकाद् आजीवानुरक्षणं प्रत्याशंसामि; अहं खलु भिक्षवः परिशुद्धज्ञानदर्शन ( अ 453ब् ) एव सन् परिशुद्धं मे ज्ञानदर्शनम् असंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः ज्ञानदर्शनतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकाद् ज्ञानदर्शनानुरक्षनं प्रत्याशंसामि; अहं खलु भिक्षवः संपन्नव्याकरण एव सन् संपन्नं मे व्याकरणम् असंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः संपन्नव्याकरणतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकात् संपन्नव्याकरणानुरक्षनं प्रत्याशंसामि; अहं खलु भिक्षवः स्वाख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः स्वाख्यातधर्मविनयतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकात् स्वाख्यातधर्मविनयानुरक्षनं प्रत्याशंसामि; निगृह्य निगृह्य वो ऽहं भिक्षवः प्रवक्ष्यामि, प्रसह्य प्रसह्य; न च वो धनयिष्ये, कुम्भकार इवामभाजनानां; यत् सारं तत् स्थास्यति; क्षमाश् च यूयं भगवतो वचनपथानां. ( स्ब्व् इइ 79 )
देवदत्त देचिदेस् तो ब्रिन्ग् अबोउत् स्छिस्म् इन् थे चोन्ग्रेगतिओन्
अथ देवदत्तः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तन् आमन्त्रयते: एत एवं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; तिष्ठते एव श्रमणस्य गौतमस्य समग्रं श्रावकसंघं भेत्स्यामः; चक्रभेदं करिष्यामः; तद् अस्माकम् अभ्यतीतकालगतानां दिग्विदिक्षु उदारः कल्याणः कीर्तिशब्दश्लोकः अभ्युद्गमिष्यति; तिष्ठत एव श्रमणस्य गौतमस्य तावन्महर्धिकस्य तावन्महानुभावस्य देवदत्तेन कोकालिकेन खण्डद्रव्येण कटमोरकतिष्येण समुद्रदत्तेन समग्रः श्रावकसंघः भिन्नश् चक्रभेदश् च क्रियते इति; ते कथयन्ति: न शक्ष्यामो वयं देवदत्त भगवतः समग्रं श्रावकसंघं भेत्तुं; तत् कस्य हेतोः? सन्त्य् आयुष्मन् देवदत्त भगवतः श्रावकाः महर्धिका महानुभावा दिव्यचक्षुषः परचित्तविदः; ये दूराद् अपि पश्यन्ति, अन्तिके ऽपि न दृश्यन्ते; ते चेतसा चित्तं स्फरित्वा मनसा मनो विजानन्ति; ते अस्मान् परिसर्पत एव ज्ञास्यन्ति इति; स कथयति: अस्ति कोकालिक उपायः; एते वयं स्थविरस्थविरान् भिक्षून् उपसंक्रमामः सर्वोपकरणैः अल्पोत्सुखा भवन्तु स्थविरा वयं स्थविराणां सर्वोपकरणैर् अविघातं करिष्याम इति; नवकांश् च भिक्षून् उपस्थापयामः उपलाडायामः पात्रेण चीवरेण शिक्येन सरितेन कायबन्धनेन उद्देशेन पाठेन स्वाध्यायेन योगेन मनसिकारेण; अस्त्य् एष आयुष्मन् देवदत्त उपाय इति; तत्र देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमितुम् आरब्धः.
थे बेहविओउर् ओf देवदत्त इस् दिस्चुस्सेद् इन् थे चोन्ग्रेगतिओन्
स्थविरस्थविरैर् भिक्षुभिः परिसर्पन्न् एव विज्ञातः देवदत्तः, समग्रस्य संघस्य भेदाय पराक्रमति इति; एतत् प्रकरणं भिक्षवः भगवत आरोचयन्ति; भदन्त देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमति इति; तान् भगवान् भिक्षून् आमन्त्रयते स्म: आज्ञापयत यूयं भिक्षवो देवदत्तं ( स्ब्व् इइ 80 ) मेषकेन इति, यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ( अ 454अ ) एवं च पुनर् आज्ञापयितव्यः; मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयम् अधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु इति; आज्ञापयन्ति ते भिक्षवो देवदत्तं मेषकेन; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति: इदम् एव सत्यं मोहम् अन्यद् इति.
एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्तो ऽस्माभिर् भदन्त देवदत्तो मेषकेन; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; भगवान् आह: आज्ञापयत यूयं भिक्षवो देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा इति, यो वा पुनर् अन्यो ऽप्य् एवंजातीयः एवं च पुनर् आज्ञापयितव्यः.
शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं.
शृणोतु भदन्ताः संघः; अयं देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमते; भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; स एष संबहुलैर् भिक्षुभिर् मेषकेनाज्ञप्तः; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अनुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; सचेत् संघस्य प्राप्तकालं क्षमेत आनुजानीयात् संघो यत् संघः देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयेत् मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयम् अधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृज त्वं ( स्ब्व् इइ 81 ) देवदत्त इदम् एवंरूपं संघभेदकरं वस्तु; इत्य् एषा ज्ञप्तिः; एवं च कर्म कर्तव्यं.
शृणोतु भदन्ताः संघः; अयं देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमते; भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; स एष संबहुलैर् भिक्षुभिर् मेषकेनाज्ञप्तः; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; तत् संघः देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयति: मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयम् चाधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरत्व् इति; येषाम् आयुष्मतां क्षमते देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयितुं; मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; ( अ 454ब् ) भेदकरणसंवर्तनीयम् चाधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु इति ते तूष्णीं; न क्षमन्ते भाषन्ताम् इयं प्रथमा कर्मवाचना; एवं द्वितीया तृतीया कर्मवाचना.
आज्ञापयन्ति ते भिक्षवो देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा; आज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरति: इदम् एव सत्यं मोहम् अन्यद् इति.
थे बेहविओउर् ओf थे fओउर् मोन्क्स् fओल्लोwएर्स् ओf देवदत्त इस् दिस्चुसेद् इन् थे चोन्ग्रेगतिओन्
चत्वारश् चास्य भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां, कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; ते भिक्षून् एवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? एष हि भिक्षुर् धर्मवादी विनयवादी; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, नाजानन्; ( स्ब्व् इइ 82 ) यच् चास्मै भिक्षवे रोचते, क्षमते च, अस्माकम् अपि तद् रोचते क्षमते च इति.
एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्तो ऽस्माभिर् भदन्त देवदत्तः ज्ञप्तिचतुर्थेन कर्मणा आज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; चत्वारश् चास्य भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां, कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; ते भिक्षून् एवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; एष हि भिक्षुर् धर्मवादी विनयवादी; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्यानुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, नाजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति.
भगवान् आह: आज्ञापयत यूयं भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता मेषकेन; एवं पुनर् आज्ञापयितव्याः: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुसमग्रस्य संघस्य भेदाय पराक्रमते, भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति, तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तः अस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्यानुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, नाजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; मा यूयम् आयुष्मन्तः संघभेदं रोचयत; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानो ऽविवदमान एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्व् ( अ 455अ ) आयुष्मन्तः इमाम् एवंरूपं संघभेदानुवर्तनीं व्यग्रवादिताम् इति; आज्ञापयन्ति ते भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् मेषकेन; ते मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति.
एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्ता अस्माभिर् भदन्त कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः ( स्ब्व् इइ 83 ) मेषकेन; ते मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्य अनुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; भगवान् आह: आज्ञापयत यूयं भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा इति, ये वा पुनर् अन्ये ऽप्य् एवंजातीयः एवं च पुनर् आज्ञापयितव्याः.
शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं.
शृणोतु भदन्ताः संघः; इमे कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति, तस्यानुवर्तिनो भविष्यन्ति व्यग्रवादितायां; भिक्षूंश् चैवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते क्षमते च, अस्माकम् अपि तद् रोचते क्षमते च इति; त एवं संबहुलैर् भिक्षुभिर् मेषकेन आज्ञाप्यमानास् तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरन्ति इदम् एव सत्यं मोहम् अन्यद् इति; सचेत् संघस्य प्राप्तकालं क्षमेत अनुजानीयात् संघो यत् संघः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयति: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; तत् कस्य हेतोः? नैष आयुष्मन्तो भिक्षुर् धर्मवादी विनयवादी च; अधर्मवादी चैष भिक्षुर् अविनयवादी च; अधर्मं चैष भिक्षुर् अविनयं च समादाय प्रगृह्य अनुव्यवहरति; अजानंश् चैष भिक्षुर् भाषते, न अजानन्; निःसृजन्त्व् आयुष्मन्तः इमाम् एवंरूपां संघभेदानुवर्तिनीं ( स्ब्व् इइ 84 ) व्यग्रवादितायां; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः ( अ 455ब् ) शासनं दीपयन् सुखस्पर्शं विहरतु; इत्य् एषा ज्ञप्तिः; एवं च कर्म कर्तव्यं.
शृणोतु भदन्ताः संघः; इमे कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति, तस्यानुवर्तिनो भविष्यन्ति व्यग्रवादितायां; भिक्षूंश् चैवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते क्षमते च, अस्माकम् अपि तद् रोचते क्षमते च इति; त एवं संबहुलैर् भिक्षुभिर् मेषकेन आज्ञाप्यमानास् तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरन्ति इदम् एव सत्यं मोहम् अन्यद् इति; तत् संघः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणाज्ञापयति: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमते भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; तत् कस्य हेतोः? नैष भिक्षुर् धर्मवादी न विनयवादी; अधर्मं चैष भिक्षुर् अविनयं च समादाय प्रगृह्यानुव्यवहरति; अजानंश् चैष भिक्षुर् भाषते, न जानन्; मा आयुष्मन्तः संघभेदं रोचयन्तु; संघसामग्रीम् एव रोचयन्तु; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्व् आयुष्मन्तः इमाम् एवंरूपं संघभेदानुवर्तिनीं व्यग्रवादिताम् इति.
येषाम् आयुष्मतां क्षमन्ते कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयितुं; मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमते भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; तत् कस्य हेतोः? नैष भिक्षुर् धर्मवादी न विनयवादी; अधर्मं चैष भिक्षुर् अविनयं च समादाय प्रगृह्यानुव्यवहरति; अजानंश् चैष भिक्षुर् भाषते, न जानन्; मा आयुष्मन्तः संघभेदं रोचयन्तु; संघसामग्रीम् एव रोचयन्तु; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्व् आयुष्मन्तः इमाम् एवंरूपं संघभेदानुवर्तिनीं व्यग्रवादिताम् इति ते तूष्णीं; न क्षमन्ते भाषन्ताम् इयं प्रथमा कर्मवाचना; एवं द्वितीया तृतीया कर्मवाचना. ( स्ब्व् इइ 85 )
आज्ञापयन्ति ते भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा; ते भ्क्षुभिर् ज्ञप्तिचतुर्थेन कर्मणा आज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्य अनुव्यवहरति: इदम् एव सत्यं मोहम् अन्यद् इति.
थे मोन्क्स् इन्fओर्म् थे बुद्ध ओf थे रेसुल्त् ओf थे मोतिओन् (ज्ञप्ति).
देवदत्त गेत्स् स्त्रोन्गेर् इन् हिस् रेसोलुतिओन् तो ब्रिन्ग् अबोउत् थे स्छिस्म् इन् थे चोन्ग्रेगतिओन्
एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्ता अस्माभिर् भदन्त कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः ज्ञप्तिचतुर्थेन कर्मणा; आज्ञाप्यमानस् ते तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरति: इदम् एव सत्यं मोहम् अन्यद् इति; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: प्रतिबलो मे भिक्षवो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः.
देवदत्तेन श्रुतं व्याकृतो ऽहं श्रमणेन गौतमेन प्रतिबलो मे भिक्षवो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः इति; श्रुत्वा च पुनः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् आमन्त्रयते: ( अ 456अ ) यत् खलु कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानीयात, व्याकृतो ऽहं श्रमणेन गौतमेन प्रतिबलो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता इति; यन्न्व् अहं भूयस्या मत्रया संघभेदाय पराक्रमेय इति; स पंचभिर् भिक्षुशतैः सार्धम् अन्ते आरामस्य गणभोजनं भुङ्क्ते; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति.
भगवान् आह: किं मन्यध्वे भिक्षवः? किमर्थं तथागतेन त्रिकभोजनम् अनुज्ञातं; गणभोजनं प्रतिक्षिप्तं? ननु द्वाव् अर्थाउ संपश्यता, कुलोदयतां च प्रतीत्य, पापेच्छानां ( स्ब्व् इइ 86 ) च पुद्गलानां पक्षप्रलोपनार्थं; मा हैव पापेच्छः पुद्गलः संघम् एवागम्य, संघम् एवोद्दिश्य, संघम् एवावेदयित्वा पाषण्डिक इव कृत्वा संघेनैव सार्धं विगृह्य विवादं स्थापयेत् इति.
देवदत्त लोसेस् हिस् मगिचल् पोwएर्स्
यदा आयुष्मता दशबलकाश्यपेन देवदत्तस्य ऋद्धेर् मार्गो व्यपदिष्टः, तदासौ भिक्षुभिर् उच्यते: कस्मात् त्वया स्थविर देवदत्तस्य पापेच्छस्य ऋद्धेर् मार्गो व्यपदिष्टः? स कथयति: नाहम् आयुष्मन्तो जाने यथायं पापेच्छ इति; यदि मया ज्ञातम् अभविष्यत् ऋकारो ऽप्य् अस्य मया न व्यपदिष्टो ऽभविष्यत्; प्राग् एव ऋद्धेर् मार्गः इति; ततो देवदत्तः भिक्षुभिः प्रणयम् आस्थायोच्यते; देवदत्त या काचित् श्रीसौभाग्यसंपत्, सर्वासौ स्थविरं दशबलकाश्यपम् आगम्य; न त्वं तस्य सकाशम् उपसंक्रामसि इति; ते संलक्षयन्ति: अप्य् एव नामायम् अस्माभिः प्रबोधितः तस्य सकाशम् उपसंक्रामेत्; स एवं प्रतिनिवर्तयेत् इति; स एवं प्रतिचोदितः कथयति: किं मम तेन कृतं? ननु मया वीर्यम् आधाय, पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरता प्रथमं ध्यानं निश्रित्य ऋद्धिर् अभिनिर्हृता इति; स वाक्प्रव्याहरणकालसमनन्तरम् एव तया अकृतज्ञतया ऋद्धेः परिहीणः.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः अकृतज्ञतया ऋद्धेः परिहीणः इति; भगवान् आह: न भिक्षव एतर्हि, यथा अतीते ऽप्य् अध्वन्य् एषः अकृतज्ञतया विद्यायाः परिहीणः; तच् छ्रूयतां.
थे स्तोर्य् ओf अन् ओउत्-चस्ते वेर्सेद् इन् मगिच् अन्द् ओf अ ब्राह्मण स्तुदेन्त्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; ( स्ब्व् इइ 87 ) तत्र चण्डालो विद्यामन्त्रधरो विद्यामन्त्रकुशलः गान्धारीविद्यां परिवर्त्य ऋद्ध्या गन्धमादनात् पर्वतात् अकालर्तुकानि पुष्पफलान्य् आदाय राज्ञे ब्रह्मदत्तायोपनयति; राजा ब्रह्मदत्तस् तस्याभिप्रसन्नः अभिसारम् अनुप्रयच्छति; यावद् अन्यतमो माणवो मन्त्रार्थी मन्त्रगवषी श्रवपरम्पया जनपदात् वाराणसीम् अनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य तस्य चण्डालस्य विद्यामन्त्रधारिणः सकाशम् उपसंक्रान्तः; उपसंक्रम्य कथयति: इच्छाम्य् अहम् उपाध्यायस्य शुश्रूषां कर्तुं; कस्यार्थे? विद्यायाः; स गाथां भाषते: ( अ 456ब् )
न विद्या कस्यचिद् देया मर्तव्यं सह विद्यया ।
प्रयच्छेद् विद्यया विद्यां शुश्रूषाभिर् धनेन वा ॥ <इति>
स कथयति: उपाध्याय यद्य् एवम् अहं शुश्रूषां करोमि; कियन्तं कालं कर्तव्या? स कथयति: द्वादशभिर् वर्षैः शुश्रूषया दीयेत वा न वा; सो ऽत्यर्थं विद्याप्रतिपन्नः अनुज्ञातवान्; तत आराधनपरमः सत्कृत्य गुरुशुश्रूषां कर्तुम् आरब्धः; यावद् अपरेण समयेनासौ चण्डालो मद्यमदाक्षिप्तो गृहम् आगतः; स माणवः संलक्षयति; अयम् उपाध्यायः अतीव मद्यमदाक्षिप्तः; पार्श्वे अस्य शय्या कल्पयितव्या इति; यावद् असौ चण्डालः संपरिवर्तितुम् आरब्धः; तस्य संपरिवर्तमानस्य खट्वाया अङ्गणिका भग्ना; माणवः श्रुत्वा प्रतिबुद्धः; स संलक्षयति: उपाध्यायः दुःखं शयिष्यते; यन्न्व् अहम् अङ्गणिकायां पृष्ठं दत्वा अवस्थितः; धर्मता ह्य् एषा शौण्डानां यो बलवांस् तस्य वान्तिर् भवति; तस्य प्रथमे यामे मद्यं विगच्छति; तेन तीक्ष्णमद्यवेगात् माणवस्य पृष्ठे वान्तं; स संलक्षयति: यद्य् अहं कायं चालयेयं वाचं वा निश्चारयेयं स्थानम् एतद् विद्यते यद् उपाध्यायः शब्दं श्रुत्वा प्रतिबुद्धो न पुनः शय्यां कल्पयेत्; स प्रतिसङ्ख्यानेन अवस्थितः; यावद् चण्डालः स्वयम् एव प्रतिबुद्धः पश्यति तं तथा विप्रकृतं; ततः पृच्छति, को ऽयं; स कथयति: उपाध्याय अहं सोमशर्मा; वत्स ( स्ब्व् इइ 88 ) किम् अस्य् एवंस्थितः? तेन यथावृत्तं समाख्यातं; सो ऽभिप्रसन्नः कथयति: वत्स परितुष्टो ऽहं; गत्वा स्नात्वा आगच्छ; विद्यां तुभ्यम् अनुप्रयच्छामि इति; सोमशर्मा आगतः; तेन तस्मै विद्या दत्ता; चपला ब्राह्मणा भवन्ति; स वेगम् असहमानः चिन्तयति; इहैव तावद् एनां विद्यां जिज्ञासयामि, ततो ऽन्यत्र गमिष्यामि इति; तेन सा विद्या परिवर्तिता; भवनतलम् उत्पत्य, आश्व् एव गन्धमादनं पर्वतं गत्वा, अकालर्तुकानि पुष्पान्य् आदाय आगतः; तेन तानि राज्ञः पुरोहिताय दत्तानि; तेनापि राज्ञे ब्रह्मदत्ताय; राजा कथयति: कुतस् तवैतानि; स कथयति: विप्रकृष्टाद् देशान् माणवो ऽभ्यागतः; तेनैतानि मम दत्तानि; स चात्यर्थं विद्यामन्त्रधारी अकामकरणीयश् च ब्राह्मणः; किम् अनेन चण्डालेन सर्वलोकप्रत्याख्यातेन? तस्य वृत्तिम् आच्छिद्य अस्मै माणवाय दीयताम् इति; राजा कथयति: एवं कारय इति; ततः पुरोहितेन चण्डालाद् वृत्तिम् आच्छिद्य तस्मै ब्राह्मणाय दत्ता; स तया अकृतज्ञतया तस्य विद्यायाः परिहीणः.
किं मन्यध्वे भिक्षवः यो ऽसौ चण्डालः एष एवासौ दशबलकाश्यपः तेन कालेन तेन समयेन; सो ऽसौ माणवः एष एव असौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष विद्यायाः परिहीणः; अद्याप्य् एष ऋद्धेः परिहीणः; तस्मात् तर्हि भिक्षवः एवं शिक्षितव्यं यत् कृतज्ञा भविष्यामः; स्वल्पम् अपि कृतं न नाशयिष्यामः प्राग् एव प्रभूततरम्; इत्य् एवं वो भिक्षवः शिक्षितव्यं.
थे बुद्ध गोएस् तो गया
अथ भगवान् यथाभिरम्यं राजगृहे विहृत्य भिक्षुगणपरिवृतः भिक्षुसंघपुरस्कृतः, मगधेषु जनपदेषु चारिकां चरन् गयाम् अनुप्राप्तः गयायां विहरति; ( अ 457अ ) राज्ञा बिम्बिसारेण भगवतः पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि प्रापितानि; देवदत्तेन अजातशत्रुर् अभिहितः: पश्य वृद्धराजा श्रमणस्य गौतमस्य कीदृशान् कारान् करोति; अहम् अपि जनपदचारिकां चरिष्यामि; अस्माकम् अपि त्वया पिण्डकेन अविघातः करणीयः. ( स्ब्व् इइ 89 )
अथ देवदत्तो ऽपि पंचशतपरिवारो जनपदचारिकां प्रक्रान्तः; देवदत्तस्याजातशत्रुणा राज्ञा पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि प्रतिमार्गं प्रेषितानि; भिक्षवो दृष्ट्वा संलक्षयन्ति: कस्यैतानि पंच शकटशतान्य् आगच्छन्ति इति; तैः कुतूहलजातैः अध्वगतपुरुषाः पृष्टाः; तैर् विस्तरेण समाख्यातं.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त राजा अजातशत्रुर् अपात्रम् अपात्रवर्षी च इति; भगवान् आह: न भिक्षव एतर्हि, राजा अजातशत्रुर् अपात्रम् अपात्रवर्षी, यथा अतीते ऽप्य् अध्वन्य् एषः अपात्रम् अपात्रवर्षी; तच् छ्रूयतां.
थे स्तोर्य् ओf अ मन्गो त्रेए
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf प्रिन्चे अजातशत्रु)
भूतपूर्वं भिक्षवः अन्यतमस्मिन्न् अग्रामके अरण्यायतने ऋषीणाम् आश्रमपदं, नानापुष्पफलसलिलसंपन्नं; तत्र ऋषयः प्रतिवसन्ति फलमूलाम्भुभक्षाः, जटावल्कलधारिणः, प्रमुक्तफलभोजिनः; यावत् तस्मिन्न् आश्रमपदे आम्रवृक्षः फलभारावनतशाखः पक्वफलस् तिष्ठति; ऋशयः फलानि याचन्ते; या तस्मिन् वृक्षे अध्युषिता देवता सा मात्सर्याभिभूता न प्रयच्छति; ततस् ते ऋषयः मूलार्थिनः एकम् ऋषिम् आश्रमपदे स्थापयित्वा भ्रान्ताः; तत्समनन्तरम् एव पंच चोरशतान्य् आश्रमपदम् अनुप्राप्तानि; तैर् असौ वृक्षो दत्तः; ते कथयन्ति: कथम् अस्मात् फलानि परिभोक्तव्यानि इति; चोरसेनापतिः कथयति: वृक्षं परशुना मूले छित्वा फलानि भक्षयत इति; एवम् उक्ते देवतया सर्वाणि फलानि भूम्यां पातितानि; चोरा यावदाप्तं भक्षयित्वा प्रक्रान्ताः; ऋषय आगताः पृच्छन्ति: केन तान्य् आम्रफलानि भक्षितानि? चोरैः; स ऋषिर् गाथां भाषते:
ददाति वृक्षो न फलं शान्तानां ब्रह्मचारिणां ।
ददाति तु फलं तेषां चोराणां पापकारिणां ॥ इति
ते पृच्छन्ति: ऋषे किम् एतत्? तेन यथावृत्तं समाख्यातं; ते अवध्यातुम् आरब्धाः; मात्सर्याभिभूतया देवतया फलानि ऋषीणां न दत्तानि; अपात्राणां चोराणां दत्तानि इति.
भगवान् आह: किं मन्यध्वे भिक्षवः यासौ देवता एष एवासव् अजातशत्रुः तेन कालेन तेन समयेन; तदाप्य् एष अजातशत्रुः देवताभूतः अपात्रम् अपात्रवर्षी च; एतर्हि अप्य् एष अपात्रम् अपात्रवर्षी च इति. ( स्ब्व् इइ 90 )
थे बुद्ध इन् राजगृह
अथ भगवान् मगधेषु जनपदेषु चारिकां चरन् राजगृहम् अनुप्राप्तः राजगृहे विहरति वेणुवने कलन्दकनिवापे; देवदत्तो राजगृहनिवासिनो जनकायस्य नित्यम् एवापराधं करोति; यस्य यस्यापराधः क्रियते, स भगवत उपालम्भं प्रेषयति; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द संघाटीम् ( अ 457ब् ) आदाय अन्यतमेन भिक्षुणा पश्चाच्छ्रमणेन राजगृहे रथ्यावीथीचत्वरशृङ्गाटकेषु ब्राह्मणगृहपतीनाम् आरोचय यद् देवदत्तो वा, देवदत्तपक्षिको वा अपराधं करोति; न तेन बुद्धो वा धर्मो वा संघो वा संबध्यते इति; यदि कथयन्ति: महर्धिको देवदत्तो महानुभावः इति, वक्तव्याः: आसीन् महर्धिकः; इदानीं परिहीणस् तस्या ऋद्धेः इति; तेन गत्वा राजगृहे नगररथ्यावीथीचत्वरशृङ्गाटकेषु ब्राह्मणगृहपतीनाम् आरोचितं, ते न भूयो भगवत उपालम्भं प्रेषयन्ति.
थे बुद्धो ग्रोwस् इल्ल्
भगवतो ग्लान्यम् उत्पन्नं; जीवकेन भगवते नाराचघृतम् उपनीतं; तत्र भगवान् जीवकं वैद्यराजम् आमन्त्रयते: आश्चर्यं जीवक? आश्चर्यं भगवन्; अद्भुतं जीवक? अद्भुतं भगवन्, जानासि जीवक? जानामि भगवन्; न जानासि जीवक; न चापि सुगत; 1) किं जीवक आश्चर्यं? भगवन् गावस् तृणानि चरन्ति; पानीयं पिबन्ति; तत इदम् अमृतं समुत्पन्नं; येनेदं नाराचघ्र्तं पक्वन्; 2) किम् अद्भुतं? भगवन् बुद्धोत्पादः, सद्धर्मस्य च देशना, संघस्य च सुप्रतिपत्तिः; 3) किं जानासि? भगवन् जातेनावश्यं मर्तव्यं; 4) किं न जानासि? भगवन् केन कुत्र मर्तव्यम् इति.
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त जीवकेन भगवतः संधाय भाषितं विज्ञातम् इति; भगवान् आह: न भिक्षव एतर्हि, यथा अतीते ऽप्य् अध्वन्य् अनेन मम संधाय भाषितं विज्ञातं; तच् छ्रूयतां. ( स्ब्व् इइ 91 )
थे स्तोर्य् ओf अ गृहपति अन्द् हिस् सोन्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf जीवक)
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति, आढ्यो महाधनो महाभोगः; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारिका जाता; तस्यास् त्रीणि सप्तकान्य् एकविंषतिदिवसान् जातायाः जातिमहं कृत्वा वलयेति नामधेयं व्यवस्थापितं; भूयो ऽप्य् अस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्यापि कुलसदृशं नामधेयं व्यवस्थापितं; स संलक्षयति: जातो मे ऋणहरो धनहरश् च; गच्छामि पण्यम् आदाय देशान्तरम् इति; भूयः स संलक्षयति: इयं मम पत्नी रूपवती; यद्य् अहम् अस्याः प्रभूतान् कार्षापणान् दत्वा गच्छामि, स्थानम् एतद् विद्यते यत् परपुरुषैः सार्धं विकरिष्यति; यन्न्व् अहम् अस्याः स्वल्पान् कार्षापणान् दत्वा गच्छेयम् इति; स तस्याः स्तोकान् कार्षापणान् दत्वा, अवशिष्टं सुवर्णकलशे प्रक्षिप्य, ग्रीवायां मुक्ताहारं बद्ध्वा श्मशाने अश्वकर्णस्य मूले निखन्य पण्यम् आदाय देशान्तरं गतः; तस्य तत्र प्रभूतो लाभः संपन्नः; स तत्रैव दारसङ्ग्रहं कृत्वा अवस्थितः; तस्य च बहवः पुत्रा जाताः; ततस् तया पूर्विकया पत्न्या वलया स च दारकः हस्तबलेन ज्ञातिबलेन च पायितौ, पोषितौ, संवर्धितौ; तौ कथयतः: अम्ब पिता अस्माकं क्व गतः? सा कथयति: पुत्र अस्मिन् देशे अमुकम् अधिष्ठानं तत्र तिष्ठति ( अ 458अ ) तस्य च महती धनसंपत्तिः श्रूयते, गच्छ यदि किंचिद् अस्योज्जीवनोपायस् ते भविष्यति इति; स पितरं समन्वेषमाणः अनुपूर्वेण तस्य सकाशं गतः; स वीथ्याम् अन्वाहिण्डमानः पित्रा मुखबिम्बकेन प्रत्यभिज्ञातः; शब्दयित्व्या अभिहितः: कुतस् त्वम् इहागच्छसि? कुत्र वा गन्तुम्? इति; तेन विस्तरेण समाख्यातं; स संलक्षयति: एष एवासौ मम पुत्रः इति; स तेन स्वगृहीतः उक्तश् च: पुत्र न ते कस्यचिद् आख्येयं, ममायं पिता इति; स तस्यात्यर्थं स्नेहं कर्तुं आरब्धः; ( स्ब्व् इइ 92 ) ततस् तैर् अन्यैः पुत्रैर् उच्यते: तात कस्यायं दारकः? स कथयति: ममायं वयस्यस्य पुत्रः इति; तैः संलक्षितं: यथायम् अस्यात्यर्थं स्नेहवान् नूनम् अस्यैव पुत्रः इति; ते परस्परं संजल्पं कर्तुम् आरब्धाः: अयम् अपरो भ्राता इति; स संलक्षयति: प्रेषयाम्य् एनं; प्रतिक्रुष्टम् एतद् वैराणां, यदुत सापत्न्यकं; स्थानम् एतद् विद्यते यद् एनं प्रघातयिष्यन्ति; यदि च किंचिद् दास्यामि अन्तर्मार्गे दायाद्यकारणाद् घातयिष्यन्ति; यन्न्व् अहम् एवं प्रेषयेयम् इति विदित्वा चीरिका लिखित्वा दत्ता:
ग्रामश्मशाने हयकर्णमूलं प्राग्भूमितो योजनम् अन्तरेण ।
तस्मिन् खनन् वै निपुणो ऽप्रमत्तो दायाद्यम् आत्मीयम् उपैष्यसि त्वं ॥
कण्ठे तु यत् तद् वलयाया देयम् इति.
स चीरिकाम् आदाय संप्रस्थितः; अन्तर्मार्गे भ्रातृभिर् गृहीतः; उक्तश् च: किं त्वया पितुः सकाशाल् लब्धं स कथयति: न किंचिद् इयं चीरिका; ते संलक्षयन्ति: व्यंशितो ऽयं पित्रा; गच्छतु इति; स तैर् मुक्तः; अनुपूर्वेण स्वगृहे प्रविष्टो मार्गश्रमं प्रतिविनोदयति; मात्रा अभिहितः: किं त्वया पितुः सकाशाल् लब्धम् इति; स कथयति: न किंचिद् अपि, किंतु इयं चीरिका; सा कथयति: व्यंशितस् त्वं तेन, मार्गश्रमश् च जातो, न किंचित् संपन्नम् इति; स कथयति: अम्ब महात्मासौ; न मां व्यंशयिष्यति इति; स तां चीरिकां वाचयितुम् आरब्धः: ग्रामेति, यत्र जायते सो ऽत्र ग्रामो ऽभिप्रेतः; श्मशानेति, यत्र मृतो ( स्ब्व् इइ 93 ) दह्यते; हयकर्णमूले इति, हया उच्यन्ते अश्वाः; तत्कर्णनामा वृक्षः; अश्वकर्णमूले इत्य् उक्तं भवति; प्राग्भूमित इति, पूर्वस्यां दिशि; योजनम् अन्तरेणेति, युगमात्रम् अन्तरेन इति; स एवं गाथार्थं विचार्य निःसंपातवेलायां श्मशानं गतः; तत्समीपे पश्यति, अश्वकर्णवृक्षः, स तस्य पूर्वे दिग्भागे युगमात्रं मापयित्वा खनितुम् आरब्धः; यावत् पश्यति सुवर्णकलशं; ग्रीवायां चास्य हारं बद्धं; स तम् आदाय आत्तमनात्तमनो गृहं गतः; मुक्ताहारं चापनीय वलयायैव दत्तवान्.
किं मन्यध्वे भिक्षवः? यो ऽसौ गृहपतिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ तस्य पुत्रः एष एवासौ जीवकः तेन कालेन तेन समयेन; तदाप्य् अनेन मम संधाय भाषितं विज्ञातं.
थे सिछ्नेस्स् ओf थे बुद्ध. थे बुद्ध हेअल्स् देवदत्त
जीवकः संलक्षयति: वज्रकायशरीरो भगवान् बृहत्कायश् च; न शक्यम् अत्यल्पेन घृतेन चिकित्सां कर्तुं; तेन पात्रं गृहीत्वा द्वात्रिंशद् घृतपलानि तुलोन्मितानि कृत्वा भगवते प्रदत्तानि; भगवता पात्रशेषं भिक्षूणां चार्यते; भिक्षवः ( अ 458ब् ) भगवतः पात्रशेषम् इति कृत्वा नमस्यन्ति.
देवदत्तः संलक्षयति: अहम् अपि घृतं पिबामीति; तेन जीवकः पृष्टः: जीवक कियति मात्रा घृतस्य श्रमणेन गौतमेन पीता? इति; स कथयति: द्वात्रिंशत् पलानि इति; स कथयति: अहम् अपि द्वात्रिंशत् पलानि पिबामि इति; जीवकः कथयति: वज्रमयशरीरो भगवान् बृहत्कायश् च; शक्नोति इयतीं मात्रां जरयितुं; त्वं पुनर् न शक्ष्यसि जरयितुम् इति; स कथयति: अहम् अपि वज्रशरीरः; किमर्थं न जरयामि? इति; तेन द्वात्रिंशत्पलिका मात्रा बलात् पीता; भगवतः सम्यक् परिणतं; देवदत्तस्य न परिणतम्; अपरस्मिन्न् एव दिवसे जीवकेन भगवतो मण्डो दत्तः; देवदत्तेन मानाद् भगवान् पिबतीति अजीर्णे एव घृते मण्डः पीतः; शूलः समुत्पन्नः; मर्मोपरोधिकी वेदना प्रादुर्भूता; स तन्निमित्तं दुःखां तीव्रां खरां कटुकाम् ( स्ब्व् इइ 94 ) अमनापां वेदनां वेदयते; न रात्रौ न दिवा निद्राम् आसादयति.
आयुष्मान् आनन्दो ज्ञातिवत्सलः; तेन स वृत्तान्तो भगवते निवेदितः; ततो भगवता गजभुजसदृशं बाहुम् अभिप्रसार्य गृध्रकूटं पर्वतं भित्वा चक्तस्वस्तिकनन्द्यावर्तेन अनेकपुण्यशतनिर्जातेन भीतानाम् आश्वासनकरं करं देवदत्तस्य स्थापयित्वा सत्योपयाचनं कृतं; येन सत्येन यथा राहुलभद्रे प्रिये एकपुत्रके चित्तम् अनूनानधिकं तथैव देवदत्ते तेन सत्येन रुजा शमं गच्छेद् इति; सत्योपयाचनकालसमनन्तरम् एव देवदत्तस्य रुजा प्रशान्ता; स नष्टोपलब्धप्राणो भगवतः पाणिं निरीक्षते; तेन संप्ररिज्ञातं; स संलक्षयति: श्रमणस्य गौतमस्य पाणिर् इति; सो ऽनल्पकल्पशाठ्यसमुदाचारमदावलेपावर्जितसन्तैः; तथापि बुद्धमाहात्म्योपशान्तरुजः कथयति: शोभनं ते सिद्धार्थ वैद्यकम् अधिगतं; शक्ष्यस्य् अनेन जीविकां कल्पयितुम् इति; सामन्तकेन शब्दो विसृतः: देवदत्तो भगवता सत्योपयाचनया प्रगाढवेदनाभिभूतः प्राणैर् वियुज्यमानः स्वस्थीकृतः इति; यं श्रुत्वा देवदत्तपक्ष्या अप्य् अत्यन्ताभिनिविष्टा भगवत्य् आश्चर्यं प्रवेदितवन्तः: अहो ऽस्य सम्यक्संपन्ना मैत्री; अहो सत्वेषु सुभाविता करुणा इति.
भिक्षुभिर् देवदत्तो ऽभिहितः: देवदत्त त्वं भगवता स्वस्थीकृतः; अन्यथा प्राणैर् वियुक्तः स्याः इति; स कथयति: जानात्य् असाव् अन्वावर्तनीं मायां, यया लोकं समन्वावर्तयति इति; भिक्षवः कथयन्ति: देवदत्त अलम् अनेन विकत्थितेन; स्वचित्तं प्रतिलभस्व; स्वस्थीकृतस् त्वं भगवता इति; स कथयति: किं मम तेन कृतं? घृते परिणते रुजा व्युपशान्ता इति.
अकृतज्ञो ऽयम् अकृतवेदी इति कृत्वा प्रक्रान्ताः; येन भगवांस् तेनोपसंक्रान्ताः; उपसंक्रम्य संशयजातः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः अकृतज्ञः अकृतवेदी; भगवान् आह: न भिक्षव एतर्हि, यथा ( अ 459अ ) अतीते ऽप्य् अध्वनि एष अकृतज्ञ अकृतवेदी; तच् छ्रूयतां. ( स्ब्व् इइ 95 )
उद्दानं:
कौशिको महेन्द्रसेन आम्राणि दारुकोटकः ।
द्वौ ऋक्षौ शिबिराजा च विदारा जुज्जुकेन च ॥
थे स्तोर्य् ओf अ सगे अन्द् ओf अन् उन्ग्रतेfउल् एलेफन्त्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन्न् अग्रामके अरण्यायतने नानाविधपुष्पफलसलिलसंपन्नम् उद्यानं; तस्मिन् कौशिकसगोत्रो ऋषिः प्रतिवसति; प्रमुक्तफलभोजी मूलफलाम्बुभक्षः अजिनवल्कलवासाः; तस्याश्रमपदसमन्तके विश्वस्ता मृगपक्षिणो यथेष्टं विहरन्ति; तस्य नातिदूरे हस्तिनी प्रसूता; तत्प्रसवसमनन्तरं सिंहेन नादो मुक्तः; सा भीता त्रस्ता कलभं परित्यज्य मूत्रपुरीषम् उत्सृजन्ती निष्पलायिता; यावद् असौ ऋषिर् आश्रमपदान् निष्क्रम्य आश्रमपदसामन्तकेन दिशो व्यवलोकयन् संपरिभ्रमितुम् आरब्धः; यावत् पश्यति तम् अभिनवजातं हस्तिकलभकं; ततो ऽसौ ऋषिः कारुण्याद् आकम्पितहृदयः तन्मातृसमन्वेषणाभिनिविष्टबुद्धिः समन्ततो व्यवलोकयितुम् आरब्धः; यदा सर्वावस्थं न पश्यति तदा तम् आदायाश्रमपदं प्रविष्टः; स तेन पुत्रवद् आपायितः पोषितः संवर्धितः; महान् संवृत्तः; तदा तस्य ऋषेर् आश्रमपदे अपराध्यते; पुष्पविटपान् उत्पाटयति; फलवृक्षान् शाखाः भिनत्ति; एतानि चान्यानि चापराधसहस्राणि करोति; स ऋषिस् तं तर्जयति; ऋषिणा सन्तर्जितः संकोचम् आपद्यते; स यदा संजातरागः संवृत्तः तदा सन्तर्ज्यमानो ऽप्य् अवज्ञां करोति; यावद् अपरेण समयेन ऋषिणा भृशं तर्जितः, तम् एव ऋषिं हन्तुं प्रधावितः; स ऋषेर् देहैकदेशं भङ्क्त्वा निष्पलायितः; देवता गाथां भाषते: ( स्ब्व् इइ 96 )
न संगतिः कापुरुषेण भद्रिक कृतघ्नसत्वेन सुदारुणेन ।
चिरानुयातो ऽपि करोति पापिकं नागो यथैवाश्रमकौशिकस्य ॥ इति
किम् आदराद् दुर्जनं सेवसे त्वम् अन्नेन पानेन तथोभयेन ।
अवश्यम् अन्ते स निहन्ति मित्रं नागो यथैवाश्रमकौशिकस्य ॥ इति
भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ ऋषिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ हस्तिनागः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञ अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी, तच् छ्रूयतां.
थे स्तोर्य् ओf महेन्द्रसेन
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवः अतीते ऽध्वनि वाराणस्यां नगर्यां महेन्द्रसेन नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; तस्य चन्द्रप्रभा नाम देवी सत्यस्वप्ना; यत् किंचित् स्वप्ने पश्यति सर्वं तत् तथैव भवति; तस्य च राज्ञो विजिते सुवर्णपार्श्वो नाम बोधिसत्वः मृगेषूपपन्नो मृगाणाम् अधिपतिः; सो ऽचिन्तनीयरूपप्रभावयोगात् सर्वलोकमनोनयनप्रह्लादनकरः, प्रार्थनीयश् च; यस् तं पश्यति स निरीक्षमानस् तत्रैव तिष्ठति; सो ऽत्यर्थम् अभिवीक्ष्यमानः शङ्की संवृत्तः; स लुब्धकभयाद् अन्यलोकभयाच् च भीतश् चरति; धर्मता ह्य् एषा अचिरव्यतिवृत्ते लोकसन्निवेशे तिर्यञ्चो ऽपि वाक्प्रव्याहरणसमर्था भवन्ति; अथान्यतरः काकस् ( अ 459ब् ) तस्य समीपम् उपसंक्रान्तः; स तेन सार्धं प्रेमप्रणयसौख्यः कथयति: भो मातुल कस्मात् त्वम् एवं भीतभीतश् चरसि? इति; स कथयति: भागिनेय ममेदं रूपं सर्वलोकशुभं संप्रार्थनीयं च; सो ऽहं लोकभयाल् लुब्धकभयाच् च भीतभीतश् ( स्ब्व् इइ 97 ) चरामि इति; स कथयति: ममाप्य् अतीवोलूकभयं; तद् अन्योन्यं रक्षां कुर्वः; अहं त्वां दिवा रक्षामि; त्वं मां रात्रौ रक्ष इति; ताव् एवं कृतमर्यादौ व्यवस्थितौ; यावद् अन्यतमः पुरुषो द्विषद्भिः पश्चाद्बाहुगाढबन्धनबद्धो नवाम्बुपूर्णायां हेमलोह्यां हेममालिन्यां शीघ्रस्रोतसि नद्यां प्रक्षिप्तः; तत्र उह्यमान आर्तस्वरं विललाप: पर्यदेवत:
भवामि कस्य दासो ऽहं कस्य वा परिचारकः ।
यो मे ऽद्य जीवितं दद्याद् यल् लोकेषु सुदुर्लभम् ॥ इति;
दैवाद् असौ मृगाधिपतिः सलिलाशयात् मृगगणपरिवृतो नदीसमीपम् उपसंक्रान्तः; ततः पुरुषविरावं श्रुत्वा ते मृगाः समन्ताद् विद्रुताः; धर्मता ह्य् एषा बोधिसत्वानां यद् अपि कायेन विनिपतन्ति, नो तु चित्तेन; ततः स मृगाधिपतिः कारुण्याद् आम्रेडितहृदयः सहसा नदीम् अवतर्तुम् आरब्धः; काकश् चास्य पूर्वमर्यादावधृतमतिः पृष्ठतः अनुबद्ध एव संरक्षणाय; स तं पुरुषं कृतोद्धरणव्यवसायं विदित्वा एवम् आह: अलम् अलं मृगाधिपते; मा साहसं कार्षीः; अकृतज्ञा ह्य् एते मनुष्याः नोपकारं मन्यन्ते इति; अनिवर्तका भवन्ति बोधिसत्वा महासत्वाः; स तस्य वचनम् अवचनं कृत्वा नदीम् अवगाह्य तं पुरुषं प्रियम् इवैकपुत्रं पृष्ठम् अभिरोह्य, नद्यास् तीरं संप्राप्य, बन्धनान्य् अवमुच्य, मुहूर्तं समाश्वास्य, कथयति: वत्स अनेन पथा यथेष्टं गच्छ इति; ततो ऽसौ पुरुषः कृतांजलिः पादयोर् निपत्य तं मृगाधिपतिम् इदम् अवोचत्:
तव दासो ह्य् अहं तात तवैव परिचारकः ।
त्वया मे जीवितं दत्तं यल् लोकेषु सुदुर्लभम् ॥ इति
स कथयति
म मे त्वम् अद्य दासः स्याः मा चैव परिचारकः ।
न वाच्यस् त्व् अहम् अन्येभ्यो हन्युर् मां चर्मकारणात् ॥
अपि तु वत्स इदं त्वया कर्तव्यं; कृते प्रत्युपकारात् नाहं त्वया कस्यचिन् निवेद्यः; अतिलोभनीयम् इदं मे शरीरं प्रार्थनीयं सर्वलोकस्य इति; ततस् स पुरुष तथेति प्रतिज्ञाय मृगाधिपतिं ( स्ब्व् इइ 98 ) त्रिः प्रदक्षिणीकृत्य पादयोर् निपत्य प्रक्रान्तः; यावद् अपरेण समयेन चन्द्रप्रभा देवी रतिपरिखेदखिन्ना महाशयने अत्यर्थं मिद्धम् अवक्रान्ता रात्र्याः पश्चिमे यामे स्वप्नम् अद्राक्षीद् अतिपरमरमणीयशरीरं मृगाधिपतिं सिंहासने निषद्य महत्यां राजपर्षदि धर्मं देशयन्तं; दृष्ट्वा च पुनः प्रत्यक्षवत् स्वप्नदर्शनसंजनितसौमनस्या लघु लघ्व् एव महाशयनाद् उत्थाय राज्ञो निवेदितवती; श्रुत्वा राजा तस्याः सत्यस्वप्नायाः परं विस्मयम् आपन्नः: अनिष्टगत्युपपन्नेन सता कथं नाम सिंहासने निषद्य महत्यां राजपर्षदि धर्मो देशयितव्यः इति; ततश् चन्द्रप्रभा देवी प्रियमधुरचातुर्यकथासमुदाचारयोगेन मुहूर्तं राजानम् उपलाड्य कथयति: देव क्रियतां यत्नः तस्य मृगस्यानयनाय इति; ततो राज्ञा अमात्यानाम् ( अ 460अ ) आज्ञा दत्ता: भवन्तो यावन्तो मद्विषयनिवासिनो मृगलुब्धकास् तिष्ठन्ति ते सर्वे मत्सकाशम् उपनेयाः इति; अमात्यैः प्रतिप्रतिविषयेषु राजपुरुषाणाम् आज्ञा दत्ता: देवः समाज्ञापयति मद्विषयनिवासिभिर् मृगलुब्धकैर् इहागन्तव्यम् इति; तद् युष्माभिः सर्वमृगलुब्धका इह प्रेषयितव्याः इति; तैः सर्वे विषयनिवासिनो मृगलुब्धका राज्ञः सकाशं प्रेषिताः; अमात्यै रज्ञे उपनीताः; राजा कथयति: भवन्तो श्रुतं मया मद्विजिते परमरमणीयरूपविग्रहो मृगो ऽस्तीति; स युष्माभिर् मृदुशिथिलबन्धनोपनिबद्धो मत्सकाशम् अखेदित उपनेयः इति; ते कथयन्ति: देव वयं तज्जीविन एव; इयता कालेन देवस्य विजिते पर्यटद्भिर् न कदाचिद् एवंविधो मृगवरः श्रुतपूर्वः; किमुत दृष्टः तम् अर्हति देवः श्रवपरम्परया समन्वेष्य अमुष्मिन् देशे तिष्ठतीति; अस्माकम् आज्ञातुम्; एवं देवस्य वयं नियतम् आज्ञां संपादयामः इति; ततो राज्ञा अमात्यानाम् आज्ञा दत्ता: भवन्तो वाराणस्यां घण्टावघोषणं कारयत समाज्ञापयति देवः; अतिरमणीयविग्रहो मृगाधिपतिर् अस्ति; यो मे तस्य प्रवृत्तिं निवेदयति तम् अहं महता सत्कारेण सत्करोमि; पंच चास्मै ग्रामवरान् प्रयच्छामि इति; अमात्यै राज्ञः प्रतिश्रुत्य वाराणस्यां घण्टावघोषणं कारितं: शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौरा नानादेशाभ्यागताश् च जनाः; देव एवं समाज्ञापयति मद्विजिते अतिपरमरमणीयविग्रहो मृगाधिपतिर् अस्ति; यो मे तस्य प्रवृत्तिं निवेदयति तम् अहं महता सत्कारेण सत्करोमि; पंच चास्मै ग्रामवरान् प्रयच्छामि इति; ततस् तद्दर्शिनः पुरुषस्य एतद् अभवत्: किं तावत् कुटुम्बम् अनुपालयामि, आहोस्वित् कृतज्ञताम्? इति; कामान् खलु प्रतिसेवमानस्य ( स्ब्व् इइ 99 ) नास्ति किंचित् पापकं कर्म अकरणीयम् इति स कामनिदानोत्थेन द्वेषवह्नितीव्रेण सन्तापितहृदयः संलक्षय्ति: तिष्ठतु कृतज्ञता; शत्रोर् वैरनिर्यातनाय समुपस्थितः कालः; किं मया पुनस् तादृशी अवस्था प्रापयितव्या? तस्य तावद् वैरनिर्यातनं करोमि इति; स प्रभातायां रजन्यां राज्ञः पर्षदि सन्निषण्णस्य राजकार्यम् अधितिष्ठतः, अनिवारिते राजकुलद्वारे नानाविचित्रसुरभिपुष्पाण्य् आदाय दौवारिकामात्यपरंपरया राजानं संश्राव्य पर्षदम् अभ्यवगाह्य सत्कारविधिपूर्वकेण राज्ञो निवेदितयति: अमुष्मिन् देशे नानातरुषण्डमण्डिते विश्वस्तमृगपक्षिणि सुवर्णपार्श्वो मृगाधिपतिर् अनेकमृगगणपरिवृतस् तिष्ठति; अहं तं देवस्य अतिरमणीयविग्रहं मृगवरम् उपदर्शयामि इति; ततो राजा तच्छ्रवणसंजनितसौमनस्यः अनेकामात्यशतसहस्रपरिवृतः कुतूहलजातेनान्येन नानादेशाभ्यागतेन वाराणसीनिवासिना च पौरजानपदेन संपुरस्कृतः, देशितमार्गस् तेन पुरुषेण, अनुपूर्वेण तं प्रदेशम् अनुप्राप्तः; यावद् असौ काकः बोधिसत्वस्य कृतावधिः दिशाम् अवलोककः तस्मिन् वनषण्डवृक्षशिखरे निषण्णः; यावत् पश्यति वनषण्डाभिमुखं ( अ 460ब् ) महाजनकायं; त्वरितत्वरितं मृगाधिपतेः सकाशम् उपसंक्रम्य कथयति; मृगराज मया त्वं पूर्वम् उक्तः अकृतज्ञा मनुष्याः, अकृतवेदिनः, नोपकारं मन्यते इति; अयं स पुरुषो महता प्राभृतेनागतः इति; तच्छब्दप्रतिसंवेदिनो मृगा भीताः समन्ताद् प्रद्रुताः; मृगाधिपतिर् बोधिसत्वः संलक्षयति: यद्य् अहम् एतान् न रक्षिष्यामि, अद्यैव निधनम् उपयास्यन्ति; कामं स्वप्राणविनाशो न तु सत्वाध्युपेक्षणम् इति विदित्वा राजानं प्रत्युद्गतः; ततः स पुरुषो निर्घृणहृदयस् त्यक्तपरलोको मृगदर्शनाद् आवर्जितमतिस् तं मृगवरम् उभाभ्यां पाणिभ्याम् उपदर्शयन्न् आह: देव अयं स मृगाधिपतिर् इति; अत्युदीर्णपरिपूर्णानि हि कर्माणि न विपाककालम् अपेक्षन्ते; वाक्प्रव्याहरणकालसमनन्तरम् एव तस्य पुरुषस्य उभौ पाणी पृथिव्यां निपतितौ;
ततः स राजा संवेगजातस् तं पुरुषं पृष्टवान्: भोः पुरुष किम् इदम्? इति; स दुःखवेदनाभ्याहतः सगद्गदं गाथां भाषते:
नासौ चोरो महाराज हरत्य् अर्थं निहत्य यः ।
स तु चोरो महाराज यस्य नास्ति कृतज्ञता ॥ ( स्ब्व् इइ 100 )
राजा कथयति: को ऽस्य भाषितस्यार्थः? इति; तेन सर्वं यथाविस्तरेण समाख्यातं; ततो राजा अकृतज्ञपुरुषं गाथया प्रत्याभाषत:
कथं पृथिव्यां न निमज्जसे ऽधमः
कथं न जिह्वा शतधा विदीर्यते ।
कथं न वज्राशनिशक्तितोमरैस्
तवेह गात्रे प्रहरन्ति गुह्यकाः ॥ इति
ततो राजा बोधिसत्वस्य तां प्रभावमहत्तां ज्ञात्वा अमात्यान् आमन्त्रयते: सत्कारार्थो ऽयं मृगाधिपतिर् महात्मा; गच्छत; नगरशोभां मार्गशोभां च कारयत इति; तैस् तन्नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितं, चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धम् उच्छृतध्वजपताकम् आमुक्तपट्टादामकलापं नानापुष्पावकीर्णं रमणीयं, देवानाम् इव नन्दनवनोद्यानम्; एवं मार्गशोभा कारिता; वाराणसीनिवसी जनकायः मल्योपहारशोभाम् आदाय प्रत्युद्गतः; ततो राज्ञा असाव् अतिरमणीयविग्रहो मृगाधिपतिर् महत्या विभूत्या वाराणसीं नगरीं प्रवेश्य सिंहासने निषादितः; ततो महत्या राजऋद्ध्या महता राजानुभावेन राजा सान्तःपुरकुमारामात्यपौरजानपदैस् परिवार्य निषण्णः; अथ मृगाधिपतिबोधिसत्वेन समन्तात् तां पर्षदम् अवलोक्य राज्ञस् तस्याश् च पर्षदस् तथाविधो धर्मो देशितः, यं श्रुत्वा राज्ञा सपरिवारेण पंचशिक्षापदानि गृहीतानि; अनेकैश् च सत्वैः कुशलमूलान्य् आसादितानि; ततो राज्ञा सदा बोधिसत्वमृगेभ्यो ऽभयं दत्तं; सर्वप्राणिभूतेष्व् अभयं दत्तं.
किं मन्यध्वे भिक्षवः? यो ऽसौ सुवर्णपार्श्वो मृगाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ पुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथा देवदत्तः अकृतज्ञ अकृतवेदी तच् छ्रूयतां.
थे स्तोर्य् ओf अ लोर्द् ओf मोन्केय्स् अन्द् ओf अ मकेर् ओf गर्लन्द्स्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके मालाकारः प्रतिवसति; ( अ 461अ ) तत्र नद्याः पारे पुष्पवाटिका; स दिवा दिवसम् एव नदीपुष्पाण्य् ( स्ब्व् इइ 101 ) उच्चिनोति; यावद् अपरेण समयेन नदीम् उत्तरता आम्रफलम् उह्यमानम् अनार्तवं दृष्टं; तेन गृहीत्वा दौवारिकाय दत्तं; दौवारिकेण प्रतीहाराय; प्रतीहारेण राज्ञे; राज्ञा देव्यै; देव्या तद् आस्वादितम्; आस्वाद्य रसाभिगृद्धया राजा विज्ञप्तः: देव ईदृशान्य् आम्रफलानि दातुम् अर्हसि इति; राज्ञा प्रतीहारः पृष्टः: कुतस् तवाम्रफलानि? इति; स कथयति: दौवारिकेण दत्तम् इति; दौवारिकः पृष्टः; स कथयति: मालाकारेण दत्तम् इति; राजा कथयति: भवन्त अआहूयतां मालाकारः इति; राजपुरुषैर् आहूतः; राजा कथयति: मालाकार कुतस् त्वया आम्रफलं लब्धं? तेन यथावृत्तं समाख्यातं; राज्ञा तस्यैवाज्ञा दत्ता: गच्छ, तादृशान्य् आम्रफलान्य् आनय इति; अकोप्या नराधिपाणाम् आज्ञा; स शङ्कापरिहतहृदयः आम्राणि समन्वेष्टुम् आरब्धः; तेन पूर्वकाम्रफलानुसारेण सम्बलम् आदाय गच्छता पर्वतैकदेशे स आम्रवृक्षो दृष्टः; स मर्कटानां गम्यो, न मनुष्याणां; ततः स मालाकारस् तं वृक्षम् इतश् चामुतश् च निरीक्षते सम्धिरोढुं; स प्रपाताभिवृद्धत्वाद् अगम्यो मनुष्याणां; तस्य् तत्र आम्रफलाशयाद् बहवो दिवसा अतिक्रान्ताः; पथ्यदनं परिक्षीणं; स संलक्षयति: एवम् अहं पथ्यदनविरहात् प्राणाइर् वियोक्ष्ये; यथा वा तथा वा अधिरुहामि इति; स पाषाणन् अवलम्ब्य अवलम्ब्य अधिरोढुम् आरब्धः; अप्राप्यैव आम्रफलानि गर्तायां पतितः; तस्मिंश् च पर्वते वानरभूतो बोधिसत्वो वानराणाम् अधिपतिर् बभूव; दैवाद् असौ तस्मिन् पर्वते यूथम् अपहाय तं प्रदेशम् अनुप्राप्तः; यावत् तेनासौ मालाकारः कृच्छ्रसङ्कटसंबाधप्राप्तो दृष्टः; कुशला भवन्ति बोधिसत्वाः तेषु तेषु शिल्पस्थानकर्मस्थानेषु; स तस्य हिताधानतत्परतया न शक्यते क्रमम् अन्तरेण उद्धर्तुम् इति पाषाणैर् अभ्यासं कर्तुम् आरब्धः; यदास्य परिविदितः शक्नोम्य् अहम् एनम् उद्धर्तुम् इति तदा स तेन प्रपातात् क्रमेणोद्धृतः; पाषाणव्यायामात् तस्य च मालाकारस्योद्धरणाद् अतीव परिश्रान्तः; तस्मिंश् च समये तिर्यञ्चो मानुषप्रलापिनः; तेनासु पृष्टः; किमर्थं त्वम् एवंविधं सङ्कटम् आपन्नः? इति; तेन यथावृत्तं समाख्यातं; बोधिसत्वः संलक्षयति: गतो ( स्ब्व् इइ 102 ) ऽप्य् अयम् आम्रफलैर् विना अनर्थं प्राप्नोति; ददाम्य् अहम् अस्मै आम्रफलानि इति; अनिक्षिप्तोत्साहः स महात्मा परहिताधानतत्परः परिश्रान्तो ऽपि तं वृक्षम् अधिरुह्य आम्रफलानि पातयितुम् आरब्धः; तेन पुरुषेण यावदाप्तम् आम्रफलानि भक्षितानि; उत्संगं च पूरितं; तदासौ वानराधिपतिर् अवतीर्णः; सर्वसत्वविश्वासिनो बोधिसत्वाः; स तं पुरुषम् उवाच: भोः पुरुष दिगवलोकनं तावत् कुरु; परिश्रान्तो ऽस्मि; मुहूर्तं स्वपामि इति; स कथयति: एवं कुरुष्व; स मिद्धम् अवक्रान्तः; पुरुषः संलक्षयति: क्षीणपथ्यदनो ऽहं यद्य् आम्रफलं भक्षयन् गमिष्यामि राज्ञः किं मया देयं? ( अ 461ब् ) तस्माद् एतम् एव वानरं हत्वा शुण्डीवल्लूरकाणि कृत्वा मार्गं गच्छामि इति; तेनासौ निर्घृणहृदयेन त्यक्तपरलोकेन महत्या शिलया जीविताद् व्यपरोपितः; देवता गाथां भाषते:
उपकारलक्षणं प्राहुर् मित्रं तथोपकारज्ञम् ।
एकत्यास् तु मनुष्याः कृतम् उपकारं न जानन्ति ॥
किं मन्यध्वे भिक्षवः? यो ऽसौ मर्कटाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ मालाकरः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.
थे स्तोर्य् ओf अ लोर्द् ओf अ दारुकोटक बिर्द् अन्द् अ लिओन्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन्न् अग्रामके अरण्यायतने पर्वतगिरिगुहाप्रवणे पुष्पफलसमृद्धे पक्षिषूपपन्नो दारुकोटको बभूव; तस्मिन्न् एव च पर्वतैकदेशे सिंहो मृगराजः यथेष्टप्रचारविहारतया मृगान् प्रघात्य प्रघात्य भक्षयति; तस्यापरेण समयेन मांसं भक्षयतः अस्थि दन्तान्तरेण प्रविष्टं; स शूलरुजोपरुद्ध्यमानविग्रहो ( स्ब्व् इइ 103 ) विगतत्रासभयो ऽपि काहलीभूतः; आहारम् आहर्तुं न शक्नोतो; दैवात् स दारुकोटको वृक्षान्तरसञ्चाराभ्यासाद् यस्मिन् प्रदेशे मृगाधिपतिस् तं प्रदेशम् अनुप्राप्तः; तेन असौ सिंहो दुःखवेदनाभ्याहतो दृष्टः; उक्तश् च: मातुल किम् असि काहलः? इति? स कथयति: भागिनेय दुःखवेदनाभ्याहतो ऽस्मि; कीदृशं तव दुःखं? तेन विस्तरेण समाख्यातं; स कथयति: मातुल अहं तव चिकित्सां करोमि; त्वं हि सर्वचतुष्पदाम् अधिपतिः; शक्तः सर्वोपकारं कर्तुं; तत् त्वया मम कालेन कालं योगोद्वहनं कर्तव्यं; स कथयति: एवं भवतु; करिष्यामि इति; स दारुकोटकः संलक्षयति: तथास्य चिकित्सां करोमि यथा कृतम् अपि न जानीते; स्वस्थस् तु संजानीते; स तस्याचारविहारसमन्वेषणया हिताधानतत्परस् तिष्ठति; यावद् असौ मृगाधिपतिः सुखवायुसंस्पर्शविष्कम्भितास्यो महत्यां पृथिवीशिलायां वामपार्श्वं शिरस्य् आधाय मिद्धम् अवक्रान्तः; ततो ऽसौ दारुकोटकस् तस्य मृगाधिपतेस् समीपम् उपसंक्रान्तः; पश्यति तथा तथा विप्रलम्भविहारिणं; स संलक्षयति: अयं स कालो ऽस्य चिकित्सायाः; इति विदित्वा सुपरीक्षितं कृत्वा दन्तानतरविलग्नम् अस्थि पक्षनिपातक्रमेण सहसा अपकृष्य मुखविवरान् निष्क्रम्य तम् एव निरीक्षमाणो वृक्षे ऽवस्थितः निषण्णः; ततः स मृगाधिपतिर् अस्थिशल्यापहारसंजनितसौमनस्यो निद्राक्लमं प्रतिविनोद्य उत्थाय प्रक्रान्तः; अथासौ दारुकोटकः तं मृगाधिपतिं व्यपगतदुःखदौर्मनस्यं विदित्वा प्रमुदितमनास् तत्समीपम् उपसंक्रम्य कथयति: मातुल इदं तद् अस्थि तव दुःखनिमित्तभूतम् इति; ततो ऽसौ मृगाधिपतिः परं विस्मयम् आपन्नः कथयति: भागिनेय अस्योपकारस्य मया तवावश्यं प्रत्युपकारः कर्तव्यः कालेन कालम् उपसंक्रमेथाः इति; शोभनम् एव तथा भवतु इत्य् उक्त्वा स दारुकोटकः प्रक्रान्तः; यावद् अपरेण समयेन स ( अ 462अ ) मृगाधिपतिर् मांसं भक्षयति; स च दारुकोटकः श्येनकस्य पक्षिणः क्रमान्तरपरिभ्रष्टः, मृतम् इव आत्मानं मन्यमानः क्षुधापरिगतहृदयः तस्य मृगाधिपतेः सकाशम् उपसंक्रान्तः आर्तिनिवेदनं कृत्वा कथयति: मातुल क्षुधाभिभूतो ऽहं; मांसस्तोकं ( स्ब्व् इइ 104 ) प्रयच्छ इति; स गाथां भाषते:
प्राणातिपातिनो मे ऽद्य रौद्रस्याशुभकारिणः ।
दंष्ट्रान्तरालसक्तस् त्वं जीवन् न बहुमन्यसे ॥ इति
सो ऽपि गाथां भाषते:
नष्टं समुद्रपतितं नष्टं स्वप्ने विचिन्तितम् ।
नष्टं कापुरुषे सेवा अकृतज्ञे च यत् कृतम् ॥ इति
भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ दारुकोटकः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ सिंहो मृगराजः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.
थे स्तोर्य् ओf अ लोर्द् ओf अ बेअर् अन्द् अ पोओर् मन्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो वाराणास्यां नगर्याम् अन्यतमो दरिद्रपुरुषः प्रतिवसति; स काष्ठानि विक्रीय जीविकां कल्पयति: सो ऽपरेण समयेन काल्यम् एवोत्थाय परशुम् आभङ्गीम् आदाय काष्ठार्थी वनं गतः; महांश् चाकालमेघो जलमुचमारुतपूर्वरूपः समागतः; ततः स पुरुषः युक्तं वायुक्तं वा इदम् इति स्थानान्तरसमन्वेषणया वृक्षाद् वृक्षान्तरं गच्छति; तथाप्य् अतिवृष्यत एव; स वृक्षान्तरचारतया अनुपूर्वेण पर्वतगुहां प्रविष्टः; तस्यां च गुहायाम् ऋक्षस् तिष्ठति; स तं दृष्ट्वा सन्त्रस्तो निष्पलायितुम् आरब्धः; ऋक्षः कथयति: वत्स किं त्रस्तो ऽसि; नास्ति ते मत्सकाशाद् भयं; तिष्ठ इति; स जातशङ्को ऽपि साध्वसान् न शक्नोति गन्तुं; ततस् तेन ऋक्षेण बाहुभ्याम् उपगृह्य धारितः; मूलफलैश् च सन्तर्पितः; सप्ताहदुर्दिनं च संवृत्तं; वर्षत्य् एव देवः, न तिष्ठति; सप्ताहस्यात्ययाद् अष्टमे दिवसे व्यभ्रे दिने विगतबलाहके देवे ऋक्षेण चतुर्दिशं व्यवलोक्य प्रभूतानि मूलफलानि दत्वा स पुरुषः अभिहितः: वत्स अपेतं दुर्दिनं; व्य्भ्रं दिनं; विगतबलाहको देवः; यथासुखं गच्छ इति; स पुरुषः पादयोर् निपत्य कथयति: तात गच्छामि; अपि तु मया तव प्रत्युपकारः कर्तव्यः इति; स कथयति ( स्ब्व् इइ 105 ) वत्स एतद् एव मे कृतं, यथा मां न कस्यचिन् निवेदयसि इति; स कथयति: तात एवं भवतु उतु; स तं प्रदक्षिणीकृत्य पादयोर् निपत्य प्रक्रान्तः; स च वाराणसीं प्रविशति; अन्यतमश् च मृगलुब्धको मृगवधाय निर्गच्छति; स तेन दृष्टः उक्तश् च: मित्र त्वम् इयता कालेन इहागतः; पुत्रदारं ते विक्लवीभूतम्; अतीव विरौति: त्वं किलाकालसाप्ताहिकमेघेन श्वापदेन वा प्रघातितः इति; अनेके मृगपक्षिनः साप्ताहिकाकालमेघेन प्रघातिताः; त्वं पुनः कथं परिभ्रष्टः? इति; तेन यथावृतं सर्वम् आरोचितं; स कथयति: वयस्य कामं येन वा तेन वा जीविकं कल्पयामि, न भूयो वनं प्रविशामि इति; स तेन तथा तथा प्रतिलोभितो मांसप्रत्यंशद्वयेन यथा प्रतिपन्नो मार्गम् उपदर्शयन् संप्रस्थितः; यावद् अनुपूर्वेण ( अ 462ब् ) गुहाम् अनुप्राप्तः यत्रासौ महात्मा ऋक्षस् तिष्ठति; ततो नैर्घृण्यम् आस्थाय अकृतज्ञतां च कथयति: एषा गुहा यत्रासौ तिष्ठति इति; ततस् तेन लुब्धेन परप्राणोपरोधिना गुहायाम् अग्निर् दत्तः; अथ स महात्मा ऋक्षो धूमव्याकुलीकृतमना अश्रुपर्याकुलेषणो गाथां भाषते:
कस्य किं व्यपनीतं मे वसता गिरिगह्वरे ।
फलमूलाम्बुभक्षेण सत्वेषु हितबुद्धिना ॥
इदानीं किं करिष्यामि मृत्युकाल उपस्थिते ।
कर्म त्व् अनुप्रसर्तव्यम् इष्टानिष्टं शरीरिणाम् ॥
इत्य् उक्त्वा कालगतः; ततस् तैर् विशस्यमांसस्य भागान् कृत्वा स कृतघ्नपुरुषो ऽभिहितः: गृहाण मांसस्य प्रत्यंशद्वयम् इति; तेन हस्तौ प्रसारितौ ग्रहीष्यामीति; पृथिव्यां निपतितौ; ततस् तेन मृगलुब्धकेन तं तथा विप्रकृतं दृष्ट्वा हा कष्टं हा कष्टम् इत्य् उक्त्वा स्वकान् अपि प्रत्यंशान् परित्यज्य प्रक्रान्तम्; एतद् अत्यद्भुतं श्रुत्वा महाजनकायस् तस्मिन् प्रदेशे सन्निपतितः; राजा ब्रह्मदत्तः कुतूहलजातस् तत्रैव गतः; तस्मिंश् च पर्वतैकदेशे संघारमः; ततो राजा ब्रह्मदत्तस् तस्य चर्म गृहीत्व विस्मयोत्फुल्ललोचनः ( स्ब्व् इइ 106 ) एतम् अर्थं भिक्षुसंघाय निवेदयामीति तं संघारामं गतः; चर्म पुष्करिण्यां स्थापयित्वा वृद्धान्ते निषण्णः संघस्यैतम् अर्थं विस्तरेण रोचयति; तत्र च संघस्थविर अर्हन्; स गाथया राज्ञः कथयति:
नैष ऋक्षो महाराज बोधिसत्व द्युतिंधरः ।
पूजनीयस् त्रिभिर् लोकैः त्वयाप्य् एष नरोत्तम ॥ इति
राजा संलक्षयति: कर्तव्यास्य पूजेति; भिक्षवः कथयन्ति: देव भद्रकल्पिको ऽयं बोधिसत्वः; संविधातव्यास्य पूजा इति; ततो राजा ब्रह्मदत्तः सान्तःपुरकुमारामात्यपौरजानपदः सर्वगन्धकाष्ठान्य् आदाय तं प्रदेशम् अभिगतः; सर्वं तन् मांसम् अस्थि कलेबरं च एकध्ये कारयित्वा कथयति: भवन्तः सर्वगन्धकाष्ठैश् चितां चित्वा महता सत्कारेण ध्यापयत इति; तस्मिंश् च प्रदेशे महान् स्तूपः प्रतिष्ठापितः; छत्रध्वजपताकाश् च रोपिताः; महश् च प्रस्थापितम् –एद्. प्रतिस्थापितम्–; यैश् च तत्र काराः कृताः ते सर्वे मोक्षपरायणाः संवृत्ताः.
किं मन्यध्वे भिक्षवः? यो ऽसौ ऋक्षः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसाव् अकृतज्ञः पुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.
अनोथेर् स्तोर्य् ओf अ बेअर् ओf अ पोओर् मन्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो वाराणास्यां नगर्याम् अन्यतमो दरिद्रपुरुषः प्रतिवसति; स काष्ठानि विक्रीय जीविकां कल्पयति: सो ऽपरेण समयेन काल्यम् एवोत्थाय परशुम् आभङ्गीम् आदाय काष्ठार्थी वनं गतः; तत्पर्वतप्रदेशे विविधतरुषण्डमण्डिते नानापुष्पफलसमृद्धे अनियतराश्यवस्थितो बोधिसत्वः ऋक्षेषूपपन्नः; यावद् असौ काष्ठहारकः काष्ठानि पर्येषमाणः अन्यतमस्मिन् प्रदेशे व्याघ्रेणाभिद्रुतः; मरणभयभीतो दैवात् तं ( स्ब्व् इइ 107 ) वृक्षम् अभिरूढो यस्मिन्वृक्षे स ऋक्षो बोधिसत्वस् तिष्ठति; स तं दृष्ट्वा भूयः सन्त्रस्तः; तेन महात्मना समाश्वास्य उत्सङ्गेन धारितः; स च व्याघ्र आहारगृद्धस् तं वृक्षतलं नैव मुञ्चति; कथयति ( अ 463अ ) च: भो महात्मन्न् एते मनुष्याः कृष्णशिरसः अकृतज्ञाः भवन्ति; पातयैनं; भक्षयित्वा गच्छामि इति; प्रायः शरणागतवत्सला अन्य ऽपि मनुष्याः; प्रागेव बोधिसत्वाः; स कथयति: ममायं शरणागतः; नाहम् एतं पातयामि इति; तथाप्य् असौ व्याघ्रः मांसशोणिताभिलाषी तिष्ठत्य् एव; न तस्माद् विप्रक्रामति; अथासौ ऋक्षस् तं पुरुषम् आह: श्रान्तो ऽहं; त्वं तावत् तिष्ठ; अहं विश्रमामि इति; स तस्योत्सङ्गनिषण्णः श्रमखेदितपरिष्रान्तश् च मिद्धम् अवक्रान्तः; स व्याह्ग्रः कथयति: भोः पुरुष कियन्तं कालं त्वयात्र स्थातव्यं? पातयैनं; भक्षयित्वा गमिष्यामि: इति; स निर्घृणहृदयः पापकर्मा त्यक्तपरलोकः संलक्षयति: शोभनम् एष कथयति; कियन्तं कालं मयात्र स्थातव्यं? पातयामि इति; स तेन पातितः; तेन महात्मना पतताभिहितं हा नै वा ते हा किं चित् दुस् से मि इत्य् उक्त्वा पतितः; व्याघ्रेणानयेन व्यसनम् आपादितः; स तस्य संधाय भाषितं श्रुत्वा संलक्षयति: ममायं केनचित् संविभागं कर्तुकामः, येनैवं कथयति इति; तस्य तृष्णान्धस्य प्रलापो लग्नः; क्षिप्तचित्तस् तेन तेनान्वाहिण्डन्न् एवम् आह: हा नै वा ते हा किं चित् दुस् से मि इति; स ज्ञातिभिर् गृहं नीतः; प्रलपत्य् एव न सन्तिष्ठते; ते विद्यामन्त्रधारिणो भूतचिकित्सकान् अन्यांश् च श्रमणब्राह्मणान् सुहृत्सम्बन्धिबान्धवान् पृच्छति; ते बहुधा कथयन्ति; न कश्चित् चिकित्सां करोति; तेन खलु समयेन वाराणस्यां नातिदूरे आश्रमपदे विविधतरुषण्डमण्डिते पुष्पफलसलिलसंपन्ने अनेकविहगनिकूजिते ऋषिः पंचाभिज्ञः प्रतिवसति; तस्य पुरुषस्य ज्ञातयस् तं पुरुषन् आदाय तस्य ऋषेः सकाशं गताः पादयोर् निपत्य कथयन्ति: महर्षे अयम् अस्माकं ज्ञातिः; मुहुर् मुहुर् एवं प्रलपति; किम् अस्य कर्तव्यम् इति; पापकारी अयं सत्वः; अनेन दुरात्मना कृतोपकारी बोधिसत्वो व्याघ्रस्य पुरस्तात् पातितः; तेन महात्मना चिन्तितम् अस्मै धर्मं देशयामि इति; सो ऽनेन पातितः; तस्य पततो भ्रान्तस्य दशानां श्लोकानाम् एकैकम् अक्षरं प्रतिभातं हा नै वा ते हा किं चित् दुस् से मि इति; तस्य ऋषेः शिष्यः ( स्ब्व् इइ 108 ) कथयति: उपाध्याय कथयस्व तावत् कीदृशस् ते श्लोकाः इति; स ऋषिर् अनुपूर्वेण तान् श्लोकान् कथयितुम् आरब्धः:
हा काष्टं बत लोके ऽस्मिन् अधर्मः खलु दारुणः ।
असत्य् एषु मनुष्येषु हिंसा मित्रेषु विद्यते ॥ 1 ॥
नैवासने न शयने नापि चैव च चङ्क्रमे ।
न कस्यांचिद् अवस्थायां मित्रद्रुक् सुखम् एधते ॥ 2 ॥
वाणी ते करुणार्त्तेन तता या चैव भाषिता ।
सा त्वां दहति दुर्बुद्धे खाण्डवं ज्वलितं यथा ॥ 3 ॥
तेन हि त्वं परे लोके ऽनुभविष्यसि वेदनाम् ॥
असातां दुःखसंस्पर्शां कर्म कृत्वा सुदारुणाम् ॥ 4 ॥
हा हेति क्रन्दमानस् त्वं रौरवे भृशदारुणे ।
संप्राप्स्यसि महद् दुःखं निहीनम् अधमाधम ॥ 5 ॥
किं ते न प्रकृतं कर्म रौद्रस्याशुभकर्मणः ।
असत्येषु मनुष्येषु हिंसा मित्रेषु विद्यते ॥ 6 ॥
चित्तं पापं व्यवस्यन्ति धर्मलोपो ( अ 463ब् ) हि धारुणः ।
स्मर ऋक्षं च व्याघ्रं च यत् पापं प्रकृतं त्वया ॥ 7 ॥
दुर्बुद्धे त्वं न जानीषे यथा मित्रेषु वर्तितुम् ।
हन्तारं लभते हन्ता वैरी वैराणि पश्यति ॥ 8 ॥
सेवितस् त्वं चिरं कालं प्राप्ते व्याघ्रमहाभये ।
रक्षितश् च शयानस् त्वं त्वयासौ किं न रक्षितः ॥ 9 ॥
मित्रभेदं परं गर्ह्यं ब्रुवते धर्मवादिनः ।
कायस्य भेदाद् दुर्बुद्धे नरकेषूपपत्स्यते ॥ 10 ॥ इति
किं मन्यध्वे भिक्षवो? यो ऽसौ ऋक्षः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ कृतघ्नः सत्वः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.
थे स्तोर्य् ओf थे किन्ग् शिबि
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो शिबिघोषायां राजधान्यां शिबिर् नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं ( स्ब्व् इइ 109 ) चाकीर्णबहुजनमनुष्यं च; स च राजा श्राद्धो भद्रः कल्याणाशयः आत्महितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागि निस्सङ्गपरित्यागी महति च त्यागे वर्तते; तस्य नास्ति किंचिद् अदत्तम् अपरित्यक्तं यदुत श्रमणब्राह्मणेभ्यः कृपणेभ्यो वणीपकेभ्यः अध्वगेभ्यः याचनकेभ्यः; यद्भूयसा तु ग्लानेभ्यः आचरितं तस्य राज्ञः; काल्यम् एवोत्थाय मातापितराव् अभिवाद्य ग्लानावलोक्यनं कृत्वा अर्थाधिकरणे निषीदति; यावद् अन्यतरः पुरुषो ग्लानः; स सर्ववैद्यप्रत्याख्यातो निरपेक्षो जीविते मरणाभिमुक्तः तेन तेनान्वाहिण्डमानः शिबिघोषां राजधानीम् अनुप्राप्तः; तस्मिंश् च समये राजा संप्राप्ते वसन्तकालसमये संपुष्पितफलितेषु पादपेषु हंसक्रौञ्चमयूरशुकाकोकिलजीवञ्जीवोन्नादिते वनषण्डे अन्तःपुरपरिवृतः उद्यानभूमिं संप्रस्थितः; स च व्याधितस् तीव्ररुजोपतापसङ्जनितदौर्मनस्यो मुहुः श्वासोपरुध्ह्यमानतनुर् अश्रुपर्याकुलेकणो दण्डपाणिः शनैः शनै राज्ञः सकाशम् उपसंक्रान्तः; शिरःप्रणामं कृत्वा कथयति: देव परित्रायस्व माम् अस्माद् व्याधेः; प्रयच्छ जीवितम् इति; ततः शिबिराजा करुणदीनविलम्बितैर् अक्षरैर् उच्यमानस् तदातुरवचनं श्रुत्वा कारुण्याद् आकम्पितहृदयः तत्र एव प्रतिनिवृत्तः अमात्यान् आमन्त्रयते: आहूयन्तां मद्विषयनिवासिनो वैद्याः इति; तैस् सर्वे वैद्या आहूताः; राज्ञ उपनीताः; ततो राजा तं पुरुषं शब्दयित्वा कथयति: भवन्तः कुरुतास्य चिकित्साम् इति; वैद्या विचार्यैकमतेन कथयन्ति: देव यः पुरुषः जन्मनो न कस्यचिद् रुषितपूर्वः तस्य रुधिरेण यवागूं साधयित्वा यदि भोज्यते, एवम् अयं स्वस्थीभवति; नान्यथा इति; श्रुत्वा राजा संलक्षयति: किं ममानेन एवंविधेन जीवितेन, राज्यैश्वर्याधिपत्येन वा? ईदृशेन यो ऽहं परेषां दुःखार्तानां न शक्नोमि शान्तिं कर्तुम् इति; एवं विचिन्त्य राजा स्वसन्ततिं प्रत्यवेक्षितुम् आरब्धः; तेन धात्री पृष्टा: अम्ब अस्त्य् अहं कस्यचिद् रुषितपूर्वः? सा कथयति: देव यदा ( अ 464अ ) त्वं ममांसगतस् तदा अहम् अपि न कस्यचिद् रुषितपूर्वा; प्रागेव त्वम् इति; ततो मातुः सकाशम् उपसंक्रम्य कथयति: पुत्र यदा त्वं मम कुक्षिगतस् तदा अहम् अपि न कस्यचिद् रुषितपूर्वा, प्रागेव त्वम् इति; राजा कथयति: इदानीं संपन्नं भैषज्यम् इति; तेन वैद्या उक्ताः: मम पंचसु गात्रेषु शिरां ( स्ब्व् इइ 110 ) मुञ्चत इति; ते कथयन्ति: देव न वयं प्राकृतपुरुषस्यार्थाय देवस्य काये शस्त्रं निपातयामः इति; कुशला भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयम् एव पंचसु गात्रेषु शिरा मुक्ता; रुधिरस्य कर्परः पूर्णः; ततः पेया साधयित्वा दत्ता; अनुरक्तपौरजानपदः स राजा; अन्तःपुरकुमारामात्यपौरजानपदा विक्रोष्टुम् आरब्धाः; नानादेशाभ्यागतश् च जनकयो विवाचयितुम् आरब्धः: कथं नाम एकस्य प्राकृतसत्वस्यार्थाय इयन्तः सत्वाः परित्यज्यन्ते? इति; ततो राज्ञा स जनकायः समाश्वासितः; तद् अनेनोपायेन षण् मासान् पंचसु गात्रेषु शिरा मुक्ता; यवागूं भोजितः; राज्ञः शिबेः तच्छरीरं चालनीसदृशं संवृत्तम्; ओजः परिहातुम् आरब्धः; शुद्धावासकायिका देवाः संलक्षयन्ति: यद्य् एवं भद्रकल्पिको बोधिसत्वः परिहीयते, न शोभनं; ते तस्य प्रत्यहम् ओज उपहरन्ति, येनासौ यापयति; यदा तस्य पुरुषस्य व्याधिर् उपशान्तः, तदा शिबिना राज्ञा पंचभिर् ग्रामवरैः संविभक्तः, वाराणस्यां प्रधानसंमतो जातः; तदा सामन्तकेन शब्दो विसृतः; शिबिना राज्ञा पंचसु गात्रेषु शिरा मुक्ता; स्वरुधिरेण ग्लानस्य इयन्तं कालम् उपस्थानं कृतं; स च स्वस्थीकृतः इति; ततः कुतूहलजातः सत्वा आगम्य तं पुरुषं पृच्छन्ति: भोः पुरुष सत्यं तव किल शिबिना राज्ञा इयन्तं कालम् उपस्थानं कृतम्? इति; स कथयति: किं ममानेन कृतं? दुष्टशोणितं पृथिव्यां वा छोर्येत अन्यस्य वा दीयेत, किम् अत्र आश्चर्यम् इति; वचो ऽवसानसमनन्तरम् एवास्य गृहे अग्निर् निपतितः; येनास्य गृहं सर्वं च स्वापतेयं दग्धं.
किं मन्यध्वे भिक्षवो? यो ऽसौ शिबी राजा अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ कृतघ्नःपुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.
थे स्तोर्य् ओf कल्याणकारिन्
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वं भिक्षवो ऽन्यतमस्यां राजधान्याम् अन्यतमो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः ( स्ब्व् इइ 111 ) कालान्तरेण देवी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः संगतभ्रूस् तुङ्गनासो ( अ 464ब् ) सर्वाङ्गप्रत्यङ्गोपेतः; जन्मनि चास्य अनेकानि कल्याणसहस्राणि प्रादुर्भूतानि; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नाम? इति; अमात्याः कथयन्ति: देवास्य जन्मनि अनेकानि कल्याणसहस्राणि प्रादुर्भूतानि; तस्माद् भवतु दारकस्य कल्याणकारीति नाम इति; तस्य कल्याणकारीति नामधेयं व्यवस्थापितं; कल्याणकारी दारकः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः; द्वाभ्याम् अंशधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्; भूयः स राजा देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्यापि जन्मनि अकल्याणसहस्राणि प्रादुर्भूतानि; तस्य अकल्याणकारीति नामधेयं व्यवस्थापितं; सो ऽपि उन्नीतो महान् संवृत्तः; कल्याणकारी कुमारो मैत्र्यात्मकः कारुणिकः सर्वसत्वेषु दयावान् दानरुचिर् दानाभिरतः; स श्रमणब्राह्मणकृपणवणीपकयाचनकेभ्यो दानं ददाति; स पित्रा उच्यते: पुत्र मा त्वं सततं दानम् अनुप्रयच्छ; कुतो ऽस्माकम् एतावद् धनजातं भविष्यति यन्न्व् अहम् अन्वहम् एवं दास्यामीति; धर्मता ह्य् एषा दातुर् दानपतेर् यद् बहुजनस्य प्रियो भवति मनापश् च; दिग्विदिक्षु चास्य उदारः कल्याणकीर्तिशब्दश्लोको ऽभ्युद्गच्छति; तस्यान्यतरेण भूम्यन्तरेण राज्ञा गुणमाहात्म्यं श्रुत्वा दुहिता दत्ता; राज्ञा महता श्रीसमुदायेन प्रतीष्टा; कल्याणकारी कथयति: न तावद् अहं भार्योपादानं करोमि, यावन् न धनोपार्जनं कृतं; तद् अनुज्ञातुम् आर्हसि तात, महासमुद्रम् अवतरामि इति; स कथयति: एवं कुरुष्व इति; स पण्यम् आदाय महासमुद्रं संप्रस्थितः; सो ऽस्य भ्राता अकल्याणकारी संलक्षयति: अयं बहुजनस्य प्रियो मनापश् च; यदि महासमुद्रात् समृद्धयानपात्रो ऽभ्यागच्छति भूयसा बहुजनप्रियो भवति ( स्ब्व् इइ 112 ) मनापश् च; स्थानम् एतद् विद्यते यत् तिष्ठत एव पितुः राज्यैश्वर्याधिपत्यं कारयति; सर्वथा किम् अत्र प्राप्तकालम्? अहम् अप्य् अनेन साकम् अवतरामि: अत्रैवैनं जीविताद् व्यपरोपयिष्यामि; एवं ममाकामस्यापि यौवराज्याभिषेकः; इति विदित्वा पितुः सकाशम् उपसंक्रम्य कथयति: देव कल्याणकारी महासमुद्रं संप्रस्थितः; अहम् अपि तेन सार्धं गच्छामि इति;स कथयति एवं कुरुष्वेति; ततः कल्याणकारिणा स्वे ऽधिष्ठाने घण्टावघोषणं कारितं; शृण्वन्तु भवन्तो नगरनिवासिनो वणिजः; कल्याणकारी कुमारो महासमुद्रं संप्रस्थितः; यो युष्माकम् उत्सहते कल्याणकारिणा सार्थवाहेन सार्धम् अशुल्केन अगुल्मेन अतरपण्येन महासमुद्रम् अवतर्तुं ( अ 465अ ) महासमुद्रगमनीयं पण्यं समुदानयतु इति; अनेकैर् वणिक्छतैर् महासमुद्रगमनीयं पण्यं समुदानीतं; ततः कल्याणकारी सार्थवाहः अकल्याणकारिणा भ्रात्रा सार्धं कृतकुतूहलमङ्गलस्वस्त्ययनः अनेकवणिक्शतपरिवारः शकटैर् भारैर् मूटैः पिटकैः उष्ट्रैर् गोभिर् गर्दभैः प्रभूतं महासमुद्रगमनीयं पण्यम् आदाय संप्रस्थितः; सो ऽनुपूर्वेण ग्रामनिगमराजराष्ट्रधानीषु पट्टनान्य् अवलोक्य समुद्रतीरम् अनुप्राप्तः; स पंचभिः पुराणशतैर् वहनं कृत्वा पंच पौरुषेयान् गृहीत्वा आहारकं निर्हारकं नाविकं कैवर्तं कर्णधारं च त्रिर् घण्टावघोषणं कृत्वा महासमुद्रम् अवतीर्णः; संप्रस्थिते वहने भ्रातुर् अकल्याणकारिणः कथयति: महासमुद्रमध्यगतानां यदि तद् वहनं विपद्येत, मम गले लगेः; मा काहलीभविष्यसि इति; स कथयति: शोभनम् एवं भवतु इति; यावत् तद् वहनम् अनुगुणेन वायुना रत्नद्वीपम् अनुप्राप्तं; कर्णधारः कथयति: शृण्वन्तु भवन्तो जम्बूद्वीपका वणिजः; यो ऽसौ श्रूयते रत्नद्वीपो नाम वज्रवैडूर्येन्द्रनीलमरकतादीनां रत्नानाम् आकरः इति तम् अनुप्राप्ताः स्म; यथेष्टं रत्नसङ्ग्रहं कुरुत इति; ततस् तैः प्रमुदितमनोभिः उपपरीक्ष्य, तद् वहनं रत्नानां पूरितं ( स्ब्व् इइ 113 ) तद्यथा तिलतण्डुलकोलकुत्थानां; निपुणा भवन्ति बोधिसत्वाः कुशलश् च; कल्याणकारिणा कुमारेण महार्हाणि रत्नानि कट्याम् उपनिबद्धानि; यावत् तद् वहनं विपरिवृत्तं; तीरस्य नातिदूरे मकरेण मत्स्यजातेन अनयेन व्यसनम् आपादितं; ततः अकल्याणकारी कल्याणकारिणो गले लग्नः; स तेन महता यत्नेन उत्तारितः; स तावत् कृतपरिष्रमो मिद्धम् अवक्रान्तः; तस्य परिवर्तमानस्य अकल्याणकारिणा कट्युपनिबद्धानि रत्नानि दृष्टानि; स संलक्षयति: अयं नाम रत्नानि गृहीत्वा गमिष्यति; अहं रिक्तपाणिर् गमिष्यामि;
इति विदित्वा तेन तस्य गाढमिद्धावष्टब्धस्य तानि रत्नान्य् अपहृतानि; कण्टकैश् च अक्षिणी उत्पाटिते; स तम् अन्धं समुद्रतीरे छोरयित्वा प्रक्रान्तः; दैवात् गोपालका गाश् चारयन्तस् तं प्रदेशम् अनुप्राप्ताः; तैर् असौ दृष्टः पृष्टश् च: भोः पुरुष कस् त्वम् ईदृशः इति; तेन यथावृतं समाख्यातं; श्रुत्वा तेषां कारुण्यम् उत्पन्नं; तैर् असौ पालबन्धोर् गृहे नीतः; स तेन विणाम् आश्रावयितुम् आरब्धः; तस्य पालबन्धोर् भार्या यौवनमदाक्षेपात् वीणास्वनं श्रुत्वा तं प्रार्थयितुं प्रवृत्ता; स कृतघ्नचेष्टितम् अनुस्मृत्य कर्णौ पिधायावस्थितो नाधिवासयति; कामाध्यवसितानां नास्ति किंचिद् अकरणीयम् इति तया स्वामि विग्राहितः: माम् अयम् अन्धः पुरुषः प्रार्थयति इति; ( अ 465ब् ) ईदृशानां त्वं संग्रहं करोषि इति; प्रतिक्रुष्टम् एतद् वैराणां यदुत स्त्रीवैरं; स संलक्षयति: कृतनिग्रहो ऽयं; नास्ति किंचिद् अस्य करणीयम् ऋते निर्वासनाद् इति; स तेन गृहान् निर्वासितः रथ्यावीथीचत्वरशृङ्गाटकेषु वीणया जीविकां कल्पयति; तस्य पिता कालगतः; भ्राता अस्य अकल्याणकारी राज्यैश्वर्याधिपत्ये प्रतिष्ठितः; सो ऽप्य् अनुपूर्वेण सीमान्तरस्य राज्ञो नगरम् अनुप्राप्तः येनास्य पूर्वं दुहिता दत्ता; सा च महती संवृत्ता; तस्या नानादेशनिवासिनो राजपुत्राः पुरोहितपुत्राश् च वरका आगच्छन्ति; सापि तातेनोच्यते: पुत्रि यस्य त्वं दत्ता स कल्याणकारी कुमारो महासमुद्रं ( स्ब्व् इइ 114 ) गतः; तत्रैव च अनयेन व्यसनम् आपन्नः; तव चेदानीं याचका आगच्छन्ति; यस्यैव त्वां न दास्यामि स विसुखो भविष्यति; कथम् अत्र प्रतिपत्तव्यम्? इति; सा कथयति: तात यद्य् एवं नगरशोभां कारय; अहं स्वयंवराय अवतरामि इति; राजा कथयति: पुत्रि एवं कुरुष्व इति; ततो नानादेशेषु नानाधिष्ठानेषु स्वयंवरणं श्रावितं; तच् च नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धम् उच्छ्रितध्वजपताकम् आमुक्तपट्टदामकलापं नानापुष्पावकीर्णं रमणीयं देवानाम् इव नन्दनवनोद्यानं; घण्टावघोषणं च कारितं: शृण्वन्तु भवतो नगरनिवासिनः पौरा, नानादेशाभ्यागतश् च जनकायः; श्वो राजकुमारी स्वयंवराय अवतरिष्यति; तद् युष्माभिर् यथाविभवेन सन्निपतितव्यम् इति; ततः प्रभातायां रजन्यां सा राजकुमारी नानालंकारविभूषिता अनेककुमारीपरिवृत्ता वनदेवतेव कुसुमितवनमध्ये अतीव विभ्राजमाना महता श्रीसमुदायेन मध्ये नगरस्य अनेकेषु प्राणिशतसहस्रेषु सन्निपतितेषु स्वयंवराय अवतीर्णा; स कल्याणकारी अन्यतमस्मिन् प्रदेशे वीणाम् आश्रावयंस् तिष्ठति; कर्माण्य् एव सत्वानां परस्परं संयोजकानि; बलवद् अपि हेतुबलं प्रत्यबलम् अपेक्षत इति; ततः सा राजकुमारी वीणास्वनावर्जितहृदया वीणावादके कल्याणकारिण्य् आक्षिप्ता; तया तस्य स्रग्दाम क्षिप्तम्: एष मम स्वामी इति; जनकायो दुर्मनाः संवृत्तः; केचिद् वेगम् असहमानाः अवध्यातुम् आरब्धाः: कथं नाम नानादेशाभ्यागतान् राजामात्यपुरोहितपुत्रान् अन्यांश् च नगरनिवासिनः प्रधानपुरुषान् प्रत्याख्याय राजकुमार्या एवंरूपयौवनकलासंपद्युक्तया अन्धलकः स्वामी वृतः इति; पौरुषेयैर् दौर्मनस्यविमुखै राज्ञो निवेदितं; देव कुमार्या स्वयंवरावतीर्णया स्वामी वृतः इति; राजा कथयति: कीदृशः? देव अन्धलकः; सो ऽपि श्रुत्वा दुर्मनाः संवृत्तः; ततस् तेन सा आहूयोक्ता; पुत्रि संविद्यन्ते राजानो धनिनः श्रेष्ठिनः सार्थवाहाः अमात्यपुत्राः पुरोहितपुत्राश् ( अ 466अ ) च रूपयौवनविभवसंपन्नाः; कस्मात् त्वया एवंविधः स्वामी वृतः? इति; सा कथयति: तात स एव मे रोचते इति; राजा कथयति: यद्य् एवं किमर्थं तिष्ठसि इति; सा तस्य सकाशम् उपसंक्रान्ता कथयति: त्वं मया स्वामी ( स्ब्व् इइ 115 ) वृतः इति; न ते शोभनं कृतं; किं त्वं चिन्तयसि? एषो ऽन्धलकः; अहं परपुरुषैः सार्धं परिचारयिष्यामि इत्: सा कथयति: नाहम् एवंविधस्य कर्मणः कारिणी इति; स कथयति: कथं ज्ञायते? सा सत्योपयाचनं कर्तुम् आरब्धा: येन सत्येन सत्यवचनेन तस्य कल्याणकारिणो राजकुमारस्य तव चान्तिके रागः समुत्पन्नः, नान्यस्य कस्यचित्, अनेन सत्येन सत्यवचनेन तवैकम् अक्षि यथापौराणं स्याद् इति; सत्याधिष्ठानसमनन्तरम् एव तस्यैकं चक्षुः यथापौराणं संवृत्तं: स कथयति: स एवाहं कल्याणकारी; अकल्याणकारिणा भ्रात्रा एतां दशां नीतः; सा कथयति: कथं ज्ञायते त्वम् एवासौ कल्याणकारी इति; सो ऽपि सत्योपयाचनं कर्तुम् आरब्धः: येन सत्येन सत्यवचनेन तस्य ममाक्षिणी समुत्पाटयतो ऽन्तिके ईषद् अपि न प्रदुष्टं चित्तं मे, अनेन सत्येन सत्यवचनेन मम द्वितीयम् अक्षि यथापौराणं भवेद् इति; तस्य सह सत्ययाचनया द्वितीयम् अक्षि यथापौराणं संवृत्तं; ततः सा राजकुमारी कल्याणकारिणम् अविकलेन्द्रियम् आदाय राज्ञः सकाशं गता कथयति: तात एष एवासौ कल्याणकारी इति; राजा न श्रद्धत्ते; तेन यथावृत्तम् आरोचितं; राजा परं विस्मयम् आपन्नः; ततस् तेनासौ दुहिता महता श्रीसमुदायेन परिणीता; स च कल्याणकारी महता बलसमुदायेन तन्नगरं गत्वा अकल्याणकारिणं च्यावयित्वा पितृके
राज्ये प्रतिष्ठापितः.
किं मन्यध्वे भिक्षवः? यो ऽसौ कल्याणकारी अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ अकल्य्णकारी एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अप्य् एष यथा अकृतज्ञ अकृतवेदी तच् छ्रूयतां.
थे स्तोर्य् ओf विशाख
(चोन्चेर्निन्ग् अ प्रेविओउस् बिर्थ् ओf देवदत्त)
भूतपूर्वम् अन्यतमस्यां राजधान्याम् अन्यतमो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; स देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः क्रमशश् चत्वारः पुत्रा जाताः, शाखः प्रशाखः अनुशाखः विशाखश् च; ते उन्नीता वर्धिता महान्तः संवृत्ताः; भूम्यन्तराणां च राज्ञां दुहितृभिः परिणीताः; ते राज्ञो विकर्तुम् आरब्धाः; ततो राज्ञा निर्वासिताः स्वकस्वका ( स्ब्व् इइ 116 ) पत्नीर् आदाय निर्गताः; यावत् कान्तारमार्गं प्रतिपन्नाः; तेषां पथ्यदनं परिक्षीणं; तैः परस्परंक्रियाकारः कृतः: एकैकां स्त्रियं जीविताद् व्यपरोप्य तन्मांसेन कान्तारमार्गान् निस्तरेम इति; विशाखः ( अ 466ब् ) संलक्षयति: कामं स्वप्राणविनाशो, न तु परप्राणोपरोधः; किम् अत्र प्राप्तकालं भार्याम् आदाय निष्पलायेय इति; स भार्याम् आदाय निष्पलायितः; सास्य भार्या अन्नपानवियोगान् मार्गश्रमखेदाच् च काहलीभूता कथयति: आर्यपुत्र प्राणैर् वियोक्ष्ये इति; विशाखः संलक्षयति: मया राक्षसमध्यात् परित्राता; इदानीं यदि मरिष्यति, न शोभनम् इति; तेन ऊरुमांसं छित्वा तस्या भक्षणाय दत्तं; बाहुभ्यां च शिरे मुक्त्वा रुधिरं पायिता; सो ऽनुपूर्वेण ताम् आदाय अन्यतमं पर्वतम् उपसृप्तः; तत्र च मूलफलैर् यापयति; तस्य च पर्वतस्य सन्निकृष्टे नदी वहति; तस्यां पुरुषः शत्रुणा हस्तपादविकलः कृत्वा प्रवाहितः; स स्रोतसापह्रियमाणः आर्तस्वरं क्रन्दति; विशाखश् चान्यतमस्मिन् प्रदेशे मूलान्य् उत्पाटयति; तेनासौ पुरुषविरावः श्रुतः; स करुणाम्रेडितचित्तसन्ततिः पर्वतम् अभिरुह्य समन्ताद् व्यवलोकयितुम् आरब्धः; यावत् पश्यति तं पुरुषम् उह्यमानं; स लघु लघ्व् एव पर्वताद् अवतीर्य नदीम् अभ्यवगाह्य तं पुरुषं पृष्ठम् अभिरोह्य नदीम् उत्तीर्य तीरे स्थापयित्वा तं दुःखसन्तापितहृदयः कथयति: वत्स किम् इदम् इति; तेन यथावृत्तं समाख्यातं; ततस् तेनासौ समाश्वासितः; मूलफलैश् च सन्तर्प्य पत्न्याः समर्पितः; तया तस्योपस्थानं कृतं; सा तस्योपस्थानं कुर्वती प्रणयसौमुख्या मुहुर् मुहुर् उपसंक्रम्य विविधाभिः कथाभिर् उपतिष्ठति; धर्मता ह्य् एषा प्रकृत्या मन्दरागिणो भवन्ति बोधिसत्वाः; विशाखस् तया सार्धं कदाचित् परिचारयति कदाचिन् न परिचारयति; बोधिसत्वानुभावेन च तानि कन्दमूलफलानि अतीव वीर्यवन्ति; तान्य् असौ परिभुंजाना क्लेशप्राबल्यात् तं हस्तपादविकलं प्रार्थयितुम् आरब्धा; स न संप्रतिपद्यते; कथयति च: अहं तावद् इदानीं गतप्रत्यागतप्राणः कथंचिज् जीवितः; यदि पुनर् ईदृशं करोमि स्थानम् एतद् विद्यते यद् अयं तव भर्ता मां सर्वेण सर्वं जीविताद् व्यपरोपयति इति; स भूयो भूयस् तया प्रार्थ्यते; दुर्जयाः क्लेशाः; सा तया सार्धं विप्रतिपन्नः; सा तेन सार्धम् आनन्दसौमनस्याद् एव अतीव संरक्ता प्रेष्यमाणापि तत्सकाशान् न गच्छति; स संलक्षयति: यथैवेयम् ( स्ब्व् इइ 117 ) अध्यवसिता, प्रतिक्रुष्टम् एतद् वैराणां यदुत स्त्रीवैरम्: इदानीम् अहं नष्टः; तेन तया सार्धं संजल्पः कृतः; अयं तव स्वामी यदि जानीते आवयोः संप्रयोगं नियतं तव अनर्थं करोति, मां च जीविताद् व्यपरोपयति इति; सा संलक्षयति: शोभनम् अयं कथयति; उपायसंविधानं कर्तव्यम् इति; असितपण्डितो मातृग्रामः; सा शिरो वस्त्रेण वेष्टयित्वा पर्वतशिलायां निषद्यावस्थिता; यावन् मूलफलान्य् आदाय विशाख आगतः; पश्यति तां तथा विप्रकृतां; ततः पृच्छति: भद्रे किम् एतद् इति; सा कथयति: आर्यपुत्र शिरोरुजा मे ऽतीव बाधते इति; विशाखः कथयति: किमत्र कर्तव्यम् इति; तया पाषाणभेदकः पर्वतप्राग्भारे दृष्टः इति सा ( अ 467अ ) कथयति: आर्यपुत्र पूर्वम् अप्य् एषा शिरोरुजा आसिद् वैद्येन पाषाणभेदको व्यपदिष्टः; तेन स्वस्थीकृता इति; विशाखः कथयति: पाशाणभेदकं समन्वेषामि इति; सा कथयति: आर्यपुत्र एष पर्वतप्राग्भारे दृश्यते; अहं त्वां रज्वा धारयामि; त्वम् उत्पाटय इति; ऋजुको ऽसौ महात्मा तस्याः शाठ्यं न वेत्ति; स प्रतिपन्नः: एवं भवतु धारय उत्पाटयामि इति; स तया रज्वा ओसारितः; तेन चैकेन पाणिना रज्जुर् मुक्ता; तया च मुक्ता; नद्यां पतितः; दीर्घायुः स सत्वः; राज्यसुखं च प्रत्यनुभवितव्यं; न मृतः; स्रोतसा उह्यमानः अन्यतमां राजधानीम् अनुप्राप्तः; तत्र च राजा अपुत्रः कालगतः; अमात्याः सपौरजानपदाः सर्वे सन्निपत्य विचारयन्ति: भवन्तो राजा कालगतः; कम् इदानीं राज्ये प्रतिष्ठापयामः इति; तैर् लक्षणज्ञाः पुरुषाः प्रयुक्ताः: भवन्तः समन्वेषत; यः पुण्यमहेशाख्यः सत्वः तं राज्ये प्रतिष्ठापयामः इति; ते सम्नततः समन्वेषितुम् आरब्धाः;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥
विशाखः प्रत्युपस्थितविपाकत्वाद् राज्यसंवर्तनीयस्य कर्मणः नदीम् उत्तीर्य एकस्मिन् प्रदेशे निषण्णः; बोधिसत्वानुभावेन स प्रदेशो ऽलङ्कृतः इवावस्थितः; यावल् लक्षणपरीक्षकाः पुरुषाः तं ( स्ब्व् इइ 118 ) प्रदेशम् आगताः पश्यन्ति तं महात्मानं राज्यलक्षणसंपन्नं; ते प्रमुदितमनसः अमात्यानां सकाशं गताः कथयन्ति: समन्वेषितः अस्माभिः पुण्यमहेशाख्यः सत्वो यो राज्यम् अर्हति इति; ततस् तैर् अमात्यैर् मार्गशोभां नगरशोभां च कृत्वा महता श्रीसमुदायेन नगरं प्रवेश्य दिवसतिथिमुहूर्तनक्षत्रानुपूर्व्या राज्ये ऽभिषिक्तः; तस्य देवी नास्तीति अमात्याः पुरोहिताः भूम्यन्तरराजानः अन्ये च धनिनः श्रेष्ठिनः सार्थवाहाः स्वकस्वका दुहितॄन् सर्वालङ्कारविभूषिताः आदाय तन्नगरम् आगताः राजा परिणेष्यतीति; स राजा स्त्रिया विप्रलब्धो न प्रतिपद्यते; अमात्याः कथयन्ति: देव अन्तःपुरकुमारामात्यपौरजानपदाः धनिनो राजानो भवन्ति; अन्तःपुरम् उपस्थाप्यतां; नानादेशनिवासिनः प्रधानपुरुषाः भूम्यन्तराश् च राजानः इतस्त्याश् च प्रधानपुरुषाः कन्याः सज्जीकृत्य व्यवस्थिताः; अभिमुखीभवतु इति; तथाप्य् असौ न प्रतिपद्यते; स भूयसा च स्त्रियो जुगुप्सते; पुण्यानुभावात् सत्वानाम् उपभोगा वीर्यवन्तो भवन्ति संपद्यन्ते च; यदा बोधिसत्वस् तस्मात् पर्वतात् कृतघ्नस्त्रिया मुक्तस् तदा तस्मिन् पर्वते मूलफलानि तनूभूतानि; निर्वीर्याणि च संवृत्तानि; ततः सा स्त्री दुर्भिक्षाकालमृत्युभयभीता तं हस्तपादविकलं पुरुषं स्कन्धे आरोप्य ग्रामान्तं समवसृता; रथ्यावीथीचत्वरशृङ्गाटकेषु भिक्षाम् अटति; पृष्टा च कथयति अहं पतिव्रतेति; अस्ति चैष लोकधर्मो या स्त्री पतिव्रता सा लोके पूज्यते; सा यत्र प्रविशति तत्र भिक्षां लभते; यावद् असाव् अनुपूर्वेण तां राजधानीम् अनुप्राप्ता; श्रुत्वा लोकः ( अ 467ब् ) परं विस्मयम् आपन्नः; केचित् कुतूहलजाताः तां द्रष्टुं बहिर् निर्गताः; नगरनिवासिना जनकायेनावतारो लब्धः; ते ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति: भवन्तः अयं राजा सर्वाः स्त्रियो जुगुप्सते; न पश्यतीमां सतीं पतिव्रतां हस्तपादविकलं पुरुषं स्कन्धेनादाय परिभ्रमतीम् इति; स वृत्तान्तः पुरोहितेन राज्ञो निवेदितः; राज्ञा च संलक्षितं; स कथयति: आहूयतां सा स्त्री पश्यामि इति; सा आहूता, राज्ञा दृष्टा; विपुष्पितं गाथा चोक्ता:
भक्षयित्वोरुमांसानि पीत्वा च मम शोणितम् ।
स्कन्धेन वहसे रुण्डम् इदानीं त्वं पतिव्रता ॥
पातयित्वा प्रपाते मां शिलोद्भेदस्य कारणात् । ( स्ब्व् इइ 119 )
स्कन्धेन वहसे रुण्डम् इदानीं त्वं पतिव्रता ॥ इति
किं मन्यध्वे भिक्षवः? यो ऽसौ राजकुमारः अहम् एव सः तेन कालेन तेन समयेन; यासव् भार्या एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अप्य् यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.
मूल पाठ: Saṅghabhedavastu · Edition: R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49). · Data entry Klaus Wille Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0