सङ्घभेदवस्तु · भाग 120
पिण्डोद्दानम्
संमतो देवपालश् च निर्यूहो जीर्णो भद्रकः ।
पर्षत् कौण्डिन्य ऋद्धिश् च कौशिको भुक्पुह ... ।
सावीचिश् च कतरो भवति पश्चिमः ॥
उद्दानम्
महासंमतः सिंहहनुः सुप्रबुद्धस् तथैवच । ( स्ब्व् इ 2 )
तुषितास् च दोहदो जातिः छन्दो ऽसितो ऽप्य् अथ पात्री ॥
कृमिवर्माथ बद्धाली सहदेवस् तथैव च ।
छदनं वैशालकानिर्देशनं प्रसादनम् अथ ॥
यशोधरा हंसश् चाप्य् अथ कल्याणी गोपिका ।
निर्देशनं जम्बू च मृगजा सप्तमः कुलो भार्गवः ।
राजगृहं तपसश् च आराडो दुष्करं नन्दा । ( स्ब्व् इ 3 )
कालकः स्वस्तिकस् तथा मारस्य नाशनं कृत्वा ।
चतुष्पर्षच् च पश्चिमम् ॥
लिनेअगे ओf किन्ग्स्
अर्चिष्मन्तः पोतलके एकशतम्
अरिन्दमः अयोध्यायां चतुष्पंचाशद्
अजितंजयो वाराणस्यां त्रिषष्टिः
दुष्प्रसहो किम्पिलायां चतुरशीतिः
ब्रह्मदत्तः हस्तिनापुरे द्वात्रिंशद्
हस्तिदत्तः तक्षशीलायां पंचसहस्राणि
कालीशो उरसायां द्वात्रिंशन्
नग्नजिद् अजितंजये द्वात्रिंशज्
जयदत्तो कन्याकुब्जायां द्वादश
जयसेन चंपायाम् अष्टादश
नागदेव तालिप्ये पंचविंशतिः
नरदेवः तामलिप्त्यां द्वादश
सागरदेवः दन्तपुर्याम् अष्टादश
सुमतिः राजगृहे पंचविंशतिः
तमोनुद् वाराणस्याम् एकशतं
महेन्द्रसेनः कुशावत्यां चतुरशीतिः
समुद्रसेनः पोतलके सहस्रं
तपंचरः कुसावत्यां चतुरशीतिः
महीमुखो वाराणास्यां शतसहस्रं
महीपतिर् अयोध्यायां शतसहस्रं
महीधरो मिथिलायां चतुरशीतिः
महादेवो ( अ 350ब् ) पुनर् अपि मिथिलायां चतुरशीतिः ( स्ब्व् इ 4 )
महादेवो निमिः ... पेयालम् ... दृढरथः सांकाश्ये सप्तसप्ततिः
अम्बरीशो नागसंपालो वाराणस्याम् एकशतं
कृकिः सुजातः पोतलके एकशतं
कर्ण इक्ष्वाकुः पोतलके एकशतं
विरूढक इक्ष्वाक्वादिर् गोपूरकः कपिलवस्तुनि पंचपंचाशत्सहस्राणि
दशरथः ... पेयालम् ... सिंहहनुः सिंहहनोश् चत्वारः चतुर्भ्यः द्विकयुक्तिः ( स्ब्व् इ 5 )
भिक्षुस् देसिरे तो क्नोw
थे ओरिगिन् ओf थे शाक्यस्
बुद्धो भगवान् कपिलवस्तुनि विहरति न्यग्रोधारामे । अथ संबहुलानां कापिलवास्तवानां शाक्यानां संस्थागारे संनिषण्णानां संनिपतितानाम् अयम् एवं रूपो ऽभूद् अन्तराकथासमुदाहारः । कुतो निर्जाता भवन्तः शाक्याः किमग्रण्याः किमन्वयाः कश् च शाक्यानां पौराणकुलवंशश् च । सचेत् कश्चिद् अस्माकम् उपसंक्रम्यैवं पृच्छेत्: कुतो निर्जाता भवन्तः शाक्याः किमग्रण्याः किमन्वयाः कश् च तेषां पौराणः कुलवंश इति । एवं पृष्टा वयं किं व्याकुर्यामः । न च पुनर् जानीमः कुतो निर्जाताः शाक्याः किमग्रण्याः किमन्वयाः कश् च तेषां पौराणः कुलवंश इति । एते वयं येन भगवांस् तेनोपसंक्रामामः । उपसंक्रम्य भगवन्तम् एतम् एवार्थं परिपृच्छामः, यथा चास्माकं भगवान् व्याकरोति तथैनं धारयिष्यामः इति । अथ संबहुलाः कापिलवास्तवाः शाक्या येन भगवांस् तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः । एकान्ते निषण्णाः संबहुलाः कापिलवास्तवाः शाक्या भगवन्तम् इदम् अवोचन् । इहास्माकं भदन्त संबहुलानां कापिलवास्तवानां शाक्यानां संस्थागारे संनिषण्णानां संनिपतितानाम् अयम् एवंरूपो ऽभूद् अन्तराकथासमुधाहारः । कुतो निर्जाताः शाक्याः किमग्रण्याः किमन्वयाः कश् च तेषां पौराणः कुलवंशः । सचेत् कश्चिद् अस्माकम् ( स्ब्व् इ 6 ) उपसंक्रम्यैवं पृच्छेत् कुतो निर्जाता भवन्तः शाक्याः किमग्रण्याः किमन्वयाः कश् च तेषां पौराणः कुलवंश इति । एवं पृष्टा वयं किं व्याकुर्यामः । न च पुनर् जानीमः कुतो निर्जाताः शाक्याः किमग्रण्याः किमन्वयाः कश् च तेषां पौराणः कुलवंश इति । एते वयं येन भगवांस् तेनोपसंक्रमामः । उपसंक्रम्य भगवन्तम् एतम् एवार्थं परिपृच्छामः, यथा चास्माकं भगवान् व्याकरिष्यति तथैनं धारयिष्यामः इति । ते वयम् एतम् एवार्थं परिपृच्छामः: कुतो भगवन् निर्जाताः शाक्याः किमग्रण्याः किमन्वयाः कश् च शाक्यानां पौराणः कुलवंश इति । अथ भगवत एतद् अभवत् । सचेद् अहं शाक्यानां पौराणं कुलवंशम् आरभ्य धर्म्यां कथां कुर्यां स्थानम् एतद् विद्यते: यद् अन्यतीर्थिकपरिव्राजका एवं वदेयुः आत्मश्लाघी श्रमणो गौतमो यद् इच्छति तद् व्याकरोतीति । अथ को नु मम श्रावकः ( अ 351अ ) प्रतिबलः स्याद् यः शाक्यानां पौराणं कुलवंशम् आरभ्य भिक्षूणां धर्म्यां कथां कुर्यात्; तेन खलु समयेनायुष्मान् महामौद्गल्यायनस् तस्याम् एव परिषदि संनिषण्णो ऽभूत् संनिपतितः
थे बुद्ध अस्क्स् मौद्गल्यायन तो नर्रते
तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: प्रतिभातु ते मौद्गल्यायन शाक्यानां पौराणं कुलवंशम् आरभ्य भिक्षूणां धर्म्यां कथां कर्तुम् । पृष्ठं मे आविलायते । तत् तावद् आयामयिष्यामीति । अधिवासयत्य् आयुष्मान् महामौद्गल्यायनो भगवतस् तूष्णींभावेन । अथ भगवान् आयुष्मतो महामौद्गल्यायनस्य तूष्णींभावेनाधिवासनां विदित्वा गणपुटां संघाटीं शिरस्य् उपनिधाय दक्षिणपार्श्वेन शय्यां कल्पयति पादे पादम् आधायालोकसंज्ञी स्मृतः संप्रजानन्न् उत्थानसंज्ञाम् एव मनसिकुर्वाणः । अथायुष्मतो महामौद्गल्यायनस्यैतद् अभवत् । यन्व् अहं तद्रूपं समाधिं समापद्येयं ( स्ब्व् इ 7 ) यथा समाहिते चित्ते शाक्यानां पौराणं कुलवंशम् अवलोकयेयं कुतो निर्जाताः शाक्याः किमग्रण्याः किमन्वयाः कश् च शाक्यानां पौराणः कुलवंश इति । अथायुष्मान् महामौद्गल्यायनस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते शाक्यानां पौराणं कुलवंशम् अवलोकयति । अद्राक्षीद् आयुष्मान् महामौद्गल्यायनः शाक्यानां पौराणं कुलवंशम् अवलोक्य यतो निर्जाताः शाक्याः यदग्रण्याः यदन्वयाः यश् च शाक्यानां पौराणः कुलवंशः । दृष्ट्वा च पुनस् तस्मात् समाधेर् व्युत्थाय पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्यायुष्मान् महामौद्गल्यानः कपिलवास्तवांश् छाक्यान् आमन्त्रयते
मौद्गल्यायन नर्रतेस्.
थे बेइन्ग्स् इन् थे रेगिओन् ओf थे आभास्वर देवस्
भवति गौतमा स समयो यद् अयं लोकः संवर्तते; संवर्तमाने लोके यद्भूयसा सत्वा आभास्वरे देवनिकाये उपपद्यन्ते; ते तत्र भवन्ति रूपिणो मनोमयाः अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः शुभा वर्णस्थायिनः स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाः प्रीत्याहाराः दीर्घायुषो दीर्घम् अध्वानं तिष्ठन्ति । तेन खलु समयेनेयं महापृथिवी एकोदका भवत्य् एकार्णवा । यः खलु <एकोदकाया> महापृथिव्या एकार्णवाया उपरि वायुना सरः संगच्छति संमूर्छति सन्तनोति तद्यथा पयसः पक्वस्य शीतीभूतस्य उपरि वायुना सरः संगच्छति संमूर्छति सन्तनोति । एवम् एकोदकाया महापृथिव्या एकार्णवाया उपरि वायुना सरः संगच्छति संमूर्च्छति सन्तनोति । स भवति पृथिवीरसो वर्णसंपन्नो गन्धसंपन्नो रससंपन्नः; एवंरूपो वर्णेन तद्यथा नवनीतम्; एवंरूपो रसेन तद्यथा क्षौद्रमध्व् अनेडकम् । भवति गौतमा स समयो यद् अयं लोको विवर्तते; विवर्तमाने लोके तत एके सत्वा आयुःक्षयात् कर्मक्षयात् पुण्यक्षयाद् आभास्वराद् ( अ 351ब् ) ( स्ब्व् इ 8 ) देवनिकायाच् च्युत्वा इत्थम् आगच्छन्ति मानुष्याणां सभागतायाम् । ते इह भवन्ति रूपिणो मनोमया अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः शुभा वर्णस्थायिनः स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाः प्रीत्याहाराः दीर्घायुषो दीर्घम् अध्वानं तिष्ठन्ति । तेन खलु समयेन न सूर्याचन्द्रमसोर् लोके प्रादुर्भावो भवति; न नक्षत्राणां; न क्षणलवमुहूर्तानां; न रात्रिन्दिवसानां; न मासार्धमासरितुसंवत्सराणां लोके प्रादुर्भावो भवति । न स्त्री प्रज्ञायते न पुरुषो नान्यत्र सत्वः सत्व इति संख्या गच्छति ।
थे तस्तिन्ग् ओf थे पृथिवीरस
अथान्यतमो लोलुपजातीयः सत्वः पृथिवीरसम् अङ्गुल्यग्रेणास्वादयति । यथा यथास्वादयति तथा तथा रोचयते; यथा यथा रोचयते तथा तथा कवडीकाराहारोपक्रमेण परिभुङ्क्ते । अद्राक्षुर् अन्ये ऽपि सत्वा तं सत्वं पृथिवीरसम् अङ्गुल्यग्रेणास्वादयमानं यथा यथास्वादयति तथा तथा रोचयते; यथा यथा रोचयते तथा तथा कवडीकारोपक्रमेण परिभुक्तवान् इति । दृष्ट्वा च पुनस् ते सत्वाः पृथिवीरसम् अङ्गुल्यग्रेण आस्वादयितुम् आरब्धाः; यथा यथास्वादयन्ति तथा तथा रोचयन्ते; यथा यथा रोचयन्ते ततः कवडीकारोपक्रमेण परिभुक्तवन्तः; यतस् च ते सत्वाः पृथिवीरसं कवडीकाराहारोपक्रमेण परिभुक्तास् ततस् तेषां सत्वानां खरत्वं च गुरुत्वं च काये ऽवक्रान्तम् । तेषां यासौ शुभा वर्णनिभा सान्तर्हिता । अन्धकारं लोके प्रादुर्भूतम् । धर्मता खलु गौतमा अन्धकारस्य लोके प्रादुर्भावात् सूर्याचन्द्रमसोर् लोके प्रादुर्भावो भवति; नक्षत्राणां क्षणलवमुहूर्तानां रात्रिन्दिवसानां मासार्धमासरितुसंवत्सराणां लोके प्रादुर्भावो भवति ( स्ब्व् इ 9 ) । ते तद्भक्षास् तदाहारा दीर्घायुषो दीर्घम् अध्वानं तिष्ठन्ति । तेषां यो ऽल्पतरम् आहारम् आहरति स वर्णवान् भवति; यः प्रभूततरम् आहारम् आहरति स दुर्वर्णो भवति; इत्य् आहारद्विमात्रतां प्रतीत्य वर्णद्विमात्रता प्रज्ञायते । वर्णद्विमात्रतायां सत्यां सत्वः सत्वम् अवमन्यते: हम्भोः सत्व वर्णवान् अहं; दुवर्णस् त्वम् इति; तेषां वर्णाभिमानिकानां सतां तेषाम् एव पापकानाम् अकुशलानां धर्माणां समादानहेतोः पृथिवीरसो ऽन्तर्हितः । अन्तर्हिते पृथिवीरसे ते सत्वाः संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं चाहुर् अहो रस अहो रस इति । तद्यथैतर्हि मनुष्याः किंचिद् एव स्वादु सुभोजनं भुक्त्वा तद् एव पुराणम् अक्षरपदव्यञ्जनम् अनुस्मरन्त एवम् आहुर् अहो रस अहो रस इति । एवं ते सत्वा अन्तर्हिते गौतमा पृथिवीरसे संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं चाहुर् अहो रस अहो रस इति । अर्थं चास्य न जानन्ति: अयम् अस्य भाषितस्यार्थो ऽयम् अस्य भाषितस्यार्थ इति
थे अप्पेअरन्चे ओf थे पृथिवीपर्पटके, एत्च्.
अन्तर्हिते पृथिवीरसे तेषां सत्वानां पृथिवीपर्पटकः प्रादुर्भूतो वर्णसंपन्नो गन्धसंपन्नो रससंपन्नः; एवंरूपो वर्णेन तद्यथा कर्णिकारपुष्पम्; ( अ 352अ ) एवंरूपो रसेन तद्यथा क्षौद्रमध्व् अनेडकम् । ते तद्भक्षास् तदाहाराः दीर्घायुषो दीर्घम् अध्वानं तिष्ठन्ति । तेषां यो ऽल्पतरम् आहारम् आहरति स वर्णवान् भवति; यः प्रभूततरम् आहारम् आहरति स दुर्वर्णः; इत्य् आहारद्विमात्रतां प्रतीत्य वर्णद्विमात्रता प्रज्ञायते । वर्णद्विमात्रतायां सत्यां सत्वः सत्वम् अवमन्यते: हम्भोः सत्व वर्णवान् अहम् अस्मि; दुर्वर्णस् त्वम् इति; तेषां वर्णाभिमानिकानां सतां तेषाम् एव पापकानाम् अकुशलानां धर्माणां समादानहेतोः पृथिवीपर्पटको ऽन्तर्हितः । अन्तर्हिते पृथिवीपर्पटके ते सत्वाः संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं चाहुर् अहो बत अहो बतेति । तद्यथैतर्हि मनुष्याः केनचिद् एव दुःखदौर्मनस्येन ( स्ब्व् इ 10 ) स्पृष्टाः तान्य् एव पुराणान्य् अक्षरपदव्यञ्जनान्य् अनुव्यवहरन्त एवम् आहुर् अहो बत अहो बतेति । एवम् एव ते सत्वा अन्तर्हिते पृथिवीपर्पटके संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं चाहुर् अहो बत अहो बतेति । अर्थं चास्य न जानन्त्य्: अयम् अस्य भाषितस्यार्थो ऽयम् अस्य भाषितस्यार्थ इति
अन्तर्हिते पृथिवीपर्पटके तेषां सत्वानां वनलता प्रादुर्भूता वर्णसंपन्ना गन्धसंपन्ना रससंपन्ना; एवंरूपा वर्णेन तद्यथा कदम्बकापुष्पम्; एवंरूपा रसेन तद्यथा क्षौद्रमध्व् अनेडकम् । ते तद्भक्षास् तदाहारा दीर्घायुषो दीर्घम् अध्वानं तिष्ठन्ति । तेषां यो ऽल्पतरम् आहारम् आहरति स वर्णवान् भवति; यः प्रभूतम् आहारम् आहरति स दुर्वर्णो भवतीत्य् आहारद्विमात्रतां प्रतीत्य वर्णद्विमात्रता प्रज्ञायते । वर्णद्विमात्रतायां सत्यां सत्वः सत्वम् अवमन्यते: हम्भोः सत्व वर्णवान् अहं; दुर्वर्णस् त्वम् इति; तेषां वर्णाभिमानिकानां सतां तेषाम् एव पापकानाम् अकुशलानां धर्माणां समादानहेतोः वनलता अन्तर्हिता ।
अन्तर्हितायां वनलतायां ते सत्वाः संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं चाहुर् अपैहि पुरस्ताद् अपैहि पुरस्ताद् इति । एवम् एव ते सत्वा अन्तर्हितायां वनलतायां संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते । एवं आहुर् अपैहि पुरस्ताद् अपैहि पुरस्ताद् इति । अर्थं चास्य न जानन्त्य्: अयम् अस्य भाषितस्यार्थो ऽयम् अस्य भाषितस्यार्थ इति । अन्तर्हितायां गौतमा वनलतायां तेषां सत्वानाम् अकृष्टोप्तं तण्डुलफलशालिः प्रादुर्भूत अकण अतुषः शुद्धः शुचिः चतुरङ्गुलः पर्यवनद्धः । स सायं लूनः काल्यं पक्वश् च भवति ( स्ब्व् इ 11 ) प्रतिविरूढश् च । काल्यां लूनः सायं पक्वश् च भवति प्रतिविरूढश् च इति लूनो लूनः प्रतिविरोहत्य् अलूनश् च प्रज्ञायते । ते तद्भक्षास् तदाहाराः दीर्घायुषो दीर्घम् अध्वानं तिष्ठन्ति । ततश् च ते सत्वा अकृष्टोप्तं तण्डुलफलशालिं कवडीकाराहारोपक्रमेण परिभुक्तवन्तः । ( अ 352ब् ) ततस् तेषाम् इन्द्रियनानात्वं प्रादुर्भूतम् । एकेषां स्त्रीन्द्रियम् एकेषां पुरुषेन्द्रियम् । तत्र येषां स्त्रीन्द्रियं येषां च पुरुषेन्द्रियं ते ऽन्योन्यं चक्षुषा चक्षुर् उपनिध्याय पश्यन्ति । ये यथा चक्षुषा चक्षुर् उपनिध्याय पश्यन्ति तथा तथा संरक्ताः; यथा यथा संरक्तास् तथा तथावदीर्णाः; यथा यथावदीर्णास् तथा तथा विप्रतिपन्नाः । अद्राक्षुर् अन्ये ऽपि सत्वाः सत्वं सत्वे विप्रतिपन्नं; दृष्ट्वा च पुनः पांशुम् अपि क्षिपन्ति, लोष्टम् अपि शर्करा अपि कपालान्य् अपि; एवं चाहुः: धिग् ग्राम्यसत्व अकार्यकारक धिग् ग्राम्यसत्व अकार्यकारक कथम् इदानीं त्वं भोः सत्व सत्वं दूषयसीति । तद्यथैतर्हि मनुष्या वधुकायाम् उद्वाह्यमानायां चूर्णम् अपि क्षिपन्ति गन्धम् अपि माल्यम् अपि वस्त्रजालान्य् अपि क्षिपन्ति । एवं चाहुः सुखिनी भव वधूके सुखिनी भव वधूके इति । एवम् एव ते सत्वाः सत्वं सत्वे विप्रतिपन्नं दृष्ट्वा पांशुम् अपि क्षिपन्ति, लोष्टम् अपि शर्करा अपि कपालान्य् अपि; एवं चाहुः: धिग् ग्राम्यसत्व <धिग् ग्राम्यसत्व अकार्यकारक> कथम् इदानीं त्वं भोः सत्व सत्वं दूषयसीति । इति हि गौतमा यत् पूर्वम् अधर्मसंमतं तद् एतर्हि धर्मसंमतं; यत् पूर्वम् अविनयसंमतं तद् एतर्हि विनयसंमतं; यत् पूर्वं गर्ह्यसंमतं तद् एतर्हि प्रशस्यसंमतम् । ते तम् एकाहम् अपि प्रवासयन्ति द्विस् त्रिः सप्ताहम् अपि प्रवासयन्ति । यतश् च ते सत्वास् तस्मिन् पापके असद्धर्मे ऽत्यर्थं पातकव्रतम् आपन्नास् ततस् ते उद्युक्ता अगाराणि मापयितुम् इह वयम् अकार्यं करिष्याम इह वयम् अकार्यं करिष्याम इति; अगारम् अगारम् इति संज्ञा उदपादि । अयं गौतमा पुराणो ऽग्रणीर् अगारे ( स्ब्व् इ 12 ) कर्मान्तानां लोके प्रादुर्भावः । यतश् च ते धर्मेण नाधर्मेण तत्रायं धर्मः श्रेष्ठो जिनेन्द्राणां; ते सायं च सायमाशार्थिनः शालिकारणात् समवसरन्ति प्रातश् च प्रातराशार्थिनः । अथान्यतरेणालसजातीयेन सत्वेन सायंप्रातिकः शालिर् आनीतः । अथान्यतरः सत्वस् तं सत्वम् इदम् अवोचत्: एहि त्वं भोः सत्व शालिकारणात् समवसराम इति । अथ स सत्वस् तम् इदम् अवोचत्: प्रतिजानीहि त्वं भोः सत्व स्वं शालिम्; आनीतो मया सायंप्रातिकः शालिर् इति । अथ तस्य सत्वस्यैतद् अभवत्: एतद् बत साध्व् एतद् बत सुष्ठु यन्व् अहं द्वैयह्निकं त्रैयह्निकं यावत् सप्ताहिकं शालिम् आनयेयम् इति । स द्वैयह्निकं यावत् साप्ताहिकं शालिम् आनीतवान् । अथान्यतरः सत्वस् तं सत्वम् इदम् अवोचत्: एहि त्वं भोः सत्व शालिकारणात् समवसराम इति । अथ स सत्वस् तम् इदम् अवोचत्: प्रतिजानीहि त्वं भोः सत्व स्वं शालिम्; आनीतो मया स द्वैयह्निकं त्रैयह्निकं यावत् साप्ताह्निकं शालिर् इति । अथ तस्य सत्वस्यैतद् अभवत्: एतद् बत साध्व् एतद् बत ( अ 353अ ) सुष्ठु यन्व् अर्धमासिकं मासिकं शालिम् आनयेयम् इति । सो ऽर्धमासिकं मासिकं शालिम् आनीतवान् । यतश् च ते सत्वा अकृष्टोप्तं तण्डुलफलशालिं संनिधीकारपरिभोगेन परिभुक्तास् ततस् तस्य शालेः कणश् च तुषश् च तण्डुलं पर्यवनह्यति; लूनो लूनो न प्रतिविरोहत्य् अबलश् च प्रज्ञायते । षण्डवनषण्डेषु व्यवस्थितः शालिः । अथ ते सत्वाः संगम्य समागम्य शोचन्ति क्लाम्यन्ति परिदेवन्ते वयं स्म भवन्तः पूर्वं ( स्ब्व् इ 13 ) रूपिणो भवामो मनोमया अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः शुभा वर्णस्थायिनः स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाः प्रीत्याहाराः दीर्घायुषो दीर्घम् अध्वानं तिष्ठामः । तेषाम् अस्माकं पृथिवीरसः प्रादुर्भूतो वर्णसंपन्नो गन्धसंपन्नो रससंपन्नः । ते वयं पृथिवीरसं कवडीकाराहारोपक्रमेण परिभुक्ता यतश् च पृथिवीरसं कवडीकाराहारोपक्रमेण परिभुक्ता ततो अस्माकम् खरत्वं गुरुत्वं च काये ऽवक्रान्तं; यासौ शुभा वर्णनिभा सान्तर्हिता; अन्धकारं लोके प्रादुर्भूतम् । ते वयं तद्भक्षास् तदाहारा दीर्घायुषो दीर्घम् अध्वानं तिष्ठामः । तेषाम् अस्माकं यो ऽल्पम् आहारम् आहृतवान् स वर्णवान् भवति; यः प्रभूतम् आहारम् आहृतवान् स दुर्वर्ण इत्य् आहारद्विमात्रतां प्रतीत्य वर्णद्विमात्रता प्रज्ञायते । वर्णद्विमात्रतायां सत्यां सत्वः सत्वम् अवमन्यते: हम्भोः सत्व वर्णवान् अहं; दुर्वर्णस् त्वम् इति; तेषाम् अस्माकं वर्णाभिमानिकानां सतां तेषाम् एव पापकानाम् अकुशलानां धर्माणां समादानहेतोः पृथिवीरसो ऽन्तर्हितः । अन्तर्हिते पृथिवीरसे पृथिवीपर्पटकः प्रादुर्भूतो वर्णसंपन्नो गन्धसंपन्नो रससंपन्नः; तेषाम् अस्माकं वर्णाभिमानिकानां सतां तेषाम् एव पापकानां अकुशलानां धर्माणां समादानहेतोः पृथिवीपर्पटको ऽन्तर्हितः । अन्तर्हिते पृथिवीपर्पटके वनलता प्रादुर्भूता वर्णसंपन्ना गन्धसंपन्ना रससंपन्ना । तेषाम् अस्माकं वर्णाभिमानिकानां सतां तेषाम् एव पापकानां अकुशलानां धर्माणां समादानहेतोः वनलता अन्तर्हिता । अन्तर्हितायां
वनलतायाम् अकृष्टोप्तं तण्डुलफलशालिः प्रादुर्भूतः अकण अतुष्टः शुद्धः शुचिः चतुरङ्गुलः पर्यवनद्धः । स सायं लूनः काल्यं पक्वश् च भवति प्रतिविरूधश् च इति लूनः लूनः प्रतिविरोहति अलूनश् च प्रज्ञायते स्म । ते वयं तद्भक्षास् तदाहारा दीर्घायुषो दीर्घम् अध्वानं तिष्ठामः । यतः वयम् अकृष्टोप्तं तण्डुलफलशालिं संनिधिकारपरिभोगेन परिभुक्तवन्तः । ततो ऽस्य शालेः कुणश् च तुषश् च तन्डुलं ( स्ब्व् इ 14 ) पर्यवनह्यति । लूनो लूनो न प्रतिविरोहत्य् अबलश् च प्रज्ञायते । षण्डवनषण्डेषु व्यवस्थितः शालिः
थे एस्तब्लिस्हिन्ग् ओf लिनेस् ओf देमर्चतिओन्, बोउन्दरिएस्, एत्च्.,
थे ओरिगिन् ओf प्रोपेर्त्य्, अन्द् थे fइर्स्त् किन्ग्
यन्नु वयं संगम्य समागम्य क्षेत्राणि मापयेम सीमां बध्नीयाम मर्यादां स्थापयेम इदं तव इदं ममेति; ते संगम्य समागम्य क्षेत्राणि मापितवन्तः; सीमां च बद्धवन्तः; मर्यादां स्थापितवन्तः । अयं गौतमा पुराणो ऽग्रणीः मर्यादाकर्मान्तानां लोके प्रादुर्भावो भवति । तच् च धर्मेण नाधर्मेण । तत्रायं धर्मो धर्मः श्रेष्ठो जिनेन्द्राणाम् । अथान्यतमः सत्वः तिष्ठति स्वे शालौ परकीयं शालिम् अदत्तम् आदत्ते । अद्राक्षीद् अन्यतरः सत्वः तं सत्वं तिष्ठति स्वे शालौ परकीयं शालिम् अदत्तम् आददानं; दृष्ट्वा च पुनस् तं सत्वम् इदम् अवोचत्: कस्मात् त्वं भोः सत्व तिष्ठति स्वे शालौ परकीयं शालिम् आदत्से? गच्छ भोस् त्वं सत्व मा भूय एवं कार्षिः; द्विर् अपि त्रिर् स सत्वः तिष्ठति स्वे शालौ परकीयं शालिम् अदत्तम् आदत्ते । अद्राक्षीत् स सत्वः तं सत्वं द्विर् अपि त्रिर् अपि तिष्ठति स्वे शालौ परकीयं शालिम् अदत्तम् आददानं; दृष्ट्वा च पुनस् तं सत्वम् इदम् अवोचत्: कस्मात् त्वं भोः सत्व तिष्ठति स्वे शालौ परकीयं शालिम् अदत्तम् आदत्से? स तम् आकर्षति पराकर्षति यावत् पर्षन्मध्ये ऽप्य् अवतारयति अयं भवन्तः सत्वः तिष्ठति स्वे शालौ परकीयं शालिम् अदत्त इति । अथ ते सत्वास् तं सत्वम् इदम् अवोचन्: कस्मात् त्वं भोः सत्व तिष्ठति स्वे शालौ यावत् त्रिर् अपि परकीयं शालिम् अदत्तम् आदत्से? गच्छ त्वं भोः सत्व मा भूय एवं कार्षिः; अथ स सत्वस् तान् सत्वान् इदम् अवोचत्: अनेनास्मि भवन्तः सत्वेन शालिकारणाद् आकृष्टः पराकृष्टो यावत् पर्षन्मध्ये अपि अवध्यायितः । अथ ते सत्वास् सत्वम् इदम् अवोचन्: कस्मात् त्वं भोः सत्व सत्वं शालिकारणाद् आकर्षसि पराकर्षसि यावत् पर्षन्मध्ये ऽप्य् अवतरयसि; ( स्ब्व् इ 15 ) गच्छ त्वं भोः सत्व मा भूय एवं कार्षीर् इति । अथ तेषां सत्वानाम् एतद् अभवद्: दृष्यन्ते खलु शालिकारणाद् आकर्षणम् अपि पराकर्षणम् अपि यावत्पर्षन्मध्ये ऽप्य् अवतारणम् । यन्नु वयं संगम्य समागम्य यो ऽस्माकं सत्वो ऽभिरूपतरश् च दर्शनीयतरश् च प्रासादिकतरश् च महेशाख्यतरश् च तं वयं क्षेत्राणाम् अधिपतिं स्थापयेम यो ऽस्माकं निगृहीतव्यांश् च निग्रहीष्यति ( अ 354अ ) प्रगृहीतव्यांश् च प्रग्रहीष्यति । यच् चास्माकं क्षेत्रेभ्यः संपत्स्यते ततो ऽस्मै धर्म्यां क्षितिम् अनुप्रदास्याम इति ते संगम्य समागम्य यस् तेषां सत्वो ऽभिरूपतरश् च दर्शनीयतरश् च प्रासादिकतरश् च महेशाख्यतरश् च तं क्षेत्राणाम् अधिपतिं स्थापयन्ति । एवं चाहुः: एहि त्वं भोः सत्व अस्मान् निगृहीतव्यांश् च निगृहाण; प्रगृहीतव्यांश् च प्रगृहाण; यच् चास्माकं क्षेत्रेभ्यः संपत्स्यते ततस् ते वयं धर्म्यां क्षितिम् अनुप्रदास्याम इति । स तेषां निगृहीतव्यांश् च निगृह्णाति प्रगृहीतव्यांश् च प्रगृह्णाति । यच् च तेषां क्षेत्रेभ्यः संपद्यते ततो ऽस्मै धर्म्यां क्षितिम् अनुप्रयच्छन्ति; महाजनेन संमतो महासंमत इति महासंमतो महासंमत इति संज्ञोदपादि । क्षेत्राणाम् अधिपतिः क्षताच् च त्रायत इति क्षत्रियः क्षत्रिय इति संज्ञोदपादि । धर्मेण प्रजा रञ्जयति शीलवृत्तसमुदाचारेण प्रज्ञावृत्तसमुदाचारेणेति राजा राजेति संज्ञोदपादि । महासंमतस्य गौतमा राज्ञो मनुष्याणां सत्वा सत्वा इति संज्ञाभूत् । महासंमतस्य गौतमा राज्ञो <रोचः पुत्रः; रोचस्य राज्ञो मानुष्याणाम् एहिका एहिका इति संज्ञोदपादि; रोचस्य गौतमा कल्याणः पुत्रः; कल्याणस्य राज्ञो मानुष्याणां तिलकास् तिलका इति संज्ञोदपादि; कल्याणस्य गौतमा वरकल्याणः पुत्रः वरकल्याणस्य गौतमा राज्ञो मानुष्याणाम्> अभ्रकण्ठा अभ्रकण्ठा इति संज्ञोदपादि । वरकल्याणस्य उपोषधः पुत्रः । उपोषधस्य गौतमा राज्ञो मनुष्याणां स्तालजङ्घा स्तालजङ्घा इति संज्ञाभूत् । उपोषधस्य ( स्ब्व् इ 16 ) राज्ञो मूर्ध्नि पिटको जातः मृदुः सुमृदुः; तद्यथा तूलपिचुर् वा कर्पासपिचुर् वा; न कदाचिद् आबाधां जनयति । परिपाकान्वयात् स्फुटितः; कुमारो जातः अभिरूपो दर्शनीयः प्रासादिको द्वाद्रिंशता महापुरुषलक्षणैः समलङ्कृतः; मूर्ध्ना जातो इति मूर्ध्नातो मूर्ध्नात इति संज्ञोदपादि । जातमात्रः कुमारो ऽन्तःपुरं प्रवेशितः । उपोषधस्य राज्ञः षष्टिस्त्रीसहस्राणि । सर्वासां स्तनाः प्रस्रुताः । एकैका कथयति मान् धापय मान् धापयेति; मान्धाता मान्धातेति संज्ञोदपादि । यस्मिन् समये मान्धाता राजा राज्यं कारयति तस्मिन् समये मनुष्याः चिन्तका अभूवन् तुलका उपपरीक्षकाः । ते चिन्तयित्वा तुलयित्वा उपपरीक्ष्य पृथक्छिल्पस्थानकर्मस्थानानि मापयन्तीति तेषां मनुजा मनुजा इति संज्ञोदपादि । इतीमे गौतमा षड्राजानो ऽमृतायुषश् चाभूवन्न् अपरिमितायुषश् च
अन्तरोद्दानम्
सत्वा एहिकास् तिलका अभ्रकण्ठास् तथैव च ।
स्तालजङ्घाश् च मनुजा षडेते उदिताः पदा ।
लिनेअगे ओf किन्ग्स्
मान्धातुर् गौतमा राज्ञो दक्षिणे ऊरौ पिटको जातो मृदुः सुमृदुः; तद्यथा तूलपिचुर् वा कर्पासपिचुर् वा; स न कांचिद् आबाधां जनयति । परिपाकान्वयात् स्फुटितः; कुमारो जातः अभिरूपो दर्शनीयः प्रासादिको द्वाद्रिंशता महापुरुषलक्षणैः समलङ्कृतः; ( अ 354ब् ) दक्षिणाद् ऊरोर् जातश् चारुश् चारुर् इति संज्ञा उदपादि । महर्धिकः स कुमारो महानुभावः । अथेदानीं चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितवान् । चारोर् गौतमा वामे ऊरौ पिटको जातः मृदुः सुमृदुस् तद्यथा तूलपिचुर् वा कर्पासपिचुर् वा; न कांचिद् आबाधां जनयति, परिपाकान्वयात् ( स्ब्व् इ 17 ) स्फुटितः; कुमारो जातः अभिरूपो दर्शनीयः प्रासादिको द्वाद्रिंशता महापुरुषलक्षणैः समलङ्कृतः; वामाद् ऊरोर् जातः उपचारुर् उपचारुर् इति संज्ञा उदपादि । महर्धिकः स कुमारो महानुभावो ऽपीदानीं त्रिषु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितवान् । उपचारोर् गौतमा राज्ञो दक्षिणे चरणे पिटको जातो मृदुः सुमृदुस् तद्यथा तूलपिचुर् वा कर्पासपिचुर् वा; न कांचिद् आबाधां जनयति, परिपाकान्वयात् स्फुटितः; कुमारो जातो ऽभिरूपो दर्शनीयः प्रासादिको द्वाद्रिंशता महापुरुषलक्षणैः समलङ्कृतः; दक्षिणाच् चरणाज् जातः चारुमांश् चारुमान् इति संज्ञा उदपादि । महर्धिकः स कुमारो महानुभाव इत्य् अपीदानीं द्वयोर् द्वीपयो राज्यैश्वर्याधिपत्यं कारितवान् । चारुमतो गौतमा राज्ञो वामे चरणे पिटको जातः मृदुः सुमृदुस् तद्यथा तूलपिचुर् वा कर्पासपिचुर् वा; न कांचिद् आबाधां जनयति, परिपाकान्वयात् स्फुटितः; कुमारो जातो ऽभिरूपो दर्शनीयः प्रासादिको द्वाद्रिंशता महापुरुषलक्षणैः समलङ्कृतः; वामाच् चरणाज् जात उपचारुमान् उपचारुमान् इति संज्ञा उदपादि । महर्धिकः स कुमारो महानुभावः अपीदानीं एकस्मिन् द्वीपे राज्यैश्वर्याधिपत्यं कारितवान् । इति हि गौतमा महासंमतस्य राज्ञो रोचः पुत्रः रोचस्य कल्याणः कल्याणस्य वरकल्याणः वरकल्याणस्य उपोषधः उपोषधस्य मान्धाता मान्धातुश् चारुः चारोर् उपचारुः उपचारोश् चारुमान् चारुमत उपचारुमान् रुचिः सुरुचिः मुचिर् मुचिलिन्द अङ्ग अङ्गीरथो भृङ्गो भगीरथः सगरः सागरो महासागरः शकुनिर् महाशकुनिः कुश उपकुशो महाकुशः सुदर्शनो महासुदर्शनः प्रणयो महाप्रणयः प्रणादो महाप्रणादः प्रभङ्करः प्रतापवान् मेरुर् मेरुमान् मेरुमन्तः अर्चिर् अर्चिष्मान् अर्चिष्मन्तः; अर्चिष्मन्तस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया ( स्ब्व् इ 18 ) पोतलके नगरे एकशतराजशतम् अभूत्; तेषाम् अपश्चिमकः अरिन्दमो नाम राजाभूद्; अरीन् दमयतीत्य् अरिन्दमः अरिन्दम इति संज्ञा उदपादि; अरिन्दमस्य गौतमा राज्ञाः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया अयोध्यायां चतुःपंचाशद् राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमकः अजितञ्जयो नाम राजाभूद्; अजितं जयतीत्य् अजितंजयः अजितंजय ( अ 355अ ) इति संज्ञा उदपादि । अजितंजयस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया वाराणस्यां त्रिषष्टी राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको दुष्प्रसहो नाम राजाभूत् । दुष्प्रसहस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया किंपिल्ये नगरे चतुरशीतिराजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको ब्रह्मदत्तो नाम राजाभूत् । ब्रह्मदत्तस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया हस्तिनापुरे द्वात्रिंशद् राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको हस्तिदत्तो नाम राजाभूत् । हस्तिदत्तस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया तक्षशिलायां पंच राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको कालीशो नाम राजाभूत् । कालीशस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया उरसायां नगर्यां द्वात्रिंशद् राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको नग्नजिन् नाम राजाभूत् । नग्नजिनो गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया अजितंजये नगरे द्वात्रिंशद् राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको जयदत्तो नाम राजाभूत् । जयदत्तस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया कन्यकुब्जायां नगर्यां द्वादशराजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको जयसेनो नाम राजाभूत् । जयसेनस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया चंपायां नगर्यां अष्टादश राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको नागदेवो नाम राजाभूत् । नागदेवस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया तालिप्ये नगरे पंचविंशती ( स्ब्व् इ 19 ) राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको नरदेवो नाम राजाभूत् । नरदेवस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया तामलिप्त्यां नगर्यां द्वादश राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमकः सागरदेवो नाम राजाभूत् । सागरदेवस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया दन्तपुर्यां नगर्यां अष्टादश राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमकः सुमतिर् नाम राजाभूत् । सुमतेर् गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया राजगृहे नगरे पंचविंसती राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमकस् तमोनुदो नाम राजाभूत् । तमोनुदस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनर् अपि वाराणस्यां नगर्यां एकशतराजशतम् अभूत्; तेषाम् अपश्चिमको महेन्द्रसेनो नाम राजाभूत् । महेन्द्रसेनस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया कुशावत्यां नगर्यां चतुरशीतिराजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमकः समुद्रसेनो नाम राजाभूत् । समुद्रसेनस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनर् अपि पोतलके नगरे राजसहस्रम् अभूत्; तेषाम् अपश्चिमकस् तपंचरो नाम राजाभूत् । ( अ 355ब् ) तपंचरस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनर् अपि कुशावत्यां नगर्यां चतुरशीतिराजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको महीमुखो नाम राजाभूत् । महीमुखस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनर् अपि वाराणस्यां नगर्यां राजशतसहस्रम् अभूत्; तेषाम् अपश्चिमको महीपतिर् नाम राजाभूत् । महीपतेर् गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनर् अपि अयोध्यायां नगर्यां शतसहस्रम् अभूत्; तेषाम् अपश्चिमको महीधरो नाम राजाभूत् । महीधरस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया मिथिलायां नगर्यां चतुरशीतिराजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमको महादेवो नाम राजाभूत् । महादेवस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनर् अपि मिथिलायां नगर्यां ( स्ब्व् इ 20 ) चतुरशीतिमहादेवसहस्राणि राजर्षय ब्रह्मचर्यम् अचार्षुः; तेषाम् अपश्चिमको निमिर् नाम राजाभूत् । निमेर् निमग्नो दृढनेमिः खनुर् उपखनुः खनुमान् खनुमन्तः सुदृशः समदृशः श्रुतसेनो धर्मसेनो विदितो महाविदितो विदितसेन अशोको विगतशोको दृढसेनो जरासन्ध धुन्धुमारः अरुणो दिशांपतिर् एण्डः संककरकः आनन्द आदर्शमुखो जनकः
संजनको जनर्षभः अन्नपानः प्रचुरान्नपानः अजितो ऽपराजितः प्रतिष्ठितः सुप्रतिष्ठितः महाबलो महाबलवाहनः सुमतिर् दृढवाहनः शतधनुः चित्रधनुः नवतिधनुः विजितधनुर् दृढधनुर् दशरथः शतरथो नवतिरथः नरर्षभः चित्ररथो विचित्ररथो दृढरथः; दृढरथस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया सांकास्ये नगरे सप्तसप्तती राजसहस्राण्य् अभूवन्; तेषाम् अपश्चिमकः अम्बरीषो नाम राजाभूत् । अम्बरीषस्य गौतमा राज्ञः नागसंपालः पुत्रः; नागसंपालस्य गौतमा रज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनर् अपि वाराणस्यां नगर्यां एकशतं राजशतम् अभूत्; तेषाम् अपश्चिमको क्र्किर् नाम राजाभूत् । तेन खलु समयेन काश्यपो नाम शास्ता लोके उत्पन्नः; तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; यस्य अन्तिके बोधिसत्वो भगवान् आयत्यां बोधाय प्रणिधाय ( स्ब्व् इ 21 ) ब्रह्मचर्यं चरित्वा तुषिते देवनिकाये उपपन्नः । कृकेर् गौतमा राज्ञः सुजातः पुत्रः; सुजातस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनर् अपि पोतलके नगरे एकशतं राजशतम् अभूत्; तेषाम् अपश्चिमको कर्णो नाम राजाभूत्
स्तोर्य् ओf गौतम, थे प्रोगेनितोर् ओf इक्ष्वाकु
( अ 356अ ) कर्णस्य गौतमा राज्ञो द्वौ गौतमो भरद्वाजश् च; तयोर् गौतमो नैष्कर्म्याभिनन्दि; भरद्वाजो राज्याभिनन्दी; स पितरं पश्यति धर्माधर्मेण राज्यं कारयन्तं; स संलक्षयति: अहम् अपि पितुर् अत्ययाद् राजा भविष्याम्य् अहम् अपि धर्माधर्मेण राज्यं कारयित्वा नरकपरायणो भविष्यामि; किम् अत्र प्राप्तकालम् अगाराद् अनगारिकां प्रव्रजिष्ये इति विदित्वा येन कर्णो राजा तेनोपसंक्रान्तः । उपसंक्रम्य पादयोर् निपत्य विज्ञापयति; तातानुजानीहि मां प्रव्रजामि श्रद्धया अगाराद् अनगारिकाम् इति; स कथयति: पुत्र यस्यार्थे यज्ञा इज्यन्ते होमा हूयन्ते तपांसि तप्यन्ते तत् तव करतलगतं राज्यं; ममात्ययाद् राजा भविष्यसि । किमर्थं प्रव्रजसीति । स कथयति: तात न शक्यं मया धर्माधर्मेण राज्यं कारयितुं; तद् अनुजानीहि प्रव्रजामीति; ततो राज्ञा अवश्यं निर्बन्धं ज्ञात्वा अनुज्ञातः । तेन खलु समयेन अन्यतमस्मिन्न् आश्रमपदे कृष्णद्वैपायनो नाम ऋषिः प्रतिवसति; ततो गौतमः कुमारो राज्ञा समनुज्ञातो हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो येन कृष्णद्वैपायनो रिषिस् तेनोपसंक्रान्तः; उपसंक्रम्य विनीतेर्यापथपादाभिवन्दनं ( स्ब्व् इ 22 ) कृत्वा कथयति प्रव्रज्यार्थी प्रव्रजायस्व माम् इति । स तेन प्रव्रजितः; कृष्णद्वैपायनो ऋषिः फलमूलांबुभक्षः; तस्यापि गौतम ऋषिः गौतम ऋषिः इति संज्ञा संवृत्ता । यावद् अपरेण समयेन कर्णो राजा कालगतः; भरद्वाजकुमारो राज्यैश्वर्याधिपत्ये प्रतिष्ठापितः पित्र्यं राज्यं कारयति; यावद् अपरेण समयेन गौतमो ऋषिर् उपाध्यायास्य कथयति: उपाध्याय न शक्नोमि आरण्यकाभिर् ओषधीभिर् यापयितुं; ग्रामान्तं समवसरामीति; स कथयति: पुत्र शोभनं; ग्रामे वा अरण्ये वा प्रतिवसता रिषिणा सर्वथा इन्द्रियाणि रक्षितव्यानीति; गच्छ त्वं पोतलसामन्तकेन शाखापर्णकुटिं कृत्वा वासं कल्पय; एवम् उपाध्याय इत्य् उक्त्वा गौतम रिषिः पोतलकसामन्तकेन शाखापर्णकुटिं कृत्वा अवस्थितः; तेन खलु समयेन पोतलके नगरे भद्रा नाम रूपाजीवनी प्रतिवसति; मृणालश् च नाम्ना धूर्तपुरुषः; तेन वस्त्रालंकारम् अनुप्रेषितं परिचारणाय; सा तद्वस्त्रालंकारं प्रावृत्य संप्रस्थिता; अन्यतमश् च पुरुषः पंचकार्षापणशतान्य् आदायोपस्थितः; भद्रे आगच्छ परिचारय इति; सा संलक्षयति: यदि गमिष्यामि पंचकार्षापणशतानि लप्स्ये; अदाक्षिण्यं चैतद् गृहागतं प्रत्याख्यायान्यत्र गमनम् इति; तया प्रेष्यदारिकाभिहिता: गच्छ मृणालस्य कथय आर्या कथयति न तावद् अहं सज्जा पश्चाद् आगमिष्यामीति; तयापि तस्य गत्वारोचितं; सो ऽपि पुरुषो बहुकरणीयः; स ( अ 356ब् ) तां परिचार्य प्रथम एव यामे प्रक्रान्तः । सा संलक्षयति: महती वेला वर्तते शक्ष्याम्य् अहं तस्यापि चित्तग्राहं कर्तुम् इति; तया पुनर् अप्य् असौ दारिकाभिहिता: गच्छ मृणालस्यारोचय आर्या सज्जा संवृत्ता कथय कतरद् उद्यानम् आगच्छत्व् इति; तया तस्मै गत्वारोचितं; स कथयति क्षणेन तवार्या सज्जा क्षणेनासज्जेति; सा दारिका तस्याः सान्तरा; तया समाख्यातम्: आर्य्पुत्र नासाव् असज्जा; किं तर्हि; तया त्वदीयेन वस्त्रालंकारेणान्येन पुरुषेण सार्धं परिचारितम् इति; तस्य यत्तत् कामरागपर्यवस्थानं ( स्ब्व् इ 23 ) तद् विगतं; व्यापादपर्यवस्थानं समुत्पन्नं; स संजातामर्षः कथयति: दारिके गत्वा भद्रायाः कथय मृणालः कथयत्य् अमुकम् उद्यानं निर्गच्छेति; तया गत्वा भद्राया आरोचितं; ततः सा तद् उद्यानं निर्गता; मृणालेन धूर्तपुरुषेणोक्ता: युक्तं नाम तव मदीयेन वस्त्रालंकारेणान्येन पुरुषेण सार्धं परिचारयितुम् इति; सा कथयति: आर्यपुत्रास्त्य् एव ममापराधः; किं तु नित्यापराधो मातृग्रामः क्षमस्वेति; ततस् तेन संजातामर्षेण निष्कोशम् असिं कृत्वा जीविताद् व्यपरोपिता; ततस् तया प्रेष्यदारिकया महान् कोलाहलः शब्दः कृतः आर्या प्रघातिता आर्या प्रघातितेति; श्रुत्वा समन्ताज् जनकायः प्रधावितः यावत् तस्मिन्न् एवाश्रमपदे गौतमरिषिः प्रतिवसति; ततो ऽसौ मृणालो धूर्तपुरुषः संत्रस्तो रुधिरम्रक्षितम् असिं गौतमस्य रिषेः पुरस्ताच् छोरयित्वा तस्यैव महाजनकायस्य मध्यं प्रविष्टः; महाजनकायश् च रुधिरम्रक्षितम् असिं दृष्ट्वा कथयति: अनेन प्रव्रजितेन भद्रा जीविताद् व्यपरोपितेति । ततस् तं गौतमरिषिं परिवार्य संजातामर्षाः कथयन्ति: भोः प्रव्रजित रिषिध्वजं धारयसि ईदृशं च कर्म करोषीति । स कथयति: किं कृतं; ते कथयन्ति: भद्रया ते सार्धं परिचारितं सा च जीविताद् व्यपरोपितेति; स कथयति: शान्तं नाहम् अस्य कर्मणः कारीति; स शान्तवाद्य् अपि तेन महाजनकायेन पश्चाद्बाहुगाढबन्धनबद्धो राज्ञे उपनामितः देवानेन प्रव्रजितेन भद्रया सार्धं परिचारितं सा जीविताद् व्यपरोपिता इति; अपरीक्षका राजानः; कथयति: यद्य् एवं गच्छत; एनं शूले समारोपयत; परित्यक्तो ऽयं मया प्रव्रजित इति । ततो ऽसौ प्रव्रजितः करवीरमालासक्तकण्ठगुणो नीलांबरवसनैः पुरुषैर् उद्यतशस्त्रैः संपरिवारितो रथ्यावीथीचत्वरशृण्गाटकेषु श्रवणासुखेष्व् अनुश्राव्य दक्षिणेन
( स्ब्व् इ 24 ) नगरद्वारेण निष्कास्य जीवन्न् एव शूले समारोपितः; तस्यासाव् उपाध्यायः कृष्णद्वैपायनः कालेन कालं तस्याश्रमपदम् उपसंक्रामति; यावद् अपरेण समयेनोपसंक्रान्तः न पश्यति स इतश् चेतश् च समन्वेषितुम् आरब्धो यावत् पश्यति शूलसमारोपितं ( अ 357अ ) स बाष्पगद्गदकण्ठः अश्रुपर्याकुलेक्षणः करुणदीनविलंबिताक्षरं कथयति: हा वत्स किम् इदं; सो ऽपि गद्गदकण्ठो मर्मवेदनोपरोधजनितविषादः कथयत्य् उपाध्याय कर्माणि; किम् अन्यद् भविष्यतीति । स कथयति: वत्स नासि क्षत उपहतो वा; तात क्षतो ऽहं कायेन नो तु चित्तेन; वत्स कथं ज्ञायते; उपाध्याय सत्योपयाचनं करिष्ये शृणु येन सत्येन सत्यवचनेन क्षतो ऽहं कायेन नो तु चित्तेन तेन सत्येन सत्यवचनेन येयम् उपाध्यायस्य कृष्णवर्णा च्छविर् इयं सुवर्णवर्णा भवेद्; भाविताध्याशयो ऽसौ महात्मा; वचनावसानसमनन्तरम् एव कृष्णद्वैपायनस्य ऋषेः कृष्णवर्णा च्छविर् अन्तर्हिता; सुवर्णवर्णा संवृत्ता । सामन्तकेन शब्दो विसृतः कृष्णद्वैपायनरिषिः सुवर्णवर्णः संवृत्त इति । तस्य सुवर्णद्वैपायनः सुवर्णद्वैपायन इति संज्ञा संवृत्ता; स परं विस्मयम् उपगतः; ततो ऽसौ गौतमरिषिः कथयति: उपाध्याय इतश् च्युतस्य मे का गतिर् भविष्यति का उपपत्तिः को ऽभिसंपराय इति । स कथयति: वत्स ब्राह्मणाः कथयन्ति: अपुत्रस्य गतिर् नास्तीति; अस्ति त्वया किंचिद् अपत्यम् उत्पादितम्; उपाध्याय कुमार एवाहं; स्त्रीतन्त्रे अप्रकृतिज्ञः; पित्रा राज्यनिमित्तं प्रोत्साह्यमानः प्रव्रजितः; कुतो ममापत्यसमुत्पत्तिः; वत्स यद्य् एवं पूर्वोपभुक्तविषयानुस्मरणं कुरु; उपाध्याय गाढवेदनाभ्याहतस्य मे इदानीं छिद्यमानेषु मर्मसु मुच्यमानेषु सन्धिषु ( स्ब्व् इ 25 ) मरणैकान्तमनसः कथं पूर्वोपभुक्तविषयानुस्मरणं भवति; स तस्योपाध्यायः पंचाभिज्ञालाभी; तेन ऋद्ध्या महान् वातवर्षो निर्मितः; तस्य वर्षबिन्दवः काये निपतिताः; ततः शीतलसलिलवातस्पर्शाद् वेएदना विष्टंभिता; स पूर्वोपभुक्तविषयान् स्मर्तुम् आरब्धः; यावद् अस्य मैथुनरागसमनुस्मरणाद् द्वौ शुक्रबिन्दू सरुधिरे निपतितौ; चत्वारि स्थानान्य् अचिन्तनीयानि; आत्मचिन्ता लोकचिन्ता सत्वानां कर्मविपाकचिन्ता बुद्धानां च बुद्धविषयचिन्ता इति; तौ शुक्रबिन्दू द्वे अण्डे प्रादुर्भूते; सूर्यस्याभ्युद्गमनकालसमये सूर्यरश्मिपरिपाचिते स्फुटिते; द्वौ कुमारौ जातौ; ततो नातिदूरे इक्षुवाटः; तौ तत्र प्रविष्टौ; ततस् सूर्यरश्मयो भासुरतरा जाताः; गौतमरिषिः सूर्यरश्मिपरितापितः कालगतः; ततः सुवर्णद्वैपायनरिषिर् आगतः; पश्यति कालगतः; स शूलसामन्तके पश्यति अण्डे स्फुटिते; कपालान्य् अवस्थितानि; सो ऽनुसरन्न् इतश् चामुतश् च इक्षुवाटं प्रविष्टो यावत् पश्यति: द्वौ कुमारौ; समन्वाहर्तुं प्रवृत्तः; कस्यैतौ पुत्राव् इति; पश्यति: गौतमस्य ऋषेः; ततो ऽस्य सुतरां प्रेमा उत्पन्नः; तेन ताव् आस्रमपदं नीत्वा आपायितौ पोषितौ संवर्धितौ; ( अ 357ब् ) तयोश् च नामधेयं व्यवस्थापयितुं प्रवृत्तः; सूर्यस्याभ्युद्गमनकालसमये सूर्यरश्मिभिः परिपाचितौ जातौ भवतः; तस्मात् सूर्यगोत्राव् इति सूर्यगोत्रा इति संज्ञा संवृत्ता; गौतमस्य रिषेः पुत्रौ गौतमा गौतमा इति द्वितीया संज्ञा संवृत्ता; स्वाङ्गीनिसृता इति आङ्गीरसा आङ्गीरसा इति तृतीया संज्ञा संवृत्ता; इक्षुवाटाल् लब्धा इक्ष्वाका इक्ष्वाका इति चतुर्थी संज्ञा संवृत्ता; यावद् अपरेण समयेन भरद्वाजो राजा अपुत्र एव कालगतः; अमात्याः संनिपत्य समवायं कर्तुम् आरब्धाः; भवन्तः कम् इदानीं राजानम् अभिषिञ्चाम इति; अपरे कथयन्ति तस्य भ्राता गौतमो रिषीणां मध्ये प्रव्रजितः; तस्येदं कुलक्रमागतं राज्यं; तम् अभिसिञ्चाम इति; कृतसञ्जल्पाः सुवर्णद्वैपायनस्य रिषेः सकाशम् उपसंक्रान्ताः; उपसंक्रम्य पादयोर् निपत्य कथयन्ति: महर्षे गौतमः क्व गत इति; स कथयति युष्माभिर् एव प्रघातित इति; महर्षे वयं तस्य दर्शनम् अपि न समनुस्मरामः; कथं प्रघातयामः ( स्ब्व् इ 26 ) अहं युष्मान् स्मारयामि; शोभनं; तेन ते स्मारिताः कथयन्ति: महर्षे यद्य् एवम् अलं तस्य नामग्रहणेन; पापकार्य् असाव् अकीर्तनीयः; किं तेन पापकं कर्म कृतं; इदं चेदं च; नासौ पापकर्मकारी; अदूष्य् अनपकार्य् एव युष्माभिः प्रघातितः; कथं; तेन विस्तरेण यथावृत्तं समाख्यातं; ते संजातदौर्मनस्याः कथयन्ति: महर्षे यद्य् एवं वयं पापकर्मकारिणो नासाव् इति; ते चैवम् आलापं कुर्वन्ति; तौ च दारकौ रिषेः सकाशम् उपसंक्रान्तौ; अमात्याः कथयन्ति: महर्षे कस्येतौ दारकौ कथयति तस्यैव पुत्रौ; कथम् एतौ समुत्पन्नौ का वा अनयोः संज्ञा; तेन सोत्पत्तिकं विस्तरेण समाख्यातम्; अमात्याः श्रुत्वापि परं विस्मयम् उपगताः; तैस् तं रिषिम् अनुज्ञाप्य तयोर् ज्येष्ठः कुमारो राज्याभिषेकेणाभिषिक्तः; सो ऽप्य् अपुत्रः कालगतः; ततो ऽसौ द्वितीयः कनीयान् अभिषिक्तः; तस्य इक्ष्वाकुराजा इक्ष्वाकुराजा इति संज्ञा संवृत्ता; इक्ष्वाकोर् गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया पुनर् अपि पोतलके नगरे एकशतम् इक्ष्वाकुराजशतम्
अभूत्
थे स्तोर्य् ओf विरूढक
तेषाम् अपश्चिमको विरूढको नाम इक्ष्वाकुराजो ऽभूद्; विरूढकस्य गौतमा इक्ष्वाकुराजस्य चत्वारः पुत्राः; उल्कामुखः करकर्णी हस्तिनियंसः नूपुरकश् च; तस्यापरेण समयेनाग्रमहिषी कालगता; स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः; अमात्याः कथयन्ति: किमर्थं देव करे कपोलं दत्वा चिन्तापरस् तिष्ठति; स कथयति: ममाग्रमहिषी कालगता; कथं न चिन्तापरस् तिष्ठामीति; देव यद्य् एवं किमर्थं देवस्याग्रमहिषी न समन्विष्यते; संविद्यन्ते प्रतिसामान्तकानां राज्ञां ( स्ब्व् इ 27 ) दुहितरः; ( अ 358अ ) राजा कथयति: इमे राज्याभिनन्दिनः कुमाराः; एषु संविद्यमानेषु प्रत्यनीकभूतेषु को मे दुहितरं दास्यति: देवश् चित्तं करोतु; वयं समन्वेषामः; यावद् अन्यतमस्य राज्ञः दुहिता अभिरूपा दर्शनीया प्रासादिका प्रतिरूपा देवीत्वेन; ते तां समुपलभ्य तस्य राज्ञः सकाशं गताः; तैः पारंपर्येण राज्ञो निवेदितं; राज्ञा आज्ञा दत्ता आहूयताम् इति; ततस् ते राज्ञः सकाशं प्रेषिताः; पादयोर् निपत्य कथालापपूर्वकं निषण्णाः; आलापावसरप्राप्ता राजानं संमुखं दृष्ट्वा कथयन्ति: देव स्वस्ति स्वस्तीति; राजा कथयति: भवन्तः किं याचध्वे; विरूढकस्येक्ष्वाकुराजस्याग्रमहिषी कालगता; तस्यार्थाय कन्यां भिक्षां; राजा कथयति: शोभनं प्रतिरूपो वरः; किं तु समयतो ऽनुप्रयच्छामि यदि मे दुहितुः पुत्रो भवति; तं यदि राज्यैश्वर्याधिपत्ये प्रतिष्ठापयति; देव एवं भवतु गच्छामः देवं श्रावयामः; तैर् गत्वा विरूढकस्येक्ष्वाकुराजस्य यथावृत्तम् आरोचितं; राजा कथयति: भवन्तो नैतत् प्रतिरूपं ज्येष्ठतरान् राज्याभिनन्दिनः कुमारान् प्रत्याख्याय कनीयसः प्रतिष्ठापनं; देव सन्दिग्धो ऽयम् अर्थः आनीयतां तावद् देवी; तया सार्धं देवः क्रीडतु रमतां परिचारयतु; न ज्ञायते किम् असौ कुमारं जनयिष्यतीत्य् आहोस्वित् कुमारिकां वन्ध्या वा भविष्यतीति; राजा कथयति: भवन्तो यद्य् एवं गच्छत; ततः प्रतिष्टा भवतु; तैर् गत्वा प्रतिगृहीता; यावद् राज्ञा महता श्रीसमुदायेन परिणीता; सा च राज्ञो ऽभिमता संवृत्ता; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरे देवी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिकः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति; अमात्या देव यस्माद् अयम् अजात एव ( स्ब्व् इ 28 ) राज्यम् अभिनन्दति तस्माद् भवतु दारकस्य राज्याभिनन्दीति; स दारकः अष्टाभ्यो धात्रीभ्यः अनुप्रदत्तः पूर्ववद् यावद् आशु वर्धते ह्रदस्थम् इव पङ्कजं; तं राजा यौवराज्ये न प्रतिष्ठापयति; तस्य मातामहेन राज्ञा श्रुतं; तेन तस्य दूतो ऽनुप्रेषितः; सकर्कशं च लिखितं: त्वया पूर्वम् अनुज्ञातम् एव; यदि यथाप्रतिज्ञातं करोषि इत्य् एवं कुशलं; नो चेद् यत् ते बलं वीर्यं पराक्रमस् ### तेनावतिष्ठस्व; एषो ऽहम् आगतः राष्ट्रापमर्दं करोमीति; महाबलसमुदितो ऽसौ राजा; स श्रुत्वा व्यथितः; अमात्यान् संनिपात्य पृच्छति: भवन्तः मम तेन राज्ञा एवं लिखितं; कथम् अत्र प्रतिपत्तव्यम् इति; ते कथयन्ति: देव अभिषिच्यतां राज्याभिनन्दी यौवराज्ये; स कथयति: भवन्तः नैतद् युक्तं ज्येष्ठान् राज्याभिनन्दिनः कुमारान् प्रत्याख्याय कनीयसो राज्याभिषेचनं; ते कथयन्ति: देव उदीर्णबलवाहनो ( अ 358ब् ) ऽसौ राजा; स्थानम् एतद् विद्यते यद् आगत्य नियतं राष्ट्रापमर्दं करिष्यति; अभिषिच्यतां राज्याभिनन्दी राज्यैश्वर्याधिपत्ये; प्रवास्यन्तां कुमारा राज्याद्; राजा कथयति: भवन्तः कथम् अदूषिणो ऽनपकारिणः कुमारा निर्वास्यन्ते; देव वयम् अमात्या हिताधानतत्पराः अदूषिणो ऽनपकारिणः प्रवासयामः; दूषिणम् अपकारिणं प्रतिष्ठापयामः; राजा अप्य् उपेक्ष्य तूष्णीम् अवस्थितः; अमात्याः संनिपत्य परस्परं संजल्पं कर्तुम् आरब्धाः: भवन्त उपायसंविधानं कर्तव्यं येन राजा कुमारेषु विमुखी भवति; ततस् तैर् उद्यानं शोधयित्वा चित्रम् उपचित्रं कारितं; सुरभिधूपघटिकोपनिबद्धम् आमुक्तदामपट्टकलापं नानापुष्पावकीर्णं रमणीयं; ततस् तैर् अमात्यैस् तद् उद्यानं तथाभिसंस्कृतं दूराद् दृष्टं; ते कुमाराश् चपलाद् उद्यानाभिमुखं संप्रस्थिताः; अमात्या उद्यानशोभां कारयित्वा निर्गताः; कुमारैः पृष्टाः कस्येदम् उद्यानम् ( स्ब्व् इ 29 ) इति; ते कथयन्ति देवस्य; ते प्रतिनिवर्तितुम् आरब्धाः; अमात्याः कथयन्ति: कुमाराः प्रविशत किमर्थं निवर्तथ इति; ते कथयन्ति देवकीयम् उद्यानं; कथं प्रविशाम इति; अमात्याः कथयन्ति: देवो वा क्रीडेत् कुमारो वा को ऽत्र विरोधः; ते प्रविश्य क्रीडितुम् आरब्धाः; अमात्यै राजाभिहितः: देव उद्यानं शोभनं परिकर्मीकृतं; कालो देवस्य द्रष्टुम् इति; राजा संप्रस्थितः; अश्रौषीद् उद्याने कोलाहलं शब्दं; श्रुत्वा च पुनर् अमात्यान् पृच्छति: भवन्त उद्याने कोलाहलः
शब्दः श्रूयते; को ऽत्रावतिष्ठते; अमात्याः कथयन्ति: देव कुमाराः; यद्य् एवं परित्यक्ता मया कुमाराः; अमात्याः पादयोर् निपत्य कथयन्ति: देव क्षम्यतां कुमाराणां; मा परित्यज्यन्ताम् इति; राजा कथयति एवं भवत्व् इति; ते प्रवासयितुम् आरब्धाः राज्ञः पादयोर् निपत्य कथयन्ति: देव यद्य् एवं यो ऽस्माभिः सार्धं परिजनो गच्छति स यथा न निवार्यते तथाज्ञां दातुम् अर्हसि; राज्ञा आज्ञा दत्ता; ते संप्रस्थिताः; अनुरक्तजनपदास् ते; तैः सार्धं महाजनकायः संप्रस्थितः; सप्तदिवसं पोतलकस्य नगरद्वारम् अपावृतं स्थितं जनकायस्य निर्गच्छतः; अमात्यै राज्ञे निवेदितं: देव यदि नगरस्य द्वारं नाव्रियते न चिरात् पोतलकं निरावासं भवतीति; यद्य् एवं द्वाराण्य् आवृणुत; ततस् ते कुमाराः स्वकस्वका भगिनीर् आदायानुपूर्वेण हिमवत्पार्श्वं नद्या भगीरथ्यास् तीरं कपिलस्य रिषेर् आश्रमपदस्य नातिदूरम् अनुप्राप्ताः; ते तस्मिंश् छाखापर्णकुटीरकाणि कृत्वा वासं कल्पितवन्तः मृगांश् च प्रघात्य प्रघात्य जीविकां कल्पयन्ति; त्रिष्कालं च कपिलस्य रिषेर् आश्रमपदम् उपसंक्रामन्ति; अभिनवयौवनमदाक्षिप्ताः कामरागेणात्यर्थं बाध्यमानाः उत्पाण्डूत्पाण्डूकाः कृशालकाः ( अ 359अ ) संवृत्ताः; यावद् अपरेण समयेन कपिलेन रिषिणा तथाविधा दृष्टाः पृष्टाश् च: कस्माद् यूयम् उत्पाण्डूत्पाण्डुकाः; ते कथयन्ति: महर्षे कामरागेणातीव बाध्यामहे; स कथयति: स्वकस्वका भगिनीस् त्यक्त्वा वैमातृकाभिर् भगिनीभिः सार्धं वासं कल्पयत; लभ्यं महर्षे अस्माभिर् एवं कर्तुं; लभ्यं भवन्तो यथापितत् क्षत्रियै राज्यपरिभ्रष्टैः; ततस् ते रिषिवचनं प्रमाणम् इति कृत्वा कामरागाध्यवसिताः प्रीतिप्रामोद्यजाताः वैमातृकाभिर् भगिनीभिः सार्धं ( स्ब्व् इ 30 ) क्रीडन्ति रमन्ते परिचारयन्ति; तेषां ताभिः संक्रीडतां रममाणानां परिचारयतां पुत्रा दुहितरश् च जाताः; ते वृद्धिं गताः
थे चितिएस् ओf कपिलवस्तु अन्द् देवदृश
कपिलरिषिः शब्दकण्टकत्वाद् ध्यानानां चित्तैकाग्रतां नारागयति; स कथयति: भवन्तः अवलोकिता भवत; अहम् अन्यत्र गमिष्यामि; महर्षे किमर्थं; चित्तैकाग्रतां नारागयामि, शब्दकण्टकानि ध्यानानि; महर्षे त्वम् इहैव तिष्ठ; वयम् अन्यत्र गच्छामः; किं तु भूभागम् अस्माकम् अनुप्रयच्छ; भवन्तः शोभनं; ऋषयस् ते महात्मानः ईप्सितमनोरथसाधकाः; तेन सौवर्णं भृंगारम् आदाय नगराकारेण उदकधारापातैर् नगरं मापितं; कपिलेन रिषिणा तेषां वासाय वस्तु परित्यक्तम् इति कपिलवस्तु कपिलवस्त्व् इति संज्ञा संवृत्ता; ते तत्र वृद्धिं गताः; महाजनकायः संवृत्तः; संबाधाद् वृद्धिं न लभन्ते; तेषां चेतसा चित्तम् आज्ञाय देवताभिर् अन्यप्रदेश उपदर्शितः; तैस् तत्र गत्वा द्वितीयं नगरं मापितं; देवद्रिशं देवद्रिशम् इति संज्ञा संवृत्ता; ततस् ते संगम्य समागम्य संजल्पं कर्तुम् आरब्धाः: भवन्तो यद् वयं निर्वासिताः तत् सदृशभार्योपादानात्; तद् अस्माकं न केनचिद् द्वितीया सदृशी भार्या उपादातव्या; एकयैव सन्तोषः करणीय इति; ते एकाम् एव सदृशीं भार्यां परिणमयन्ति; न द्वितीयाम्; अथापरेण समयेन विरूढको राजा प्रियान् पुत्रान् समनुस्मरन् अमात्यान् आमन्त्रयते: हम्भोः ग्रामण्यस् ते कुमाराः क्व सांप्रतं; तैर् विस्तरेणारोचितं; देव केनचिद् अधिकरणेन निर्वासिताः; ते स्वकस्वका भगिनीर् आदाय इतः प्रक्रान्ताः; अनुहिमवत्पार्श्वे नद्या भगीरथ्यास् तीरे कपिलस्य रिषेर् आश्रमपदस्य नातिदूरे वासं कलयन्ति; स्वकस्वका भगिनीः प्रत्याख्याय वैमातृकाभिर् भगिनीभिः सार्धं क्रीडन्ति रमन्ते परिचारयन्ति; तेषां क्रीडतां रममाणानां परिचारयतां पुत्रा ( स्ब्व् इ 31 ) दुहितरश् च जाताः; शक्यं ग्रामण्यः कुमारैर् एवं कर्तुं; देव शक्यम्; अथ विरूढकः इक्ष्वाकुराजः पूर्वं कायम् अभ्युन्नमय्य दक्षिणबाहुम् अभिप्रसार्योदानम् उदानयति; शक्या बत कुमाराः, परमशक्या बत कुमारा इति; महेशाख्येन सत्वेन वाङ् निश्चारिता शाक्या बत कुमाराः; परमशाक्या बत कुमारा इति शाक्या इति संज्ञा संवृत्ता
सुच्चेस्सोर्स् तो विरूढक
अपरेण समयेन विरूढक इक्ष्वाकुराजः कालगतः ( अ 359ब् ); राज्याभिनन्दी राज्ये ऽभिषिक्तः; सो ऽप्य् अपुत्रः कालगतः; उल्कामुखो राज्यैश्वर्याधिपत्ये प्रतिष्ठापितः; सो ऽप्य् अपुत्रः कालगतः; करकर्णी राजा संवृत्तः; सो ऽप्य् अपुत्रः कालगतः; हस्तिनियंसो राजा संवृत्तः; सो ऽप्य् अपुत्रः कालगतः; नूपुरको राजा सम्वृत्तः; तस्य पुत्र ओपुरकः; ओपुरकस्य गोपुरकः गोपुरकस्य गौतमा राज्ञः पुत्रप्रपौतृकया नप्तृप्रनप्तृकया कपिलवस्तुनगरे पंचपंचाशद् राजसहस्राण्य् अभूवन्; तेषाम् अप्श्चिमको दशरथः शतरथो नवतिरथः चित्ररथो बिजितरथो दृढरथः दशधनुः शतधनुः नवतिधनुः विजितधनुर् चित्रधनुः दृढधनुर्; दृढधनुषो गौतमा द्वौ पुत्रौ सिंहहनुः सिंहनादी च; यावन्तः खलु गौतमा जम्बूद्वीपे धनुर्धराः सिंहहनुस् तेषाम् अग्र अख्यातः; सिंहहनोर् गौतमा चत्वारः पुत्राः शुद्धोदनः शुक्लोदनः द्रोणोदनः अमृतोदनः; शुद्धा शुक्ला द्रोणा अमृतिका चेति दुहितरः; शुद्धोदनस्य द्वौ पुत्रौ भगवान् आयुष्मांश् च नन्दः; शुक्लोदनस्य ( स्ब्व् इ 32 ) द्वौ पुत्रौ; आयुष्मांश् च तिष्यो भद्रकश् च शाक्यराजः; द्रोणोदनस्य द्वौ पुत्रौ महानामा आयुष्मांश् चानिरुद्धः; अमृतोदनस्य द्वौ पुत्रौ आयुष्मान् आनन्दो देवदत्तश् च; शुद्धायाः सुप्रबुद्धः पुत्रः; शुक्लायाः पुत्रो माली; द्रोणाया भाद्दाली; अमृतिकायाः शैवलः भगवतो राहुलः पुत्र इति गौतमा राहुले महासंमतवंशः प्रतिष्ठितः; उच्छिन्ना भवनेत्री विक्षीणो जातिसंसारो नास्तीदानीं पुनर्भवः
बुद्धऽस् रेमर्क्स्
अथ भगवान् आयुष्मतो महामौद्गल्यायनस्य कथापर्यवसानं विदित्वा उत्थाय निषण्णः; निषद्यायुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: साधु साधु मौद्गल्यायन साधु साधु खलु त्वं मौद्गल्यायन यस् त्वं भिक्षूणां पुरस्ताच् छाक्यानां पौराणं कुलवम्शम् आरभ्य धर्म्यां कथां कथयसि; पुनर् अपि त्वं मौद्गल्यायन अभीक्ष्णम् अपि त्वं शाक्यानां पौराणं कुलवंशम् आरभ्य धर्म्यां कथां कथय; तद् एषां भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: उद्गृह्णीत यूयं भिक्षवः शाक्यानां पौराणं कुलवंशम् आरभ्य धर्म्यां कथां धारयितुं ग्राहयितुं वाचयितुं; तत् कस्य हेतोः; अर्थोपसंहिता भिक्षवः शाक्यानां पौराणं कुलवंशम् आरभ्य धर्म्या कथा; अर्थोपसंहिता ब्रह्मचर्योपसंहिता; युक्तम् एव भिक्षवः श्रद्धया प्रव्रजितेन कुलपुत्रेण शाक्यानां ( स्ब्व् इ 33 ) पौराणं कुलवंशम् आरभ्य धर्म्यां कथां धारयितुं ग्राहयितुं वाचयितुम्; अथ कापिलवस्तवाः ( अ 360अ ) शाक्या भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ताः
सिंहहनुऽस् रेइग्न्
तेन खलु समयेन कपिलवस्तुनि नगरे सिंहहनुर् नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; देवदृशे नगरे सुप्रबुद्धो राज्यं राजा कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; सुप्रबुद्धस्य राज्ञो लुम्बिनी नामाग्रमहिषी अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणी; देवदृशे ऽन्यतमो गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तस्यारामः पुष्पसंपन्नः फलसंपन्नः शालिसंपन्नो नानाविहगनिकूजितः; तस्याभिरामतया राजा कालानुकालं तत्र गत्वा सार्धम् अन्तःपुरेण रतिक्रीडां प्रत्यनुभवति; लुम्बिन्यास् तं दृष्ट्वा स्पृहा उत्पन्ना; स कथयति: देव ममैतम् आरामम् अनुप्रयच्छेति; राजा कथयति: गृहपतिसन्तको ऽयम् आरामः; कथम् अनुप्रयच्छामि; यदि त्वम् आरामेणार्थिनी अन्यं तवार्थाय शोभनतरं कारयामीति; ततो राज्ञा सुप्रबुद्धेन लुम्बिन्या अर्थाय तद्विशिष्टतर आरामः कारितः; तस्य लुंबिनीवनं लुम्बिनीवनम् इति संज्ञा संवृत्ता; सिंहहनोर् दीर्घरात्रम् अयम् आशासकः: अहो बत मे कुले चक्रवर्ती उत्पद्येत इति; सुप्रबुद्धस्यापि राज्ञो दीर्घरात्रम् अयम् आशासकः: अहो बत मे सिंहहनुना सार्धं संबन्धः स्याद् इति; यावत् तस्यापरेण समयेन देव्या सार्धं क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता; ( स्ब्व् इ 34 ) तस्या रूपशोभया सुप्रबुद्धो राजा सान्तःपुरो देवदृशनिवासी जनकायश् च परं विस्मयम् उपगतः; सन्दिग्धमनाश् च संवृत्तः: किम् इयं दारिका आहोस्विद् विश्वकर्मनिर्मितेयं मायेति; तस्यास् त्रीणि सप्तकान्य् एकविंशतिदिवसान् विस्तरेण जाताया जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति; अमात्याः कथयन्ति: देव देवदृशनिवासिजनकाया रथ्यावीथीचत्वरशृङ्गाटकेषु विप्रवदन्ते; केचित् कथयन्ति: दारिका एवासौ पूर्वकर्मविपाकाभिनिष्पन्ना एवं वर्णरूपशोभेति; अपरे कथयन्ति: नासौ दारिका; किंतर्हि विश्वकर्मनिर्मिता सा मायेति तस्माद् भवतु दारिकाया मायेति नाम; तस्य मायेति नाम कृतं; माया दारिका अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्ता पूर्ववद् यावन् महती संवृत्ता; सा नैमित्तिकैर् व्याकृता; पुत्रं जनयिष्यत्य् अनेकलक्षणसंपन्नं; राजा भविष्यति बलचक्रवर्ती; भूयो ऽप्य् अस्य क्रीडतो रम्माणस्य परिचारयतः दुहिता ( अ 360ब् ) जाता प्रतिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता; तस्या जन्मनि सर्वं तन् नगरम् उदारेणावभासेनावभासितं; न चास्याः शक्यते सर्वथा रूपशोभां वर्णयितुं; यथा मायायास् तस्या अपि विस्तरेण जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारिका नामेति; अमात्याः कथयन्ति: अस्या रूपशोभा यन् मायां व्यतिरिच्य वर्तते तस्माद् भवतु महामायेति; साप्य् उन्नीता वर्धिता महती संवृत्ता; सा नैमित्तिकैर् व्याकृता; पुत्रं जनयिष्यति द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतं; स राजा भविष्यति चक्रवर्तीति; सुप्रबुद्धेन राज्ञा सिंहहनोर् दूतो ऽनुप्रेषितः; द्वे दुहितरौ जाते माया महामाया च; तत्रैका व्याकृता पुत्रं जनयिष्यति लक्षणसंपन्नं; स राजा भविष्यति बलचक्रवर्तीति; द्वितीया व्याकृता पुत्रं जनयिष्यति द्वात्रिंशता महापुरुषलक्षनैः ( स्ब्व् इ 35 ) समलङ्कृतं; स राजा भविष्यति चक्रवर्तीति; अनयोर् याभिप्रेता शुद्धोदनस्य कुमारस्यार्थायानयेति; सिंहहनुना प्रतिसन्देशो दत्तः, द्वाभ्याम् अपि कुमारस्य प्रयोजनं; किं तु न द्वे सदृशे भार्ये एकस्योपस्थापयितव्ये इति यैवं व्याकृता पुत्रं जनयिष्यति द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतं स राजा भविष्यति चक्रवर्तीति, एषा तावत् प्रतीष्टा; द्वितीयाया अर्थाय गणम् अवलोकयिष्यामीति; तेन सा पञ्चशतपरिवारा प्रेषिता; तेन खलु समयेन शाक्यानां पाण्डवा नाम खषाः प्रतिविरुद्धाः; शाक्याः संभूय राज्ञः सिंहहनोः सकाशम् उपसंक्रान्ताः; देव पाण्डवैः खषैर् उपद्रुताः स्म, साहाय्यं कल्पयेति; स कथयति भवन्तो वृद्धो ऽहं न शक्नोमि तैः सार्धं संग्रामयितुं; देव शुद्धोदनं कुमारम् अनुप्रेषय; समयतो ऽनुप्रेषयामि यदि कुमारस्य यथाभिप्रेतं वरं प्रार्थयतो ऽनुप्रयच्छत; ते कथयन्ति: देव एवं भवतु प्रयच्छामः; राज्ञा चतुरङ्गं बलकायं दत्वा शुद्धोदनः कुमारः प्रेषितः; तेन ते खषाः हतप्रहतविध्वस्ताः कृताः; ततः शाक्याः परितुष्टाः सिंहहनो राज्ञः सकाशम् उपसंक्रान्ताः; देव कुमारेण पाण्डवा खषाः हतप्रहताः विध्वस्ताः कृताः; परितुष्टा स्मः; वद कुमारस्य कं वरम् अनुप्रयच्छामः; भवन्तः शाक्यैः क्रियाकारः कृतः न केनचिद् द्वे सदृशे भार्ये उपस्थापयितव्ये इति; देव किं मुच्यतां क्रियाकारः; स कथयति: सुतरां बद्धव्यो न मोक्तव्यः; किं तु कुमारस्यैकं वरम् अनुप्रयच्छथ, द्वितीयां सदृशीं भार्याम् उपस्थापयितुं; देव शोभनम्; एवं क्रियतां; ततः सिंहहनुना सुप्रबुद्धस्य लेखो ऽनुप्रेषितः अवलोकितो
मया गणः; द्वितीयां दुहितरम् अनुप्रेषयेति; तेन सापि पञ्चशतपरिवारा प्रेषिता; शुद्धोदनेन कुमारेण द्वे अपि परिणीते ( स्ब्व् इ 36 )
शुद्धोदन सुच्चेएद्स् सिंहहनु अन्द् थे देस्चेन्त् ओf थे बुद्ध
यावद् अपरेण समयेन सिंहहनू राजा कालगतः; कपिलवस्तुनि शुद्धोदनो राजा राज्यं कारयति ऋद्धं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं ( अ 361अ ) च; सो ऽपरेण समयेन महामायादेव्या सार्धम् उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति; धर्मता ह्य् एषा तुषितभवनस्थो बोधिसत्वः पंचभिर् अवलोकनैर् लोकम् अवलोकयति जात्यवलोकनेन देशावलोकनेन कालावलोकनेन वंशावलोकनेन स्त्र्यवलोकनेन च; (1) केन कारणेन बोधिसत्वा जात्यवलोकनं कुर्वन्ति? तुषितभवनस्थस्य बोधिसत्वस्यैवं भवति; कीदृश्यां जातौ बोधिसत्वाः प्रतिसन्धिं गृह्णन्तीति; पश्यति ब्राह्मणकुले वा क्षत्रियकुले वा; तत्र कदाचिद् ब्राह्मणा उच्चकुलसंमता भवन्ति; कदाचित् क्षत्रियाः; इदानीं तु क्षत्रियाः उच्चकुलसंमताः, यन्व् अहं क्षत्रियकुले प्रतिसन्धिं गृह्णीयां; मा मे स्युर् अतोनिदानं परे वक्तारः बोधिसत्वेन गर्हणीयायां जातौ प्रतिसन्धिर् गृहीत इति; तथा हि बोधिसत्वेनानादिकालीनम् अनाक्षेपसंवर्तनीयं कर्म कृतम् उपचितम्; <अवन्ध्यफलधर्मदेशिका हि बुद्धा भगवन्तः>; अनेन कारणेन बोधिसत्वा जात्यवलोकनं कुर्वन्ति; (2) केन कारणेन बोधिसत्वा देशावलोकनं कुर्वन्ति? बोधिसत्वस्यैतद् अभवत्: कीदृशि देशे बोधिसत्वाः प्रतिसन्धिं गृह्णन्तीति; पश्यति यो ऽसौ देश इक्षुशालिमालागोमहिषीसंपन्नो भैक्षुकशतकलिलो दस्युजनविवर्जितः आर्यजनाध्युषितः; तस्यैवं भवत्य् अयं मध्यदेश इक्षुशालिमालागोमहिषीसंपन्नो भैक्षुकशतकलिलो दस्युजनविवर्जितः आर्यजनाध्युषितः; यन्व् अहं मध्यदेशे प्रतिसन्धिं गृह्णीयां; मा मे स्युर् अतोनिदानं परे वक्तारः बोधिसत्वेन ( स्ब्व् इ 37 ) प्रत्यन्तेषु जनपदेषु प्रतिसन्धिर् गृहीत इति; तथा हि बोधिसत्वेनानादिकालीनम् अनाक्षेपसंवर्तनीयं कर्म कृतम् उपचितम्; अवन्ध्यफलधर्मदेशिका हि बुद्धा भगवन्तः; अनेन कारणेन बोधिसत्वा देशावलोकनं कुर्वन्ति; (3) केन कारणेन बोधिसत्वाः कालावलोकनं कुर्वन्ति? बोधिसत्वस्यैतद् अभवत्; कीदृशे काले बोधिसत्वा जंबूद्वीपे प्रतिसन्धिं गृह्णन्ति; उत्कर्षे वर्तमनायां प्रजायाम् अशीतिवर्षसहस्रायुषि प्रजायाम् ऊर्ध्वं प्रतिसन्धिं न गृह्णन्ति; अपकर्षे शतवर्षायुषां मनुष्याणां <प्रजायाम् अर्वाक् प्रतिसन्धिं न> गृह्णन्ति; केन कारणेन बोधिसत्वा अशीतिवर्षसहस्रायुषि मनुष्याणाम् ऊर्ध्वं प्रतिसन्धिं न गृह्णन्ति? अशीतिवर्षसहस्रायुषो हि मनुष्या दुरुद्वेज्या भवन्ति; दुःसंवेद्या जडा मृद्विन्द्रियाः प्रमत्ताः सुखबहुलाः सत्यानाम् अभाजनभूताः; अपकर्षे ऽप्य् अर्वाग् वर्षशतस्य पञ्चकषाया उद्रिक्ता भवन्ति; तद्यथा आयुःकषायः क्लेशकषायः सत्वकषायो दृष्टिकषायः कल्पकषायश् च; मा मे स्युर् अतोनिदानं परे वक्तारः पञ्चकषायोद्रिक्ते काले बोधिसत्वेन प्रतिसन्धिर् गृहीत इति; तथा हि बोधिसत्वेनानादिकालीनम् अनाक्षेपसंवर्तनीयं कर्म कृतम् उपचितम्; अवन्ध्यफलधर्मदेशिकाश् ( अ 361ब् ) च बुद्धा भगवन्तः; अनेन कारणेन बोधिसत्वाः कालावलोकनं कुर्वन्ति; (4) केन कारणेन कुलावलोकनं कुर्वन्ति? बोधिसत्वस्यैवं भवति; कीदृशे कुले बोधिसत्वाः प्रतिसन्धिं गृह्णन्तीति; पश्यति यत् कुलम् उच्चसंमतम् अनुपाक्रुष्टचारित्रं यावद् आसप्तमं मातामहं पैतामहं युगम् उपादायेति; तस्यैतद् अभवद् अयं शाक्यवंश उच्चकुलसंमतो यावन् महासंमतम् उपादायानुपाक्रुष्टचारित्रश् च यन्व् अहं राज्ञः शुद्धोदनस्य कुले प्रतिसन्धिं गृह्णीयां; मा मे स्युर् अतोनिदानं परे वक्तारः प्रत्यवरे कुले बोधिसत्वेन प्रतिसन्धिर् गृहीत इति; तथा हि बोधिसत्वेनानादिकालीनम् अनाक्षेपसंवर्तनीयं कर्म ( स्ब्व् इ 38 ) कृतम् उपचितम्; अवन्ध्यफलधर्मदेशिकाश् च बुद्धा भगवन्तः; अनेन कारणेन बोधिसत्वा वंशावलोकनं कुर्वन्ति; (5) केन कारणेन बोधिसत्वा स्त्र्यवलोकनं कुर्वन्ति? बोधिसत्वस्यैवं भवति; कीदृश्या स्त्रियाः कुक्षौ बोधिसत्वाः प्रतिसन्धिं गृह्णन्तीति; पश्यति या स्त्री रूपवती भवति शीलवती कुलवती कुलिना कुलवर्धनी पूर्वबुद्धेषु कृतप्रणिधाना अहो बताहं बुद्धस्य माता स्याम् इति; शक्नोति बोधिसत्वं दशमासं कुक्षिणा धारयितुं; न च स्वार्थं हापयति; तस्यैवं भवति इयं महामाया यावद् आसप्तमं मातामहं मातामहं पैतामहं युगम् उपादायानुपाक्रुष्टचारित्रा रूपवती शीलवती कुलिना कुलवर्धनी; शक्नोति बोधिसत्वं दशमासं कुक्षिणा धारयितुं; न च स्वार्थं हापयितुम्; तथा हि महामाया पूर्वबुद्धेषु कृताधिकारप्रणिधाना अहो बताहं बुद्धमाता स्याम् इति; मा च मे स्युर् अतोनिदानं परे वक्तारः अलक्षणसंपन्नाया स्त्रियाः कुक्षौ बोधिसत्वेन प्रतिसन्धिर् गृहीत इति; तथा हि बोधिसत्वेनानादिकालीनम्
अनाक्षेपसंवर्तनीयं कर्म कृतम् उपचितम्; <अवन्ध्यफलधर्मदेशिकाश् च बुद्धा भगवन्तः>; अनेन कारणेन बोधिसत्वाः स्त्र्यवलोकनं कुर्वन्ति; अथ बोधिसत्वः पञ्च व्यवलोकनानि व्यवलोक्य षट् कामावचरान् देवांस् त्रिर् अनुश्रावयति इतो ऽहं मार्षास् तुषिताद् देवनिकायाच् च्युत्वा मनुष्येषु प्रतिसन्धिं ग्रहीष्यामि राज्ञः शुद्धोदनस्याग्रमहिष्याः कुक्षौ; तस्य पुत्रत्वम् अधिगम्य अमृतम् अधिगमिष्यामि; यो युष्माकम् अमृतेनार्थी स मनुष्येषु प्रतिसन्धिं गृह्णातु भूयो मध्यदेश इति; एवम् उक्तास् तुषितकायिका देवा बोधिसत्वम् इदम् अवोचन्: यत् खलु बोधिसत्व जानीया एतर्हि कलिकलुषो लोकः क्रूरसन्तानप्रजा आकुलीकृतश् च जंबूद्विपः षड्भिस् तार्किकैः षड्भिर् आनुश्रविकैः षड्भिः समापत्तृभिः; तत्र षट् तार्किकाः कतमे? तद्यथा पूरणः काश्यपः ( स्ब्व् इ 39 ) मस्करी गोशालिपुत्रः सञ्जयी वैरट्टीपुत्रः अजितः केशकंबलः ककुदः कात्यायनो निर्ग्रन्थो ज्ञातिपुत्र; षड् आनुस्रविकाः कतमस् तद्यथा कूटताण्ड्यो ब्राह्मणः श्रोणताण्ड्यो ब्राह्मणः, चोगी ब्राह्मणः ब्राह्मायुर् ब्राह्मणः ( अ 362अ ) पुष्करसारि ब्राह्मणः लोहित्यश् च ब्राह्मणः; षट् प्रतिपत्तारः कतमे? तद्यथा उद्रको रामपुत्रः; अराडः कालामः सुभद्रः परिव्राजकः सञ्जयी माणवः असितरिषिः उरुबिल्वाकाश्यपश् च जटिलः; इह तु बोधिसत्वस्य द्वादशयोजनानि धर्मश्रवणार्थम् आसनप्रज्ञप्तिः प्रज्ञाप्यते; अस्माकं चैवं भवति: यम् अस्माकं तुषितभवनस्थो बोधिसत्वो धर्मं देशयिष्यति तं वयं धर्मं श्रुत्वा तथा तथा प्रतिपत्स्यामहे; यथापितद् अस्माकं भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखायेति; एवम् उक्तो बोधिसत्वः तुषितकायिकान् देवान् इदम् अवोचत्: तेन हि मार्षा सर्ववाद्यानि प्रहण्यन्ताम् इति
देस्चेन्त् fरोम् थे तुषितस्
तुषितकायिकाभिर् देवताभिः सर्ववाद्यानि प्रहतानि; बोधिसत्वेनापि सङ्खम् आपूर्याभिहितं: कतरो ऽत्र मार्षाः ओदारिकः शब्दः? शङ्खशब्दो भगवन्; यथायं मार्षाः शङ्खशब्दः सर्ववाद्यान्य् अभिभूयावस्थितः एवम् एवाहं जम्बूद्वीपम् अवतीर्य षट् तार्किकान्, षड् आनुश्रविकान्, षट् च प्रतिपत्त्रीन् अभिभूयामृतम् अधिगमिष्यामि; अमृतेन जगत् सन्तर्पयिष्यामि; अनित्यताशङ्खम् आपूरयिष्यामि; शून्यताभेरीं ताडयिष्यामीति; नैरात्म्यसिंहनादं नदिष्यामी इति विदित्वा गाथां भाषते:
सिंहैकः प्रमथति नैकश्वापदौघान्
वज्रैको विलिखति नैकषृङ्गशैलान् ।
शक्रैको विजयति नैकदानवेन्द्रान्
सूर्यैको विमथति नैकम् अन्धकारम् ॥ ( स्ब्व्.इ 40 )
यो युष्माकं मार्षा अमृतेनार्थी स मध्यदेशे प्रतिसन्धिं गृह्णातु; षट्सु महानगरेष्व् इर्यतह; शक्रस्य देवेन्द्रस्यैतद् अभवत्: अयं बोधिसत्वो भगवान् महामायायाः देव्याः कुक्षाउ प्रतिसन्धिं ग्रहीतुकामः; यन्व् अहम् अस्या ओजोपसंहारं कुर्यां कुक्षिं च विशोधयेयम् इति विदित्वा शक्रेण देवानाम् इन्द्रेण महामायाया देव्याः ओजोपसंहारं कृतवान्; कुक्षिं च शोधितवान्; ततस् तुषितभवनस्थो बोधिसत्वः पञ्चावलोकितानि व्यवलोक्य षट् कामावचरान् देवांस् त्रिर् अनुश्राव्य गजनिदर्शनेन रात्र्या मध्यमे यामे माहामायाया देव्याः कुक्षिम् अवक्रान्तः; आह च
जगत्परित्राणकृतप्रतिज्ञो
देवान् उपामन्त्र्य ततश् च्युतो ऽसौ ।
इक्ष्वाकुवंशे प्रविवेश कुक्षिम्
सन्ध्याभ्रराजीम् इव बालसूर्यः ॥
चोन्चेप्तिओन्; औस्पिचिओउस् सिग्न्स् इन् थे द्रेअम्
तथा हि महामाया चतुरः स्वप्नान् पश्यति; (1) षड्दन्तो मे श्वेतो हस्तिनागः कुक्षिं भित्वा प्रविष्टः; (2) उपरि विहायसा गच्छामि; (3) महाशैलपर्वतम् अभिरुहामि; (4) महाजनकायो मे प्रणामं करोतीति; तया रज्ञ शुद्धोदनायारोचितम्; राज्ञा अमात्यानाम् आज्ञा दत्ता; भवन्तः आहूयन्तां स्वप्नाध्यायविदः नैमित्तिकाश् च ब्राह्मणा इति; तैश् च स्वप्नाध्यायविदो नैमित्तिकाश् च ब्राह्मणा आहूताः; ततो राज्ञा तेषाम् स्वप्नानि निवेदितानि; ते कथयन्ति: देव यथा शास्त्रे दृष्टं, पुत्रं जनयिष्यति द्वात्रिंशन्महापुरुषलक्षणैः समलङ्कृतम्; सचेद् गृही अगारम् अध्यावत्स्यति, ( अ 362ब् ) राजा भविष्यति चक्रवर्ती; सचेत् केशश्मश्रूण्य् अवतार्य काषायाणि ( स्ब्व् इ 41 ) वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति, तथागतो भविष्यत्य् अर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोक इति
अन्तरोद्दानम्:
च्युतिर् देवपुत्रो रतनम् अष्टाङ्गं श्रान्तव्रतमानसम्
थे बुद्ध इन् मोथेर्ऽस् wओम्ब्
धर्मता खलु यस्मिन् समये बोधिसत्वस् तुषिताद् देवनिकायाच् च्युत्वा मातुः कुक्षिम् अवक्रान्तो ऽत्यर्थं तस्मिन् समये महापृथिवीचालो ऽभूत्; सर्वश् चायं लोकः उदारेणावभासेन स्फुटो ऽभूत्; या अपि ता लोकस्य लोकान्तरिका अन्धास् तमसो ऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसाव् एवंमहर्धिकाव् एवंमहानुभावाव् आभयाभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा अभूवन्; तत्र ये सत्वा उपपन्नास् ते स्वकम् अपि बाहुं प्रगृहीतं न पश्यन्ति; ते तया आभया अन्योन्यं सत्वान् दृष्ट्वा संजानते अन्ये ऽपीह भवन्तः सत्वा उपपन्ना अन्ये ऽपीह भवन्तः सत्वा उपपन्ना इति
यथैव मेघो विपुलः सुसंभृतो
बहूदको मारुतवेगप्रेरितः ।
तथोपमं कुक्षिम् इवाक्रमन् मुनिश्
चिराद् घनं सूर्य इवाभ्युपागतः ॥
अवभासयित्वेह दिशः समन्ततः
पृथक् च लोकान्तरिकास् तमोवृताः ।
यदाक्रमत् कुक्षिम् अतुल्यविक्रमस्
तथा तदासीद् इयम् अत्र धर्मता ॥ ( स्ब्व् इ 41 )
धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान् मातुः कुक्साव् अवक्रान्तः तस्मिन् समये शक्रो देवेन्द्राश् चतुरो देवपुत्रान् मातुर् आरक्षकान् स्थापयत्य् असिहस्तान्, प्रासहस्तांश् छक्तिहस्तान् तोमरहस्तान्, मा कश्चिद् बोधिसत्वं विहेटयिष्यति मनुष्यो वा अमनुष्यो वेति; धर्मता खलु यस्मिन् समये बोधिसत्वो मातुः कुक्षाव् अस्थात् कोशोगत एवास्थाद् अम्रक्षितो गर्भमलेन, जुव्रमलेन, रुधिरमलेन, अन्यतमान्यतमेन वाशुचिना विप्रकृतेन; तद्यथा मणिरत्नं काशिकरत्ने उपक्षिप्तं नैव मणिरत्नं काशीकरत्नेन लिप्यते, नापि काशिकरत्नं मणिरत्नेन; एवम् एव यस्मिन् समये बोधिसत्वो मातुः कुक्षाव् अस्थात् कोशोगत एवास्थाद् अम्रक्षितो गर्भमलेन, जुव्रमलेन, रुधिरमलेन अन्यतमान्यतमेन वा अशुचिना विप्रकृतेन; तद्यथा मणिरत्नं; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान् मातुः कुक्षाव् अस्थात् तम् एनं तस्मिन् सस्मये माता सर्वम् अन्तःकुक्षिगतं परिपूर्णं पश्यति; तद्यथा मणिर् अष्टाङ्गो वैडूर्यः शुभ्रो जातिमान् अच्छो विप्रसन्नो ऽनाविलः पञ्चरङ्गिके सूत्रे ऽर्पितः स्यात्; तद्य्था नीले पीते लोहिते ऽवदाते माञ्जिष्ठे; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयाद् इदं सूत्रम् अयं मणिः; सूत्रे मणिर् अर्पितः; एवम् एव बोधिसत्वो यस्मिन् समये मातुः कुक्षाव् अस्थात् तम् एनं तस्मिन् समये माता सर्वम् अन्तःकुक्षिगतं परिपूर्णं पश्यति; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान् मातुः कुक्षाव् अस्थान् नास्य तस्मिन् समये माता श्रान्तकाया वा ऽभूत् क्लान्तकाया वा यदुत बोधिसत्वं धारयन्ती; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान् ( स्ब्व् इ 43 ) मातुः कुक्षाव् अस्थात् तस्मिन् समये माता यावज्जीवं पञ्चव्रतपदानि समादत्तवती; यावज्जीवं प्राणातिपातं प्रहाया प्राणातिपातात् प्रतिविरता; अदत्तादानम्, अह्रह्मचर्यं, मृषावादं सुरामैरेयमद्यप्रमादस्थानां प्रहाय सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरता;
प्राणान् अहन्ती नादत्तम् आददौ; मृषा नावोचत्; न मद्यलोलुपा ऽभूत्;
अब्रह्मचर्याद् विरता च मैथुनात् सिद्धार्थमाता; इयम् अत्र धर्मता;
धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान् मातुः कुक्षाव् अस्थान् नास्य माता तस्मिन् समये पुरुषेषु मानसं निबद्धवती यदुत कामोपसंहितम्;
न रज्यते क्लेशेषु; न चास्याः कामहेतोः परिदह्यते मनः;
न चास्य माता पुरुषेषु मानसं बध्नाति कामगुणोपसंहितम्
पैन्स् ओf छिल्द्बिर्थ्
अथ महामायाया दोहद उत्पन्नः अहो बताहं चतुर्भ्यो महास्मुद्रेभ्यः पानीयं पिबेयम् इति; तया रज्ञे शुद्धोदनायारोचितम्; राज्ञा शुद्धोदनेन नैमित्तिकानां निवेदितम्; किमर्थं देव्या अयम् एवंरूपो दोहद उत्पन्नः; नैमित्तिकैर् व्याकृतं: देव देवी कुमारां जनयिष्यति; द्वात्रिंशता महापुरुषणैः समलङ्कृतमूर्तिः प्रव्रजित्वा सकलं ज्ञेयार्णवं पास्यति; राज्ञाभिहितम्; यद्य् अस्याः महासमुद्रात् पानीयं <न> दीयते, किं तत् स्यात्; व्यङ्गं पुत्रं जनयेत्; राज्ञाभिहितं: मम तावत् शुद्धोदनस्याविकलाङ्गः पुत्रो भविष्यतीति; तेन खलु समयेन कपिलवस्तुनि रक्ताक्षो नाम परिव्राजकस् तिष्ठति इन्द्रजाले कृतावी; राज्ञा तस्याहूय निवेदितम्; तेन तस्या उपरिप्रासादतलगताया यावच् चतुरो महासमुद्रान् दर्शयित्वा पानीयं दत्तम्; तस्या यो दोहद उत्पन्नः स ( स्ब्व् इ 44 ) प्रतिविगतः; पुनर् अप्य् अस्या दोहद उत्पन्नः अहो बत सर्वबन्धनमोक्षः क्रियेतेति; राज्ञा सर्वबन्धनमोक्षः कृत इति तस्या यो दोहद उत्पन्नः स प्रतिविगतः; पुनर् अप्य् अस्या दोहद उत्पन्नः अहो बत दानानि दीयेरन् पुण्यानि क्रियेरन्न् इति; राज्ञा दानानि दत्तानि पुण्यानि कृतानि; तस्या यो दोहद उत्पन्नः स प्रतिविगतः; पुनर् अप्य् अस्या दोहद उत्पन्नः; अहो बताहम् उद्यानानि पश्येयम् इति; राज्ञा उद्यानानि दर्शितानि; तस्या यो दोहद उत्पन्नः स प्रतिविगतः; पुनर् अप्य् अस्या दोहद उत्पन्नः अहो बताहम् उद्याने तिष्ठेयम् इति; राज्ञः सुप्रबुद्धस्य लुम्बिनी नामोद्यानम्; तस्य शुद्धोदनेन राज्ञा सन्दिष्टं दुहिता ते उद्यानं निर्गन्तुकामा; उद्यानं शोधयेति; तेन पौरुषेयाणां आज्ञा दत्ता, भवन्त उद्यानं शोधयतेति; तैर् उद्यानं शोधितम्; ततः सा परिचारिकासहीया निर्गता; ततस् तया लुंबिनीवने विचरन्त्या सपुष्पितः अशोकपादपो दृष्टः; सा तम् अवलोक्यावस्थिता प्रसवितुकामा
थे बिर्थ् ओf थे बुद्ध अन्द् थे अच्चोम्पन्यिन्ग् wओन्देर्स्
शक्रो ( अ 363ब् ) देवेन्द्रः संलक्षयति: बोधिसत्वमाता ह्रीमती; न शक्नोति महाजनपरिवृता प्रसवितुम्; उपायसंविधानं कर्तव्यम् इति; तेन तुमुलं वातवर्षं निर्मितम्; तेनासौ महाजनकायः समन्ताद् विद्रुतः; ततः शक्रो देवेन्द्रः वृद्धधात्रीवर्णम् आत्मानाम् अभिनिर्माय महामायायाः पुरस्ताद् अवस्थितः सा प्रसवितुम् आरब्धा; बोधिसत्वो निर्गच्छंश् छक्रेणाजिनशाटिकायां प्रतिगृहीतः; स गर्भवासपरिक्लान्तः; अथ बोधिसत्वस्यैतद् अभवत्: मदप्राप्तो ऽयं शक्रो भविष्यति मया बोधिसत्वः प्रतीच्छित इति; विदित्वा वज्रशरीरम् आत्मानम् अधिष्ठितः; शक्रो देवेन्द्रः कंपयितुम् आरब्धो बोधिसत्वेनाभिहितः; मुञ्च मुञ्च कौशिक अपैहि पुरस्ताद् इति; ( स्ब्व् इ 45 ) <धर्मता खलु>, यस्मिन् समये बोधिसत्वो भगवान् जातः तस्मिन् समये महापृथिवीचालो ऽभूत्; पूर्ववद् यावद् अन्ये ऽपीह भवन्तः सत्वा उपपन्ना अन्ये ऽपीह भवन्तः सत्वा उपपन्ना इति; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान् मातुः कुक्षेर् निष्क्रान्तः कोशोगत इवासिर् निष्क्रान्तः अम्रक्षितो गर्भमलेन जुव्रमलेन रुधिरमलेनान्यतमान्यतमेन वा अशुचिना विप्रकृतेन; धर्मता खलु यस्मिन् समये बोधिसत्वो भगवान् मातुः कुक्षेर् निष्क्रान्तो नास्य तस्मिन् समये माता निषण्णा वा ऽभून् निपन्ना वा; स्थितैव सा क्षत्रियी क्षत्रियं प्रसूता; धर्मता खलु सांप्रतजातो बोधिसत्वः सप्तपदानि प्रक्रान्तः परिगृहीतो न केनचित्; चतुर्दिषं च व्यवलोकयति; वाचं च भाषते, इयं पूर्वा दिक् पूर्वंगमो भविष्यामि निर्वाणाय, इयं दक्षिणा दक्षिणीयो भविष्यामि कृत्स्नस्य <जगतः, इयं पश्चिमा दिक्, मम पश्चिमं जन्म भविष्यति; इयम् उत्तरा दिक्, भवसंसाराद् उत्त्तरिष्यामि इति; तस्य शिरसि उपरि देवाः श्वेतं च छत्रं मणिदण्डकं च चामरं च धारयन्ति; धर्मता खलु सांप्रतजातस्य बोधिसत्वस्य द्वे वारिधारे ऽन्तरिक्षात् प्रादुर्भवत एका शिता एका उष्णा ये बोधिसत्वं स्नापितवत्ये>; धर्मता खलु सांप्रतजातस्य बोधिसत्वस्य मातुर् जनयित्र्याः पुरस्तान् महद् उदपानं प्रादुर्भूतं वारिनिष्यन्दि; यतो ऽस्य माता उदकेनोदककार्यम् अकार्षीत्; धर्मता खलु सांप्रतजातस्य बोधिसत्वस्य देवता अन्तरिक्षात् दिव्यान्य् उत्पलानि क्षिपन्ति; पद्मानि, कुमुदानि, पुण्डरीकान्य् अगरुचूर्णानि, तगरचूर्णानि; चन्दनचूर्णानि, तमालपत्रचूर्णानि, ( स्ब्व् इ 46 ) दिव्यानि च मान्दारवाणि पुष्पाणि क्षिपन्ति; दिव्यानि च वाद्यानि प्रवादयन्ति
अन्तरोद्दानाम्
उत्पादकोशस्थितिः सप्त पदानि द्वे वारिधारे, उदपानं देवता
यदा शाक्यमुनिर् बोधिसत्वो जातः तदा चतुर्णां राज्ञां पुत्रा जाताः, श्रावस्त्याम् अराडब्रह्मदत्तस्य पुत्रो जातः; अराडब्रह्मदत्तस्यैतद् अभवत्: मम पुत्रस्य जन्मनि प्रसन्नः प्रसन्न इव जनपदः ख्याति; तस्माद् भवत्व् अस्य प्रसेनजित् इति नाम, राजगृहे नगरे महापद्मस्य राज्ञः पुत्रो जातः; तस्यैतद् अभवत् मम पुत्रस्य जन्मनि आदित्यबिम्बेनेवोदयता लोको ऽवभासितः; बिम्बायाश् च पुत्रः; भवत्व् अस्य बिम्बिसार इति नाम; कौशांब्यां शतानीकस्य राज्ञः पुत्रो जातः; तस्यैतद् अभवत्: मम पुत्रस्य जन्मनि ( अ 364अ ) आदित्येनेवोदयता लोको ऽवभासितः; भवत्व् अस्योदयन इति नाम; उज्जयन्यां नगर्याम् अनन्तनेमिनो राज्ञः पुत्रो जातः; अनन्तनेमिनो राज्ञ एतद् अभवत् मम पुत्रस्य जन्मनि प्रद्योतेनेव लोको ऽवभासितः; भवत्व् अस्य प्रद्योत इति नाम; तच् च नैवम्; अपि सर्वं तद् बोधिसत्वानुभावात्.
असित, नालद अन्द् थे यक्ष शाक्यवर्धन
किष्किन्धे पर्वते असितो नाम रिषिः प्रतिवसति संवर्तनीयकुशलो विवर्तनीयकुशलश् च तस्य नालदो नाम भागिनेयः; स तस्य कालेन कालं संवर्तनीयविवर्तनीयं कथयति; स तस्य सकाशे प्रव्रजितः; बोधिसत्वस्य ( स्ब्व् इ 47 ) भगवतो जन्मनि सर्वलोक उदारेणावभासेन स्फुटो ऽभूत्; तेन खलु समयेन नालदो गुहां प्रविश्य ध्यायति; स तम् अवभासं दृष्ट्वा असितम् उवाच; उपाध्याय उपाध्याय
उत्पद्यन्ते हि किं सर्वे युगपत् भास्करा इह ।
तथा हि सगुहा शैला दीप्ता इव गभस्तिभिः ॥
असितस् त्व् अब्रवीत् तीक्ष्णा भनोः शीता त्व् इयं प्रभा ।
तद् अस्मिन् प्रविशत्य् आभिर् नूनम् एषा मुनिप्रभा ॥
निष्क्रामति ध्रुवं कुक्षेः बोधिसत्वो महाद्युतिः ।
इयं निष्क्रामतस् तस्य माहासत्वस्य निर्मला ।
प्रभा काञ्चनसङ्काशा लोकेषु विसृता त्रिषु ॥
नालदः कथयति: उपाध्याय गच्छामो बोधिसत्वं पश्यामः; स कथयति: वत्स इदानीं बोधिसत्वो महेशाख्यमहेशाख्याभिर् देवताभिर् आकीर्णो विहरति; स्थानम् एतद् विद्यते यद् वयम् अवकाशं न लप्स्यामहे; यदा भगवान् कपिलवस्तु प्रवेशितो भवति, नाम चास्य व्यवस्थापितम्, तदा वयं दर्शनायोपसङ्क्रमिश्याम इति; यम् एव दिवसं बोधिसत्वो भगवान् जातः तम् एव दिवसं राज्ञः शुद्धोदनस्य छन्दकप्रमुखानि पञ्चोपस्थायकशतानि जातानि; च्छन्दिकाप्रमुखानि पञ्चोपस्थायिकशतानि <जातानि>; पञ्चहस्तिनीशतानि प्रसूतानि; पञ्चवडवाशतानि पञ्चभिर् निधिशतैर् मुखान्य् उपदर्शितानि; प्रातिसीमैश् च कोट्टराजभिः करप्रत्यया उपनिबद्धाः
नमेस् ओf थे बोधिसत्व
अमात्यै राज्ञे शुद्धोदनाय यथावृत्तं समाख्यातम्; राजा संलक्षयति: मम पुत्रस्य जन्मनि सर्वार्थाः सर्वकर्मान्ताश् च परिपूर्णाः; भवतु कुमारस्य सर्वार्थसिद्ध इति नाम; तत्र बोधिसत्वस्येदं प्रथमं नामधेयं व्यवस्थापितं यदुत सर्वार्थसिद्ध ( स्ब्व् इ 48 ) इति; कपिलवस्तुनि नगरे शाक्यवर्धनो नाम यक्षो नैवासिकः; आचरितं शाक्यानां, यस्य कस्यचित् छाक्यस्य पुत्रो वा जाते दुहिता वा स शाक्यवर्धनस्य पादाभिवन्दको नीयते; राज्ञा पौरुषेयाणाम् आज्ञा दत्ता: गच्छत भवन्तः कुमारं शाक्यवर्धनस्य यक्षस्य पादयोर् निपत्य पातयत इति; एवं देव इत्य् अमात्या राज्ञाः शुद्धोदनस्य प्रतिश्रुत्य, बोधिसत्वं चतूरत्नमयां शिबिकाम् आरोप्य कपिलवस्तुनगरं प्रवेशयितुम् आरब्धाः; कापिलवास्तवाः शाक्याश् चण्डा रभसाः कर्कशाः साहसिकाश् च; ते बोधिसत्वस्य प्रविशतो मुनय इव स्थिताः; राजा शुद्धोदनः संलक्षयति: इमे कापिलवास्तवाः ( अ 364ब् ) शाक्याश् चण्डा रभसाः कर्कशाश् च कुमारास्य प्रविशतो मुनय इवावस्थिताः; भवतु कुमारस्य शाक्यमुनिर् इति नामेति; तत्र बोहिसत्वस्य द्वितीयं नाम व्यवस्थापितं यदुत शाक्यमुनिर् इति; बोधिसत्वः शायवर्धनस्य यक्षय भवनसस्मीपं नीतः; अद्राक्षीच् छाक्यवर्धनो यक्षो बोधिसत्वं भवनसमीपम् आगतं; दृष्ट्वा च पुनर् भवनान् निर्गम्य सर्वकायेन बोधिसत्वस्य पादयोर् निपतितः; जनकायेन राज्ञा शुद्धोदनाय निवेदितम्: देव शाक्यवर्धन एव यक्षो बोधिसत्वस्य पादयोर् निपतितः इति; श्रुत्वा च राजा कथयति: भवन्तो देवा अपि कुमारस्य पादयोर् निपतन्ति; देवानाम् अप्य् अयं देवः; तस्मात् भवतु कुमारस्य देवातिदेव इति नाम इति; तत्र बोधिसत्वस्य तृतीयं नामधेयं व्यवस्थापितं यदुत देवातिदेव इति; सांप्रतजातो बोधिसत्वः मातापितृभ्यां धात्र्यै दत्तः: अयं ते धात्रि कुमारः कालेन कालम् उद्वर्तयितव्यः, कालेन कालं स्नपयितव्यः, कालेन कालं भोजयितव्यः, कालेन कालं सम्यक् सुखेन परिहर्तव्यः इति; तम् एनं धात्री आत्तमनात्तमना उभाभ्यां पाणिभ्यां प्रतिगृह्य, कालेन कालम् उद्वर्तयति, कालेन कालं स्नपयति, कालेन कालं भोजयति, कालेन कालम् सम्यक् सुखेन परिहरति; अपीदानीं ये गन्धाः सुमनोज्ञरूपाः तैर् विलिप्य, सर्वालङ्कारैर् अलङ्कृतं पितुः शुद्धोदनस्यानुप्रयच्छति; तम् एनं राजा शुद्धोदनो गृहीत्वा, अङ्के निषाद्य, पुनः पुनः प्रेक्षते हर्षजातः ( स्ब्व् इ 49 )
प्रेदिच्तिओन्स् ओf थे नैमित्तिकस्
धर्मता खलु सांप्रतजातं बोधिसत्वं मातापितरौ ब्राह्मणानां, नैमित्तिकानाम्, विपञ्चनकानाम् चोपदर्शयतः: कच्चिद् भवन्तः समन्वागतः कुमारो द्वात्रिंशता महापुरुषलक्षणैः? यैः समन्वागतस्य महापुरुषस्य ( अ 365अ ?) द्वे गती भवतो, नान्या; सचेद् गृही अगारम् अध्यावसति, राजा भवति चक्रवर्ती, चातुरन्तां विजेता, धार्मिको, धर्मराजः सप्तरत्नसमन्वागतः; तस्येमान्य् एवंरूपाणि सप्त रत्नानि भवन्ति; तद्यथा (1) चक्ररत्नम्, (2) हस्तिरत्नम्, (3) अश्वरत्नम्, (4) मणिरत्नम्, (5) स्त्रीरत्नम्, (6) गृहपतिरत्नम्, (7) परिणायकरत्नम् एव सप्तमम्; पूर्णं चास्य भवति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्; स इमाम् एव समुद्रपर्यन्तां महापृथिवीम् अखिलाम् अकण्टकाम् अनुत्पीडाम् अदण्डेनाशस्त्रेण धर्मेण समेनाभिनिर्जित्याध्यावत्स्यति; सचेत् केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजति तथागतो भवत्य् अर्हन् संयक्संबुद्धो विघुष्टशब्दो लोक इति; तथ्यं देव समन्वागतः कुमारो द्वात्रिंशता महापुरुषलक्षणाइः; यैः समन्वागतस्य महापुरुषस्य द्वे गती भवतो नान्या; सचेत् गृही अगारम् अध्यावसति, राजा भवति चक्रवर्ति, चातुरन्तां विजेता, धार्मिको धर्मराजाः पूर्ववद् यावत् तथागतो भवत्य् अर्हन् सम्यकस्ंबुद्धो विघुष्टशब्दो लोके
लक्षणस् ओf अ महापुरुष
कतमानि तानि भवन्तो द्वात्रिंशत् महापुरुषलक्षणानि? यैः समन्वागतस्य महापुरुषस्य द्वे गती भवतो नान्या; पूर्ववद् यावद् विघुष्टशब्दो लोके ( स्ब्व् इ 50 ) (1) सुप्रतिष्ठितपादो देव कुमारः; अपीदानीं सुप्रतिष्ठितत्वात् पादयोः समम् आक्रमते महीम्; इदं कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (2) अधस्ताच् चास्य पादतलयोः चक्रे जाते सहस्रारे, सनाभिके सनेमिके, सर्वाकारपरिपूर्णे; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (3) दीर्घाङ्गुलिर् देव कुमारः (4) आयतपाद्पार्ष्णिर् (5) मृदुतरुणपाणिपादः; मृदुकम् अस्य पाणिपादं तद्यथा तूलपिचुर् वा कर्पासपिचुर् वा; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (6) जालिनीपाणिपादो देव कुमारः; जालिन्य् अस्य हस्तयोश् च पादयोश् च, तद्यथा अभिजातस्य हंसराजस्य; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (7) उच्छाङ्खचारो देव कुमारः; (8) एणीजङ्घः; (9) अनवनतकायः अनवनमनेन कायेन उभौ जानुमण्डलाव् आमार्ष्टि परामार्ष्टि; इदं देव कुमारस्य महापुरुषस्य महापुरुषणम्; (10) कोशोगतवस्तिगुह्यो देव कुमारः; कोशोगतवस्तिगुह्यं तद्यथा अभिजातस्य हस्त्याजानेयस्य वा अश्वाजानेयस्य वा; इदें देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (11) न्यग्रोधपरिमण्डलो देव कुमारः; यावान् कायेन तावान् व्यामेन, यावान् व्यामेन तावान् कायेन; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (12) ऊर्ध्वाङ्गरोमो देव कुमारः; (13) एकैकरोमः; एकैकम् अस्य रोम काये जातं नीलम्, कुण्डलजातकां प्रदक्षिणावर्तम्; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (14) सुवर्णवर्णसङ्काशो देव कुमारः; व्यामप्रभः काञ्चनसन्निभस् त्वक्; (15) सूक्ष्मच्छविः; अपीदानीं सूक्ष्मत्वाच् च्छवे रजोमलम् अस्य काये न सन्तिष्ठते; इदं देव कुमारस्य महापुरुषस्य महापुरुष्लक्षणम्; (16) सप्तोत्सदकायो देव कुमारः; सप्तोत्सदाः काये जाताः; द्वौ हस्तयोर् द्वौ पादयोर् द्वाउ अंसयोर् एकं ग्रीवायाम्; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; ( स्ब्व् इ 51 ) (17) चितान्तरांसो देव कुमारः, (18) सिंहपूर्वार्धकृयो (19) बृहदृजुगात्राः, (20) सुसंवृतस्कन्धः, (21) चत्वारिंशद्दन्तः, (22) समदन्तः (23) अविरलदन्तः, (24) शुक्लदंष्ट्रः, (25) सिम्हहनू (26) रसरसाग्रप्राप्तः; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (27) प्रभूततनुजिह्वो देव कुमारः; अपीदानीं प्रधूतत्वात् तनुत्वाच् च जिह्वाया मुखाज् जिह्वां निर्णमय्य सर्वं मुखमण्डलं छादयति यावत् केशपर्यन्तम् उपादाय; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (28) ब्रह्मस्वरो देव कुमारः, कलविङ्कमनोज्ञभाणी दुन्दुभिस्वरनिर्घोषः; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (29) अभिनीलनेत्रो देव कुमारः, (30) गोपक्ष्मा; (31) उष्णीषशिराः; (32) ऊर्णा चास्य भ्रुवोर् माध्ये जाता श्वेता शङ्खनिभा प्रदक्षिणावर्ता; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; इमानि तानि ( अ 365ब् ) देव कुमारस्य महापुरुषस्य महापुरुषलक्षणानि, यैः समन्वागतस्य द्वे गती भवतो नान्या; पूर्ववद् यावद् विघुष्टशब्दो लोके; यदि च कुमारो न प्रव्रजिष्यति राजा भविष्यति चक्रवर्ती
बेऔत्य् अन्द् ओथेर् qउअलितिएस् ओf थे बोधिसत्व
धर्मता खलु सप्ताहजातस्य शाक्यमुनेर् बोधिसत्वस्य माता जनयित्री कालगता; समनन्तरकालगता प्रणीते त्रयस्त्रिंशद्देवनिकाये उपपन्ना; धर्मता खलु शाक्यमुनिर् बोधिसत्व अभिरूपो दर्शनीयः प्रासादिकः; अतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णं; अपीदानीम् नराश् च नार्यश् च निरीक्षमाणास् तृप्तिं न गच्छन्ति; मुदं लभन्ते; तद्यथा जांबूनदमयी सुवर्णनिष्का कर्मारपरिमृष्टा अहते पाण्डुकम्बल उपनिक्षिप्ता अत्यर्थं भासते तपति विरोचते; एवम् एव शाक्यमुनिर् बोधिसत्व अभिरूपो दर्शनीयः प्रासादिकः अतिक्रान्तो मानुषं वर्णं असंप्राप्तश् च दिव्यं वर्णं; धर्मता खलु शाक्यमुनिर् बोधिसत्वो महाजनकायस्य प्रियश् चाभून् मनापश् च; अपीदानीं महाजनकायम् ( स्ब्व् इ 52 ) अंसेनांसं सम्परिवर्तयति, तद्यथा शारदकं पद्मं महाजनकायस्य प्रियं च मनापं च; अपीदानीं महाजनकायस् तत् पाणिना पाणिं संवारयति; एवं पूर्ववत्
अन्तरोद्दानम्:
अनिमिषविपाकधर्मश् च वल्गुस्वरश् च पण्डित उद्यानम् ॥
धर्मता खलु सांप्रतजातो बोधिसत्व अनिमिषण्; रूपाणि पश्यन् नासौ निमिषति; तद्यथा देवास् त्रयस्त्रिंशाः; धर्मता खलु सांप्रतजातो बोधिसत्व पूर्वकर्मविपाकजेन दिव्येन चक्षुषा समन्वागतो येनासु पश्यति दिवा च रात्रौ च समन्तयोजनं; धर्मता खलु सांप्रतजातो बोधिसत्व वल्गुस्वरश् चाभून् मधुरस्वरश् च मनोज्ञस्वरश् च; तद्यथा हैमवतः शकुनको वल्गुस्वरश् च मधुरस्वरश् च मनोज्ञस्वरश् च; एवम् एव सांप्रतजातो बोधिसत्वो वल्गुस्वरश् चाभून् मधुरस्वरश् च मनोज्ञस्वरश् च; धर्मता खलु सांप्रततजातो बोधिसत्वः पण्डितो ऽभूद् व्यक्तो मेधावी तन्त्रोपमिकया मीमांसिक्या प्रज्ञया समन्वागतः; अपीदानीं राज्ञश् च शुद्धोदनस्यार्थाधिकरणेन निषद्य गंभीरम् अर्थपदव्यञ्जनं प्रज्ञया प्रतिविध्यति
थे अर्रिवल् ओf असित अन्द् नालद
ततो नालदः कथयति: उपाध्याय बोधिसत्वः कपिलवस्तुनि प्रवेशितः; नामत्रयं च व्यवस्थापितम्; इदानीं गच्छामो बोधिसत्वं दर्शनाय इति; स कथयति; एवं कुर्मः; तौ संप्रस्थितौ; बोध्हिसत्वानुभावाद् ऋद्धेः परिहीणौ; पद्भ्याम् एव कपिलवस्तुनगरं प्रविश्य राज्ञः शुद्धोदनस्य गृहद्वारं गतौ; तत असितरिषिर् दौवारिकं पुरुषं आमन्त्रयते: गच्छ भोः पुरुष रज्ञः शुद्धोदनस्य गत्वा कथय, असितरिषिर् द्वारि तिष्ठति, देवं द्रष्टुकाम इति; तेन प्रविश्य ( स्ब्व् इ 53 ) राज्ञे निवेदितम्; राजा कथयति, प्रविशतु को भवन्तम् असितं वारयति; स प्रविष्टः; राज्ञा शुद्धोदनेन सत्कारपुरस्सरम् अर्घपाद्येन पूजितः आसने दत्ते निषण्णः; राज्ञा शुद्धोदनेन कथालापेन प्रतिसंमोद्याभिहितो: महर्षे किम् आगमनप्रयोजितम् ( अ 366अ ); स कथयति: महाराज तव पुत्रदर्शनाय वयम् इहागताः, लोकज्येष्ठस्य विनायकस्य मुनेर् दर्शनाय; यद्य् एवं मुहूर्तं तावद् उदीक्षस्व, सुप्तः कुमारो यावत् प्रतिबुद्ध्यत इति; स कथयति सुप्तम् एव पश्यामि; एवं कुरु; स पश्यति; यावद् बोधिसत्व अनिमिषः; रूपाणि पश्यति न निमिसान्; स गाथां भाषते
हयानाम् इव जात्यानाम् अर्धरात्रावशायिनाम् ।
नाहितकार्यानां निद्रा चिरं नेत्रेषु तिष्ठति ॥ इति
ततः सांप्रतजातो बोधिसत्वो धात्र्या अङ्के गृहीत्वा रिषेर् उपनामितः; असितेन रिषिणा उभाभ्यां पाणिभ्यां प्रतिगृहीतः; मुहूर्तं निरीक्ष्य कथयति: देव दर्शितः कुमारो ब्राह्मणानां नैमित्तिकानां विपञ्चनकानाम्? राजा कथयति दर्शितः; किम् तैर् व्याकृतम्? राजा भविष्यति चक्रवर्ती, पूर्ववद् यावद् विघुष्टशब्दो लोके; अथासितरिषिर् बोधिसत्वं दृष्ट्वा गाथां भाषते
भ्रष्टा मतिः पार्थिव तार्किकाणां
युगान्तकाले न हि चक्रवर्ती ।
अयं तु पुण्योत्तमधर्मकोशो
बुद्धो भविष्यत्य् अभिजित्य दोषान् ॥
अव्यक्तैर् भवति हि लक्षणैर् नरेन्द्रो
द्वीपानाम् अधिपतिर् ईश्वरश् चतुर्णाम् ।
सुव्यक्तैर् भवति हि लक्षणैर् मुनीन्द्रो
संबुद्धो नरवर धर्मचक्रवर्ती ॥ इति ( स्ब्व् इ 54 )
विदित्वा आत्मन आयुःप्रकर्षं व्यवलोकयितुम् आरब्धो बोधिसत्वस्य चाभिसंबोधिं यावत्; पश्यति बोधिसत्व एकान्नत्रिंशत्को वयसा गृहान् निर्गमिष्यति; षड्वर्षाणि दुष्करं चरिष्यति; ततो ऽमृतम् अधिगमिष्यति; आत्मनः पश्यत्य् अन्तरैव कालक्रियाम्; सो ऽस्रुपर्याकुलेक्षणो व्यवस्थितः; राजा शुद्धोदनो दृष्ट्वा सन्त्रस्तमतिर् गाथां भाषते
नराश् च नार्यश् च हि यं समीक्ष्य
तृप्तिं न गच्छन्ति मुदं लभन्ते ।
दृष्ट्वेह तं प्रीतिकरं शुभाङ्गम्
कस्मात् सबाष्पं वदनं महर्षेः ॥
न मे कुमारस्य भयं कुतश्चिद्
आयुःक्षयो वा समुपस्थितः स्यात् ।
तत् साधु मे क्षिप्रम् इदं वदस्व
तवाश्रुपातेन विकंपितो ऽस्मि ॥
असितो ऽपि ऋषिर् गाथां भाषते
अस्योपरिष्टाद् यदि वज्रवर्षं
नभःप्रमुक्तं प्रपतेत् प्रचण्डम् ।
महामुनेर् नैकशरीरचाल्यम्
अप्य् एककम् कंपयितुं समर्थम् ॥
महाग्नयो वायुबलप्रवेरितास्
तीक्ष्णानि शत्राणि सुदारुणानि ।
विषं च घोरा उरगाश् च तीक्ष्णाः
क्षणं नशेयुः पतिताः कुमारे ॥
भयार्दितानाम् अभयप्रदाता
औदर्यभूमिः करुणाविहारी । ( स्ब्व् इ 55 )
कृत्स्नस्य लोकस्य भयं स हन्ति
भयं भवेत् तस्य कुतो नरेन्द्र ॥
सब्रह्मकायस्य दिवौकसाद्याः
कुर्वन्ति रक्षां सततं मदात्मनः ।
मगात्मनां श्रेष्ठतमस्य लोके
भयं भवेत् तस्य कुतो नरेन्द्र ॥
संप्रेक्ष्य तु स्वां नृपते विपत्तिं
रोदिम्य् अहं येन लभे न शान्तिं ।
अयं स सत्वोत्तमधर्मकोशो
यो ऽहं मरिष्याम्य् अनवाप्तकार्यः ॥
ते धन्यपुण्याश् च गतज्वराश् च
ये धर्मं अस्याप्रतिमानस्य ।
श्रोष्यन्ति धर्मं वदतां वरस्य
श्रुत्वा च यास्यन्ति परां प्रशान्तिम् ॥
असितऽस् देपर्तुरे
असितर्षिः क्लिष्टसन्तानः संलक्षय्ति: अहं बोधिषत्वस्यानुभावाद् ऋद्धेः परिहीणः; सयदि पद्भ्यां गमिष्यामि ( अ 366ब् ) महाजनकायो मां प्रतर्कयिष्यति राजा च ; इति विदित्वा कथयति: देव तवायं दीर्घरात्रम् आशासकः, अहो बतासितर्षिः, पद्भ्याम् एव कपिलवस्तु प्रविशेद् इति; सो ऽहं पध्भ्याम् कपिलवस्तु प्रविष्टः; इदानीं पद्भ्याम् एव निष्क्रमिष्यामि; त्वं मार्गशोभां च कारयेति; राज्ञा शुद्धोदनेन अमात्यानाम् आज्ञा दत्ता: गच्छत भवन्तो नगरशोभां मार्गशोभां च कारयत रथ्यावीथीचत्वरशृङ्गाटकेषु घण्टावघोषणाम्; असितिरिषिः पद्भ्यां कपिलवस्तुनो नगरान् निष्क्रामति; यद् वः कृत्यं वा करणीयं वा तत् कुरुध्वम् इति; एवं देवेत्य् अमात्यैः राज्ञः प्रतिश्रुत्य कपिलवस्तुनगरम् अपगतशर्करकठल्लं ( स्ब्व् इ 56 ) व्यवस्थापितम्, चन्दनवारिपरिषिक्तम् सुरभिधूपघटिकोपनिबद्धम् आमुक्तपल्लवदामकलापम्, उच्छ्रितध्वजपताकं; रथ्यावीथीचत्वरशृङ्गाटकेसु घण्तावघोषणं कारितम्: शृण्वन्तु भवन्तः कपिलवास्तवाः शाक्याः असितर्षिः कपिलवस्तुनो नगरान् निष्क्रामति; यद् वः कृत्यं वा करणीयं वा तत् कुरुध्वम् इति; ततो ऽसौ क्लिष्टबुद्धिः कृतोपचारी राज्ञा शुद्धोदनेनामात्यगणपरिवृतेनानेकैश् च कापिलवास्तवैर् ब्राह्मणगृहपतिभिर् अनुगम्यमानो मध्यमध्येन नगरस्य परया विभूत्या कपिलवस्तुनो निष्क्रान्तः; राजानं निवर्त्य यथेष्टगतिप्रचारतया संप्रस्थितो ऽनुपूर्वेण किष्किन्धं पर्वतम् अनुप्राप्तः; स तम् अधिरुह्य इतश् चामुतश् च परिभ्रमन् यथाभिप्रेतस्थानसमन्वेषणया अन्यतमस्मिन् प्रदेशे निषण्णः; ततस् तेन मार्गश्रमं प्रतिविनोद्य ध्यानान्य् उत्पादितानि; ऋद्धिश् चाभिनिर्हृता; यावद् अपरेण समयेन असितरिषिर् ग्लानः संवृत्तः; स उपस्थीयते मूलगन्धपत्रपुष्पफलभैषज्यैः; तथाप्य् असौ हीयत एव; ततो ऽस्य नालदः शरीरावस्थां परिच्छिद्य कथयति: उपाध्याय यत्किंचिद् वयं प्रव्रजितास् तत् सर्वम् अमृतार्थिनो मृतगवेषिणः; सचेद् उपाध्यायेनामृतम् अधिगतम् अस्माकम् अपु अमृतेन संविभागं करोत्व् इति; स कथयति: माणव अहम् अपि यत्किंचित् प्रव्रजितः सर्वं तद् अमृतार्थी अमृतगवेषि; न च मयामृतम् अधिगतम्; अपि तु य एष शाक्यानां कुमार उत्पन्न एषो ऽमृतम् अधिगमिष्यति; अमृतेन जगत् सन्तर्पयिष्यति; तस्यान्तिके प्रव्रज; प्रव्रज्य च तेन <न> जातिवादः कर्तव्यो न गोत्रवादो न माणवकवादः; केवलं तु प्रव्रज्य ब्रह्मचर्यं चरितव्यम्; अमृताधिगमे चोद्योगः करणीयः; ततस् ते अमृतं भविष्यति; इति विदित्वा गाथां भाषते
प्राचीनान् एव सेव त्वम् अन्वेषाणस् तथागतम् ।
दुर्लभं दर्शनं भवति संबुद्धानां यशस्विनाम् ॥
इत्य् उक्त्वा
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ ( स्ब्व् इ 57 )
इत्य् उक्त्वा कालधर्मेण संयुक्तः; ततो नालदस् तस्य शरीरे शरीरपूजां कृत्वा ( अ 367अ ) वाराणसीं गत्वावस्थितः; स तत्र पञ्चमाणवकशतानि ब्राह्मणकान् मन्त्रान् वाचयति; नालदः कात्यायनो गोत्रेण; तस्य कात्यायनः कात्यायन इति संज्ञा संवृत्ता; सो ऽभिसम्बुद्धबोधेर् भगवतः सकाशम् उपसङ्क्रमिष्यति; तं भगवान् कात्यायनाववादेनावबोध्य संसारकान्ताराद् उत्तार्य अत्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापयिष्यति; तस्य महाकात्यायनो महाकात्यायन इति संज्ञा भविष्यति
सिद्धार्थ, थे नागसहस्रबल
अथापरेण समयेन शाक्यमुनिर् बोधिसत्वो धात्र्यंसगतः सुवर्णपात्र्यां शालिमासौदनं भुङ्क्ते; स प्रभूतं भुङ्क्ते; नावतिष्ठत इति धात्री आच्छेत्तुम् आरब्धा; न शक्नोत्य् आच्छेत्तुम्; तया राज्ञे शुद्धोदनया आरोचितम्; राजा अन्तःपुरसहीय आच्छेत्तुम् आरब्धः; सो ऽपि न शक्नोति; ततो राज्ञा अमात्याः कपिलवास्तवाश् च जनकायाः प्रयुक्टाः; ते ऽपि न शक्नुवन्त्य् आच्छेत्तुम्; ततः पञ्चहस्तिशतानि योक्त्रितानि; बोधिसत्वः संलक्षयति: मा ममेति बलं पंसयिष्यन्ति; यन्व् अहम् कुटिलाङ्गुलिकया पात्रीं विधारयेयम् इति; तेन कुटिलाङ्गुलिकया सुवर्णपात्री आकृष्टा; तानि च पञ्चशतानि पृष्ठतोमुखानि आकृष्टानि, न तु तैः सुवर्णपात्री आकृष्टा; राजा शुद्धोदनः संलक्षयति: बोधिसत्वेन वामेन पाणिना पञ्चहस्तिशतान्य् आकृष्टानि; नियतम् उभाभ्यां पाणिभ्यां नागसहस्रम् आक्रक्ष्यति; तस्माद् भवतु कुमारस्य नागसहस्रबल इति नामेति
अन्तरोद्दानम्
दारका क्रीडनका चैव विद्या प्रासाद एव च ।
हंसो युद्धं सारकल्यानी युद्धम् अन्तःपुरेण च ॥ ( स्ब्व् इ 58 )
सिद्धार्थऽस् पेर्fओर्मन्चेस्
धर्मता खलु शाक्यमुनिर् बोधिसत्वः पञ्चशतपरिवारः कृमिवर्मणो लिप्याचार्यस्य लिपिं शिक्षणायोपन्यस्तः; कृमिवर्मणा लिप्याचार्येण बोधिसत्वस्य लिपिर् लिखित्वा दत्ता; बोधिसत्वः कथयति जानाम्य् अहम् एनाम् इति; ततस् तेन द्वितिया तृतीया; एवं यावत् पञ्चलिपिशतानि लिखित्वा दत्तानि; बोधिसत्वः कथयति: एताम् अप्य् अहं जाने अन्यां कथयेति; कृमिवर्मा कथयति: एतावत्यो लोके लिपयः प्रचरन्ति, नाहम् अन्यां जाने इति; ततो बोधिसत्वेन स्वयम् एव लिपिर् लिखित्वा कृमिवर्मणो दत्ता; उक्तश् च कथय किंनामेयं लिपिर् इति; स कथयति न जानामीति; बोधिसत्वः कथयति: द्वयोर् लोके प्रदुर्भावाद् इयं लिपिः प्रज्ञायते, बोधिसत्वस्य चक्रवर्तिनो वा इति; गगनतलस्थेन ब्रह्मणाभिहितम्: एवम् एतत् कृमिवर्मन् यथा बोधिसत्वः कथयति; द्वयोर् एव लोके प्रादुर्भावाद् इयं लिपिः प्रज्ञायते, बोधिसत्वस्य चक्रवर्तिनो वा इति; बोधिसत्वेनेयं लिपिर् ब्रह्मस्वरेण वाचिता; ब्रह्मणा च गगनतलस्थेन साक्ष्यं दत्तम्; ब्राह्मी लिपिर् ब्राह्मी लिपिर् इति संज्ञा संवृत्ता; यदा बोधिसत्वो लिप्याः पारं गतः भाद्दालिनाम बोधिसत्वस्य मातुलस् तेन हस्तिग्रीवायं शिक्षायां शिक्षितः; सहदेवो नाम इष्वस्त्राचार्यः; तेन पञ्चशतपरिवारः च्छेद्यं शिक्षयितुम् आरब्धः; भाद्दालिना सहदेव उच्यते: बोधिसत्वः कारुणिकः ( अ 367ब् ) सर्वाश् शिक्षाश् शिक्षयितव्यः; एवम् अन्ये कुमाराह्; अयं देवदत्तः क्रूरकर्मा; अस्य मर्मवेधो न व्यपदेष्टव्यः मा सर्वलोकं व्यापादयिष्यतीति; यदा बोधिसत्वः सर्वशिक्षासु शिक्षितः, पञ्चसु स्थानेषु कृतावी संवृत्तः, दूरवेधे, शब्दवेधे, मर्मवेधे, अक्षूणवेधे, दृढप्रहारितायां च, सामन्तकेन शब्दो विसृतः शाक्यानां कुमार उत्पन्नः पूर्ववद् यावद् विघुष्टशब्दो लोक इति; तेन खलु समयेन वैशालैर् लिच्छविभिर् लक्षणसंपन्नो हस्ती लब्धः; ते संलक्षयन्ति; राज्ञः शुद्धोदनस्य पुत्रो नैमित्तिकैर् व्याकृतः राजा भविष्यति चक्रवर्तीति; तस्यानुभावाद् इदं हस्तिरत्नम् ( स्ब्व् इ 59 ) उत्पन्नम्; गच्छामस् तस्यैव उपनामयाम इति; ते तं हस्त्यलङ्कारैर् अलङ्कृत्य महत्या विभूत्या संप्रस्थिता अनुपूर्वेण कपिलवस्त्व् अन्प्राप्ताः; राजकुलद्वारे हस्तिनं स्थापयित्वा स्थिताः; दैवात् क्रूरकर्मा देवदत्तो निर्गतः; तेनासौ हस्तिनागस् तथालङ्कारविभूषितो दृष्टः; यतो ऽस्य महती ईर्ष्या समुत्पन्ना; ईर्ष्यांअर्षजातः पृच्छति कस्यायं हस्तिनाग इति; तैः समाख्यातम्; शाक्यमुनिः कुमारो नैमित्तिकैश् चक्रवर्ती व्याकृतः; तस्येदं हस्तिरत्नं वैशालिकेन गणेन प्रेषितम् इति; देवदत्तः सुतरां सञ्जातामर्षः कथयति: यावद् असौ चक्रवर्ती न भवति तावद् युष्माभिर् अस्य हस्तिरत्नम् उपनीतम् इत्य् उक्त्वा तलप्रहारेणासौ हस्ती जीविताद् व्यपरोपितः; यावत् तेन प्रदेशेन नन्दो गच्छति; तेनासौ दृष्टः; स पृच्छति: भवन्तः शोभनो ऽयं हस्ती केन प्रघातितः; तैः समाख्यातं: देवदत्तेन; स संलक्षयति: नूनम् अत्र देवदत्तेन बलं जिज्ञासितम्, <यन्नु वयम् अप्य् अत्र बलं जिज्ञासयेमः> इति कृत्वा पुच्छे गृहीत्वा एकान्ते स्थापितो मा दौर्गन्ध्यं करिष्यतीति; यवत् शाक्यमुनिर् बोधिसत्वो निर्गतः; तेनासौ दृष्टः; स पृच्छति; कुतो ऽयं हस्ती? तैर् यथावृत्तं समाख्यातम्; केन प्रघातितः? देवदत्तेन; न शोभनम्; अतिथीनाम् अतिथिपूजा कर्तव्या; कस्म्मिन् प्रदेशे प्रघातितः? एतस्मिन्; केनायम् अत्रानीतः? नन्देन; संलक्षयति: नूनम् अत्र ताभ्यां बलं जिज्ञासितम्; यन्व् अहम् अप्य् अत्र बलं जिज्ञास्येयम् इति विदित्वा पुच्छे गृहीत्वा उपरिष्टात् प्राकारस्य क्षिप्तः सप्त प्राकारान्, सप्त च परिखा लङ्घयित्वा पतितः; तेन पतता गर्ता कृता; हस्तिगर्ता हस्तिगर्ता इति ( स्ब्व् इ 60 ) संज्ञा संवृत्ता; तत्र श्राद्धैर् ब्राह्मणगृहपतिभिश् चैत्यं प्रतिष्ठापितम्; अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते; आह चात्र
यो देवदत्तेन हतो गजेन्द्रो
नन्देन नीतश् च पदानि सप्त ।
स बोधिसत्वेन करेण दूरं
क्षिप्तो बहिर् लोष्ट इवान्तरिक्षे ॥ इति ॥
कुमाराः कथयन्ति: गच्छामः; च्छेद्यं कुर्मः इति ते निर्गताः; श्रुत्वा शाक्यमुनिर् बोधिसत्वः पञ्चाशतपरिवारः च्छेद्यं कर्तुं निर्गतः; कुमाराः कलमच्छेद्यं कुर्वन्ति; तैश् छिन्नाश् छिन्नाः पतन्ति; बोधिसत्वः आढकच्छेद्यं करोति; तेन छिन्ना न पतन्ति; तथैवावतिष्ठन्ते; कुमाराः कथयन्ति; भवन्तः शाक्यमुनिर् बोधिसत्वो बलवान् श्रूयते, पञ्चसु स्थानेषु कृतावीति; तद् अयं छेद्यम् अपि न जानाति कर्तुम्; न चायम् अस्मत्तो बलवान्; तथा ह्य् अस्माभिः पादपाश् छिन्नास् ते सर्वे निपतिताः; अनेन तु ये छिन्नास् ते तथैवावतिष्ठन्त इति; अथ या देवता शाक्यमुनौ बोधिसत्वे अभिप्रसन्ना तस्या एतद् अभवत्: इमे शाक्या बोधिसत्वबलम् अजानन्तः शिल्पे च कृतावितां बोधिसत्वस्यावज्ञां करिष्यन्ति; बलं च पंसयिष्यन्ति; तद् उपायसंविधानं कर्तव्यम् इति; तया तादृशं वातम् उत्सृष्टं, येन सर्वे ते वृक्षाः कर्करायमाणाः पतिताः; दृष्ट्वा शाक्याः परं विस्मयम् आपननाः; ते वेध्यं कर्तुम् आरब्धाः; तेषां तत्र लोहा लक्ष्याः; सप्त लोहमयास् ताला भेरी <सूरी> च <प्रतिष्ठापिताः>; देवदत्तेन पदबन्धं कृत्वा नाराचः क्षिप्तः; एकस् तालो भिन्नः; नन्देन द्वौ; बोधिसत्वेन नाराचः क्षिप्तः; सप्त ताला भेरी सूरी च भिन्नाः; स नाराचः पातालं प्रविष्टः; नागैर् उद्द्ःऋतः; पानीयं प्रादुर्भूतं स्वादु; तन् महाजनकायः पातुम् आरब्धः; श्राद्धैर् ब्राह्मणगृहपतिभिस् तत्र चैत्यं प्रतिष्ठापितम्; अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते ( स्ब्व् इ 61 )
शुद्धोदनऽस् एffओर्त्स्
fओर् स्ब्व् इ 61.18-63.3 च्f. अल्सो ग्ब्म् 10.3348-3349
कुमारा रथाभिरूढाः कपिलवस्तु प्रविशन्ति; नैमित्तिकाश् च नगरान् निष्क्रामन्ति; तैः शाक्यमुनिः कुमारो रथाभिरुढः प्रविशन् व्याकृतः; यद्य् अयं द्वादशभिर् वर्षैर् न प्रव्रजिष्यति, नियतं राजा भविष्यति चक्रवर्तीति; राज्ञा शुद्धोदनेन श्रुतं कुमारो नैमित्तिकैर् व्याकृत इति; श्रुत्वा पुनः प्रीतिप्रामोद्यजतः शाक्यान् सन्निपात्य कथयति: श्रुतं मे भवन्तः कुमारो नैमित्तिकैर् व्याकृतः यदि द्वादशभिर् वर्षैर् न प्रव्रजिष्यति, नियतं राजा भविष्यति चक्रवर्तीति; तद् यदि कुमारो द्वादशभिर् वर्षैर् न प्रव्रजति राजा भवति चक्रवर्ती; ते वयं गगनतलविचारिणश् चतुरो द्वीपान् अनुसंयास्यामः; निवेशो ऽस्य क्रियताम्; अमात्याः कथयन्ति: देव कुमारो ऽनर्थिकः कामैर् इति; राजा शुद्धोदनः कथयति: सर्वाः कन्याः कुम्मारस्योपदर्शयामः; यास्याभिप्रेता भविष्यति, ताम् अन्तःपुरं प्रवेशयिष्यामः; अपरे कथयन्ति: देव दानाभिरुचिः कुमारः; कन्यानाम् अलङ्कारो दाप्यताम्; यास्य परितोषं जनयिष्यति ताम् अन्तःपुरं प्रवेशयिष्याम इति; राजा शुद्धोदनः कथयत्य् एवं क्रियताम्; अमात्यैर् नानाप्रकाराणां रत्नविचित्राणाम् अलङ्काराणां राशिर् उपस्थापितः; ततो राज्ञा शुद्धोदनेन गृहशोभां नगरशोभां च कारयित्वा नक्षत्रतिथिमुहूर्तैर् मण्डपे सिंहासनं प्रज्ञप्य शाक्यमुनिकुमारो निषादितः; सिंहासनसमीपे च्द् नानाविचित्राणाम् अलङ्काराणां राशिर् व्यवस्थापितह्; अमात्या अन्यश् च कापिलवास्तवप्रधानसंमतो जनकायः प्रविष्टः; ततः सर्वकन्याः स्वकुलविभवानुरूपेण वेषालङ्कारपरिच्छदेन प्रवेशिताः; बोधिसत्वेन दानरुचितया तासाम् अलङ्कारं दत्तम् ( स्ब्व् इ 62 )
यशोधरा
fओर् स्ब्व् इ 61.18-63.3 च्f. अल्सो ग्ब्म् 10.3348-3349
दण्डपाणेः शाक्यस्य दुहिता यशोधरा नाम रूपयौवनवयसानुगता; दण्डपाणिना शाक्येनोक्ता: पुत्रि बोधिसत्वो ऽलङ्कारं ददाति; सा कथयति: तात किम् अस्माकम् आलङ्कारिकं नास्ति? पुत्रि न नास्ति; किं तु या ( अ 368ब् ) बोधिसत्वस्य कन्याभिरुचिता ताम् असौ वरयति; तात वरयतु वा मा वा; अपि तु स एव मम भर्ता; पुत्रि यद्य् एवं सुतरां गन्तव्यम्; गच्छतः; यशोधराभिनववयाः; सुवेषा, महाजनमनोनयनान्य् आक्षिपन्ती सर्वास् ताः कन्याः देवकन्या इवावभासमाना प्रविश्य शान्तेनेर्यापथेन बोधिसत्वस्य पुरस्ताद् अवस्थिता; बोधिसत्वेन सर्वालङ्कारिकं दत्तम्; अङ्गुलीयकम् एव समवशिष्टम्; बोधिसत्वेन तस्यास् तद् उपदर्शितम्; ततस् तया अनादिकालप्रकर्षप्रणयनया सिंहासनसोपानकम् अभिरुह्य बोधिसत्वहस्तात् स्वयम् आकृष्टम्; अमात्याः कापिलवास्तवश् च प्रधानसंमतो जनकायः कथयन्ति: भवन्तः सर्वकन्यानाम् इयं विशिष्टा; शक्नोत्य् एषा कुमारस्य चित्तग्राहं कर्तुम्; एषा प्रवेश्यताम् इति; ततो राज्ञा शुद्धोदनेन यशोधरा विंशतिकन्यासहस्रपरिवारा शाक्यमुणेः कुमारस्यान्तःपुरं प्रवेशिता
थे सारकल्याणि-त्रेए, थे गोओसे अन्द् देवदत्तऽस् fइर्स्त् qउअर्रेल्
fओर् स्ब्व् इ 61.18-63.3 च्f. अल्सो ग्ब्म् 10.3348-3349
धर्मता खलु यदा बुद्धा भगवन्तो लोक उत्पद्यन्ते तदा सारकल्याणी नामा वृक्षो जायते; स दिवसेन हस्तशतं वर्धते; यावच् चादित्यो नोदयति तावन् नखेनापि छिद्यते; उदिते त्व् आदित्ये शस्त्रेणापि न छिद्यते; अग्निनापि न दह्यते; अन्तरा च कपिलवस्तु अन्तरा च देवदृषम्, ( स्ब्व् इ 63 ) अत्रान्तरा नदी रोहका नाम, तस्याः कूले जातः; कालेन कालम् उदकवृद्ध्या तस्य मूलं शोचितम्; वातवशात् पतितः सेतुवन् नदीं रुद्ध्वा स्थितः; ततः सुप्रबुद्धस्य राज्ञः अनुदकेन देशो नाश्यति; शुद्धोदनस्याप्य् उदकेन; सुप्रबुद्धेन राज्ञः शुद्धोदनस्य सन्दिष्टम्: सारकल्याणि वृक्षः पतितः; रोहकां नदीम् अवष्टभ्यावस्थितः; कुमारा बलवन्तः श्रूयन्ते; तद् एतान् प्रेषयितुम् अर्हसि इति; राजा शुद्धोदनः कथयति: नाहं कुमाराणाम् आज्ञां ददामीति; छन्दः कथयति: केवलं देवो ऽनुजानातु; अहं तथा करिष्यामि यथा न च कुमाराणाम् आज्ञा दीयते, अथ च पुनः स्वयम् एव गच्छन्तीति; राज्ञा शुद्धोदनेनाधिवासितं; छन्देन नद्या रोहकायास् तीरे प्रत्येकं कुमाराणाम् उद्यानानि मापितानि; उक्ताश् च कुमारा गच्छाम उद्यानं; ते कथयन्ति, गच्छामः; ते प्रत्येकं रथम् अभिरुह्य उद्यानं गताः; देवदत्तस्योद्यानोपरिष्टद् धंसो गच्छति; स देवदत्तेन शरेण विद्धः; बोधिसत्वस्योद्याने निपतितः; बोधिसत्वेन गृहीत्वा विशल्यीकृतः; उपहारश् च दत्तः; स्वस्थो जातः; देवदत्तेन बोधिसत्वस्य सन्दिष्टम्: मयायं पूर्वपरिगृहीतो हंसः, प्रेषयैनम् इति; बोधिसत्वेन सन्दिष्टम्: यदैव मया बोधाय चित्तम् उत्पादितं, तैदैव मया सर्वसत्वाः परिगृहीता इति; तत्र देवदत्तस्य बोधिसत्वेन सार्धं चरमे भवे तत्प्रथमतो वैरूक्ष्यम् उत्पन्नम्; अन्यभवेषु तु बहुशः; सुप्रबुद्धेन ( स्ब्व् इ 64 ) कुमारा उद्यानभूमिं सारकल्याणीवृक्सस्यापनयनाय निर्गता इति श्रुत्वा महाजनकायः प्रेषितः; तत्रोच्चशब्दमहाशब्दो महाजनकायस्य च निर्घोषो जातः; बोधिसत्वः ( अ 369अ ) पृच्छति: भवन्तः किम् एष उच्चशब्दमहाशब्दो महाजनकायस्य च निर्घोष इति; छन्देन यथावृत्तं समाख्यातम्; बोधिसत्वः कथयति: यद्य् एवं गच्छामो ऽपनयामः; बोधिसत्वः संप्रस्थितः सार्धं कुमारैः; यावद् विवराद् आशीविषो बोधिसत्वस्याभिमुखो निर्गतः; उदायिना मा बोधिसत्वं दङ्क्ष्यतीति तीक्ष्णेन शस्त्रेण मध्ये छिन्नः; तेन उदायी श्वासेन दग्धः कृष्णीभूतः; तस्य कालोदायी कालोदयीति संज्ञा संवृत्ता; ततः कुमाराः सारकल्याणीवृक्षम् अपनेतुं प्रवृत्ताः; देवदत्तेन परिकरं बद्ध्वा ईषच्चालितः; नन्देनेषद् उत्क्षिप्तः; बोधिसत्वेन तु सर्वम् उपरि विहायसा क्षिप्तो द्विखण्डो जातः; नद्या रोहकाया एकस्मिंस् तीरे एकखण्डो निपरितः, द्वितीये द्वितीयः; बोधिसत्वः कथयति: भवन्तः अयं सारकल्याणीवृक्षः शीतविपाकः, पित्तघ्नः; गण्डगण्डं कृत्वा नयत; उत्पातगण्डपिटकानां प्रलेपं दास्यथ; कुमाराः स्वकस्वकान् रथान् अभिरुह्य उद्यानभूमेः कपिलवस्तु संप्रस्थिताः; पुरप्रवेशे रथाभिरूढो बोधिसत्वो नैमित्तिकैर् व्याकृतः; यद्य् एष सप्तदिवसे न प्रव्रजति, राजा भवति चक्रवर्तीति
मेएतिन्ग् wइथ् गोपिका
घाटागिरेः शाक्यस्य गोपिका दुहिता, उपरिप्रासादतलगता बोधिसत्वेन दृष्टा; सहदर्शनाच् च रथः पादाङ्गुष्ठेनावष्टब्धो निष्कम्पो जातः; बोधिसत्वो गोपिकां निरीक्षितुम् आरब्धः; गोपिकापि बोधिसत्वम्; बोधिसत्वस्य हस्ते नाराचः; स तेन गोपिकां पश्यता चूर्णीकृतः; गोपिकयापि बोधिसत्वं ( स्ब्व् इ 65 ) निरीक्षमाणया पादाङ्गुष्ठेन प्रासादतलं छिद्रितम्; महाजनकायेन बोधिसत्वो गोपिका च परस्परं निऋईक्षमाणौ भाविताध्याशयौ दृष्टौ; <दृष्ट्वा कथयन्ति>: यादृशी कन्या शक्ष्यत्य् एवैषा बोधिसत्वस्य चित्तग्राहं कर्तुम्; एष वृत्तान्तो राज्ञा शुद्धोदनेन श्रुतः; तेन <सा> बोधिसत्वस्यान्तःपुरं विंशतिकन्याशहस्रपरिवारा प्रवेशिता
सिघ्त् ओf अम् ओल्द् मन्
धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय यत्राहम् अभिरुह्योद्यानभूमिं निर्यास्यामि <इति; ततो बोधिसत्वः सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय यत्राभिरुह्योद्यानभूमिं गच्छामि;> एवं देवेति सारथिः शाक्यमुनेर् बोधिसत्वस्य प्रतिश्रुत्य भद्रं यानं योजयित्वा येन शाक्यमुनिर् बोधिसत्वस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शाक्यमुनिं बोधिसत्वम् इदम् अवोचत्: युक्तं देवस्य भद्रं यानं, यस्येदानीं देवः कालं मन्यते; अथ शाक्यमुनिर् बोधिसत्वो भद्रं यानम् अभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच् छाक्यमुनिर् बोधिसत्वः पुरुषं जीर्णं वृद्धं महल्लकं <कुब्जं> गोपानसीवाङ्कं दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छन्तं; केशाश् चास्य विवर्णा, न यथान्येषां पुरुषाणां; दृष्ट्वा च पुनः सारथिम् आमन्त्रयते: क एष सारथे पुरुषः? जीर्णो ( अ 369ब् ) वृद्धो महल्लकः कुब्जो गपानसीवङ्को दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छति; केशाश् चास्य न यथान्येषां पुरुषाणाम्; एष, देव, पुरुषो जीर्णो नाम; क एष सारथे जीर्णो नाम?; अनेन, देव, पुरुषेण न चिराद् एव मर्तव्यं भविष्यति; स एष जीर्नो नाम; अहम् अपि सारथे जराधर्मा, जराधर्मतां चानतीतः? देवो ऽपि जराधर्मा जराधर्मतां चानतीतः; तेन हि सारथे प्रतिनिवर्तय ( स्ब्व् इ 66 ) रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामीति; जरां किलाहम् अव्यतिवृत्त इति; प्रतिनिवर्तयति सारथी रथम्; अन्तःपुरम् एव याति; तत्र स्विच् छाक्यमुनिर् बोधिसत्वो ऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, जरां किलाहम् अव्यतिवृत्त इति; आह चात्र
पुरुषं हि दृष्ट्वा समतीतयौवनं
जीर्णं कुब्जं पलितं दण्डपाणिम् ।
अथाप्रतीतः करुणानि ध्यायति
जरां किलास्म्य् अव्यतिवृत्त इत्यसौ ॥ इति ॥
अथ राजा शुद्धोदनः सारथिम् आमन्त्रयते: कच्चित् सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गत अभिरतो वा उद्याने?; नो देव: तत् कस्य हेतोः? अद्राक्षीद् देव कुमार उद्यानभूमिं निर्गच्छन् पुरुषं जीर्णं वृद्धं महल्लकं कुब्जं गोपानसीवङ्कं दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छन्तम्; केशाश् चास्य विवर्णा; न यथान्येषां पुरुषाणाम्; दृष्ट्वा च पुनर् माम् इदम् अवोचत्: क एष सारथे पुरुषो जीर्णो वृद्धो महल्लकः कुब्जो गोपानसीवङ्को दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छति; केशाश् चास्य विवर्णा न यथान्येषां पुरुषाणाम् इति; तम् एनम् एवं वदामि; एष देव जीर्णो नामेति; स एवम् आह; क एष सारथे जीर्णो नामेति; तम् एनम् एवं वदामि: अनेन देव, पुरुषेण न चिरान् मर्तव्यं भविष्यति; स एष जीर्णो नामेति; स एवम् आह: अहम् अपि सारथे जराधर्मा, जराधर्मतां चानतीत इति; तम् एनम् एवं वदामि: देवो ऽपि जराधर्मा, जराधर्मतां चानतीत इति; स एवम् आह: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयामि, जरां किलाहम् ( स्ब्व् इ 67 ) अव्यतिवृत्त इति; स एष देव कुमारो ऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, जरां किलाहम् अव्यतिवृत्त इति
शुद्धोदनस्ऽ अन्xइएत्य्
अथ राज्ञः शुद्धोदनस्य एतद् अभवत्: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां च वचनं भूतं सत्यं भविष्यति; मा हैव कुमारः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति; यन्व् अहं कुमारस्य भूयस्या मत्रया पञ्च कामगुणान् अनुप्रदद्याम्, अप्य् एवाभिरतो न प्रव्रजेद् इति; अथ राजा शुद्धोदनः शाक्यमुनेर् बोधिसत्वस्य भूयस्या मात्रया पञ्चकामगुणान् ( अ 370अ ) अनुप्रयच्छत्य् अप्य् एवाभिरतो न प्रव्रजेद् इति; आह चात्र
श्रुत्वा हि सङ्ग्राहकवाक्यम् एतच्
छुद्धोदनः शाक्यमुनेः पितासौ ।
ददौ तदा कामगुणान् स पञ्च
भूयो रतो ऽप्य् एव न मां त्यजेद् इति ॥
सिघ्त् ओf अ सिच्क् मन्
धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय, यत्राहम् अभिरुह्योद्यानभूमिं निर्यास्यामि इति; ततो बोधिसत्वः सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय, यत्राहम् अभिरुह्योद्यानभूमिं निर्यास्यामि ( स्ब्व् इ 68 ) इति; एवं देवेति सारथिः शाक्यमुनेर् बोधिसत्वस्य प्रतिश्रुत्य क्षिपं भद्रं यानं योजयित्वा येन शाक्यमुनिर् बोधिसत्वस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शायमुनिं बोधिसत्वम् इदम् अवोचत्: युक्तं देवस्य भद्रं यानं, यस्येदानीं देवः कालं मन्यत इति; अथ शाक्यमुनिर् भद्रं यानम् अभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच् छाक्यमुनिर् बोधिसत्वः पुरुषम् उत्पाण्डूत्पाण्डुकं कृशालं दुर्बलकं व्यतिभिन्नेन्द्रियं नो तु निबन्धनीयं बहुजनस्य चक्षुषो दर्शनाय; दृष्ट्वा च पुनः सारथिम् आमन्त्रयते: क एष सारथे पुरुष उत्पाण्डूत्पाण्डुकः कृशालो दुर्बलको व्यतिभिन्नेन्द्रियो नो तु निबन्धनीयो बहुजनस्य चक्षुषो दर्शनाय? एष देव व्याधितो नाम; क एष सारथे व्याधितो नाम? अनेन देव पुरुषेण स्थानम् एतद् विद्यते यद् अनेनैवाबाधेन मर्तव्यं भविष्यति; स एष व्याधितो नाम; अहम् अपि सारथे व्याधिधर्मा व्याधिधर्मतां चानतितह्? देवो ऽपि व्याधिधर्मा व्याधिधर्मतां चानतीतः; तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि, व्याधिं किलाहम् अव्यतिवृत्त इति; प्रतिनिवर्तयति सारथी रथम्; अन्तःपुरम् एव याति; तत्र स्विच् छाक्यमुनिर् बोधिसत्वो ऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, व्याधिं किलाहम् अव्यतिवृत्त इति; आह चात्र
दृष्ट्वेह रोगेण विषक्तरूपं
पाण्डुं मनुष्यं कृशम् अस्वतन्त्रम् ।
अथाप्रतीतः करुणानि ध्यायति
व्याधिं किलास्म्य् अव्यतिवृत्त इत्यसौ ॥ इति ।
अथ राजा शुद्धोदनः सारथिम् आमन्त्रयते: कच्चित् सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गत अभिरतो वा उद्याने? नो देव; तत् कस्य हेतोः? अद्राक्षीद् देव कुमारः उद्यानभूमिं निर्गच्छन् पुरुषम् ( स्ब्व् इ 69 ) उत्पाण्डूत्पाण्डुकं कृशालकं दुर्बलकं म्लानं व्यतिभिन्नेन्द्रियं, नो तु निबन्धनीयं बहुजनस्य चक्षुषा दर्शनाय; दृष्ट्वा च पुनर् माम् आमन्त्रयते; क एष सारथे पुरुष उत्पण्डूत्पाण्डुकः कृशालको दुर्बलकः म्लानो व्यतिभिन्नेन्द्रियो नो तु निबन्धनीयो बहुजनस्य चक्षुषा दर्शनाय; तम् एनम् एवं वदामि: एष देव व्याधितो नमेति; स एवम् आह: क एष सारथे व्याधितो नाम? तम् एनम् एवं वदामि: अनेन देव पुरुषेण स्थानम् एतद् विद्यते यद् अनेनैवाबाधेन मर्तव्यं भविष्यति; स एष देव व्याधितो नामेति; स एवम् आह: अहम् अपि सारथे व्याधिधर्मा व्याधिधर्मतां चानतीत? इति; तम् एनम् एवं वदामि: देवो ऽपि व्याधिधर्मा व्याधिधर्मतां चानतीत इति; स एवम् आह: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि, व्याधिं किलाहम् अव्यतिवृत्त इति; स एष देव कुमारो ऽन्तःपुरमध्यगत अप्रतीतः करुणानि ध्यायति, व्याधिं किलाहम् अव्यतिवृत्त इति; अथ राज्ञः शुद्धोदनस्यैतद् अभवत्: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां वचनं भूतं सत्यं भविष्यति; मा हैव कुमारः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यतीति; यन्व् अहं कुमारस्य भूयस्या मात्रया पञ्चकामगुणान् अनुप्रदास्यामि; अप्य् एवाभिरतो न प्रव्रजेद् इति; अथ राजा शुद्धोदनः शाक्यमुनेर् बोधिसत्वस्य भूयस्या मात्रया पञ्चकामगुणान् अनुप्रयच्छत्य् अप्य् एवाभिरतो न प्रव्रजेद् इति; आह चात्र
रूपाणि शब्दांश् च तथैव गन्धान्
स्प्रष्टव्यान् वै प्रेमणीयान् प्रधानान् । ( स्ब्व् इ 70 )
ददौ तदा कामगुणांस् तु पञ्च
भूयो रतो ऽप्य् एव न मां त्यजेद् इति ॥
सिघ्त् ओf अ देचेअसेद्-मन्
धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय; यत्राहम् अभिरुह्योद्यानभूमिं निर्यास्यामि इति; ततो बोधिसत्वः सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय, यत्राभिरुह्योद्यानभूमिं गच्छामि; एवं देवेति सारथिः शाक्यमुनेर् बोधिसत्वस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन शाक्यमुनिर् बोधिसत्वस् तेनोपसङ्क्रान्तः: उपसङ्क्रम्य शाक्यमुनिं बोधिसत्वम् इदम् अवोचत्: युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत इति; अथ शाक्यमुनिर् बोधिसत्वो भद्रं यानम् अभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच् छाक्यमुनिर् बोधिसत्व उद्यानभूमिं निर्गच्छन् नानारङ्गैर् वस्त्रैश् चैलवितानं विततं, शिबिकां च प्रगृहीताम्, उल्कां च पुरस्तान् नीयमानां, महाजनकायं च पुरस्ताद् गच्छन्तं, नारीभिः प्रकीर्णकेशाभिः रुदन्तीभिः पृष्ठतः समनुबद्धम्; दृष्ट्वा च पुनः सारथिम् आमन्त्रयते: किम् एतत् सारथे नानारङ्गैर् वस्त्रैश् चैलवितानं विततम्? शिबिका च प्रगृहीता? उल्का च पुरस्तान् नीयते? महाजनकायश् च पुरस्ताद् गच्छति? नार्यश् च प्रकीर्णकेश्यो रुदन्त्यः पृष्ठतः समनुबद्धा? इति; देव एष मृतो नाम; क एष सारथे मृतो नाम? एष देव पुरुषो न भूयः प्रियं मातापितरं द्रक्ष्यति; न पुत्रदारं; दासीदासकर्मकरपौरुषेयं; ते ऽप्य् एनं न भूयो द्रक्ष्यन्ति; स एष देव मृतो नाम; अहम् अपि सारथे मरणधर्मा मरणधर्मतां चानतीतः? ( अ 371अ ) देवो ऽपि मरणधर्मा मरणधर्मतां चानतीतः; स एवम् आह: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहं ( स्ब्व् इ 71 ) अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि, मरणं किलाहम् अव्यतिवृत्त इति; प्रतिनिवर्तयति सारथी रथम्; अन्तःपुरम् एव याति; तत्र स्विच् छाक्यमुनिर् बोधिसत्वो ऽन्तःपुरमध्यगतः अप्रतीतः करुणानि ध्यायति, मरणं किलाहम् अव्यतिवृत्त इति; आह चात्र
पुरुषं दृष्ट्वा व्यपयातचेतसं
मृतं विसंज्ञं गतम् आयुषः क्षयात् ।
अथाप्रतीतः करुणानि ध्यायति
मृत्युं किलास्म्य् अव्यतिवृत्त इत्य् असौ ॥
अथ राजा शुद्धोदनः सारथिम् आमन्त्रयते: कच्चित् सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गत अभिरतो वा उद्याने? नो देव; तत् कस्य हेतोः? अद्राक्षीद् देव कुमार उद्यानभूमिं निर्गच्छन् नानारङ्गैर् वस्त्रैश् चैलवितानं विततम्; शिबिकां च गृहीताम्; उल्कां च पुरस्तान् नीयमानाम्; महाजनकायं च पुरस्ताद् गच्छन्तं; नारीश् च प्रकीर्णकेशा रुदतीः पृष्ठतः समनुबद्धाः; दृष्ट्वा च पुनर् माम् आमन्त्रयते: किम् एतत् सारथे नानारङ्गैर् वस्त्रैश् चैलवितानं विततम्? शिबिका च प्रगृहीता? उल्का च पुरस्तान् नीयते? महाजनकायश् च पुरस्ताद् गच्छति? नार्यश् च प्रकीर्णकेश्यो रुदन्त्यः पृष्ठतः समनुबद्धा? इति; तम् एनम् एवं वदामि: एष देव मृतो नामेति; स एवम् आह; क एष सारथे मृतो नामेति; तम् एनम् एवं वदामि: ( स्ब्व् इ 72 ) एष देव पुरुषो न भूयः प्रियं मातापितरं द्रक्ष्यति; न पुत्रदारं; न दासीदासकर्मकरपौरुषेयम्; ते ऽप्य् एनं न भूयो द्रक्ष्यन्ति; स एष देव मृतो नामेति; स एवम् आह: अहम् अपि सारथे मरणधर्मा? मरणधर्मतां चानतीतः? इति; तम् एनम् एवं वदामि; देवो ऽपि मरणधर्मा मरणधर्मतां चानतीत इति; स एवम् आह; तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि, मरणं किलाहम् अव्यतिवृत्त इति; स एष देव कुमारो ऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, मरणं किलाहम् अव्यतिवृत्त इति
अथ राज्ञः शुद्धोदनस्यैतद् अभवत्: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां वचनं भूतं सत्यं भविष्यति; मा हैव कुमारः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति; यन्व् अहं कुमारस्य भूयस्या मात्रया पञ्चकामगुणान् अनुप्रदद्याम्; अप्य् एवाभिरतो न प्रव्रजेद् इति; अथ राजा शुद्धोदनः शाक्यमुनेर् बोधिसत्वस्य पञ्चकामगुणान् अनुप्रयच्छति; अप्य् एवाभिरतो न प्रव्रजेद् इति; आह चात्र
पुरोत्तमे श्रीमति तत्र रम्ये
देवातिदेवो दहरः समानः ।
संमोदते कामगुणैर् हि पञ्चभिः
सहस्रनेत्र इव नन्दने वने ॥
सिघ्त् ओf अ मेन्दिचन्त्
अथ शुद्धावासकायिकानां देवानाम् एतद् अभवत्: ( अ 37ल्ब् ) यद्य् अपि बोधिसत्वा हेतुबलिनस् तथापि प्रत्ययोपसंहारः ( स्ब्व् इ 73 ) कर्तव्यः यस्माद् धेतुबलं प्रत्ययबलम् अपेक्षत इति; तैः पुरुषो निर्मितो मुण्डः काषायवस्त्रप्रावृतः, पात्रपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामन्; धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय, यत्राहम् अभिरुह्योद्यानभूमिम् <निर्यास्यामि इति; ततो बोधिसत्वः सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय यत्राहम् अभिरुह्योद्यानभूमिं> निर्गच्छामि; एवं देवेति सारथिः साक्यमुनिर् बोधिसत्वस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन साक्यमुनिर् बोधिसत्वस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शाक्यमुमिं बोधिसत्वम् इदम् अवोचत्: युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत इति; अथ शाक्यमुनिर् बोधिसत्वो भद्रं यानम् अभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच् छाक्यमुनिर् बोधिसत्वः पुरुषं मुण्डम् काषायवस्त्रप्रावृतं पात्रपाणिम् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामन्तम्; दृष्ट्वा च पुनः सारथिम् आमन्त्रयते: क एष सारथे पुरुषो मुण्डः पात्रपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामति? वस्त्राणि चास्य विवर्णानि; म यथान्येषाम्? एष देव प्रव्रजितो नाम; क एष सारथे प्रव्रजितो नाम; एष देव प्रव्रजितः साधुदमः साधुसंयमः साध्वर्थचर्यः साधुकुशलचर्यः साधुकल्याणचर्य इति विदित्वा केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; स एष देव प्रव्रजितो नाम; तेन हि सारथे येनैष प्रव्रजितस् तेन रथं प्रेरय; एवम् देवेति सारथिः शाक्यमुनेर् बोधिसत्वस्य प्रतिश्रुत्य येन स प्रव्रजितस् तेन रथं प्रेरयति; अथ शाक्यमुनिर् बोधिसत्वस् तं प्रव्रजितम् इदम् अवोचत्: कस्मात् त्वं भोः पुरुष मुण्डः पात्रपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामसि? वस्त्राणि च ते विवर्णानि न यथान्येषाम्? स एवम् आह: अहम् अस्मि कुमार प्रव्रजितो नाम; यथा कथं त्वं भोः पुरुष प्रव्रजितो नाम? अहम् अस्मि कुमार साधुदमः साधुसंयमः साध्वर्थचर्यः साधुधर्मचर्यः ( स्ब्व् इ 74 ) साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य संयग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; एवम् अहं प्रव्रजितो नाम; साधु त्वं भोः पुरुष साधुदमः साधुसंयमः साध्वर्थचर्यः साधुधर्मचर्यः साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः
अथ शाक्यमुनिर् बोधिसत्वः सारथिम् आमन्त्रयते: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि; प्रतिनिवर्तयति ( अ 372अ ) सारथी रथम्; अन्तःपुरम् एव याति; तत्र स्विच् छाक्यमुनिर् बोधिसत्वो ऽन्तःपुरमध्यगत एतम् अर्थं चिन्तयत्य् अहो बताहं केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेयम् इति; अथ राजा शुद्धोदनः सारथिम् आमन्त्रयते: कच्चित् सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गतो ऽभिरतो वा उद्याने? नो देव; तत् कस्य हेतोह्? अद्राक्षीद् देव कुमारः उद्यानभूमिं निर्गच्छन् पुरुषं मुण्डं काषायवस्त्रप्रावृतं पात्रपाणिम् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामन्तं; दृष्ट्वा च पुनर् माम् आमन्त्रयते: एष सारथे मुण्डः पात्रपाणीर् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामति; वस्त्राणि चास्य विवर्णानि न यथान्येषाम् इति; तम् एनम् एवं वदामि एष देव प्रव्रजितो नामेति; स एवम् आह: क एष सारथे प्रव्रजितो नामेति; तम् एनम् एवं वदामि एष देव प्रव्रजितः साधुदमः साधुसंयमः साध्वर्थचर्यः साधुधर्मचर्यः साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; स एष देव प्रव्रजितो नामेति; स एवम् आह: तेन हि सारथे येनैष प्रव्रजितस् तेन रथं प्रेरय; एवं देवेति शाक्यमुनेर् बोधिसत्वस्य पुअतिश्रुत्य येन स प्रव्रजितस् तेन रथं प्रेरयामि; अथ शाक्यमुनिर् बोधिसत्वस् तं प्रव्रजितम् इदम् अवोचत्: कस्मात् त्वं भोः पुरुष मुण्डः पात्रपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामसि? वस्त्राणि ( स्ब्व् इ 75 ) च ते विवर्णानि; न यथान्येषां पुरुषाणाम्? स एवम् आह: अहम् अस्मि <कुमार> प्रव्रजितो नामेति; बोधिसत्वः प्राह: यथाकथं त्वं भोः पुरुष प्रव्रजितो नामेति; स एवम् आह: अहम् अस्मि कुमार साधुदमः साधुसंयमः साध्वर्थचर्यः <साधुधर्मचर्यः> साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; एवम् अहं प्रव्रजितो नामेति; बोधिसत्वः प्राह: साधु त्वं भोः पुरुष साधुदमः साधुसंयमः साध्वर्थचर्यः <साधुधर्मचर्यः> साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजित इति; ततो देव कुमारो माम् आमन्त्रयते: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि; तन् मया निवर्तितः <रथः>; कुमारो ऽन्तःपुरं प्रविष्टः
विसित् तो अ fअर्मिन्ग् विल्लगे
राजा संलक्षयति: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां वचनं सत्यं भूतं भविष्यति; मा हैव कुमारः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति; यन्व् अहं कुमारं कार्षग्रामकं प्रेषयेयम्; अप्य् एव तत्र चित्तं विनोदयेद् इति विदित्वा शाक्यमुनिं कुमारम् इदम् अवोचत्: एहि त्वं कुमार कार्षकग्रामकं गच्छ; ( अ 372ब् ) कर्मान्तान्य् अवलोकय इति; ततो बोधिसत्वो जीर्णातुरमृतसन्दर्शनाद् उद्विग्नः प्रव्रज्यायाम् अभिनिविष्टबुद्धिः पितुः शाक्यस्य शुद्धोदनस्य वचनानुकारितया रथम् अभिरुह्य कार्षग्रामकं संप्रस्थितः कायेन नो तु चित्तेन; तस्यान्तर्मार्गे पञ्चभिर् निधिशतैर् मुखान्य् उपदर्शितानि; शब्दश् च निश्चारितः: कुमार वयं तव ज्ञातिसन्तका निधयो गृहाणास्मान् इति; बोधिसत्वः कथयति: तैस् तावन् मोहपरिग्रहं कृत्वा किं कृतम्; गच्छत मम न युष्माभिः प्रयोजनम् इति; गाथां च भाषते ( स्ब्व् इ 76 )
यैर् अपि कृता ऽमृतकथा ते ऽप्य् अस्माकं मृताः कथीभूताः ।
वयम् अपि मृताः परेषां नचिरेण कथीभविष्यामः ॥
तैः पुनर् अपि शब्दो निश्चारितः: यद्य् अस्माकं कुमारो न गृह्णाति वयं म्हासमुद्रं विशाम इति; बोधिसत्वः कथयति: प्रविशत यथासुखम् इति; ते महासमुद्रं प्रविष्टाः; बोधिसत्वः संप्रस्थितो यावत् पश्यति कार्षकान् उद्धूतशिरस्कान् स्फुटितपाणिपादान् रजसावचूर्णितगात्रान्; बलीवर्दांश् च प्रतोदविक्षतशरीरान् रुधिरावसिक्तपृष्ठकटिप्रदेशान् क्षुत्पिपासाश्रमोपरुध्यमानप्राणान्, प्रततनिश्वासोपरुध्यमानहृदयान्, युतगोत्पीडनप्रगडितव्रणपूयशोणितान्, मक्षिकाकृमिसङ्घातभक्ष्यमाणस्कन्धप्राणान्, हलयुगविलिखितचरणान्, लालाशिङ्घाणकप्रस्रुतमुखनासान्, दंशमशकचर्मप्राणकाकीर्णान्; दृष्ट्वा च पुनर् अनादिकालपुण्योपचयसंभृतया करुणया पर्याकुलीकृतमनाः कार्षकान् इदम् अवोचत्: भवन्तः कस्य यूयं? ते कथयन्ति: देवस्य; स कथयति: गच्छत, भवन्तो, यूयम् अद्याग्रेणादासा अप्रेष्याभुजिष्या येनकामगमा सुखस्पर्शं विहरत; बलीवर्दाश् च उक्ताः: गच्छत यूयम् अप्य् अद्याग्रेण अच्छिन्नाग्राणि तृणानि भक्षयत; अनवमर्दितानि स्वच्छानि च पानीयानि पिबत अनाविलानि; चतुर्दिशं च शीतला वायवो वान्त्व् इति ।
थे स्हदोw ओf थे रोसे-अप्प्ले त्रेए
ततो बोधिसत्वस् तेनैव संवेगेन पितुः शाक्यस्य शुद्धोदनस्य कर्मान्तान् अवलोक्य येन जम्बूछाया तेनोपसङ्क्रान्तः; उपसङ्क्रम्य जम्बूछायायां निषद्य विविक्तं <कामैर् विविक्तं> पापकैर् अकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं अनाश्रवसदृशं प्रथमं ध्यानं समापन्नः; जनकायो ऽपि परिशिष्टवृक्षमूलेष्व् अवस्थितो बोखिसत्वं न ( स्ब्व् इ 77 ) परित्यज्य गच्छति; राजा शुद्धोदनः संलक्षयति: बोधिसत्वश् चिरयति; तथा हि भक्तकाइअसमयो ऽतिक्रान्तः, गच्छामि, पश्यामि इति; स रथम् अभिरुह्य कार्षकग्रामकं गतः; इतश् चामुतश् च बोधिसत्वं समन्वेषमाणो जम्बूसमीपम् अनुप्राप्तः; तेन खलु समयेन परिणते मध्याह्ने अन्येषां वृक्षाणां छाया प्राचीननिम्ना, प्राचीनप्रवणा, प्राचीनप्राग्भारा; बोधिसत्वानुभावात् तु जम्बूछाया बोधिसत्वस्य कायं न विजहाति; अद्राक्षीद् राजा शुद्धोदनः परिणते मध्याह्ने अन्येषां वृक्षाणां छाया प्राचीननिम्ना, प्राचीनप्रवणा, प्राचीनप्राग्भारा; बोधिसत्वस्य <अनुभावात्> तु जम्बूछाया बोधिसत्वस्य कयं न विजहाति; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: महर्धिकः कुमारो महानुभावो यत्रेदानीं परिणते मध्याह्ने अन्येषां वृक्षाणां छाया प्राचीननिम्ना प्राचीनप्रवणा प्राचीनप्राग्भारा, ( अ 373अ ) जम्बूछाया तु बोधिसत्वस्य कायं न विजहाति; ततः प्रसन्नाधिकारं कृत्वा बोधिसत्वस्य पादयोर् निपत्य, गाथां भाषते
इदं द्वितीयं तव भूरिवृद्धे
पादौ नमस्यामि समन्तचक्षो ।
यथा च जाते पृथिवी प्रकंपिता
छाया च जम्बोर् न जहाति कायम् ॥
ततः प्रसन्नाधिकारं कृत्वा बोधिसत्वं पर्यङ्काद् उत्थाप्य रथम् अभिरोप्य श्मशानमध्येन कपिलवस्तु संप्रस्थितः; बोधिसत्वेन श्मशानमध्येन गच्छता विनीलकानि, विपटुमकानि, व्याध्मातकानि शरीराणि दृष्टानि; तत्र सुतरां संविग्नो रथाभिरूढ एव पर्यङ्कं बद्ध्वावस्थितः; ततो ऽपि राज्ञा पर्यङ्काद् उत्थापितः; स संप्रस्थितः; कपिलवस्तुनगरप्रवेशे नैमित्तिकैर् व्याकृतः यदि कुमारः सप्तमे दिवसे न प्रव्रजति राजा भवति चक्रवर्ती इति; विदित्वा राजानं इदम् अवोचन् ( स्ब्व् इ 78 )
प्रादुर्भविष्यन्ति दिवाकरोदये
रत्नानि सप्त नृपते न संशयह्।
तस्माद् धि रक्षां कुरु सप्तरात्रिं
सुतस्य शोभां यदि द्रष्टुम् इच्छसि ॥
सप्तरत्नेश्वरो राजा भविष्यति सुतस् तव ।
प्रशासिष्यत्य् अदण्डेन सागरान्तां वसुन्धराम् ॥
अथवा त्यज्य वसुधां वनं यास्यति निर्भयः ।
सर्वज्ञताम् अनुप्राप्य जगद् उत्तारयिष्यति ॥
मेएतिन्ग् wइथ् मृगजा
कालक्षेमस्य शाक्यस्य मृगजा नाम दुहिता; तया वातायनस्थया बोधिसत्वं दृष्ट्वा गाथा भाषिता
सुखिता बत सा माता सुखी चास्य पिता ह्य् असौ ।
निर्वृता बत सा नारी यस्या भर्ता भविष्यति ॥
निर्वाणशब्दं श्रुत्वा तु ध्यायी स पुरुषोत्तमः ।
निर्वाणे शान्ततां ज्ञात्वा तस्मिंश् चित्तम् अरोचयत् ॥
ततो बोधिसत्वेन सौभाषिणिको मुक्ताहारः क्षिप्तः; बोधिसत्वस्यानुभावेन वातायनेनानुप्रविश्य तस्या ग्रीवायां लग्नः; प्रविशन्न् असौ महाजनकायेन दृष्टः; तै राज्ञे शुद्धोदनाय विस्तरेण समाख्यातम्; राज्ञा शुद्धोदनेन मृगजा विंशतिस्त्रीसहस्रपरिवारा बोधिसत्वस्यान्तःपुरं प्रवेशिता; इति तत्र बोधिसत्वस्य गोपिकामृगजायशोधराप्रमुखानि षष्टिस्त्रीसहस्राण्य् अन्तःपुरम् अभूत्
प्रेचौतिओन्स् ओf शुद्धोदन
ततो राजा शुद्धोदनः भ्रातृभिः, द्रोणोदनेन, शुक्लोदनेन, अमृतोदनेन च, सार्धम् एकध्ये सन्निपत्य संजल्पं कर्तुम् आरब्धः: ब्राह्मणैर् नैमित्तिकैर् विपञ्चनकैश् च ( स्ब्व् इ 79 ) व्याकृतः शाक्यमुनिर् बोधिसत्वो यदि सप्तमे दिवसे न प्रव्रजति, राजा भवति चक्रवर्तीति; तद् अस्माभिर् बोधिसत्वः सप्त रात्रिन्दिवसान् यत्नतो रक्षणीयः; नगरं सुगुप्तं कारयामः; ततस् तैः कपिलवस्तुनगरं सप्तभिः प्राकारैः परिक्षिप्तं सप्तभिः परिखाभिश् च; आयसाश् च कवाटाः पुरद्वारे दत्ताः; घण्टाश् च सुस्वनाः कवाटेषु निबद्धाः; यासाम् उद्घाट्यमानेषु द्वारेषु समन्ताद् योजनम् शब्दः स्फुरति; बोधिसत्वश् च हर्म्यतले नृत्तगीतवादित्रै स्त्रीभिश् चाभिरूपमनोहराभिर् उपचर्यमाणो ऽवस्थापितः; अमात्याश् च तुरङ्गबलकायसमेता बहिः प्राकारस्य समन्ताद् गुल्मकेषु स्थापिताः; सञ्चारिसंशोधनं कारितम्; यत् पञ्चभिः पुरुषशतैः स्थाप्यते अन्तःपुरद्वारं तादृशं कारितम्; यस्योद्घाट्यमानस्य राज्ञः शुद्धोदनस्य गृहं शब्देन स्फुरति; तच्छ्रवणाद् अन्तःपुरजनो नगरद्वारनियुक्तश् च अप्रमत्तो ऽवतिष्ठते बहिर्नगरनियुक्ता अमात्याः पौराजनपदाश् च; तन् महत्या विभूत्या बोधिसत्व उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण वीणावेणुपणवसुघोषकादिना उपगीयमनस् तिष्ठति; रात्रौ बहिः शुद्धोदनश् चतुरङ्गेन बलकायेन पूर्वद्वारे ऽवहितो ऽवतिष्ठते; दक्षिणे द्रोणोदनः पश्चिमे शुक्लोदनः, उत्तरे अमृतोदनः; मध्ये नगरस्य महानामा शाक्यः प्राहारिकः; स पूर्वद्वारं गत्वा कथयति, को जागर्ति, को जागर्तीति; राजा कथयति: अहं जागर्मि; जागृहि देव, जाग्रतस् ते श्रेयान् इति; विदिवा गाथां भाषते
सुप्तो मृतसमो लोकः सुप्तो मारवशं गतः ।
जाग्रतीह सदा सन्तस् तस्माज् जागृत जागृत ॥ इति;
दक्षिणद्वारं गत्वा कथयति: को जागर्ति, को जागर्तीति; द्रोणोदनः कथयति: अहं जागर्मि; जागृहि देवः जाग्रतस् ते श्रेयान् इति; विदित्वा गाथां भाषते ( स्ब्व् इ 79 )
सुप्तो मृतसमो लोकः सुप्तो मारवशं गतः ।
सुप्तो मृत्युवशं प्राप्तस् तस्माज् जागृत जागृत ॥ इति;
पश्चिमद्वारं गत्वा कथयति: को जागर्ति को जागर्तीति; शुक्लोदनः कथयति: अहं जागर्मि; जागृहि देव, जाग्रतस् ते श्रेयान् इति; विदित्वा गाथां भाषते
सुप्तः खलु सदा मत्तः सुप्तो मद्याढकं पीत्वा ।
अटवीषु वनेषु सुप्तस् तस्माज् जागृत जागृत ॥ इति
उत्तरं द्वारं गत्वा कथयति: को जागर्ति को जागर्तीति; अमृतोदनः कथयति: अहं जागर्मि; जागृहि देव; जाग्रतस् ते श्रेयान् इति; विदित्वा गाथां भाषते
शयितं गिरिषु शयितं दरीषु
शयितं च सागरजलेष्व् अपि ।
वृक्षाग्रेष्व् अपि शयितं
तस्माज् जागृत जागृत ॥ इति;
मध्ये चत्वरशृङ्गाटकस्य गत्वा कथयति: को जागर्ति को जागर्तीति; नियुक्ताः कथयन्ति: वयं जागृमः; जागृत जाग्रतां वः श्रेयान् इति; विदित्वा गाथां भाषते
धर्मं चरत मा ऽधर्मं सत्यं वदत मानृतम् ।
महत् तमो प्रवेष्टव्यं तस्माज् जागृत जागृत ॥ इति;
ततः प्रभातायां रजन्यां महानामा शाक्यो राज्ञे शुद्धोदनाय आरोचयति: देव प्रभाता रजनी; निर्गतं सप्तानां रात्रिंदिवसानाम् एकं रात्रिंदिवसम्; षड् रात्रिंदिवसान्य् अवशिष्टानि इति; राजा शुद्धोदनः कथयति: शोभनम्; षण्णां रात्रिंदिवसानाम् अत्ययात् कुमारश् चक्रवर्ती भविष्यति; वयं गगनतलविचारिणश् चतुरो द्वीपान् अनुसंयास्यामः; इत्य् एवं यावद् एकं रात्रिंदिवसम् अवशिष्टं; शक्रस्य देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते; स गाघां भाषते; ( स्ब्व् इ 81 )
असौ मुनिश् शाक्यनरेन्द्रगर्भः
प्रपूर्णषड्पारमितो महात्मा ।
प्रयातुकामो वनम् आर्यकान्तं
तपोवनं प्रीतिकरं मुनीनाम् ॥ इति ।
दिस्गुस्तिन्ग् सिघ्त् इन् हरेम्
ततो बोधिसत्वस्यान्तःपुरसमेतस्य निष्पुरुषेण तूर्येण ( अ 374अ ) क्रीडतो रममाणस्य परिचारयत एतद् अभवत्: भविष्यन्ति मे अतोनिदानं परे वक्तारः शाक्यमुनिः कुमारो ऽपुमान्, येन यशोधरागोपिकामृगजाप्रभृतीनि षष्टिस्त्रीसहस्राण्य् अपास्य प्रव्रजित इति; यन्व् अहं यशोधरया सार्धं परिचारयेयम् इति; तेन यशोधरया सार्धं परिचारितम्; यशोधरा आपन्नसत्वा संवृत्ता; तस्या एतद् अभवत्: प्रभातायां रजन्यां बोधिसत्वस्यारोचयिष्यामि इति; अथ बोधिसत्वस् तस्यां वेलायां प्रतीत्यसमुत्पादयोगाद् गाथां भाषते
नारीसहागारशय्या अपश्चिमा ममाद्येयम् ।
नाहं पुनर् अपि वत्स्ये अगारे सह युवत्या ॥ इति:
अथ ताः स्त्रियो नृत्तगीतवादित्रपरिश्रान्ता लालाप्रस्रुतवदना प्रकीर्णकेश्यो विक्षिप्तभुजवाससः कान्य् अपि कान्य् अप्य् अश्लीकानि प्रलपन्त्यो मिद्धम् अवक्रान्ताः; अद्राक्षीद् बोधिसत्वस् ता स्त्रियः प्रस्रुतवदनाः प्रकीर्णकेश्यः विक्षिप्तभुजवाससः कान्य् अपि कान्य् अप्य् अश्लीकानि प्रलपन्त्यः मिद्धम् अवक्रान्ताः; दृष्ट्वा च पुनर् अस्यान्तःपुरे श्मशानसंज्ञा समुत्पन्ना; स गाथां भाषते
वाताहतं कमलषण्डम् इवापविद्धं ( स्ब्व् इ 82 )
विक्षिप्तबाहुचरणं धरणीतले ऽस्मिन् ।
केशाकुलं विवृतगुह्यकटिप्रदेशं
दृष्ट्वापि शाक्यतनयोद्विजितो ऽस्मि भावात् ॥
एतान् श्मशानसदृशान् विकृतस्वभावान्
पश्यामि चारुरहितान् युवतीजनौघान् ।
किं भो विचेतनमतिस्मृतिसंप्रयुक्तो
यद् बालसत्वचरितो विषये रमेद् यः ॥
धिक् कामपङ्कशरशक्तिविषाग्नितुल्यान्
स्वप्नोपमान् लवणपानविषोपमांश् च ।
एष त्यजामि भुजगेन्द्रनिभान् दुरन्तान्
कामान् अनर्थकलिकिल्बिषहेतुभूतान् ॥इति ।
द्रेअम्स् ओf महाप्रजापति, यशोधरा अन्द् सिद्धार्थ
अत्रान्तरे महाप्रजापतिश् चतुरः स्वप्नान् पश्यति: राहुणा चन्द्रमसं ग्रस्तम्; पूर्वस्यां दिश्य् आदित्यम् उदितं, तत्रैवास्तंगतम्; महाजनकायम् आत्मानं प्रणामं कुर्वन्तम्; हसन्तं चात्मानम्; यशोधरा अष्टौ स्वप्नान् अद्राक्षीत्; आत्मीयं मातृकावंशं भग्नम्; श्रीपर्यङ्कं भग्नम्; वलयबाहू भग्ने; दन्तमाले विशीर्णे; केशवेणीं स्रस्ताम्; श्रियं गृहान् निर्गताम्; चन्द्रमसं राहुणा ग्रस्तम्: पूर्वस्यां दिश्य् आदित्यम् उदितं तत्रैवास्तंगतम्; बोधिसत्वो ऽपि पञ्च स्वप्नान् अद्राक्षीत्: महापृथिवीम् आत्मनो महाशयनम्; सुमेरुं पर्वतराजं विश्वोपधानम्; वामं बाहुं पूर्वमहासमुद्रे ऽन्तर्गतम्; दक्षिनं बाहुं पश्चिममहासमुद्रे ऽन्तर्गतम्; उभौ चरणौ दक्षिणमहासमुद्रे ऽन्तर्गतौ; स्थितिकां तृणजातं नाभेर् अभ्युद्गम्य यावन्नभ आसाद्य व्यवस्थिताम्; सर्वश्वेतांश् छकुनकान् कृष्णशिरसः पादयोर् निपत्य यावज्जानुमण्डलम् उत्थितान्; नानावर्णांश् छकुनकान् चतुर्दिशाम् ( स्ब्व् इ 83 ) आगम्य पुरस्ताद् एकवर्णान् स्थितान्; अमेध्यपर्वतस्योपरि आत्मानं चङ्क्रमणं <कुर्वन्तम्>; दृष्ट्वा च पुनः प्रीतमनाः संलक्षयति: यादृशा मया स्वप्ना दृष्टाः, न चिराद् एवानुत्तरं ज्ञानम् अधिगमिष्यामि इति; ततो यशोधरया बोधिसत्वस्य स्वप्ना निवेदिताः: देव अद्य मया अष्टौ स्वप्ना दृष्टाः; ( अ 374ब् ) मातृकावंशो भग्नः; <श्रिपर्यङ्को भग्नः>; वलयबाहू भग्ने; दन्तमाले विशीर्णे; वेणी स्रस्ता; श्री गृहान् निर्गता; चन्द्रो राहुणा ग्रस्तः; पूर्वस्यां दिश्य् आदित्य उदितस् तत्रैव अस्तंगतः इति; बोधिसत्वो यशोधरां प्रतिविनोदयन् स्वप्नान् आविष्करोति: यत् कथयसि मातृकावंशो मे भग्न इति; नन्व् अयं तिष्ठति; यत् कथयसि श्रीपर्यङ्को भग्न इति; सो ऽपि न भग्नः; एष तिष्ठति; यत् कथयसि वलयबाहू भग्ने इति; स्वयम् एव प्रत्यवेक्षस्व किं भग्ने न वेति; यत् कथयसि दन्तमाले विशीर्णे इति, एतत् ते प्रत्यात्मवेद्यम्; प्रत्यवेक्षस्व किं विशीर्णे न वेति; यत् कथयसि वेणी स्रस्तेति; एतत् ते प्रत्यात्मवेद्यम्; प्रत्यवेक्षस्व किं स्रस्ता न वेति; यत् कथयसि श्रीर् मे गृहान् निर्गतेति; स्त्रियो भर्ता श्रीः, तद् अहं तिष्ठाम्य् एव; यत् कथयसि राहुणा चन्द्रो ग्रस्त इति; नन्व् एष चन्द्रमाः साक्षात् तिष्ठति; यत् कथयसि पूर्वस्यां दिश्य् आदित्य उदितस् तत्रैवास्तंगत इति; तद् अयम् अर्धरात्रो वर्तते; न तावद् उदेति; कुतो ऽस्तंगमिष्यति; एवं संज्ञप्ता यशोधरा तूष्णीम् अवस्थिता; बोधिसत्वः संलक्षयति: यादृशानि यशोधरया स्वप्नानि दृष्टानि नियतं मयाद्यैव गन्तव्यम्; तद् अस्या लेशांशदेशेन कथयाम्> इति; तेन तस्य लेशांशदेशेन कथितम्; यशोधरा कथयति: देव यत्र त्वं गमिष्यसि तत्र मां नेष्यसि इति; बोधिसत्वो निर्वाणं सन्धाय कथयत्य् एवं भवतु; यत्र यत्र गमिष्यामि तत्र तत्र त्वां नेष्यामि इति ( स्ब्व् इ 84 )
सिद्धार्थऽस् रेनुन्चिअतिओन्
अथ शक्रब्रह्मादयो देवा बोधिसत्वस्य चेतसा चित्तम् आज्ञाय येन बोधिसत्वस् तेनोपसङ्क्रान्ताः;
उद्दामकिशोरकसन्निभकं
वनवानरगोचरचित्तसमम् ।
यदि चित्तं निवर्तसि कामगुणात्
ततो द्रक्ष्यसि ज्योतिर् अनिन्द्यपदम् ॥
उत्तिष्ठोत्तिष्ठ सुमते त्यक्त्वा निष्क्रम मेदिनीम् ।
सर्वज्ञताम् अनुप्राप्य जगद् उत्तारयिष्यसि ॥
बोधिसत्वेनाभिहितम्: ननु पश्यसि कौशिक
मृगपतिर् इव वागुरावृतो ऽहं
धनुरसिखड्गधरैर् नरैः समर्थैः ।
हयगजरथसङ्कुलैर् बलौघैः
कपिलपुरं परिवारितं समन्तात् ॥
शुद्धोदनप्रमुख एष हि शाक्यसङ्घो
हस्त्यश्वयानम् अभिरुह्य सुवर्मिताङ्गः ।
प्रासादतोरणविमानतलान्तरस्थो
नानाविधैः प्रहरणैर् अमनापहस्तैः ॥
अन्तःपुरगृहद्वारम् <बहिः द्वारं> तथैव च ।
बद्धं च यन्त्रितं चैव समन्ताद् रक्षितं तथा ॥
आडिंबशङ्खपटहस्वरभेरिनादैः
प्रासादतोरणविमानतलान्तरस्थैः ।
हस्त्यश्वयोधकलिलः सतताप्रमत्तो
मायं व्रजेद् इति हि रक्षति मां जनौघः ॥
शक्रः कथयति
पूर्वप्रतिज्ञां समनुस्मरस्व
दीपङ्करव्याकरणं च सौम्य ।
दुःखार्दितं लोकम् इमं च भूयस् ( स्ब्व् इ 85 )
त्यक्त्वा गृहान् निष्क्रमणं कुरुष्व ॥
वयं तथा करिष्यामः सब्रह्माद्या दिवौकसः ।
यद् भवान् विघ्ननिर्मुक्तो वनम् ( अ 375ब् ) अद्यैव वास्यति ॥ इति;
बोधिसत्वः शोभनम् इत्युक्त्वा प्रीतमनाः संवृत्तः; ततः शक्रेण देवेन्द्रेण स्वापनं कृत्वा पाञ्चिकस्य महायक्षसेनापतेर् आज्ञा दत्ता; मार्ष सोपानम् उपानय; बोधिसत्वो हर्म्यतलाद् अवतरतीति; तेन सोपानम् उपनीतम्; बोधिसत्वो ऽवतीर्णः; ततः शक्रेण सह कृतसङ्केतो येन छन्दक उपस्थायकस् तेनोपसङ्क्रान्तो यावत् पश्यति छन्दकं गाढमिद्धावष्टब्धम्; बोधिसत्वेन यत्नम् आस्थाय प्रबोधितो गाथाभिर् गीतेन चोक्तः:
उत्तिष्ठ हे छन्द ममानयस्व
तूर्णं गृहात् कन्थकम् अश्वरत्नम् ।
यास्याम्य् अहं पूर्वजिनोपभुक्तं
तपोवनं तुष्टिकरं मुनीनाम् ॥
छन्दकः सुप्तप्रतिबुद्धलोचनः कथयति: देव
नोद्यानकालः समुपस्थितस् ते
वैरं न ते केनचिद् अस्ति सौम्य ।
न चापि शत्रुस् तव कश्चिद् अस्ति
किम् अर्धरात्रे हि तवाश्वकार्यम् ॥
बोधिसत्वः कथयति
न कदाचित् त्वया छन्द मम वाक्यं विलोपितम् ।
मा मेऽद्य चरमे काले वाक्यम् एतद् विलोपय ॥ इति;
छन्दः कथयति: कुमार रात्रिर् इयं भयभैरवा; नाहम् अश्वम् आनयामि इति; बोधिसत्वः संलक्षयति: उत्तराद् उत्तरे नियतं जनप्रबोधो भवति; गच्छामि स्वयम् एव; कन्थकम् अश्वराजं सज्जीकरोमि इति; ततः स्वयम् एव पुरद्वारम् उद्घाट्य कन्थकम् अश्वराजं ग्रहीतुम् आरब्धः; स क्रोधाग्निसंप्रदीप्त इव क्षिपति पादं, वक्रयति मुखं, स्थानात् स्थानं चालयति; नावतिष्ठते; ततो बोधिसत्वेन चक्रस्वस्तिकनन्द्यावर्तेनानेकपुण्यशतनिर्जातेन भूतानाम् आश्वासनकरेण करेण शिरसि परामृष्ट उक्तश् च: ( स्ब्व् इ 86 )
अपश्चिमं कन्थक भारम् उद्वहा
विलंबितं प्रापय मां तपोवनम् ।
अवाप्य बोधिं न चिरेण तर्पये
कृत्स्नं जगद् ध्यानविमोक्षवृष्टिभिः ॥ इति;
धर्मता खलु तिर्यञ्चो ऽप्य् उपसान्त्व्यमाना विकृतिं न विकृतिं न भजन्ते; कन्थको ऽश्वराजो निर्विकारो ऽवस्थितः; ततो बोधिसत्वः संजातसौमनस्यं कन्थकम् अश्वराजं सज्जम् अवस्थितं <दृष्ट्वोत्थितः>; शक्रब्रह्मादिभिर् देवैश् चत्वारो देवपुत्रा बोधिसत्वं निष्कासनाय समनुशिष्य स्थापिताः, कूलः, उपकूलः, पर्णः शबरश् च; ते बोधिसत्वेनाभिहिताः: भवन्तः को मां नेष्यति? कथयन्ति: वयं नेष्यामः; किं युष्माकं बलम्? एकः कथयति: कुमार यावती पृथिव्या मृत्तिका ताम् अहं स्कन्धेनादाय गच्छामीति; द्वितीयः कथयति: यावच् चतुर्षु महासमुद्रेषु सरित्तडागोदपानेषु च सलिलं तत् सर्वम् अहं स्कन्धेनादाय गच्छामि इति; तृतीयः कथयति: यावन्तः पृथिव्यां पर्वतास् तान् अहं स्कन्धेनादाय गच्छामि इति; चतुर्थः कथयति: यावत् पृथिव्यां तृणकाष्ठपर्णशादं तत् सर्वम् अहं स्कन्धेनादाय गच्छामि इति; ततो बोधिसत्वेन पृथिव्यां पादो न्यस्तः; ते कम्पयितुम् अपि न शक्नुवन्ति; विस्मयजाताः कथयन्ति: कुमार नास्माभिर् विज्ञातम् ईदृशं बलं ( अ 375ब् ) बोधिसत्वानाम् इति; यदि विज्ञातं स्यान् न वयम् अवस्थिता स्याम इति; तं कथालापम् श्रुत्वा पूर्वबुद्धश् छन्दको बोधिसत्वसमीपम् उपसङ्क्रान्तः; ततो बोधिसत्वः कन्थकम् अश्वराजम् अधिरूढः; छन्दके ऽश्वपृष्ठे लग्ने कन्थको ऽश्वराज उपरि विहायसम् अभ्युद्गतः: यथापि तत् बोधिसत्वस्य बोधिसत्वानुभावेन देवतानां च देवतानुभावेन; अन्तःपुरनिवासिन्यो देवता बोधिसत्वविजोगाद् रोदितुम् आरब्धाः; तासां रुदन्तीनाम् अश्रुबिन्दवः काये पृथिव्यां च निपतितुम् आरब्धाः; छन्दकः कथयति: कुमार उदकबिन्दवो निपतन्ति; किं देवो वर्षति इति; बोधिसत्वः कथयति: न देवो वर्षति; किन् त्व् अन्तःपुरनिवासिन्यो देवता मद्वियोगाद् रोदितुम् आरब्धाः; तासां ( स्ब्व् इ 87 ) रुदन्तीनाम् अश्रुबिन्दवः काये निपतन्तीति; ततश् छन्दको ऽश्रुपर्याकुलेक्षणो दीर्घम् उष्णं च निश्वस्य तूष्णीम् अवस्थितः; बोधिसत्वो दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयति; चिन्तयति च: इयं च मे पश्चिमा रात्रिर् <यदा> मातृग्रामेण सार्धं सहागारशय्या इति; भूयस् स लक्षयति: सचेद् अहं पूर्वं द्वारम् अपहायान्येन द्वारेण निर्गमिष्यामि, राज्ञो भविष्यत्य् अन्यथात्वम् चरमे काले नाहं कुमारेण व्यवलोकित <इति>; यावत् पश्यति राजानं शुद्धोदनम् गाढमिद्धावष्टब्धम्; स तं प्रदक्षिणीकृत्य कथयति: तात नागौरवात्, न शुश्रूषाभावाद् गच्छामि; नान्यत्र जरामरणाभिमर्दितं लोकं जरामरणदुःखभयात् परिमोचयेयम् इति; यावन् महानामा शाक्यो जागरकजनं प्रत्यवेक्षमाणस् तं प्रदेशम् आगतः; पश्यति बोधिसत्वं गमनाभिमुखम्; ततो बाष्पगद्गदकन्ठो ऽश्रुपर्याकुलेक्षणः कथयति: किम् इदं प्रारब्धम्? महानामन् गम्यते; कुमार न युक्तम् एतत्; महानामन् येन मया त्रिभिः कल्पासङ्ख्येयैर् अनेकैश् च दुष्करशतसहस्रैः सत्वानाम् अर्थाय बोधिः समुपार्जितः; मया किं शक्यं गृहे वस्तुम्; एष निश्चयः; गतो ऽस्मि तपोवनम् इति; ततो महानामा शाक्यो निष्करुणवचनसमुदाचारपराहतो विक्रोष्टुम् आरब्धः; हा कष्टं
शाक्यानाम् अद्य सर्वेषां राज्ञः शुद्धोदनस्य च ।
आशा भविष्यत्य् अफला चिन्तिता या पुनः पुनः ॥
अद्य शुद्धोदनो राजा पुत्रशोकसमर्पितः ।
ऊर्ध्वबाहू रवं घोरं करिष्यति सुदुःखितः ॥
गोपिकामृगजायशोधरा स्फीतम् अन्तःपुरं तथा ।
सिद्धार्थस्य विगोयेन भविष्यन्ति सुदुःखिताः ॥ ( स्ब्व् इ 88 )
इति विदित्वा ससंभ्रमो यशोधराम् उत्थापयन् कथयति:
एष गच्छति सिद्धार्थस् तं वारय पतिं प्रियम् ।
आरोदिष्यसि दुःखार्ता पतिशोकसमर्पिता ॥
भर्ता प्रयाति तव दुर्लभदर्शनीयं
पश्याद्य पश्चिमन् इदं पतिदर्शनं ते ।
कष्टं न कश्चिद् अपि मे वचनं ददात्य्
आर्तो विरौमि निशि नात्र ममापराधः ॥ इति;
तस्यैवं विप्रलपतो ऽप्य् अन्तःपुरे न कश्चित् प्रतिबुद्ध्यत इति
....................................
अरण्यं वा निराक्रन्दं तथा देवैर् अधिष्ठितम् । इति;
ततो महानामा दुःखदौर्मनस्यपरीतः संत्वरमाणो राज्ञः ( अ 376अ ) शुद्धोदनस्य समीपं गत्वा राजानं शुद्धोदनं प्रबोधयन् कथयति
एष गच्छति सिद्धार्थस् तं बलाद् विनिवारय ।
मा रोदिष्यसि दुःखार्तः पुत्रशोकसमर्पितः ॥ इति;
दैवात् सो ऽपि न प्रतिबुद्ध्यते; ततः शक्रब्रह्मादयो देवा अनेकदेवताशतसहस्रपरिवृता येन बोधिसत्वस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य बोधिसत्वं परिवार्य संप्रस्थिताः; दक्षिणेन पार्श्वेन रूपावचरा देवा शान्तेर्यापथवर्तिनः, वामे कामावचरा उच्छ्रितध्वजपताकैर् दिव्यैर् वाद्यविशेषैर्; अग्रतः शक्रब्रह्मादयः स्वेन स्वेनाचारविहारेण गगनतलस्थाने चानेकानि देवताशतसहस्राणि बोधिसत्वस्योपरिष्टाद् दिव्यान्य् उत्पलानि, पद्मानि, कुमुदानि, पुण्डरीकानि क्षिपन्ति; अगरुचूर्णानि, ( स्ब्व् इ 89 ) तगरुचूर्णानि, तमालपत्रचूर्णानि, दिव्यानि मान्दारकाणि पुष्पाणि क्षिपन्ति; दिव्यानि च विविधानि वादित्राणि प्रवादयन्ति; चैलविक्षेपांश् चाकार्षुः; आह चात्र
प्रस्फोटनादतुमुलं हि दिवौकसः खं
कुर्वन्ति हृष्टमनसो भ्रमयन्ति वस्त्रम् ।
स्तुन्वन्ति केचिद् अपरे ऽपि च बोधिसत्वम्
आकाशम् अङ्गुलिशतैश् च समाक्षिपन्ति ॥
द्वाराणि केचित् प्रविघाटयन्ति
मन्दारपुष्पाण्य् अपरे क्षिपन्ति ।
अश्वस्य केचिच् चरणौ गृहीत्वा
निरीक्षमाणाः सुगतं व्रजन्ति ॥
वामेन गच्छन्तम् अनुव्रजन्ति
केचित् पुनर् दक्षिणतो व्रजन्ति ।
मार्गं स्वयं दर्शयते कुबेरः
शक्रस् तथा ब्रह्मसहीय एव ॥
पुरस्कृतो देवगणैर् महात्मा
नक्षत्रसङ्घैर् इव पूर्णचन्द्रः ।
प्रयाति हृष्टो वनम् आर्यकान्तं
तपोवनं प्रीतिकरं मुनीनाम् ॥
ततो बोधिसत्वः कपिलवस्तुनो नगरात् प्रतिनिष्क्रान्तः; शक्रब्रह्मादयो देवाः प्रीतमनसः प्रोत्साहयन्ति: मार्ष यस् ते ऽभूद् दीर्घरात्रम् आशासकः कदास्विद् अहं विघ्ननिर्मुक्तस् तपोवनं गच्छेयम् इति स ते ऽद्य परिपूर्णः; यदा त्वम् अनुत्तरां सम्यकसंबोधिम् अभिसंबुद्ध्येथास् तदास्मान् अपि समन्वाहरेथा इति; तथास्त्व् इति प्रतिज्ञाय बोधिसत्वो दक्षिणेन सर्वकायेन नागावलोकनेन व्यवलोक्य कथयति:
अनवाप्य परं मार्गं सर्वबुद्धनिषेवितम् ।
न पुनः संप्रवेक्ष्यामि पुरं कपिलवस्त्व् अहम् ॥ इति
अथ बोधिसत्वो यामद्वयेन द्वादशयोजनानि समतिक्रम्याश्वाद् अवतीर्याभरणान्य् अवमुच्य छन्दकम् आमन्त्रयते
निवर्तय छन्दकाश्वम् आदायाभरणानि च । ( स्ब्व् इ 90 )
आह चात्र
इमं हयं ह्य् आभरणानि चैव
ज्ञातिभ्यो मे सारथे त्वं प्रयच्छ ।
अहं हि कामान् विपुलान् प्रहाय
इहैव दीक्षाम् उपयामि सांप्रतम् ॥
अथ छन्दकः साश्रुदुर्दिनवदनो बोधिसत्वम् उवाच
सिंहव्याघ्रसमाकीर्णे वने गोकण्टकाचिते ।
एकाकी बन्धुरहितः कथम् आर्य करिष्यसि ॥ इति;
बोधिसत्वः कथयति
एको ह्य् अयं जायते जायमानस्
तथा म्रियते म्रियमाणो ऽयम् एकः ।
एको दुःखान्य् अनुभवतीह जन्तुर्
न विद्यते संसरतः सखा यः ॥
छन्दकः कथयति
अदृष्टदुःखः सुकुमारपादो
हस्त्यश्वयानोचितो ( अ 376ब् ) हा कुमार ।
दर्भोपलाकीर्णतलां खरां महीम्
कथं समाक्रम्य वने भ्रमिष्यसि ॥
बोधिसत्वः कथयति
न सौकुमार्यं न सुखोचितत्वं
न नाथवत्तां न कुलीनभावम् ।
न शौर्यवीर्यं न जनप्रियत्वम्
अवेक्षते मृत्युभयं कदाचित् ॥
आगमिष्यति कृत्वा वा जरामृत्युभयम् किल ।
अकृतार्थो निरारंभो निधनं यास्यतीति वा ॥
छन्दकः कथयति: देव वृद्धो राजा पुत्रशोकेन कालं करिष्यतीति; तथा ( स्ब्व् इ 91 ) बोधिसत्वो बोधिसंभारसंभृतत्वात् छन्दकवचनं चित्तेन न करोति; ततो बोधिसत्वेन नीलोत्पलसदृशं निष्कोशम् असिं कृत्वा चूडाम् अपनीय उपरि उपरि विहायसि क्षिप्ता; शक्रेण देवेन्द्रेण गृहीत्वा महता सत्कारेण देवांस् त्रयस्त्रिंशान् नीत्वा चूडामहः प्रज्ञप्तः; श्राद्धैर् अपि ब्राह्मणगृहपतिभिस् तस्मिन् प्रदेशे केशग्रहणं नाम चैत्यं प्रतिष्ठापितम् अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते; बोधिसत्वः कथयति: किं मन्यसे छन्दक? यस्येदृशो व्यवसायो न स पुनर् अपि गृही अगारम् अध्यावसेत? नो देव; छन्दकः संलक्षयति: क्षत्रियाभिमानी कुमारो, न शक्यम् अनेन प्रतिनिवर्तितुम् इति ।
रेतुर्न् ओf कन्थक अन्द् छन्दक
ततः कन्थको ऽश्वराजो बोधिसत्वस्य पादौ जिह्वया निर्लीढे; बोधिसत्वेन चक्रस्वस्तिकनन्द्यावर्तेन पाणिना परामृश्याभिहितः: गच्छ कन्थक सो ऽहम् अभिसंबुद्धबोधिर् भवत्कृतज्ञो भवीष्यामि इति; छन्दको ऽप्य् उक्तः: न त्वया कन्थको ऽन्तःपुरं प्रवेशयितव्य इति; एवम् उक्तश् छन्दको बाष्पगद्गदकन्ठो ऽश्रुपर्याकुलेक्षणः कन्थकम् अश्वराजम् आदाय पुनर् बोधिसत्वम् ईक्षमाणः संप्रस्थितः; तौ यां भूमिं यामद्वयेन गतौ तां सप्तरात्रेण प्रतिनिवृत्तौ; छन्दकः संलक्षयति: युगपत् <यदि> प्रवेक्ष्यामो महता विप्रलापेन नात्मानं सन्धारयिष्यामि; तेनोद्याने स्थित्वा कन्थकः प्रेषितः; तेन हेषितम्; तच्छब्दप्रतिसंवेदी अन्तःपुरजनो ऽन्यश् च जनकायः ससंभ्रमो निर्गतो, न पश्यति बोधिसत्वम्; कन्थकं कण्ठे परिष्वज्य रोदितुम् आरब्धाः; धर्मता ह्य् एषा अन्ये प्राकृतास् तिर्यग्योनिगताः प्राणिनः संवृतिज्ञानलाभिनः; प्राग् एव कन्थको ऽश्वराजः; स महाजनकायविक्लवं श्रुत्वा अन्तर्गतेनैव बाष्पेणोपरुद्ध्यमानः कालगतः; तेन विश्रुते अन्यतमस्मिन् षट्कर्मनिरते ब्राह्मणकुले ( स्ब्व् इ 92 ) प्रतिसन्धिर् गृहीतः; यदा बोधिसत्वो ऽनुत्तरां संयक्संबोधिम् अभिसंभोत्स्यते तदा तं खटुंकाश्ववादेन अवबोध्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिस्थापयिष्यति
थे तकिन्ग् ओf थे येल्लोw रोबेस्
बोधिसत्वस्य काषायैः प्रयोजनम् उत्पन्नम्; अनुपमे नगरे ऽन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात् कुलात् कलत्रम् आनीतम्; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः ( अ 377अ ) पुत्रो जातः; एवं यावद् दशपुत्रा जाताह्; सर्वैश् च प्रव्रज्य प्रत्येका बोधिः साक्षात्कृता; तेषां माता वृद्धा; सा तेभ्यः शाणकानि चीवराण्य् अनुप्रयच्छति; तैर् अभिहिता: अंब वयं परिनिर्वास्यामः; नास्माकम् एतैः प्रयोजनम्; किन् तु राज्ञः शुद्धोदनस्य शाक्यमुनिर् नाम पुत्रः कुमारो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते; तस्यैतानि दास्यसि; ततस् ते महती फलावाप्तिर् भविष्यति; इत्युक्त्वा ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृताः; तयापि वृद्धया तानि चीवराणि मरणकाले दुहितुर् दत्तानि; यथावृत्तं चारोचितम्; साप्य् अस्या दुहिता ग्लाना संवृत्ता; तयापि मरणावस्थां परिच्छिद्य वृक्षे स्थापितानि; या देवता तस्मिन् वृक्षे ऽध्युषिता सा आयाचिता त्वयैतानि राज्ञः शुद्धोदनपुत्रस्य दातव्यानीति; शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते; तेन तानि गृहीत्वा नीतानि; ततो जराजीर्णलुब्धवर्णम् आत्मानम् अभिनिर्माय तानि प्रावृत्य धनुर्बाणव्यग्रपाणिः बोधिसत्वस्य प्रतिमार्गे ऽवस्थितः; बोधिसत्वश् चानुपूर्वेण तं मार्गं प्रतिपन्नः पश्यति लुब्धं धनुर्बाणव्यग्रपाणिं काषायवस्त्रप्रावृतम्; दृष्ट्वा च पुनस् तं पुरुषम् आमन्त्रयते: भोः पुरुष एतानि साणकानि वस्त्राणि प्रव्रजितानुरूपाणि; इमानि काशिकसूक्ष्माणि गृहाण; ममैतण्य् अनुप्रयच्छ इति; स कथयति: कुमार नाहम् एतान्य् अनुप्रयच्छामि; मा मे स्युर् अतोनिदानं परे वक्तारः, त्वया राजकुमारं जीविताद् व्यपरोप्य एतानि काशिकसूक्ष्माणि वस्त्राणि गृहीतानि <इति>; बोधिसत्वः कथयति: भोः पुरुष सर्वलोको ( स्ब्व् इ 93 ) मां जानीते याडृशो ऽहं शक्तिसंपन्नः; कः शक्नोति मां जीविताद् व्यपरोपयितुम्; को वा श्रद्धत्ते त्वयाहं जीविताद् व्यपरोपित इति; निर्विशङ्कः प्रयच्छ इति; ततः शक्रो देवेन्द्रो बोधिसत्वस्य पादयोर् निपत्य शाणकान्य् अनुप्रयच्छति; काशिकानि गृह्णाति; बोधिसत्वस्य तानि शाणकानि वस्त्राणि न कायप्रमाणिकाणि; तस्यैतद् अभवत्: अहो बत मे शाणकानि चीवराणि कायप्रमाणिकानि स्युर् इति; वाक्प्रव्याहारसमनन्तरम् एव बोधिसत्वस्य तानि शाणकानि चीवराणि कायप्रमाणिकानि संवृत्तानि; यथापितद् बोधिसत्वस्य बोधिसत्वानुभावेन देवतानां च देवतानुभावेन; बोधिसत्वः संलक्षयति: इदानीम् अहं प्रव्रजितः, करिष्यामि जगतो ऽनुग्रहम् इति; ततस् तानि बोधिसत्वकाशिकवस्त्राणि <प्रतिगृह्य> शक्रेण देवेषु त्रयस्त्रिंशेषु काशिकमहः प्रज्ञप्तः; श्राद्धैर् ब्राह्मणगृहपतिभिर् तस्मिन् प्रदेशे काषायप्रतिग्रहणं नाम चैत्यं प्रतिष्ठापितम् अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते; ततो बोधिसत्वो मुण्डः काषायवस्त्रप्रावृतः इतश् चामुतास् च पर्यटन् भार्गवस्य रिषेर् आश्रमपदम् अनुप्राप्तः
थे सगे भार्गव
तस्मिंश् च समये भार्गवरिषिः करे कपोलं दत्वा चिन्तापरो ( अ 377ब् ) व्यवस्थितः; स बोधिसत्वेन तथाविधो दृष्टः; उक्तश् च: महर्षे किम् अर्थं करे कपोलं दत्वा चिन्तापरस् तिष्ठसि इति; स कथयति: ममास्मिन्न् आश्रमपदे तालाः सौवर्णैः पुष्पफलैर् आसन्; ते यथा पौराणाः संवृत्ताः इति; बोधिसत्वः कथयति: महर्षे यस्यानुभावाद् एतस्मिन्न् आश्रमपदे तालाः सौवर्णैः पुष्पफलैर् आसन् स जीर्णातुरमृतसन्दर्शनाद् उद्विग्नो वनं संशृतः; यद्य् असौ जीर्णातुरमृतसन्दर्शनाद् उद्विग्नस् तपोवनं <न> संशृतो ऽभविष्यत् तस्यैतद् उद्यानम् अभविष्यत्; इत्य् एवम् उक्तो भार्गवरिषिर् बोधिसत्वं निरीक्षितुम् आरब्धह्; ततो रूपशोभां शान्तं च वेषं दृष्ट्वा, चिरं निरीक्ष्य कुतूहलजातः कथयति: भोः प्रव्रजित मा हैव त्वम् एव सः; बोधिसत्वः कथयति: महर्षे व्यक्तम् एतत्; ततो भार्गवेन विस्मयोत्फुल्लदृष्टिना बोधिसत्वस् तत्प्रथमत आसनेनोपनिमन्त्रितः पुष्पफलैश् च; एवं प्रतिसंमोदितो मुहूर्तम् आस्थाय कथयति: महर्षे कियद् दूरम् इतः कपिलवस्तु नगरम् ( स्ब्व् इ 94 ) इति; स कथयति: द्वादशयोजनानीति; बोधिसत्वः संलक्षयति आसन्नम् कपिलवस्तुनगरम्, नात्रावस्थानं श्रेयः; शाक्याः पौराः संक्षोभं करिष्यन्ति; यन्व् अहं गङ्गाम् उत्तरेयम् इति
अर्रिवल् अत् राजगृह अन्द् बिम्बिसारऽस् मेएतिन्ग्
स गङ्गाम् उत्तीर्यानुपूर्वेण चारिकां चरन् राजगृहम् अनुप्राप्तः: कुशलो भवन् बोधिसत्वस् तेषु तेषु शिल्पस्थनाकर्मस्थानेषु करवीरपत्रपुटकं कृत्वा शान्तेनेर्यापथेन राजगृहं पिण्डाय प्रविष्टः; तस्मिंश् च समये राजा बिंबिसार उपरिप्रासादतलगतः; तेनासौ दृष्टः प्रासादिकेन अभिक्रमप्रतिक्रमेण आलोकितव्यवलोकितेन संमिञ्जितप्रसारितेन सङ्घाटीचीवरपात्रधारणेन पिण्डपातम् अटन्; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: यावन्तः प्रव्रजितसमापन्ना राजगृहे प्रतिवसन्ति, नास्ति कस्यचिद् एवंरूप ईर्यापथस् तद्यथास्य प्रव्रजितस्य; आथ चात्र
प्रव्रज्यां कीर्तयिष्यामि चक्षुष्मान् प्राव्रजद् यथा ।
यथा मीमांसमानो ऽसौ प्रव्रज्यां समरोचयत् ।
संबाधो ऽयं गृहावास आवासो रजसाम् अयम् ।
प्रव्रज्याभ्यवकाशश् च ज्ञात्वायं प्राव्रजत् तथा ॥
प्रव्रजित्वा ऽथ कायेन कर्म पापं प्रवर्जयन् ।
हित्वा च पापिकां वाचम् आजीवं पर्यशोधयत् ॥
ततो राजगृहं गत्वा मगधानां पुरोत्तमः ।
पिण्डाय व्याहरन् नाथः संप्रजानन् प्रतिस्मृतः ॥
प्रासादस्थस् तम् अद्राक्षीच् छ्रेणिको मगधाधिपः ।
प्रसन्नचित्तो दृष्ट्वाथ अमात्यान् इदम् अब्रवीत् ॥
इमं भवन्त ईक्षध्वम् आकीर्णं वरलक्षणैः ।
आरोहेण च संपन्नं युगमात्रं च पश्यति ॥
नोक्षिप्तचक्षुर् मेधावि ( अ 378अ ) नायम् ऊनकुलोदितः ।
राजदूतानुसंयान्तु वासं क्वोपगमिष्यति ॥
ततः संचोदिता दूता अन्वबध्नंश् च पृष्ठतः । ( स्ब्व् इ 95 )
भिक्षुर् गमिष्यति क्वायं कुत्र वासम् उपैष्यति ॥
स पिण्डपातं चरति षड्भिर् द्वारैः सुसंवृतः ।
क्षिप्रं पात्रं पूरयति संप्रजानन् प्रतिस्मृतः ॥
पिण्डपातं चरित्वाथ निष्क्रम्य नगरान् मुनिः ।
पाण्डवम् अभिसारयत्य् अत्र वासो भविष्यति ॥
ज्ञात्वा च वासोपगतम् एको दूत उपाविशत् ।
अपरे क्षिप्रम् आगम्य राज्ञ आरोचयंस् ततः ॥
एष भिक्षुर् महाराज पाण्डवस्योपरि स्थितः ।
आसीनो व्याघ्रशाबो वा सिंहो वा गिरिगह्वरे ॥
दूतानां वचनं श्रुत्वा रथम् आरुह्य पार्थिवः ।
प्रायासीत् क्षिप्रम् एवासाव् अमात्यैः परिवारितः ॥
आयानभूमिं निर्याय स यानाद् अवतीर्य च ।
पद्भ्यां समुपसङ्क्रम्य तथाद्राक्षीत् तथागतम् ॥
राजा निषद्य संमोद्य कृत्वा संरञ्जनीं कथाम् ।
अनुद्धतं सो ऽपरुषम् इदम् अर्थम् अभाषत ॥
प्रथमोत्पतिते भिक्षो यौवने समुपस्थिते ।
एवंतेजोगुणोपेते भैक्षचर्या न शोभते ॥
निवेशनानि रम्याणि नारीश् च समलङ्कृताः ।
ददामि ते वरान् भोगान् जातिं पृष्टो वदात्मनः॥
सन्ति राजन् जनपदाः पार्श्वे हिमवतो गिरेः ।
आकीर्णा धनधान्येन कौसला इति विश्रुताः ॥
इक्ष्वाकवः सूर्यगोत्राः शाक्यास् तत्र निवासिनः ।
क्षत्रिय्ष् मे कुलं राजन् न कामान् प्रार्थयाम्य् अहम् ॥
प्रशास्य हीमां पृथिवीं सशैलां
ससागरां सर्वसमृद्धरत्नाम् ।
न याति तृप्तिं पुरुषः कदाचित्
काष्टैर् निदाघे ज्वलनो यथैव ॥
वैरप्रसङ्गांस् तु वदन्ति कामान्
दुरुत्तरासारनिभान् नरेन्द्र ।
दुःखस्य शोकस्य भयस्य चापि
मूलं परं प्राकृतबुद्धिसेव्यान् ॥
निष्क्रान्तमात्रेण मया तु राजन्
कृता न कामेष्व् अभिलाषबुद्धिः ।
वान्तान् कथं तान् पुनर् आददेयम् ( स्ब्व् इ 96 )
भयङ्करान् धर्मसपत्नभूतान् ॥
अप्येव नानाशिखरप्रवृद्धः
कम्पेत मेरुर् हिमवांश् च वातैः ।
न त्व् एव बुद्धिं मम कामवेगा
मोक्षाश्रितां कंपयितुं समर्थाः ॥
लोको ह्य् अयं कामनिमग्नवाहः
संसारचक्रे परिबंभ्रमीति ।
त्राताहम् अस्मीति नरेन्द्र नान्यः
तं मोक्षयिष्यामि महाभयेभ्यः ॥
कामेष्व् आदीनवं ज्ञात्वा दृष्ट्वा निर्वाणशान्तताम् ।
प्रहाणाय गमिष्यामि यत्र मे रंस्यते मनः ॥
राज्ञा बिंबिसारेणाभिहितम्: भोः प्रव्रजित अनेन व्रतेन किं प्रार्थयसे? कथयति: अनुत्तरां सम्यक्संबोधिम्; राजा कथयति: भोः प्रव्रजित यदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येथास् तदास्मान् अपि समन्वाहरेथा इति; बोधिसत्वः कथयति: एवं भवतु समन्वाहरिष्यामि; इत्युक्त्वा राजगृहान् निष्क्रान्तः
हेर्मितगे ओf थे सगेस्
गृध्रकूटस्य नातिदूरे ऋषीणाम् आश्रमपदम्; तत्रोपसङ्क्रान्तः; तेषां चारविहारतया ध्यानपरो व्यवस्थितः; ( अ 378ब् ) यदा ते एकपादा दिवसस्य प्रहरम् अवतिष्ठन्ते, बोधिसत्वो द्वाव् अवतिष्ठते; यदि ते पञ्चतपःप्रयोगेण दिवसस्य प्रहरम् अवतिष्ठन्ते, बोधिसत्वस् तेनापि योगेन द्वाव् अवतिष्ठते; ततस् ते विस्मयम् आपन्नाः संजल्पं कर्तुम् आरब्धाः: महान् अयं श्रमण <इति> महाश्रमणो महाश्रमण इति संज्ञा संवृत्ता; बोधिसत्वेन ते पृष्टाः: भवन्तो यूयम् अनेन व्रतेन किं प्रार्थयथ? तत्रैके कथयन्ति: शक्रत्वम् इति; अपरे ( स्ब्व् इ 97 ) कथयन्ति वयं ब्रह्मत्वम् इति; अन्ये कथयन्ति मारत्वम् इति; बोधिसत्वः संलक्षयति: पुनरावर्तका ह्य् एते ऋषय उन्मार्गप्रतिपन्ना इति
आराड कालाम
स तं मार्गं नालम् इति कृत्वा येनाराडः कालामस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य आराडं कालामम् इदम् अवोचत्: सचेत् ते आराड अगुरु चरेयम् अहं भवतो ऽन्तिके ब्रह्मचर्यम् इति;स कथयति: न मे आयुष्मन् गौतमागुरु; विहर त्वं यथासुखम् इति; बोधिसत्वः कथयति: कियन्तो भवता आराडेन धर्मा अधिगताः? स कथयति: यावद् एवायुष्मन् गौतम आकिञ्चन्यायतनम्; अथ बोधिसत्वस्यैतद् अभवत्: आराडस्यापि कालामस्य श्रद्धा, ममापि श्रद्धा; आराडस्यापि कालामस्य वीर्यं स्मृतिः समाधिः प्रज्ञा, ममापि वीर्यं स्मृतिः समाधिः प्रज्ञा; आराडेन कालामेन इयन्तो धर्माः साक्षात्कृताः यावद् एव आकिञ्चन्यायतनम्; कस्माद् अहम् इमान् धर्मान् न साक्षात्करिष्यामि इति; अथ बोधिसत्वस् तेषाम् एव धर्माणाम् अप्राप्तानां प्राप्तये अनधिगतानं अधिगमाय असाक्षात्कृतानां साक्षात्क्रियायै एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्याहार्षीद्; एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्न् अचिराद् एव तान् धर्मान् साक्षाद् अकार्षीत्; साक्षात्कृत्वा च पुनस् तान् धर्मान् येनाराडः कालामस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य आराडं कालामम् इदम् अवोचत्: ननु भवता आराडेन इमे धर्माः स्वयम् अभिज्ञया साक्षात्कृता यावद् एवाकिञ्चन्यायतनम्; स एवम् आह: तथ्यं मया गौतम इमे धर्माः साक्षात्कृता यावद् एवाकिञ्चन्यायतनम्; बोधिसत्वः कथयति: ममाप्य् आयुष्मन् आराड इमे धर्माः स्वयम् अभिज्ञया साक्षात्कृता यावद् एवाकिञ्चन्यायतनम् इति; तर्ह्य् आयुष्मन् गौतम यावत् तव तावन् मम; यावन् मम तावत् तव; एह्य् आवाम् उभाव् अपीमं गणं परिकर्षावः; अस्मींश् चार्थे आवां समसमौ सामान्यप्राप्तौ; अथाराडः कालामो बोधिसत्वस्य पूर्वाचार्य एव सन् बोधिसत्वं परमया माननया मानितवान्; परमया पूजनया पूजितवान्; परमेषु चास्य प्रत्ययेषु आत्तमनाश् चाभूद् अभिराद्धश् च; अथ बोधिसत्वस्यैतद् अभवत्: अयं मार्गो ( स्ब्व् इ 98 ) नालं ज्ञानाय, नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधये
उद्रक रामपुत्र
अथ बोधिसत्वस् तं मार्गं नालम् इति विदित्वा येनोद्रको रामपुत्रस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्योद्रकं रामपुत्रम् इदम् अवोचत्: सचेत् ते उद्रक अगुरु चरेयम् अहं तवान्तिके ब्रह्मचर्यम्; न मे आयुष्मन् गौतमागुरु; विहर त्वं यथासुखं; कियन्तो भवता उद्रकेण धर्माः साक्षात्कृताः? यावद् एवायुष्मन् गौतम नैवसंज्ञानासंज्ञायतनम्; बोधिसत्वस्यैतद् अभवत्: उद्रकस्य रामपुत्रस्य श्रद्धा; ममापि श्रद्धा; उद्रकस्य रामपुत्रस्य वीर्यं स्मृतिः समाधिः प्रज्ञा; ममापि वीर्यं स्मृतिः समाधिः प्रज्ञा; उद्रकेण रामपुत्रेण इयन्तो धर्माः साक्षात्कृता यावद् एव नैवसंज्ञानासंज्ञायतनम्; कस्माद् अहम् इमान् धर्मान् न साक्षात्करिष्यामि इति; अथ बोधिसत्वस् तेषाम् एव धर्माणाम् अप्राप्तानां प्राप्तये अनधिगतानाम् अधिगमाय असाक्षात्कृतानां साक्षात्क्रियायै एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्याहार्षीत्; एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्न् अचिराद् एव तान् धर्मान् साक्षादकार्षीत्; साक्षात्कृत्वा च पुनस् तान् धर्मान् येनोद्रको रामपुत्रस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्योद्रकं रामपुत्रम् इदम् अवोचत्: ननु भवता उद्रकेण इमे धर्माः स्वयम् अभिज्ञया साक्षात्कृता यावद् एव नैवसंज्ञानासंज्ञायतनम्? तथ्यम्; मया आयुष्मन् गौतम इमे धर्माः साक्षात्कृता यावद् एव नैवसंज्ञानासंज्ञायतनम्; बोधिसत्वः कथयति: मयाप्य् आयुष्मन्न् उद्रक इमे धर्माः स्वयम् अभिज्ञया साक्षात्कृता यावद् एव नैवसंज्ञानासंज्ञायतनम् इति; तर्ह्य् आयुष्मन् गौतम यावत् तव तावन् मम; यावन् मम तावत् तव; एह्य् आवाम् उभाव् अपीमं गणं परिकर्षावः; अस्मिंश् चार्थे आवां समसमौ सामान्यप्राप्तौ; अथोद्रको रामपुत्रो बोधिसत्वस्य पूर्वाचार्य एव सन् तं परमया माननया मानितवान्; परमया पूजनया पूजितवान्; परमेषु चास्य प्रत्ययेष्व् आत्तमनाश् चाभूद् अभिराद्धश् च; अथ बोधिसत्वस्य एतद् अभवत्: अयम् अपि मार्गो नालं ज्ञानाय, नालं दर्शनाय नालम् अनुत्तरायै सम्यक्संबोधये; अथ बोधिसत्वस् तम् अपि मार्गं नालम् इति कृत्वा प्रक्रान्तः ( स्ब्व् इ 99 )
थे रिवेर् नैरञ्जना
राजा शुद्धोदनः पुत्रशोकाभिभूतो नित्यम् एव बोधिसत्वं समन्वेषणाय दूतान् प्रेषयति; तेन श्रुतं यथा सिद्धार्थं कुमार उद्रकेण रामपुत्रेण सार्धं विहृत्य राजगृहान् निष्क्रान्तो उपस्थायकविरहितः परिभ्रमतीति; श्रुत्वा त्रीण्य् उपस्थायकानां शतानि प्रेषितानि; देवदृशे नगरे सुप्रबुद्धेन शाक्येनैवम् एव श्रुतम्; तेनापि द्वे उपस्थायकशते <प्रेशिते> इति; तत्र बोधिसत्वः पञ्चभिर् उपस्थायकशतैः परिवृतस् तपोवने परिभ्रमति; स संलक्षयति: तपोवनाध्याचरणम् ( अ 379ब् ) आकीर्णविहारता च नालम् अमृताधिगमाय; यन्व् अहं पञ्चोपस्थायकान् गृहीत्वा परिशिष्टान् प्रेषयेयम् इति; तेन मातृपक्षाद् द्वौ गृहीतौ, पितृपक्षात् त्रयः; ते तस्योपस्थानं कुर्वन्ति; अथ बोधिसत्वः पञ्चभिर् उपस्थायकैः परिवृतो गयादक्षिणेन येनोरुबिल्वासेनायनीग्रामकस् तेन चारिकां प्रक्रान्तः; स इतश् चामुतश् च परिभ्रमन्न् अद्राक्षीद् रमणीयं पृथिवीप्रदेशम्, प्रासादिकं वनषण्डम्, नदीं च नैरञ्जनां शीतलस्यन्दनां ससिकतां सूपतीर्थां हरितशाद्वलविस्तीर्णकूलां नानावृक्षोपशोभितां रमणीयां; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: रमणीयो बतायं पृथिवीप्रदेशः, प्रासादिकं च वनषण्डम्, नदी च नैरञ्जना शीतलस्यन्दना ससिकता सूपतीर्था हरितशाद्वलविस्तीर्णकूला नानावृक्षोपशोभिता रमणीया; अहो बत प्रहाणार्थिना कुलपुत्रेणेमं वनषण्डम् निश्रित्य प्रहाणं प्रणिधातुं <युक्तम्>; अहं च प्रहाणेनार्थी; यन्व् अहम् इमं वनषण्डं निश्रित्य प्रहाणं प्रणिदध्याम् इति ( स्ब्व् इ 100 )
सेल्f-तोर्तुरेस् अन्द् fअस्तिन्ग्स्
अथ बोधिसत्वस् तं वनषण्डम् अभ्यवगाह्यान्यतरद् वृक्षमूलं निश्रित्य दन्तेषु दन्तान् आधाय, जिह्वाग्रं तालुनि प्रतिष्ठाप्य, चेतसा चित्तम् अभिगृह्णात्य् अभिनिपीडयत्य् अभिसन्तापयति; तस्य चेतसा चित्तम् अभिगृह्णतो ऽभिनिपीडयतो ऽभिसन्तापयतः सर्वरोमकूपेभ्यः स्वेदो मुक्तः; तद्यथा बलवान् पुरुषो दुर्बलतरं पुरुषं उद्बाहुकं गृहीत्वा अभिनिगृह्णीयाद् अभिनिपीडयेद् अभिसन्तापयेत्, तस्य रोमकूपेभ्यः स्वेदो मुच्येत; एवम् एव बोधिसत्वस्य तस्मिन् समये दन्तेषु दन्तान् आधाय जिह्वाग्रं तालुनि प्रतिष्ठाप्य चेतसा चित्तम् अभिनिगृह्णतो ऽभिनिपीडयतो ऽभिसन्तापयतः सर्वरोमकूपेभ्यः स्वेदो मुक्तः; आरब्धं चास्य वीर्यं भवत्य् असंलीनं, प्रस्रब्धः कायो भवत्य् असंरब्धं, उपस्थिता स्मृतिर् भवत्य् असंमूढा, समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति; यथापितद् भावितत्वात् कायस्य; तस्यैतद् अभवत्: यन्व् अहं भूयस्या मात्रया व्याध्मातकानि <ध्यानानि> ध्यायेयम् इति; भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यातुम् आरब्धः; स व्याध्मातकानि ध्यानानि ध्यायन्, मुखे नासिकायां चाश्वासप्रश्वासान् संनिरुणद्धि; तस्य मुखे नासिकायां चाश्वासप्रश्वासेषु संनिरुद्धेष्व् अत्यर्थं तस्मिन् समये शिरसि शिरोवेदना वर्तन्ते; तद्यथा बलवान् पुरुषो दुर्बलतरस्य पुरुषस्य दृढेन वारत्रकेण दाम्ना शिरस्य् आम्रेडकम् दद्यात्, तस्यात्यर्थं शिरसि शिरोवेदना वर्तेरन्; एवम् एव बोधिसत्वस्य व्याध्मातकानि ध्यानानि ध्यायतो ऽत्यर्थं शिरसि शिरोवेदना वर्तन्ते; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्; प्रस्रब्धं कायो भवत्य् असंरब्धः; उपस्थिता स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनाम् वेदयतश् ( अ 380अ ) चित्तं न पर्यादाय तिष्ठति; यथापितद् भावितत्वात् कायस्य; तस्यैतद् अभवत्: यन्व् अहं भूयस्या मात्रया व्याध्मातकानि ( स्ब्व् इ 101 ) ध्यानानि ध्यायेयम् इति; तद् भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यातुम् आरब्धः; स व्याध्मातकानि ध्यानानि ध्यायन् मुखे नासिकायां चाश्वासप्रश्वासान् संनिरुणद्धि; तस्य मुखे नासिकायां चाश्वासप्रश्वासेषु संनिरुद्धेषु अत्यर्थं तस्मिन् समये
[हेरे थेरे इस् अ गप् ओf अबोउत् ओने लेअf दुए तो अन् एर्रोर् ओf थे स्च्रिबे. थे तिब्. त्रन्स्ल्. थत् चोवेर्स् थिस् गप् हस् बेएन् रेप्रोदुचेद् बेलोw इन् fअच्सिमिले, अस् थे अप्पेन्दिx.]
कुक्षौ कुक्षिवेदना वर्तन्ते; तद्यथा गोघातको वा गोघातकान्तेवासी वा तीक्ष्णया गोकर्तन्या गोकुक्षिं पाटयेत्, तस्यात्यर्थं कुक्षौ कुक्षिवेदना वर्तेरन्; एवम् एव बोधिसत्वस्य तस्मिन् समये व्याध्मातकानि ध्यानानि ध्यायतो ऽत्यर्थं तस्मिन् समये कुक्षौ कुक्षिवेदना वर्तन्ते; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्, प्रस्रब्धः कायो भवत्य् असंरब्धः, उपस्थिता स्मृतिर् भवत्य् असंमूढा, समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खारं कटुकाम् अमनापां वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति यथापितद् भावितत्वात् कायस्य; तस्यैतद् अभवत्: यन्व् अहं भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यायेयम् इति; स भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यातुम् आरब्धः; व्याध्मातकानि ध्यानानि ध्यायन् मुखे नासिकायां चाश्वाशप्रश्वासान् संनिरुणद्धि; तस्य मुखे नासिकायां चाश्वासप्रश्वासेषु संनिरुद्धेष्व् अत्यर्थं तस्मिन् समये काये कायपरिदाहा वर्तन्ते; तद्यथा द्वौ बलवत्तरौ पुरुषौ दुर्बलतरं पुरुषम् उद्बाहुकं गृहीत्वा अङ्गारकर्ष्याम् उपनामयेते, तस्यात्यर्थं काये कायपरिदाहा वर्तेरन्; एवम् एव बोधिसत्वस्य व्याध्मातकानि ध्यानानि ध्यायतो ऽत्यर्थं तस्मिन् समये काये कायपरिदाहा वर्तन्ते; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्; प्रस्रब्धः कायो भवत्य् असंरब्धः; उपस्थिता च स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खरां कटुकाम् अमनापां ( स्ब्व् इ 102 ) वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति यथापितद् भावितत्वात् कायस्य; तस्यैतद् अभवत्: यन्व् अहं सर्वेण सर्वम् अनाहारतां प्रतिपद्येय इति
ओffएर् ओf थे देवतास्
अथ संबहुला देवता बोधिसत्वस्य चेतसा चित्तम् आज्ञाय येन बोधिसत्वस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य बोधिसत्वम् इदम् अवोचन्: सचेत् त्वं मार्ष मानुष्यकेणाहारेणार्त्तीयसे जेह्रीयसि वितरसि विजुगुप्ससे, वयं ते सर्वरोमकूपेषु दिव्यम् ओजः काये उपसंहरामः; तत् त्वम् आसादय इति; अथ बोधिसत्वस्यैतद् अभवत्: अहं चेन् मनुष्याणाम् अनाहारतां प्रतिजानीयाम्, देवताश् च मे सर्वरोमकूपेषु दिव्यम् ( अ 380ब् ) ओजः काये उपसंहरेयुः, तच् चाथं स्वीकुर्याम्, तन् मम स्यान् मृषा; यन् मम स्यान् मृषा तन् मम स्यान् मिथ्यादृष्टिः; मिथ्यादृष्टिप्रत्ययश् च पुनर् इहैके सत्वाः कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते; यन्व् अहं देवतानां वचनं सर्वेण सर्वं प्रत्याख्यायाल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरेयम्; यदि वा मुद्गयूषेण यदि वा कुलुत्थयूषेण यदि वा हरेणुकायूषेण इति
नेw स्त्रिविन्ग्स्
अथ बोधिसत्वस्य तस्मिन् समये देवतानां वचनं सर्वेण सर्वं प्रत्याख्यायाल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः सर्वाण्य् अङ्गप्रत्यङ्गानि म्लानान्य् अभूवन्; संम्लानानि कृशानि अल्पमांसानि; तद्यथा असीतकपर्वाणि वा कालकापर्वाणि वा म्लानानि भवन्ति; संम्लानानि कृशान्य् अल्पमांसानि; एवम् एव तस्मिन् ( स्ब्व् इ 103 ) समये बोधिसत्वस्य अल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः शिरसि शिरस्त्वक् म्लानाभूत्; संम्लाना सङ्कुचिता संपर्पटकजाता; तद्यथा अलाबूर् वृन्ताच् छिन्ना म्लानावतिष्ठते; संम्लाना सङ्कुचिता संपर्पटकजाता; एवम् एव बोधिसत्वस्य तस्मिन् समये अल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः शिरसि शिरस्त्वक् म्लानाभूत्; संम्लाना सङ्कुचिता संपर्पटकजाता; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्; प्रस्रब्धः कायो भवत्य् असंरब्धः; उपस्थिता स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य तस्मिन् समये आत्मोपसङ्क्रमिकां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति; यथापितद् भावितत्वात् कायस्य; तस्याल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः अक्ष्णोर् अक्षितारके अपगते गंभीरे गंभीरानुगते दूरानुगते दूरानु प्रविष्टे; अपीदानीम् उद्धृते इव ख्यायेते; तद्यथा गंभीरोदके उदपाने उदकतारका अपगता भवन्ति; अत्यपगता गंभीरा गंभीरानुगता दूरानुप्रविष्टा अपीदानीम् आख्यायिकाभिः श्रूयन्ते; एवम् एव तस्मिन् समये बोधिसत्वस्याल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरत अक्ष्णोर् अक्षितारके अपगते अभूताम्; अत्यपगते गंभीरे गंभीरानुगते दूरानुप्रविष्टे; अपीदानीम् उद्धृते इव ख्यायेते; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्; प्रस्रब्धः कायो भवत्य् असंरब्धः; उपस्थिता स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य तस्मिन् समये आत्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति, यथापितद् भावितत्वात् कायस्य; तस्मिन् समये अल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः पार्शुकान्तराण्य् ( अ 381अ ) उन्नतावनतान्य् अभूवन्; तद्यथा द्विवर्षत्रिवर्षप्रतिच्छन्नायास् तृणशालाया गोपानस्या उन्नतावनता भवन्ति; एवम् एव तस्मिन् समये बोधिसत्वस्य अल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः पार्शुकान्तराण्य् उन्नतावनतान्य् अभूवन्; आरब्धं चास्य वीर्यं ( स्ब्व् इ 104 ) भवत्य् असंलीनम्; प्रस्रब्धः कायो भवत्य् असंरब्धः; उपस्थिता स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य तस्मिन् समये आत्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति; अथ बोधिसत्वस्य अल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः पृष्ठवंशो ऽभूत् तद्यथा वर्तनावेणी; आनिषादो ऽभूत् तद्यथा उष्ट्रपदम्; स एकदा उत्थास्यामीत्य् अवाङ्मुखः पतति; एकदा निषत्स्यामीत्य् उत्तानमुखः पतति; स पूर्वं कायं परिगृह्य पश्चिमकं कायं संस्थापयति; पश्चिमकं कायं संपरिगृह्य पूर्वकं कायं संस्थापयति; स उभाभ्यां पाणिभ्यां कायम् आमार्ष्टि; परामार्ष्टि; तस्योभाभ्यां पाणिभ्यां कायम् आमार्जतः परिमार्जतो ऽपीदानीं प्रतिमूलानि रोमाणि पृथिव्यां शीर्यन्ते; तस्यैतद् अभवत्: अयम् अपि मार्गो नालं ज्ञानाय, नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधय इति; अथ तिस्रो देवता येन बोधिसत्वस् तेनोपसङ्क्रान्ताः; तत्रैका एवम् आह: कृष्णः श्रमणो गौतम इति: द्वितीया एवम् आह: नैष कृष्णो ऽपि तु श्याम इति; तृतीया एवम् आह: नैष कृष्णो नापि श्यामो ऽपि तु मद्गुरच्छविर् इति; बोधिसत्वस्य या सा शुभा वर्णनिभा सा सर्वेण सर्वम् अन्तर्हिताभूत्
थे थ्रेए सिमिलेस्
अथ बोधिसत्वस्य तस्मिन् समये अश्रुतपूर्वास् तिस्र उपमाः प्रतिभाताः; 1) तद्यथा आर्द्रं काष्ठं सस्नेहं जल उपनिक्षिप्तं स्याद् आरात् स्थलात्; अथ पुरुष आगच्छेद् अग्न्यर्थी अग्निगवेषी; स तत्राधरारण्याम् उत्तरारणिं प्रतिष्ठाप्य अभिमथ्नन् न भव्यो ऽग्निं संजनयितुं, तेजः प्राविष्कर्तुम्; एवम् एव तद् भवति यथापितद् आर्द्रात् काष्ठात् सस्नेहात्; एवम् एव ये केचिच् छ्रमणा वा ब्राह्मणा वा कामेषु न कायेन चित्तेन वा व्यपकृष्टा विहरन्ति, तेषां यः कामेषु कामच्छन्दः कामस्नेहः कामप्रेमा कामालयः कामनियन्त्री कामाध्यवसानं <स> तेषां चित्तं पर्यादाय तिष्ठति; एवम् एव तद् भवति यथापितत् कायेन चित्तेन ( स्ब्व् इ 105 ) वाव्यपकृष्टानां विहरताम्; किं चापि ते इमाम् एवंरूपां आत्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयन्ति; अथ च पुनस् ते नालं ज्ञानाय, नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधये इति; इयं तत्र बोधिसत्वस्य तस्मिन् समये प्रथमा अश्रुतपूर्वा उपमा प्रतिभाता; 2) तद्यथा आर्द्रं काष्ठं सस्नेहं स्थल उपनिक्षिप्तं स्याद् आरात् जलात्; <अथ> पुरुष आगच्छेद् ( अ 381ब् ) अग्न्यर्थी अग्निगवेषी; स तत्राधरारण्याम् उत्तरारणिं प्रतिष्ठाप्याभिमथ्नन् न भव्यो ऽग्निं संजनयितुम्, तेजः प्राविष्कर्तुम्; एवम् एतद् भवति यथापितद् आर्द्रात् काष्ठात् सस्नेहात्; एवम् एव ये केसिच् छ्रमणा वा ब्राह्मणा वा कामेषु कायेन व्यपकृष्टा विहरन्ति, न तु चित्तेन तेषां तत्र यः कामेषु कामच्छन्दः कामप्रेमा कामालयः कामनियन्त्री, कामाध्यवसानं स तेषां चित्तं पर्यादाय तिष्ठति; किंचापि ते इमाम् एवंरूपाम् आत्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयन्ति; अथ च पुनस् ते नालं ज्ञानाय; नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधये इति; इयं तत्र बोधिसत्वस्य तस्मिन् समये द्वितीया अश्रुतपूर्वा उपमा प्रतिभाता; 3) तद्यथा शुष्कं काष्ठं कोटरं निःस्नेहं स्थल उपनिक्षिप्तं स्याद् आराज् जलात्; अथ पुरुष आगच्छेद् अग्न्यर्थी, अग्निगवेषी; स तत्राधरारण्याम् उत्तरारणिं प्रतिष्ठाप्याभिमथ्नन् भव्यो ऽग्निं सञ्जनयितुं तेजः प्राविष्कर्तुम्; एवम् एतद् भवति यथापितत् शुष्कात् काष्ठात् कोटरात्; एवम् एव ये केचिच् छ्रमणा वा ब्राह्मणा वा कायेन व्यपकृष्टा विहरन्ति चित्तेन च, तेषां यः कामेषु कामच्छन्दः कामस्नेहः कामप्रेमा कामालयः कामनियन्ति कामाध्यवसानं स तेषां चित्तां न पर्यादाय तिष्ठति; किंचापि ते न इमाम् एवंरूपाम् आत्मोपक्रमिकां दुःखां तीव्रां खरां अमनापां वेदनां वेदयन्ते; अथ च पुनस् ते अलं ज्ञानाय अलं दर्शनाय, अलम् अनुत्तरायै सम्यक्संबोधये इति; इयं तत्र बोधिसत्वस्य तस्मिन् समये तृतीया अश्रुतपूर्वा उपमा प्रतिभाता; यन्व् अहम् एकतिलफलम् आहारम् आहरेयम् इति; स एकं तिलफलम् आहारम् ( स्ब्व् इ 106 ) आहरति; न तावद् द्वितीयं यावद् अस्य तद् ओजः कायान् न विगतं भवति; तस्यैकं तिलम् आहारम् आहरतः सुतराम् अङ्गप्रत्यङ्गानि परिक्षीणानि, यथा एकं तिलम्, एकं तण्डुलम्, एकं कोलम्, एकं कुलत्थम्, एकं माषम्, एकं मुद्गं
रेअच्तिओन् ओf शुद्धोदन अन्द् ओथेर्स्
तां दुष्करचर्यावस्थां श्रुत्वा राजा शुद्धोदनः अर्धतृतीयानि वार्तावाहकशतानि प्रेषयति; सुप्रबुद्धो ऽपि राजा अर्धतृतीयानि; तयोः प्रतिदिवसं मुहुर् मुहुर् वार्तां कथयन्ति: बोधिसत्व ईदृशीं दुष्करचर्यां चरति; एकं तिलम् आहारम् आहरति; एकं तण्डुलम्, एकं कोलम्, एकं कुलत्थम्, एकं माषम्, एकं मुद्गम्; दर्भसंस्तरे च शय्यां कल्प्यति; इति श्रुत्वा राजा शुद्धोदनः पुत्रशोकाभिभूतो भूयस्या मात्रया बाष्पोपतप्यमानहृदयो ऽश्रुपर्याकुलेक्षणः सन्तप्यते; दर्भसंस्तरे च शय्यां कल्पयति; सार्धम् अन्तःपुरेण यशोधरा देवी भर्तुस् तदवस्थां प्रतिश्रुत्य भर्तृशोकाभिभूता बाष्पार्द्रवदना विनिर्मुक्तमाल्याभरणा विषण्णा ( अ 382अ ) दुष्करं चरति; एकं तिलम् आहारम् आहरति; एकं तण्डुलम्, एकं कोलम्, एकं कुलत्थम्, एकं मुद्गम्; तृणसंस्तरे च शय्यां कल्पयति; तस्याः स गर्भो लयं गतः; राज्ञा शुद्धोदनेन श्रुतम्; स संलक्षयति: यदि यशोधरा प्रतिदिवसं बोधिसत्वस्य वार्तां शृणोति स्थानम् एतद् विद्यते यद् भर्तृशोकाभ्याहता अनया दुष्करचर्यया गर्भं न धारयिष्यति; प्राणैर् वा वियोक्ष्यते; तद् उपायसंविधानं कर्त्वयं येन यशोधराया बोधिसत्ववार्तां न कश्चित् कथयति इति विदित्वा राज्ञा शुद्धोदनेन सर्वान्तःपुरजनः क्रियाकारं कारितो न केनचित् बोधिसत्ववार्ता यशोधराया अरोचयितव्या <इति>; वार्तासंचारकाश् च समनुशिष्टाः, मां मुक्त्वा न कस्यचिद् बोधिसत्ववार्ता निवेदयितव्येति; श्रुत्वापि स्वयं वार्तां यशोधरापेक्षया अन्तर्निगूढसन्तापो ऽन्यथान्तःपुरजनं विप्रलंभयति, यं श्रुत्वा यशोधरा देवी प्राणान् सन्धारयति ( स्ब्व् इ 107 )
उन्पलतब्ले fओओद्
अथ बोधिसत्वस्यैतद् अभवत्: अयम् अपि मार्गो नालं ज्ञानाय, नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधये; यन्व् अहं परमविकृतम् आहारम् आहरेयम् इति; स परमविकृतभोजनम् आहारम् आहरति; तत्रेदं परमविकृतभोजनम्; ये ते वत्सका अचिरजातका मातुस् स्तन्येन यापयन्ति तेषाम् उच्चारप्रस्रावः; तावच् च न द्वितीयम् आहारम् आहरति, यावद् अस्य तद् ओजः कायान् न विगतं भवति; द्वितीये तु <विगते> द्वितीयम् आहारम् आहरति; महाश्मशानं च गत्वा मृतकडेबरं शिरस्य् उपनिधाय दक्षिणेन पार्श्वेन शय्यां कल्पयति पादे पादम् आधायालोकसंज्ञी स्मृतः संप्रजानन् उत्थानसंज्ञाम् एव मनसि कुर्वानः
विल्लगे गिर्ल्स् अन्द् बोय्स्
अपीदानीम् ग्रामकुमारका ग्रामकुमारिकाश् चागम्यास्योभयोः कर्णस्रोतसोस् तूलिका आसारयन्त्य् अपि प्रसारयन्त्य् अपि; उभयोः कर्णस्रोतसोर् एवं चाहुः, पांसुपिशाचकं बत पश्यामः, पांसुपिशाचकं बत पश्यामः इति; अपीदानीं पांसुम् अपि क्षिपन्ति, लोष्टम् अपि, शर्कराम् अपि; नाभिजानाति बोधिसत्वस् तेषां ग्रामकुमारकाणां ग्रामकुमारिकाणां वा अन्तिके प्रदुष्टं चित्तम् उत्पादयितुं, पापिकां वा वाचं निश्चारयितुम्; एवंरूपाणि बोधिसत्वस्य दुष्कराणि चरतः एतद् अभवत्: ये केचिद् दुःखप्रहाणयोगम् अनुयुक्ता विहरन्ति सर्वे ते एतावन् नात उत्तरेण; अतो भूयस् सो ऽपि मार्गो नालं ज्ञानाय, नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधये इति; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्; प्रस्रब्धः कायो भवत्य् असंरब्धः; उपस्थिता स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; तस्यैतद् अभवत्: कतमो ऽसौ मार्गः अलं ज्ञानाय, अलं दर्शनाय, अलम् अनुत्तरायै सम्यक्संबोधये इति; तस्यैतद् अभवत्: अभिजानाम्य् अहं पितुः शुद्धोदनस्य निवेशने कर्मान्तान् अनुसङ्गम्य जम्बूच्छायायां निषद्य ( अ 382अ ) विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं ( स्ब्व् इ 108 ) प्रथमं ध्यानम् उपसंपद्य विहर्तुम्; स्यात् स मार्गः, स्यात् प्रतिपद् अलं ज्ञानाय, अलं दर्शनाय, अलम् अनुत्तरायै सम्यक्संबोध्ये; स तु मया न सुकरम् उत्पादयितुं यथापितत् कृशेन दुर्बलेनाप्लस्थामेन; यन्व् अहं यथासुखम् आश्वस्यां यथासुखं प्रश्वस्यां, यथासुखम् औदारम् आहारम् आहरेयम् ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयेयम्; सुखोदकेन च कायं परिषिञ्चेयम् इति; स यथासुखम् आश्वसिति, यथासुखं प्रश्वसिति; औदारिकम् आहारम् आहरत्य् ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति; सुखोदकेन च कायं परिषिञ्चति
थे fइवे अत्तेन्दन्त्स् देसेर्त्
अथ तेषां पञ्चानाम् उपस्थायकानाम् एतद् अभवत्: अयं भवन्तः श्रमणो गौतमः शैथिलिकः संवृत्तो, बाहुलिको बहुलाजीवः, प्रहाणविभ्रान्तो य एष इदानीम् औदारिकम् आहारम् आहरत्य् ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति; सुखोदकेन कायं परिषिञ्चति; न शक्यम् अनेनाधुना किंचिद् अधिगन्तुम्; इति विदित्वा बोधिसत्वम् अपहाय प्रक्रान्ताः, अनुपूर्वेण वाराणसीं गत्वा ये लोके अर्हन्तस् तान् उद्दिश्य प्रव्रजिताः; ते पञ्च समग्राः सहिताः संमोदमाना अविवदमाना ऋषिवदने विहरन्ति मृगदावे इति पञ्चकाः पञ्चका इति संज्ञा संवृत्ता
नन्दा अन्द् नन्दबला
बोधिसत्वो ऽप्य् अनुपूर्वेण कायस्य स्थामं च बलं च विर्यं च संजनय्य अनुपूर्वेण सेनायनीग्रामं गतः; तत्र सेनो नाम ग्रामिकः; तस्य द्वे दुहितरौ नन्दा च नन्दबला च; ताभ्यां श्रुतम्: शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे नद्या भागीरथ्यास् तीरे कपिलस्य ऋषेर् आश्रमपदस्य नातिदूरे: स ब्राह्मणैर् नैमित्तिकैर् विपञ्चनकैर् व्याक्तृअः राजा भविष्यति चक्रवर्ती; स चाभिरूपो दर्शनीयः प्रासादिकः सर्वलक्षणसंपन्नः सर्वजनमनोहरः; या नारी द्वादशवर्षाणि इदम् एवंरूपं व्रतं समादाय वर्तते तस्या ( स्ब्व् इ 109 ) असौ भर्ता भवति इति; पुरुषाभिप्रायो मातृग्रामः; ताभ्यां द्वादशवार्षिकं व्रतं तप्तम्; तस्य समाप्तौ षोडशगुणितं मधुपायसं तपःपरिखिन्नाय ऋषये प्रतिपाद्यते आगन्तुकाय इति श्रुत्वा च पुनस् ताभ्यां गोसहस्रं दोहयित्वा तद् एव गोसहस्रं पायितम्; ततस् तद् एव गोसहस्रं दोहयित्वा पञ्चशतानि पायितानि; ततस् तानि पञ्चशतानि दोहयित्वा तान्य् एव <पञ्चशतानि> पायितानि; <ततः तानि> पञ्चशतानि दोहयित्वा अर्धतृतीयानि शतानि पायितानि; ततस् तान्य् अर्धतृतीयानि शतानि दोहयित्वा <तान्य् एवार्धतृतीयानि शतानि पायितनि; ततस् तान्य् अर्धतृतीयानि शातानि दोहयित्वा> पञ्चविंशत्युत्तरम् शतं पायितम्; ततस् तत् पञ्चविंषत्युत्तरं शतं दोहयित्वा <तद् एव पञ्चविंशत्युत्तरं शतं पायितम्; ततः तत् पञ्चविंशत्युत्तरं शतं दोहयित्वा> त्रिषष्टिः पायिता; ततस् तां त्रिषष्टिं दोहयित्वा सैव त्रिषष्टिः पायिता; ततस् तां त्रिषष्टिं दोहयित्वा द्वात्रिंशत् पायिता; ततस् ता द्वात्रिंशत् दोहयित्वा ता एव द्वात्रिंशत् पायिताः; ततस् ता द्वात्रिंशत् दोहयित्वा षोडश पायिताः; ततस् ताः षोडश दोहयित्वा ता एव षोडश ( अ 383अ ) पायिताः; ततस् ताः षोदश दोहयित्वा अष्टौ पायिताः; ततस् ता अष्टौ दोहयित्वा ता एवाष्टौ पायिताः; ततस् ता अष्टौ दोहयित्वा स्फटिकमय्यां स्थाल्यां षोडशगुणितं मधुपायसं साधयितुम् आरब्धाः; शुद्धावासकायिका देवाः संलक्षयन्ति; बोधिसत्वः इदं पायसं भुक्त्वा अद्यैवानुत्तरं ज्ञानम् अधिगमिष्यति; ततस् तेजौपसंहारः कर्तव्य इति तैः सद्योबला ओषधयः प्रक्षिप्ताः; तत्र च क्षीरे संपरिवर्तमाने चक्रस्वस्तिकनन्द्यावर्तानि चिह्नानि दृश्यन्ते; तत्र च उपगो नामाजीवकः परिभ्रमंस् तं प्रदेषम् अनुप्राप्तः; तेन तत् पायसं दृष्टम्; स संलक्षयति: य एतत् पायसं भुङ्क्ते सो ऽनुत्तरं ज्ञानम् अधिगमिष्यति; यन्व् अहम् एतत् प्रार्थयेयम् इति; स मुहूर्तम् एकान्ते प्रक्रम्य स्थितो यावद् अवतारितम् इति; स उपसङ्क्रम्य कथयति: क्षुत्तर्षश्रमपीडितो ऽस्मि; ममैतत् प्रयच्छ इति; ते कथयतः: नानुप्रयच्छाम इति; स तूष्णीं प्रक्रान्तः; ततस् ताभ्यां स्फटिकमय्यां स्थाल्यां रत्नमय्यां पात्र्यां प्रक्षिप्तम्; शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते: तस्याम् अवस्थायां ब्राह्मणवेषम् अभिनिर्माय तयोः पुरतो ऽवस्थितः; ब्रह्माप्य् अवतीर्य तस्यादूरे अवस्थितः; ते शक्राय दातुम् आरब्धे; स कथयति: किं ममानुप्रयच्छथ आहोस्विद् यो ममान्तिकाद् विशिष्टतरः? यस् तवान्तिकाद् विशिष्टतरः तस्यानुप्रयच्छावः; अयं ब्रह्मा ममान्तिकात् प्रतिविशिष्टः; तद् अस्यानुप्रयच्छतम्; ते तस्मै दातुम् आरब्धे; ( स्ब्व् इ 110 ) स कथयति: किं ममानुप्रयच्छथ आहोस्विद् यो ममान्तिकात् प्रतिविशिष्टतमः; यस् तवान्तिकात् प्रतिविशिष्टतमः; अमी शुद्धावासकायिका देवाः; एभ्यो ऽनुप्रयच्छतम्; ते तेभ्यो दातुम् आरब्धे; ते कथयन्ति: किं अस्माकम् अनुप्रयच्छथ आहोस्विद् यो ऽस्मद्विशिष्टतमः? यो युष्मद्विशिष्टतमः; ते कथयन्ति: अयं बोधिसत्वो भगवान् नैरञ्जनाम् अभ्यवगाह्य गात्राणि परिषिच्य अल्पस्थामवत्वान् न शक्नोति प्रत्युत्तर्तुम्; एषो ऽस्मद्विशिष्टतमः; अस्माय् अनुप्रयच्छतम्; ते तस्य सकाशम् संप्रस्थिते; तदा देवताभिर् अर्जुनशाखावनामिता याम् अवलंब्य बोधिसत्वो नदीं नैरञ्जनाम् उत्तीर्य चीवरकाणि प्रावृत्य नद्या नैरञ्जनायास् तीरे निषण्णः; ततस् ताभ्यां सत्कृत्य तीव्रेणाशयेन तन् मधुपायसं तस्मै प्रतिपादितम्; बोधिसत्वेनापि तयोर् अनुग्रहार्थं प्रतिसङ्गृहीतम्; प्रतिगृह्य कथयति: किम् एषापि पात्री परित्यक्ता? ते कथयतः: भगवन्न् एषापि परित्यक्ता; ततो बोस्हिसत्वेन मधुपायसं परिभुज्य सा पात्री प्रक्षाल्य नद्यां नैरञ्जनायां प्रक्षिप्ता; नागैः प्रतिगृहीता; देवानाम् अधस्ताज् ज्ञानदर्शनं प्रवर्तते; शक्रेण देवानाम् इन्द्रेण गरुडवेषम् अभिनिर्माय नदीं नैरञ्जनां क्षोभयित्वा, नागान् वित्रास्य, तां पात्रीम् अपहृत्य, देवेषु त्रयस्त्रिंशेषु पात्रीमहः प्रज्ञप्तः; ततो नन्दा नन्दबला बोधिसत्वेनोक्ते: अनेन दानेन किं प्रार्थयथ इति; ते कथयतः: भगवन् यो ऽसौ शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे ( अ 383ब् ) नद्या भागीरथ्यास् तीरे कपिलस्य ऋषेर् आश्रमपदस्य
नातिदूरे स ब्राह्मणैर् नैमित्तिकैर् विपञ्चनकैर् व्याकृतः राजा भविष्यति चक्रवर्ती इति; सो ऽस्माकम् अनेन कुषलमूलेन चित्तोत्पादेनान्नपरित्यागेन भर्ता भवेद् इति; बोधिसत्वः कथयति: प्रव्रजितो ऽसाव् अनर्थिकः कामैर् इति; ते कथयतः: भगवन् यद्य् अनर्थी कामैः
प्रणीतदानात् तु यद् अस्ति पुण्यं
संपद्यतां तस्य यशोन्वितस्य ।
सर्वार्थसिद्धस्य नरोत्तमस्य
सर्वार्थसिद्धिर् भृशम् अग्रबुद्धेः ॥
एवम् अस्त्व् इत्युक्त्वा बोधिसत्वः मधुपायसं परिभुज्य सन्तर्पितः षडिन्द्रियबलस्थामप्राप्तः, ( स्ब्व् इ 111 ) नद्या नैरञ्जनायास् तीरे इतश् चामुतश् च निषद्य भूमिं पर्येषते; यावत् पश्यति महाशैलं पर्वतं नानापुष्पफलोपेतम्; स तम् अभिरुह्य विविक्तावकाशे पृथिवीप्रदेशे पर्यङ्कम् आभुज्य निषण्णः; निषादकालसमनन्तरम् एवासौ पर्वतो विशीर्णः; बोधिसत्वः संलक्षयति: नूनं मयापक्षालानि कर्माणि कृतानि येनायं पर्वतो विशीर्णः; देवता बोधिसत्वस्य चेतसा चित्तम् आज्ञाय कथयन्ति: भगवन् न त्वया पापकानि कर्माणि कृतानि; अपि तु धर्मता ह्य् एषा, सर्वापि द्वौ पृथिवी न शक्नोति धारयितुं यश् चोच्छिन्नकुशलमूलो यश् चोत्तप्तकुशलमूलः; स त्वम् उत्तप्तकुशलमूलः; नैतद् भगवन् बोधिसत्वानां स्थानम्; अपि तु नदीं नैरञ्जनाम् उत्तीर्यामुष्मिन् प्रदेशे गच्छ वज्रासनम्; तत्र अतीतानागतप्रत्युत्पन्नास् सर्वे बोधिसत्वा निषद्यानुत्तरं ज्ञानम् अधिगतवन्तः; अधिगमिष्यन्ति च इति; ततो बोधिसत्वो देवतोपदिष्टेन मार्गेण संप्रस्थितः; तस्य चरणनिपाते पद्मं प्रादुर्भवति; चतुर्भ्यश् च महासमुद्रेभ्यस् सलिलम् आगच्छति; पद्मिनी प्रादुर्भवति; चरणनिपाते संपीदिता चेयं महापृथिवी कांसपात्रीव रटितुम् आरभ्दा; चाषा मृगाश् च बोधिसत्वस्य प्रदक्षिणीकुर्वन्ति; वातबलाहका अपि देवपुत्रा मन्दमन्दं प्रवातुम् आरब्धाः; वर्षबलाहका अपि देवपुत्रा ईषत् प्रवर्षितुम् आरब्धाः; बोधिसत्वः संलक्षयति: यादृशीनि मे निमित्तानि प्रादुर्भवन्ति अद्यैव मया अनुत्तरं ज्ञानम् अधिगतं भविष्यतीति
कालिक नागराज
नद्यां नैरञ्जनायां कालिकस्य नागराजस्य पूर्वकर्मविपाकजं भवनम् अभिनिर्वृत्तम्; स बुद्धोत्पादे बुद्धोत्पादे चक्षुषी प्रतिलभते; स रणन्त्याः पृथिव्याः शब्देन भवनाद् अभ्युद्गतः; पश्यति बोधिसत्वं दूराद् एव द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतम्, अशीत्या चानुव्यञ्जनैर् विराजितगात्रं, व्यामप्रभालङ्कृतं, सूर्यसहस्रातिरेकप्रभं, जङ्गमम् इव रत्नपर्वतं, ( स्ब्व् इ 112 ) समन्ततोभद्रकम्; सहदर्शनाच् च बोधिसत्वं गाथाभिर् गीतेन चाभिष्टोतुम् आरब्धः:
रणन्तीं प्तृहिवीं श्रुत्वा नदीं घोषसमाकुलाम् ।
भवनाद् उद्गतो नागो दिशस् समवलोकयन् ॥
अद्राक्षीद् उरगश्रेष्ठो नागराजो महर्धिकः ।
नैरञ्जनायास् तीरेण आयान्तं ( अ 384अ ) लोकनायकम् ॥
बुद्धोत्पादप्रभावाच् च चक्षुर् आसाद्य पन्नगः ।
प्रहृष्टचित्तः सुमना इमां गिरम् उवाच ह ॥
पूर्वका हि मया दृष्टास् ते ऽपि बुद्धा महर्धिकाः ।
तेषां तव च पश्यामि न नानाकरणं मुने ॥
यथोक्षिपसि पूर्वं हि पादं दक्षिणकं मुने ।
दक्षिणीयस्य लोकस्य त्वं बुद्धो ऽद्य भविष्यसि ॥
यथा चीवरविक्षेपो यथा चैवावगाहसे ।
नैरञ्जनां शीतजलां त्वं बुद्धो ऽद्य भविष्यसि ॥
सुदृढविक्रम विक्रमसे यथा
लडितगोवृषविक्रमविक्रम ।
स पुरुषर्षभ धर्मभृतां वर
त्वम् इह बुद्धवरो ऽद्य भविष्यसि ॥
नभसि चाषशतैः क्रियते यथा
परिपतद्भिर् इदं परिदक्षिणम् ।
तव शरीरम् उदारोदारकृतीत्य्
अवरबुद्धवरो ऽद्य भविष्यसि ॥
सुरभयः परिवान्ति यथानिलास्
त्रसति नापि गणो मृगपक्षिणाम् ।
न तरवः प्रचलन्त्य् अनिलेरिताः
अवरबुद्धवरो ऽद्य भविष्यसि ॥
तव भदन्त यथा विमलप्रभा ( स्ब्व् इ 113 )
ज्वलितकाञ्चनदीप्तिसमप्रभा ।
मुखम् इदं च विराजति वर्णवत्
अवरबुद्धवरो ऽद्य भविष्यसि ॥
अन्तरोद्दानम्:
रणन्त्य्, अद्राक्षीत्, बुद्धश् च, पूर्व, चरण, चीवर, सुदृढ
चाष, अनिलाश् चैव, तव, कृत्वाथ ते दश ।
स्वस्तिक अन्द् बुद्धऽस् देतेर्मिनतिओन्
ततो बोधिसत्वः कालिकनागराजेन संस्तूयमानो वज्रासनाभिमुखः संप्रस्थितः; स संलक्षयति: तृणसंस्तरे निषद्यां कल्पयामीति; तस्य तृणैः प्रयोजनम् इति शक्रो देवानाम् इन्द्रो बोधिसत्वस्य चेतसा चित्तम् आज्ञय गन्धमादनात् पर्वतात् तूलसंस्पर्शानां तृंआनां भारम् आदाय स्वस्तिकयावसिकवर्णम् आत्मानम् अभिनिर्माय बोधिसत्वस्य पुरस्ताद् अवस्थितः; बोधिसत्वः कथयति: भद्रमुख दीयन्तां ममैतानि तृणानीति; शक्रेण देवेन्द्रेण बोधिसत्वस्य पादयोर् निपत्य सगौरवेण दत्तानि; ततो बोधिसत्वः स्वस्तिकस्य यावसिकस्यान्तिकात् तृणान्य् आदाय देवतोपदिष्टेन मार्गेण येन बोधिमूलं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अनाकुलम् असङ्कुलं तृणसंस्तरकं प्रज्ञपयितुम् आरब्धः; ततस् तानि तृणानि प्रदक्षिणानि पतितुम् आरब्धानि; बोधिसत्वः संलक्षयति: यथैतानि तृणानि प्रदक्षिणं पतन्ति, नियतं मयाद्यानुत्तरं ज्ञानम् अधिगन्तव्यम्; इति विदित्वा वज्रासनम् अभिरुह्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा निषण्णः; ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य चित्तम् उत्पादयति; वाचं च भाषते:
न तावद् भेत्स्यामि पर्यङ्कं यावद् अप्राप्त आस्रवक्षयः ( अ 384ब् )
स न तावत् भिन्दति पर्यङ्कं यावद् अप्राप्त आस्रवक्षयः
मारऽस् मिस्छिएf
मारस्य पापीयसो द्वौ ध्वजौ हर्षस्थानीयः शोकस्थानीयश् च; यावच् छोकस्थानीयो ध्वजः कम्पितुम् ( स्ब्व् इ 114 ) आरब्धः मारः पापीयान् संलक्षयति: यथैष कम्पते ध्वजः, नूनम् अनर्थेन भवितव्यम्; स समन्वाहर्तुं प्रवृत्तः यावत् पश्यति बोधिसत्वं वज्रासने निषण्णम्; तस्यैतद् अभवत्: अयं शुद्धोदनपुत्रो वज्रासने निषण्णो यावन् मद्विषयं नाक्रामति, तावद् अस्य विघ्नः कर्तव्यः; इति विदित्वा उद्धूतशिरस्कः शणशाटीनिवसितः, लेखवाहकवर्णम् आत्मानम् अभिनिर्माय, येन बोधिसत्वस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य ससंभ्रमः कथयति: किमर्थं भवान् निषण्णो ऽवतिष्ठते; कपिलवस्तु नगरं देवदत्तेनावष्टब्धम्; अन्तःपुरं विध्वंसितम्; शाक्याः प्रघातिता इति; तत्र बोधिसत्वस्य त्रयः पापका अकुशला वितर्काः समुत्पन्नाः; तद्यथा, कामवितर्को, व्यापादवितर्को, विहिंसावितर्कश् च; तत्र यशोधरामृगजागोपिकासु कामवितर्कः, देवदत्ते व्यापादवितर्कः, तदनुजीविषु शाक्येषु विहिंशावितर्कः; बोधिसत्वस्यैतद् अभवत्: किम् अर्थं मे त्रयः पापका अकुशला वितर्काः समुत्पन्नाः; यावत् पश्यति, मारः पापीयान् उपसङ्क्रान्तो यदुत व्याक्षेपकर्मणेति; ततो बोधिसत्वस्य त्रयः कुशलाः समुत्पन्नाः; तद्यथा नैष्क्रम्यवितर्कः, अव्यापादवितर्कः, अविहिंसावितर्कश् च
भूयो मारः कथयति: किम् अर्थं त्वं बोधिमूले निषण्ण इति; बोधिसत्वः कथयति: अनुत्तरं ज्ञानम् अधिगमिष्यामीति; मारः कथयति: कुमार कुतस् तव अनुत्तरं ज्ञानम् इति; बोधिसत्वः कथयति: तव तावत् पापीयन् एकं यज्ञम् इष्ट्वा कामधात्वीश्वरत्वं संपन्नम्; प्राग् एव येन मया त्रिषु कल्पासङ्ख्येयेष्व् अनेकानि यज्ञकोटीनियुतशतसहस्राणीष्टानि; सत्वानां चार्थाय शिरःकरचरणनयनमांसरुधिरसुतदारहिरण्यसुवर्णादि परित्यक्तम् अनुत्तरज्ञानाधिगमाय; सो ऽहम् अनुत्तरं ज्ञानं नाधिगमिष्यामीति कुत एतत्? एवम् उक्तो मारः कथयति: स तावत् भवान् एव साक्षी यथा मया एकेन यज्ञेन कामधात्वीश्वरत्वं प्राप्तम् इति; भवतः कः साक्षी; यथा त्वया त्रिषु कल्पासङ्ख्येयेष्व् अनेकानि यज्ञकोटीनियुतशतसहस्राणीष्टानि; सत्वानां चार्थाय शिरःकरचरणनयनमांसरुधिरसुतदारहिरण्यसुवर्णादि परित्यक्तम् अनुत्तरज्ञानाधिगमायेति? ततो भगवता चक्रस्वस्तिकनन्द्यावर्तेन जालावनद्धेन अनेकपुण्यशतनिर्जातेन भीतानाम् ( स्ब्व् इ 115 ) आश्वासनकरेण करेण पृथिवी परामृष्टा पृथिवी साक्षिणी यथा मया ( अ 385अ ) त्रिषु कल्पासङ्ख्येयेष्व् अनेकानि यज्ञकोटीनियुतशतसहस्राणिष्टानि; सत्वानां चार्थाय शिरःकरचरणनयनमांसरुधिरसुतदारहिरण्यसुवर्णादि परित्यक्तम् इति; ततः पृथिवीदेवता पृथिवीम् उद्भिद्य कृताञ्जलिपुटा शब्दम् उदीरयति: एवम् एतत् पापीयन् यथा भगवान् कथयतीति; एवम् उक्ते मारः पापीयांस् तूष्णींभूतो मद्गुभूतस् स्रस्तस्कन्धो ऽधोमुखो निष्प्रतिभः प्रध्यानपरमो व्यवस्थितः
स दुःखी दुर्मनाः संलक्षयति: एवम् अप्य् अहं कुर्वन् न लभे शाक्यस्य शुद्धोदनपुत्रस्य अवतारं; यन्व् अहम् अस्य भूयस्यास् मात्रया विघ्नं कुर्याम् इत्युक्त्वा प्रक्रान्तः; ततस् तेन तिस्रो दुहितरः प्रेषिताः तृष्णा च रता च रतिश् च; ता रूपयौवनमदमत्ता दिव्यवस्त्रालङ्कारविभूषिता बोधिसत्वस्य पुरस्तात् स्त्रीसाध्यानि विदर्शयित्र्म् आरब्धाः; ततो बोधिसत्वेनोपायकौशलेन तथाधिष्ठिता यथा वृद्धाः संवृत्ताः; येन मारस् तेनोपसङ्क्रान्ताः; मारस् तास् तथाविधा दृआट्वा विषण्णः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: को ऽसाव् उपायस् स्याद् येन शाक्यस्य शुद्धोदनपुत्रस्य तपोविघ्नं कुर्याम् इति; षट्त्रिंशद्भूतकोटिबलाग्रम् आदाय हस्त्यश्वोष्ट्रमृगमहिषवराहकुक्कुरोलूकनकुलशाखामृगाद्याकाराणाम् असितोमरभिण्डिपालचक्रकुन्तकधनुष्पाशपरशुभुसुण्ड्याद्यायुधानाम्, स्वयं चाकर्णाद् धनुः पूरयित्वा बोधिसत्वं परिवार्यावस्थितः; ततो बोधिसत्वस् तान् अनेकरूपान् बहुविविधप्रहरणसहितान् दृष्ट्वा संलक्षयति: यस् तावत् प्राकृतपुरुषेण सार्धं संरंभम् आरभते, स प्रतिपक्षं योजयति; प्राग् एवायं कामधात्वीश्वरो यन्व् अहं प्रतिपक्षं योजयेयम्; इति विदित्वा तदुपशमनोपायं चिन्तयितुम् आरब्धः; मारश् च षट्त्रिंशद्भूतकोटिसहितो बोधिसत्वस्योपरि कुन्तकचक्रतोमरभिण्डिपालशरादि निक्षेप्तुम् आरब्धः; ततो बोधिसत्वो मैत्रीं समापन्नः; तानि चास्य प्रहरणानि दिव्यान्य् उत्पलपद्मकुमुदपुण्डरीकाणि भूत्वा बोधिसत्वस्य समन्तात् पतितुम् आरब्धानि; ततो मार उपरि विहायसम् अभ्युद्गम्य पांसुवर्षं वर्षितुम् आरब्धः; तद् अपि ( स्ब्व् इ 116 ) दिव्यानि मान्दारकाणि पुष्पाणि भूत्वा बोधिसत्वस्योपरि निपतितुम् आरब्धानि; ततो मारेण विषवायुर् उत्सृष्टः उपलवर्षश् च; शुद्धावासकायिकाभिर् देवताभिस् ततो बोधिसत्वस्योपरि पर्णिकाकुटिर् अभिनिर्मिता; उपलवर्षेणापि विषवायुसमेतेन बोधिसत्वस्य न किञ्चित् कृतम् इति; मारः संलक्षयति: कियच् चिरं मया परिवार्य अवस्थातव्यम्; शब्दकण्तकानि ध्यानानि; बोधिवृक्षं स्फटिकमयम् अभिनिर्माय गच्छामि; तस्य पत्राणि नित्यं शब्दं करिष्यन्ति; तेनास्य चित्तैकाग्रता न भविष्यति; इति विदित्वा बोधिवृक्षं स्फटिकमयम् अभिनिर्माय श्रोत्रावधानतत्परो ऽवस्थितः; बोधिपत्राणि ( अ 385ब् ) स्फटिकमयानि मुहुर् मुहुः स्वनितुम् आरब्धानि; बोधिसत्वश् शब्दकण्टकत्वाद् ध्यानानां चित्तैकाग्रतां नासादयति; शुद्धावासकायिका देवाः संलक्षयन्ति: बोधिसत्वः स्फटिकबोधिपत्रनिस्वनाच् चित्तैकाग्रतां नासादयति; उपायसंविधानं कर्तव्यम् इति; ततस् तैः पत्रं विधारितम्; तथापि मारबलं तिष्ठत्य् एव; शुद्धावासकायिका देवाः संलक्षयन्ति: अयं मारः पापीयांश् चिरं बोधिसत्वं विहेठयिष्यति; इति विदित्वा तन् मारबलं चक्रवाटस्योपरिष्टात् क्षिप्तम् इति
एxपेरिएन्चेस् ओf सुएर्नतुरल् पोwएर्स्
तत्र बोधिसत्वो भगवान् उरुबिल्वायां विहरति; नद्या नैरञ्जनायास् तीरे बोधिमूले युक्तः सातत्ये नैपक्ये संबोधिपक्षेषु धर्मेषु भावनायोगम् अनुयुक्तो विहरति; स रात्र्या प्रथमे यामे रिद्धिविषयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; सो ऽनेकविधम् ऋद्धिविषयं प्रत्यनुभवति; एको भूत्वा बहूधा भवति; बहुधा भूत्वा एको भवति; आविर्भावतिरोभावं ज्ञानदर्शनं प्रत्यनुभवति; तिरः कुड्यं तिरःशैलं तिरः प्राकारम् असज्जमानेन कायेन गच्छति, तद्यथा आकाशे; पृथिव्याम् उन्मज्जननिमज्जनं करोति तद्यथा उदके; उदके अभिन्नस्रोतो गच्छति; तद्यथा पृथिव्याम्, आकाशं पर्यंकेन क्रामति तद्यथा पक्षी शकुनिः; इमऊ वा पुनः सूर्याचन्द्रमसौ एवंमहर्धिकाव् एवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि; यावत्, ( स्ब्व् इ 117 ) ब्रह्मलोकं कायेन वशे वर्तयति; भूयो मारः संलक्षयति: शब्दकण्टकानि ध्यानानि; यन्व् अहं दूरस्थ एव शब्दं कुर्याम् इति; तेन षट्त्रिंशद्भूतकोटिपरिवारेण महाभयभैरवशब्द उत्सृष्टः; बोधिसत्वेनापि तदावरनाय द्वादशयोजनानि कदलीवनं निर्मितं येनासौ शब्दः पराहतः श्रूयते; बोधिसत्वः संलक्षयति: यन्व् अहं दिव्यश्रोत्रज्ञानसाक्षात्क्रियायाम् अभिज्ञायं चित्तम् अभिनिर्णमयेयं, येन यान् शब्दान् आकाङ्क्षामि श्रोतुं तान् शृणोमि, दिव्यान् अपि मानुषान् अपि; इति विदित्वा दिव्यश्रोत्रज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण उभयान् शब्दान् शृणोति मानुषान् अप्य् अमानुषान् अपि, ये ऽपि दूरे, येऽप्य् अन्तिके
रेअसोनिन्ग् wइथिन्, अन्द् एन्लिघ्तेन्मेन्त्
ततो बोधिसत्वः संलक्षयति: षट्त्रिंशद्भूतकोटिपरिवारस्य <मारस्य> केन ममान्तिके चित्तं प्रदूषितं, केन नेति कथम् एतज् ज्ञायते इति; तस्यैतद् अभवत्: चेतःपर्यायज्ञानसाक्षात्क्रिययाभिज्ञया इति; स रात्र्या मध्यमे यामे चेतःपर्यायज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; परसत्वानां परपुद्गलानां वितर्कितं, विचारितं मनसा मानसं यथाभूतं प्रजानाति; सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति; विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति; सद्वेषं विगतद्वेषं, समोहं ( अ 386अ ) विगतमोहं, संक्षिप्तं विक्षिप्तं, लीनं प्रगृहीतम्, उद्धतम् अनुद्धतम्, अव्युपशान्तं व्युपशान्तम्, असमाहितं समाहितम्, अभावितं भावितम्, अविमुक्तं चित्तम्, अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति; सविमुक्तं चित्तम् <सविमुक्तं चित्तम्> इति यथाभूतं प्रजानाति; तस्यैतद् अभवत्: एषां मारकिंकराणां को मे अन्यस्यां जातौ मातृसंबन्धं पितृसंबन्धः; को वा वधकः, प्रत्यर्थिकः, प्रत्यमित्र इति; कथम् एतज् ज्ञायत इति; तस्यैतद् अभवत्: पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायाम् अभिज्ञयेति; स रात्र्या मध्यमे यामे पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; सो ऽनेकविधं पूर्वनिवासं समनुस्मरति; तद्यथा एकाम् अपि जातिं, द्वे, तिस्रश्, चतस्रः, पञ्च, षट्, सप्त, अष्टौ, ( स्ब्व् इ 118 ) नव दश, विंशतिं, त्रिंशतं, चत्वारिंशतं, पञ्चाशतं, जातिसहस्रम् अपि, जातिशतान्य् अनेकान्य् अपि, जातिस्हस्राण्य् अनेकान्य् अपि, जातिशतसहस्राणि, संवर्तकल्पम् अपि, विवर्तकल्पम् अपि, संवर्तविवर्तकप्लम् अपि, अनेकान् अपि संवर्तकल्पान्, अनेकान् अपि विवर्तकल्पान्, अनेकान् अपि संवर्तविवर्तकप्लान् समनुस्मरति; अमी नाम ते भवन्तः सत्वाः यत्राहम् आसम् एवंनामा, एवंजात्यः, एवंगोत्रः, एवमाहारः, एवं सुखदुःखं प्रतिसंवेदी, एवंदीर्घायुः, एवंचिरस्थितिकः, एवमायुःपर्यन्तः; सो ऽहं तस्मात् स्थानाच् च्युतः अमुत्रोपपन्नः तस्माद् अपि च्युतः अमुत्रोपपन्नः; तस्माद् अपि च्युत इहोपपन्न इति; साकारं सोद्देशम् अनेकविधं पूर्वनिवासं समनुस्मरति; तस्यैतद् अभवत्: एषां मारकिंकराणां के अपायगामिनः, के नेति; कथम् एतज् ज्ञायते? तस्यैतद् अभवत्: च्युत्युपपादज्ञानसाक्षात्क्रियायाम् अभिज्ञयेति; स रात्र्या मध्यमे यामे च्युत्युपपादज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्वान् पश्यति, च्यवमानान् अपि उपपद्यमानान् अपि, सुवर्णान् अपि, दुर्वर्णान् अपि, हीनान् अपि, प्रणीतान् अपि, सुगतिम् अपि गच्छतो, दुर्गतिम् अपि गच्छतो; यथाकर्मोपगान् सत्वान् यथाभूतान् प्रजानाति; अमी नाम ते भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टयः; मिथ्यादृष्टिकर्मधर्मसमादानहेतोः तद्धेतुतत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषु प्रपद्यन्ते; अमी वा पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनस्सुचरितेन समन्वागतास् आर्याणाम् अनपवादकाः सम्यग्दृष्टयः; सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुतत्प्रत्ययं कायस्य भेदात् परं मरणात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते; तस्यैतद् अभवत्: अमी भवन्तः सत्वाः कामाश्रवेण भवाश्रवेणाविद्याश्रवेन ( अ 386ब् ) च संसारे संसरन्ति; तत् कामाश्रवो भवाश्रवो ऽविद्याश्रवश् च; यथा प्रहीयन्ते तत् कथं ज्ञायत इति; तस्यैतद् अभवत्: आश्रवक्षयज्ञानसाक्षात्क्रियायाम् अभिज्ञयेति–आस्रवक्षयज्ञानसाक्षात्क्रियायाम्–; च युक्तः सातत्ये नैपक्ये संबोधिपक्षेषु धर्मेषु भावनायोगम् अनुयुक्तो विहरन्न् आस्रवक्षयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; स इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति; अयं दुःखसमुदयः, अयं दुःखनिरोधः, अयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभुतं प्रजानाति; तस्यैवं जानत एवं ( स्ब्व् इ 119 ) पश्यतः कामाश्रवाच् चित्तं विमुच्यते; भवाश्रवाद् चित्तं विमुच्यते; <अविद्याश्रवाच् चित्तं विमुच्यते>; विमुक्तस्य विमुक्तम् एव ज्ञानदर्शनं भवति, क्षीना मे जातिर्, उषितं ब्रह्मचर्यं, कृतं करणीयं, नापरम् अस्माद् भवं प्रजानामीति; इति तत्राभिसंबुद्धबोधिर् भगवान् कृतकृत्यः, कृतकरणीयः, तेजोधातुं समापन्नः
मारऽस् देfएअत्, अन्द् मिस्छिएवोउस् रुमोउर्
यदा बोधिसत्वेन षट्त्रिंशाद्भूतकोटिपरिवारं मारं मैत्रेणास्त्रेणाभिनिर्जित्य अनुत्तरं ज्ञानम् अधिगतं, तदा मारस्य पापीयसो हस्ताद् धनुः स्रस्तो, ध्वजः पतितः, भवनं च कम्पितम्; ततो मारः पापीयान् षट्त्रिंशद्भूतकोटिपरिवारो दुःखी, दुर्मना, विप्रतीसारी, तत्रैवान्तर्हितः; मारकायिकाभिर् देवताभिः कपिलवस्तुनगरे आरोचितम्: शाक्यमुनिर् बोधिसत्वो दुष्करचर्यां चरित्वा वज्रासनम् अभिरुह्य तृणसंस्तरे कालगतः इति; यत् श्रुत्वा राजा शुद्धोदनः अन्तःपुरकुमारामात्यगणसहीयो महता दुःखदौर्मनस्येन सन्तप्तः, कपिलवास्तवश् च जनकायः; गोपिका मृगजा यशोधरा च बोधिसत्वगुणानुस्मरणात् मूर्छिताः पृथिव्यां निपतिताः; जलावसेकप्रत्यागतप्राणास् ता अन्तःपुरजनेन सान्त्व्यमाना अश्रुपर्याकुलेक्षणा मुहुर् बाष्परोधगद्गदस्वरा विप्रलपन्त्यो ऽवस्थिताः; तां विप्रतिपत्तिं दृष्ट्वा बुद्धाभिप्रसन्नाभिर् देवताभिर् आरोचितम्: न शाक्यमुनिर् बोधिसत्वः कालगतः, अपि तु तेनानुत्तरं ज्ञानम् अधिगतम् इति
राहुल अन्द् आनन्द
यत् श्रुत्वा राजा शुद्धोदनः सपरिवारः कपिलवास्तवश् च जनकायः परं हर्षम् उपागताः; अनुत्तरज्ञानाधिगमे च भगवतः यशोधरायः पुत्रो जातः; अमृतोदनस्य च पुत्रो जातः; राहुणा चन्द्रो ग्रस्तः; अथ राजा शुद्धोदनः तां संपत्तिं दृष्ट्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः संवृत्तः; तेन कपिलवस्तुनगरम् अपगतपाषणशर्करकठल्लं व्यवस्थापितम्, चन्दनवारिपरिषिक्तं सुरभिधूपस्फटिकोपनिबद्धम् आमुक्तपट्टदामकलापम् उच्छृतध्वजपताकं नानापुष्पावकीर्णं रमणीयम्; ( स्ब्व् इ 119 ) चतुर्षु नगरद्वारेषु दानशाला मापिता मध्ये च शृण्गाटकस्य; ततः पूर्वनगरद्वारे श्रमणब्राह्मणचरकपरिव्राजकादीनवानाथकृपणवनीपकयाचनकेभ्यो दानानि दत्तानि; दक्षिणे पश्चिमे उत्तरे मध्ये शृङ्गाटकस्य ( अ 387अ ) दानानि दीयन्ते; पुण्याणि क्रियन्ते; यशोधरायाः पुत्रस्य नाम व्यवस्थाप्यते; अन्तःपुरजनः कथयति: अस्य जन्मनि राहुणा चन्द्रो ग्रस्तः; तस्माद् भवतु दारकस्य राहुल इति नामेति; अमृतोदनस्यापि तथैव दानानि दत्वा पुण्यानि कृत्वा पुत्रस्य नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नामेति: ज्ञातय ऊचुः: यस्माद् अस्य जन्मनि सर्वं नगरम् आनन्दितं, तस्माद् भवतु दारकस्य आनन्द इति नामेति; राजा शुद्धोदनः कथयति: यो ऽयं यशोधरायाः पुत्रो जातः नैष शाक्यमुनेः पुत्रः; इति श्रुत्वा यशोधरा व्यथिता; ततस् तया बोधिसत्वस्य व्यायामशिलायाम् आरोप्य क्रीडापुष्करिण्यास् तीरे स्थितया सत्योपयाचनं कृतम्: यद्य् अयं बोधिसत्वेन जातस् तथास्यां पुष्करिण्यां सह शिलया प्लवेत; नो चेन् निमज्जेत; इत्युक्त्वा उदके प्रक्षिप्तः; स तूलपिचुवत् सह शिलया प्लवितुम् आरब्धः; राजा शुद्धोदनस् तद् अत्यद्भुतं <श्रुत्वा> महाजनकायपरिवृतो बोधिसत्वस्य क्रिडापुष्करिणीगतो यावत् पश्यति राहुलभद्रं बोधिसत्वस्य शिलायां निषण्णं तूलपिचुवद् उदके प्लवमानम्; दृष्ट्वा च पुनः हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः सहसा पुष्करिणीम् अवतीर्य राहुलब्रद्रं कुमारम् अंशेनादाय व्युत्थितः
यदा भगवता षट्त्रिंशद्भूतकोटिपरिवारं मारं मैत्रेणास्त्रेणाभिनिर्जित्य अनुत्तरं ज्ञानम् अधिगतम्, अत्यर्थं तस्मिन् समये महापृथिवीचालो ऽभूत्; सर्वश् चायं लोक उदारेणावभासेन स्फुटो ऽभूत्; या अपि ता लोकस्य लोकान्तरिका अन्धास् तमसो ऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसाव् एवंमहर्धिकाव् एवंमहानुभावाव् आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा अभूवन्; तत्र ये सत्वा उपपन्नास् <ते स्वकम् अपि बाहुं प्रगृहीतं न पश्यन्ति>; ते तया आभया ( स्ब्व् इ 121 ) अन्योन्यं सत्वान् दृष्ट्वा संजानते; अन्ये ऽपीह भवन्तः सत्वा उपपन्ना अन्ये ऽपीह भवन्तः सत्वा उपपन्ना इति; अन्तरोद्दानम्:
चातुष्पर्षिकं दहरः पितापुत्रसमागमः ।
शाक्यानां चैव प्रव्रज्या गङ्गापाल नमो ऽस्तु ते ॥
त्wओ देवतस्
अथ द्वयोर् ब्रह्मकायिकयोर् देवतयोर् <ब्रह्मलोके निवासिनोर्> एतद् अभवत्: अयं बुद्धो भगवान् उरुबिल्वायां विहरति; नद्या नैरञ्जनायास् तीरे बोधिमूले अचिराभिसंबुद्धबोधिस् तेजोधातुसमापन्नः सप्ताहम् एकपर्यङ्केन अतिनामयति; न चैनं कश्चित् पिण्डकेन प्रतिपादयति; यन् नु वयम् एनं गत्वा प्रत्येकप्रत्येकं गाथाभिर् अभिष्टुयाम इति; अथ द्वे ब्रह्मकायिके देवते तद्यथा बलवान् पुरुषः संमिञ्जितं वा बाहुं प्रसारयेत्, प्रसारितं वा संमिञ्जयेत्, एवम् एव द्वे ब्रह्मकायिके देवते ब्रह्मलोके अन्तर्हिते भगवतः पुरतः प्रत्यष्ठाताम्; एकान्तस्थिते द्वे ब्रह्मकायिके देवते; एका गाथां भाषते:
उत्तिष्ठ विजितसंग्राम
सार्थवाहानिघ विचर लोके ।
देशय सुगत वरधर्मं
भविष्यन्ति ( अ 387ब् ) धर्मरत्नस्याज्ञातारः ॥
द्वितिया गाथं भाषते
उत्तिष्ठ विजितसङ्ग्राम
पर्णलोपानिघ विचर लोके ।
चित्तं हि ते सुविशुद्धं
पञ्चदश्यां शशीव परिपूर्णः ॥ ( स्ब्व् इ 122 )
इत्युक्त्वा तत्रैवान्तर्हिते; अथ भगवांस् तस्मात् समाधेर् व्युत्थाय तस्यां वेलायां गाथां भाषते:
यच् च कामसुखं लोके यच् चापि दिविजं सुखम् ।
तृष्णाक्षयसुखस्यैतत् कलां नार्हति षोडशीम् ॥
निक्षिप्य हि गुरुं भारं नाददीत परं पुनः ।
भारस्य दुःखम् आदानं भारनिकिषेपणं सुखम् ॥
सर्वां तृष्णां विप्रहाय सर्वसंस्कारसंक्षयात् ।
सर्वभावपरिज्ञानान् न गच्छति पुनर् भवम् ॥
त्रपुष अन्द् भल्लिक
विमुक्तिप्रीतिसुखसंवेदी बुद्धो भगवान् सप्ताहम् एकपर्यङ्केन अतिनामयति; न चैनं कश्चित् पिण्डकेन प्रतिपादयति; तेन खलु समयेन त्रपुषभल्लिकौ वणिजौ पञ्चमात्रैः शकटशतैः सार्धम् अनुव्यवहरमाणौ, तस्मिन्न् एव मार्गे अध्वप्रतिपन्नाव् अभूताम्; अथ त्रपुषभल्लिकयोर् वणिजोर् अन्यतमायाः पुराणमित्रामात्यज्ञातिसालोहितायाः देवतायाः एतद् अभवत्: अयं बुद्धो भगवान् उरुबिल्वायां विहरति नद्या नैरञ्जनायास् तीरे बोधिमूले अचिराभिसंबुद्धो विमुक्तिप्रीतिसुखप्रतिसंवेदी सप्ताहम् एकपर्यङ्केनातिनामयति; न चैनं कशित् पिण्डकेन प्रतिपादयति; तं त्रपुषभल्लिकौ वणिजौ तत्प्रथमतः प्रतिपादयेताम्; तत् स्यात् त्रपुषभल्लिकयोर् वणिजोर् दीर्घरात्रम् अर्थाय हिताय सुखाय; यन्व् अहं स्वयम् एवौत्सुक्यम् आपदयेय यदुत भगवतः पिण्डपातप्रदानस्य हेतोर् इति; अथ सा देवता सर्वं कर्वटकम् उदारेणावभासेन स्फारित्वा त्रपुषभल्लिकौ वणिजाव् इदम् अवोचत्: वणिजौ वणिजौ अयं बुद्धो भगवान् उरिबिल्वायां विहरति नद्या नैरञ्जनायास् तीरे बोधिमूले अचिराभिसंबुद्धो विमुक्तिप्रीतिसुखप्रतिसंवेदी; सप्ताहम् एकपर्यङ्केनातिनामयति; नैनं कश्चित् पिण्डकेन प्रतिपादयति; तं युवां तत्प्रथमतः पिण्डकेन प्रतिपादयतम्; तद् युवयोर् भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय; इत्युक्त्वा सा देवता तत्रैवान्तर्हिता; ( स्ब्व् इ 123 ) अथ त्रपुषभल्लिकयोर् वणिजोर् एतद् अभवत्: न बतावरो बुद्धो भविष्यति; नावरं धर्माख्यानम्; यत्रेदानीं देवता अपि तस्य भगवत औत्सुक्यम् आपद्यन्ते यदुत पिण्डपातप्रतिपादनहेतोः; इति विदित्वा प्रभूतं मधु च मन्थाश् च आदाय येन भगवांस् तेनोपसङ्क्रान्तौ; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थाताम्; एकान्तस्थितौ त्रपुषभल्लिकौ वणिजाव् इदम् अवोचताम्: इहावाभ्यां भदन्त भगवन्तम् उद्दिश्य प्रभूतं मधु च मन्थाश् च आनीताः; तान् भगवान् प्रतिगृह्णात्व् अनुकम्पाम् उपादाय इति; अथ भगवत एतद् अभवत्: न मम प्रतिरूपं स्याद् यद् अहं पाणौ पिण्डपातं प्रतिगृह्णीयां, तद्यथा अन्यतीर्थिकः; यन्व् अहं समन्वाहरेयम् कुत्र पूर्वकैः सम्यक्संबुद्धैः पिण्डपातः प्रतिगृहीतो हिताय प्राणिनाम् इति; देवता भगवत आरोचयन्ति: पात्रे भदन्त पूर्वकैः सम्यक्संबुद्धैः पिण्डपातः प्रतिगृहीतो हिताय प्राणिनाम् इति; भगवतो ऽपि समन्वाहृत्य ज्ञानदर्शनं प्रवर्तते पात्रे पूर्वकैः सम्यक्संबुद्धैः पिण्डपातः प्रतिगृहीतो हिताय प्राणिनाम् इति; तत्र भगवतः पात्रेण पात्रकार्यम् उत्पन्नम्; अथ चत्वारो महाराजा भगवतः पात्रेण पात्रकार्यम् उत्पन्नम् इति विदित्वा अन्यतमस्मात् पाषाणपर्वताच् चत्वारि शैलमयानि पात्राण्य् अमनुष्यकृतान्य् अमनुष्यनिष्ठितान्य् अच्छानि शुचीनि निष्प्रतिगन्धान्य् आदाय, येन भगवांस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते तस्थुः; एकान्तस्थिताश् चत्वारो महाराजा भगवन्तम् इदम् अवोचन्: इह अस्माभिर् भदन्त भगवतः पात्रेण पात्रकार्यम् उत्पन्नं विदित्वा अन्यतममात् पाषाणपर्वताच् चत्वारि शैलमयानि पात्राण्य् अमनुष्यकृतान्य् अमनुष्यनिष्ठितानि अच्छानि शुचीनि निष्प्रतिगन्धानि आनीतानि; तानि भगवान् प्रतिगृह्णात्व् अनुकम्पाम् उपादाय इति; अथ भगवत एतद् अभवत्: सचेद् अहम् एकस्य महाराजस्यान्तिकाद् एकं पात्रं प्रतिग्रहीष्यामि, त्रयाणां भविष्यति चेतसो ऽन्यथात्वम्; सचेद् द्वयोर्, द्वयोर् भविष्यति चेतसो ऽन्यथात्वम्; सचेत् त्रयाणाम् एकस्य भविष्यति चेतसो ( स्ब्व् इ 124 ) ऽन्यथात्वम्; यन्व् अहं चतुर्णां महाराजानाम् अन्तिकाच् चत्वारि पात्राणि प्रतिगृह्य एकं पात्रम् अधिमुच्येयम् इति; अथ भगवांश् चतुर्णां महाराजानाम् अन्तिकाच् चत्वारि पत्राणि प्रतिगृह्य एकं पात्रम् अधिमुक्तवान् इति; तत्र भगवता त्रपुषभल्लिकयोर् वणिजोर् अन्तिकात् पिण्डपातः प्रतिगृहीतो हिताय प्राणिनाम् इति; तत्र भगवान् त्रपुषभल्लिकौ वणिजाव् इदम् अवोचत्: एतौ युवां वणिजौ बुद्धं शरणं गच्छताम्; धर्मं शरणं गच्छताम्; यो ऽप्य् असौ भविष्यत्य् अनागते ऽध्वनि सङ्घो नाम तम् अपि शरणं गच्छताम्; एताव् आवां भदन्त बुद्धं शरणं गच्छावह्, धर्मं शरणं गच्छावः, यो ऽप्य् असौ भविष्यत्य् अनागते ऽध्वनि सङ्घो नाम तम् अपि शरणं गच्छावः; अथ भगवांस् त्रपुष्भल्लिकयोर् वणिजोस् तद् दानम् अनया अभ्यनुमोदनया अभ्यनुमोदते
यदर्थं दीयते दानं तदर्थाय भविष्यति ।
सुखार्थं दीयते दानं तत् सुखाय भविष्यति ॥
सुखो विपाकः पुण्यानाम् अभिप्रायः च सिद्ध्यति ।
क्षिप्रं च परमां शान्तिं निर्वृतिं चाधिगच्छति ॥
परतो ये उपसर्गा देवता मारकायिकाः ।
न शक्नुवन्त्य् अन्तरायं कृतपुण्यस्य कर्तु वै ॥
सचेद् हि स व्यायमते आर्यप्रज्ञया त्यागवान् ।
दुःखस्यान्तक्रियायै स्पर्शो ( अ 388ब् ) भवति विपश्यतः ॥
अथ त्रपुषभल्लिकौ वणिजौ भगवतो भाषितम् अभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तौ ( स्ब्व् इ 125 )
थे बुद्धऽस् ऐल्मेन्त्, अन्द् मारऽस् मिस्छिएf अगैन्
अथ भगवान् त्रपुषभल्लिकयोर् वणिजोर् अन्तिकात् पिण्डपातम् आदाय येन नदी नैरञ्जना तेनोपसङ्क्रान्तः; उपसङ्क्रम्य नद्या नैरञ्जनायास् तिरे निषद्य भक्तकृत्यम् अकार्षीत्; तत्र मध्व् अपि वातिकं, मन्था अपि वातिकाः, तेन भगवतो वाताबाधिकं ग्लान्यम् उत्पन्नम्; अथ मारः पापीयान् भगवतो वाताबाधिकं ग्लान्यम् उत्पन्नं विदित्वा, येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तम् इदम् अवोचत्: परिनिर्वातु भगवान्, परिनिर्वाणकालसमय इति; अथ भगवत एतद् अभवत्: मारो बतायं पापीयान् उपसङ्क्रान्तो यदुत व्याक्षेपकर्मणि; इति विदित्वा मारं पापीयांसम् इदम् अवोचत्: न तावत् पापीयन् परिनिर्वास्यामि, यावन् न मे श्रावकाः पण्डिता भविष्यन्ति व्यक्ता मेधाविनः, अलम् उत्पन्नोत्पन्नानां परप्रवादकानां सह धर्मेण निग्रहीतारः अलं स्वस्य वादस्य पर्यवदापयितारः भिक्षवो भिक्षुण्यः उपासका उपासिकाः, वैस्तारिकं च मे ब्रह्मचर्यं भविष्यति बाहुजन्यं पृथुभूतं यावद् देवमनुष्येभः सम्यक्सुप्रकाशितम् इति; अथ मारस्य पापीयस एतद् अभवत्: न परिनिर्वास्यति बत श्रमणो गौतमः; इति विदित्वा दुःखी दुर्मना विप्रतीसारी तत्रैवान्तर्हितः
हरीतकी ब्रोउघ्त् ब्य् शक्र
अथ शक्रो देवेन्द्रो भगवतो वाताबाधिकं ग्लान्यम् उत्पन्नं विदित्वा, यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते तस्य नातिदूरे महद् धरीतकीवनम्, ततो वर्णगन्धरसोपेता हरीतकीर् आदाय येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्: एकान्तस्थितः शक्रो देवेन्द्रो भगवन्तम् इदम् अवोचत्: इह मया भदन्त भगवतो वाताबाधिकं ग्लान्यम् उत्पन्नं विदित्वा यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते तस्य नातिदूरे महद् धरीतकीवनं ततो मया वर्णगन्धरसोपेता ( स्ब्व् इ 126 ) हरीतक्य आनीताः; ता भगवान् परिभुङ्क्ताम्; भगवता परिभुक्ता वातं चानुलोमयिष्यन्ति; वाताबाधिकं ग्लान्यं व्युपशमयिष्यन्तीति; ता भगवान् परिभुक्तवान्; भगवता परिभुक्ता वातं चानुलोमितम्; वाताबाधिकं ग्लान्यं व्युपशान्तम्; तेन भगवतः क्षेमणीयतरं चाभूद् यापनीयतरं च
मुचिलिन्द नागराज
अथ भगवान् यथासुखं रम्यं बोधिमूले विहृत्य, येन मुचिलिन्दस्य नागराजस्य भवनं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अन्यतरद् वृक्षमूलं निश्रित्य निषण्णः पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य; तेन खलु समयेन मुचिलिन्दस्य नागराजस्य भवने साप्ताहिक अकालमेघः समुपागतः; अथ मुचिलिन्दो नागराजः साप्ताहिकम् अकालमेघं समुपागतं विदित्वा भवनाद् अभ्युद्गम्य सप्तकृत्वः काये कायं वेष्टयित्वा, उपरि महान्तं फणं कृत्वा अस्थात्; मा ( अ 389अ ) भगवत इमं सप्ताहं शीतं भविष्यति; मा उष्णं मा दंशमशकवातातपसरीसृपसंस्पर्शाः कायं परितापयिष्यन्ति; मुचिलिन्दो नागराजो तं विगतं साप्ताहिकं विदित्वा भगवतः कायेन कायम् उद्वेष्ट्य अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनो भूत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: मा भगवत इमं सप्ताहं शीतम् अभूत्, मा उष्णं, मा दंशमशकवातातपसरीसृपसंस्पर्शाः कायं परितापितवन्तः; अथ भगवांस् तस्यां वेलायां गाथां भाषते
सुखो विवेकस् तुष्टस्य श्रुतधर्मस्य पश्यतः ।
अव्याबाधसुखं लोके प्राणिभूतेषु संयमः ।
सुखं विरागता लोके कामानां समतिक्रमः ।
अस्मिमानस्य यो विनय एतद् वै परमं सुखम् ॥ ( स्ब्व् इ 127 )
चोग्निzअन्चे ओf प्रतीत्यसमुत्पाद
अथ भगवान् यथाभिरम्यं मुचिलिन्दस्य नागराजस्य भवने विहृत्य, येन बोधिमूलं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य प्रज्ञप्त एव तृणसंस्तरके निषण्णः, पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य सप्ताहम् एकपर्यङ्केनातिनामयति, इदम् एवं द्वादशाङ्गं प्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमं व्यवलोकयन्, यदुत अस्मिन् सति इदं भवति; अस्योत्पादाद् इदम् उत्पद्यते; यदुताविद्याप्रत्ययाः संस्काराः; संस्कारप्रत्ययं विज्ञानम्; विज्ञानप्रत्ययं नामरूपम्; नामरूपप्रत्ययं षडायतनम्; षडायतनप्रत्ययः स्पर्शः; स्पर्शप्रत्यया वेदना; वेदनाप्रत्यया तृष्णा; तृष्णाप्रत्ययम् उपादानम्; उपादानप्रत्ययो भवः; भवप्रत्यया जातिः; जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा अमी भवन्ति; एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति; यदुत अस्मिन्न् असति इदं न भवति; अस्य निरोधाद् इदं निरुद्ध्यते; यदुत अविद्यानिरोधात् संस्कारनिरोधः; संस्कारनिरोधाद् विज्ञाननिरोधः; विज्ञाननिरोधान् नामरूपनिरोधः; नामरूपनिरोधात् षडायतननिरोधः; षडायतननिरोधात् स्पर्शनिरोधः; स्पर्शनिरोधाद् वेदनानिरोधः; वेदनानिरोधात् तृष्णानिरोधः; तृष्णानिरोधाद् उपादाननिरोधः; उपादाननिरोधात् भवनिरोधः; भवनिरोधाज् जातिनिरोधः; जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुद्ध्यन्ते; एवम् अस्य केवलस्य महतः दुःखस्कन्धस्य निरोधो भवति
अथ भगवांस् तस्यैव सप्ताहस्यात्ययात् तस्मात् समाधेर् व्युत्थाय तस्यां वेलायां गाथा भाषते
यदा इमे प्रादुर्भवन्ति धर्मा
आतापिनो ध्यायतो ब्राह्मणस्य ।
अथास्य काङ्क्षा व्यपयान्ति सर्वा
यदा प्रजानाति सहेतुधर्मम् ॥
यदा इमे प्रादुर्भवन्ति धर्मा
आतापिनो ध्यायतो ब्राह्मणस्य । ( स्ब्व् इ 128 )
अथास्य काङ्क्षा व्यपयान्ति सर्वा
यदा प्रजानाति सहेतुदुःकम् ॥
यदा इमे प्रादुर्भवन्ति धर्मा
आतापिनो ध्यायतो ब्राह्मणस्य ।
अथास्य काङ्क्षा व्यपयान्ति सर्वा
यदा क्षयं वेदनानाम् उपैति ॥
<यदा इमे प्रादुर्भवन्ति धर्मा ।
आतापिनो ध्यायतो ब्राह्मणस्य ।
अथास्य काङ्क्षा व्यपयान्ति सर्वा
यदा क्षयं प्रत्ययानाम् उपैति ॥
यदा इमे प्रादुर्भवन्ति धर्मा
आतापिनो ध्यायतो ब्राह्मणस्य ।
अथास्य काङ्क्षा व्यपयान्ति सर्वा>
यदा क्षयम् आस्रवाणाम् उपैति ॥
यदा इमे ( अ 389ब् ) प्रादुर्भवन्ति धर्मा
आतापिनो ध्यायतो ब्राह्मणस्य ।
अवभासयंस् तिष्ठति सर्वलोकं
सूर्यो यथैवाभ्युदितो ऽन्तरिक्षे ॥
यदा इमे प्रादुर्भवन्ति धर्मा
आतापिनो ध्यायतो ब्राह्मणस्य ।
विधूपयंस् तिष्ठति मारसैन्यं
बुद्धो हि संयोजनविप्रमुक्तः ॥
अथ भगवत एतद् अभवत्: अधिगतो मे धर्मो गम्भीरो गम्भीरावभासो दुर्दृशो दुरवबोधः; अतर्क्यो ऽतर्क्यावचरः सूक्ष्मो निपुणपण्डितविज्ञवेदनीयः; तं चेद् अहं परेषाम् आरोचयेयम्; तं च परे न विजानीयुः; स मम स्याद् विघातः; स्याद् भ्रमः; चेतसो ऽनुदय एव; यन्व् अहम् एकाकी अरण्ये प्रवणे दृष्टधर्मसुखविहारयोगम् अनुयुक्तो विहरेयम् इति; तत्र भगवत अल्पोत्सुकविहारतायां चित्तं क्रामति, न धर्मदेशनायाम्; अथ ब्रह्मणः सभापतेर् एतद् अभवत्; विनश्यति बतायं लोकः; प्रणश्यति बतायं लोकः, यत्रेदानीं कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा ( स्ब्व् इ 129 ) लोके उत्पद्यन्ते, तद्यथा उदुम्बरपुष्पम्; तस्य चाद्य भगवत अल्पोत्सुकविहारतायां चित्तं क्रामति, न धर्मदेशनायाम्; यन्व् अहम् एनं गत्वा अध्येशयेयम्; अथ ब्रह्मा सभापतिस्, तद्यथा बलवान् पुरुषः संमिञ्जितं वा बाहुं प्रसारयेत्, प्रसारितं वा संमिञ्जयेत्, एवम् एव ब्रह्मा सभापतिर् ब्रह्मलोके अन्तर्हितः; स भगवतः पुरस्तात् प्रत्यस्थात्; अथ ब्रह्मा सभापतिस् तस्यां वेलायां गाथां भाषते
प्रादुर्बभूव मगधेषु पूर्वं
धर्मो ह्य् अशुद्धः समलानुबद्धः ।
अपावृणीष्व अमृतस्य द्वारं
वदस्व धर्मं विरजोनुबद्धम् ॥
भगवान् अह;
कृच्छ्रेण मे अधिगतो ऽखिलो ब्रह्मन् प्रदाल्य वै ।
भवरागपरीत्तैर् हि नायं धर्मः सुसंबुद्धः ॥
प्रतिस्रोतोनुगामिनं मार्गं गम्भीरं अतिदुर्दृशं ।
न द्रक्ष्यन्ति रागारक्तास् तमस्कन्धेन नीवृताः ॥
ब्रह्मऽस् रेqउएस्त् fओर् धर्मदेशना
सन्ति भदन्त सत्वा लोके जाता, लोके वृद्धास् तीक्ष्णेन्द्रिया अपि, मध्येन्द्रिया अपि, मृद्विन्द्रिया अपि, स्वाकाराः, सुविनेया, अल्परजसो ऽल्परजस्कजातीया, ये ऽश्रवणात् सद्धर्मस्य परिहीयन्ते; तद्यथा भदन्त उत्पलानि वा, पद्मानि वा कुमुदानि वा, पुण्डरीकाणि वा उदके जातान्य्, उदके वृद्धान्य्, एकत्यानि उदकाद् अभ्युद्गतानि तिष्ठन्ति; एकत्यानि समोदकानि; एकत्यानि उदकनिमग्नकोशानि तिष्ठन्ति; एवम् एव सन्ति भदन्त सत्वा लोके जाता, लोके वृद्धास् तीक्ष्णेन्द्रिया अपि, मध्येन्द्रिया अपि, मृद्विन्द्रिया अपि, स्वाकाराः, सुविनेयाः, अल्परजसो ऽल्परजस्कजातीया ये ऽश्रवणात् सद्धर्मस्य परिहीयन्ते; देशयतु भगवान् धर्मम्; देशयतु सुगतो धर्मम्; भविष्यन्ति धर्मतत्नस्याज्ञातारः; अथ भगवत एतद् अभवत्: यच् चाहम् स्वयम् एव बुद्धचक्षुषा ( स्ब्व् इ 130 ) लोकं व्यवलोकयेयम् इति; अथ भगवान् स्वयम् एव बुद्धचक्षुषा लोकं व्यवलोकयति; अद्राक्षीद् भगवान् स्वयम् एव बुद्धचक्षुषा लोकं व्यवलोकयन् सन्ति सत्वा लोके जाता, लोके वृद्धास्, तीक्ष्णेन्द्रिया अपि, मध्येन्द्रिया अपि, मृद्विन्द्रिया अपि, स्वाकाराः, सुविनेयाः, अल्परजसो ऽल्परजस्कजातीया, ये ( अ 390अ ) ऽश्रवणात् सद्धर्मस्य परिहीयन्ते; दृष्ट्वा च पुनर् अस्य सत्वेषु महाकरुणा ऽवक्रान्ता; अथ भगवांस् तस्यां वेलायां गाथां भाषते
अपावरिष्ये अमृतस्य द्वारं ।
ये श्रोतुदामाः प्रणुदन्तु काङ्क्षाः ।
विहेठप्रेक्षी प्रचुरं न भाषे
धर्मं प्रणीतं मनुजेषु ब्रह्मन् ॥
अथ ब्रह्मणः सभापतेर् एतद् अभवत्: देशयिष्यति बत भगवान् धर्मं, देशयिष्यति बत सुगतो धर्मम्; इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य तत्रैवान्तर्हितः
देअथ् ओf आराड कालाम
अथ भगवत एतद् अभवत्: कस्य न्व् अहं तत्प्रथमतो धर्मं देशयेयम् इति; अथ भगवत एतद् अभवत्; यन्व् अहम् आराडस्य कालामस्य तत्प्रथमतो धर्मं देशयेयं, यो मां पूर्वाचार्य एव सन् परमया माननया मानितवान्, परमया पूजनया पूजितवान्, परमेषु च प्रत्ययेष्व् आत्तमनाश् चाभूद् अभिराद्धश् च; देवता भगवत आरोचयन्ति: सप्ताहकालगतो भदन्ताराडः कालाम इति; भगवतो ऽपि समन्वाहृत्य ज्ञानदर्शनं प्रवर्तते; सप्ताहकालगत आरादः कालामः; अथ भगवत एतद् अभवत्; महती बतेयं ज्यानिर्, आराडस्य कालामस्य कालक्रियाया; सुमहती बतेयं ज्यानिर् आराडस्य कालामस्य कालक्रियाया, य इमं धर्मविनयं नाश्रौषीत्; सचेद् अश्रोष्यद् अज्ञास्यत् स इमं धर्मविनयम् इति; ( स्ब्व् इ 131 ) अथ भगवत एतद् अभवत्: कस्य न्व् छं तत्प्रथमतो धर्मं देशयेयम् इति
देअथ् ओf उद्रक रामपुत्र
अथ भगवत एतद् अभवत्; यन्व् अहम् उद्रकस्य रामपुत्रस्य तत्प्रथमतो धर्मं देशयेयं, यो मां पूर्वाचार्य एव सन् परमया माननया मानितवान्, परमया पूजनया पूजितवान्, परमेषु च प्रत्ययेष्व् आत्तमनाश् चाभूद्, अभिराद्धश् च; देवता भगवत आरोचयन्ति; अभिदोषकालगतो भदन्त उद्रको रामपुत्रः; भगवतो ऽपि समन्वाहृत्य ज्ञानदर्शनं प्रवर्तते; अभिदोषकालगत उद्रको रामपुत्रः; अथ भगवत एतद् अभवत्: महती बतेयं ज्यानिर् उद्रकस्य रामपुत्रस्य कालक्रियाया; सुमहती बतेयं ज्यानिर् उद्रकस्य रामपुत्रस्य कालक्रियाया, यो मम इमं धर्मविनयं नाश्रौषीत्; सचेद् इमं धर्मविनयम् अश्रोष्यद् अज्ञास्यत् स इमं धर्मविनयम् इति
बुद्ध स्तर्त्स् ओf वाराणसी
अथ भगवत एतद् अभवत्: कस्य न्व् अहं तत्प्रथमतो धर्मं देशयेयम् इति; तस्यैतद् अभवत्: यन्व् अहं पञ्चकानां भिक्षूणां तत्प्रथमतो धर्मं देशयेयम् इति; ये मां पूर्वं दुःखप्रहाणयोगम् अनुयुक्तं विहरन्तं सत्कृत्योपतस्तुः प्रेम्णा च गौरवेण च; अथ भगवत एतद् अभवत्: कुत्र त्व् एतर्हि पञ्चका भिक्षवो विहरन्ति इति; अद्राक्षीद् भगवान् दिव्येन चक्षुषा विशुद्धेन अतिक्रान्तमानुषेण पञ्चकान् भिक्षून्; वाराणस्यां विहरन्ति ऋषिवदने मृगदावे; दृष्ट्वा च पुनर् यथाभिरम्यं बोधिमूले विहृत्य येन वाराणसी काशीनां निगमस् तेन चारिकां प्रक्रान्तः
उपगु आजीविक
तेन खलु समयेन उपगुर् आजीविकस् तस्मिन्न् एव ( अ 390ब् ) मार्गे अध्वप्रतिपन्नो ऽभूत्; अद्राक्षीद् उपगुर् आजीवको भगवन्तं प्रतिपन्नं ( स्ब्व् इ 132 ) मार्गे; दृष्ट्वा च पुनर् एवम् आह: विप्रसन्नानि ते आयुष्मन् गौतम इन्द्रियाणि; परिशुद्धो मुखवर्णः पर्यवदातश् छविवर्णः; कस् ते आयुष्मन् गौतम शास्ता; तं वास्य् उद्दिश्य प्रव्रजितः; कस्य वा धर्मं रोचसीति; अथ भगवांस् तस्यां वेलायां गाथा भाषते
न मे ऽस्ति कश्चिद् आचार्यः सदृशो मे न विद्यते ।
एको ऽस्मि लोके संबुद्धः प्राप्तः संबोधिम् उत्तमाम् ॥
सर्वाभिभूः सर्वविद् अस्मि लोके
सर्वैश् च धर्मैर् इह नोपलिप्तः ।
सर्वञ्जहो वीततृष्णो विमुक्तः
स्वयं ब्य् अभिज्ञाय कम् उद्दिशेयम् ॥
कम् उद्दिशेयम् असमो ह्य् अतुल्यः
स्वयं प्रवक्ता अधिगम्य बोधिम् ।
तथागतो देवमनुष्यशास्ता
सर्वैश् च सर्वज्ञबलैर् उपेतः ॥
सदेवकेषु लोकेषु अहं माराभिभूर् जिनः ॥
जिन इत्य् आयुष्मन् गौतम <कं> वदसि;
जिना हि मादृशा ज्ञेया ये प्राप्ता आश्रवक्षयम् । –आस्रवक्षयम्
जिता मे पापका धर्मास् तेनोपगु जिनो ह्य् अहम् ॥
कुत्र त्वम् आयुष्मन् गौतम गमिष्यसि?
वाराणसीं गमिस्याम्य् आहन्तुं धर्मदुन्दुभिम् ।
धर्मचक्रं प्रवर्तयितुं यल् लोकेष्व् अप्रवर्तितम् ॥
न हि सन्तः प्रकाशन्ते विदित्वा लोकपर्यायम् ।
आज्ञानिर्वृतबुद्धास् ते तीर्णा लोकविषक्तिकाम् ॥
साध्व् आयुष्मन् गौतम जिनः; इत्युक्त्वा उपगुर् आजीवकः मार्गाद् अपक्रान्तः ( स्ब्व् इ 133 )
थे fइवे भिक्षुस्
अथ भगवान् काशिषु जनपदेषु चारिकां चरन् वाराणसीम् अनुप्राप्तः; तेन खलु समयेन पञ्चका भिक्षवो वाराणस्यां विहरन्ति ऋषिवदने मृगदावे; अद्राक्षुः पञ्चका भिक्षवो भगवन्तं दूरत एव; दृष्ट्वा च पुनर् अन्योन्यं संप्रतस्थुः; क्रियाकारं चाकार्षुः; अयं स भवन्तः श्रमंओ गौतम आगच्छति शैथिलिको बाहुलिको बहुलाजीवः प्रहाणविभ्रान्तः; स एतर्ह्य् औदारिकम् आहारम् आहरति ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति; सुखोदकेन च कायं परिषिञ्चति; सो ऽस्माभिर् उपसङ्क्रान्तो नाभिवाद्यः, न वन्दितव्यो, न प्रत्युत्थातव्यो, नोत्थायासनेनोपनिमन्त्रयितव्यो नान्यत्र प्राग् एवासनानि प्रज्ञप्य; इदं स्याद् वचनीयः; संविद्यन्ते आयुष्मन् गौतम आसनानि; सचेद् आकाङ्क्षसि निषीद इति; यथा यथा भगवान् पञ्चकान् भिक्षून् दर्शनायोपसङ्क्रामति तथा तथा पञ्चका भिक्षवो भगवतस् तेजश् च श्रियं च गौरवं च असहमाना उत्थायासनाद् एके भगवतो ऽर्थे आसनं प्रज्ञपयन्ति; एके पादोदकं, पादाधिष्ठानं चैकान्ते उपनिक्षिपन्ति; एके प्रत्युद्गम्य चीवरकाणि प्रतिगृह्णन्ति; एवं चाहुः: एतु भवान् गौतम; स्वागतं भवते गौतमाय; निषीदतु भवान् गौतम प्रज्ञप्त एवासने; अथ भगवत एतद् अभवत्: च्युता बतेमे नोहपुरुषा स्वस्मात् क्रियाकाराद्; इति विदित्वा प्रज्ञप्त एव आसने निषण्णः; तत्रस्वित् पञ्चका भिक्षवो भगवन्तम् अत्यर्थं नामवादेन गोत्रवादेन आयुष्मद्वादेन समुदाचरन्ति; तत्र भगवान् पञ्चकान् भिक्षून् आमन्त्रयते स्म: मा यूयं भिक्षवस् तथागतम् ( अ 391अ ) अत्यर्थं नामवादेन गोत्रवादेन आयुष्मद्वादेन समुदाचरत; मा वो ऽभूद् दीर्घरात्रम् अनर्थायाहिताय दुःखाय; तत् कस्य हेतोः? यः कश्चिद् भिक्षवः तथागतम् अत्यर्थं नामवादेन गोत्रवादेन आयुष्मद्वादेन समुदाचरति; तत् तस्य भवति मोहपुरुषस्य दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; त एवम् ( स्ब्व् इ 134 ) आहुः: तया तावत् त्वम् आयुष्मन् गौतम पूर्विकया ईर्यया चर्यया दुष्करचर्यया किञ्चिद् अधिगतवान् उत्तरं मनुष्यधर्माद् अलं आर्यविशेषाधिगमं ज्ञानं वा, दर्शनं वा, स्पर्शविहारतां वा; कुतः पुनर् यस् त्वम् एतर्हि शैथिलिको बहुलाजीवः प्रहाणविभ्रान्तः स त्वम् एतर्ह्य् औदारिकं आहारम् आहरस्य् ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयसि; सुखोदकेन च कायं परिषिञ्चसि; ननु यूयं भिक्षवः पश्यथ तथागतस्य पूर्वेणापरं मुखस्य वा विप्रसन्नत्वम्, इन्द्रियाणाण् <वा> नानाकरणम् ? त एवम् ऊहुः: एवम् एतद् आयुष्मन् गौतम
थे मिद्द्ले चोउर्से ओf चोन्दुच्त्
तत्र भगवान् पञ्चकान् भिक्षून् आमन्त्रयते स्म : द्वाव् इमौ भिक्षवो ऽन्तौ प्रव्रजितेन न सेवितव्यौ, न वक्तव्यौ, न पर्युपासितव्यौ; कतमौ द्वौ; यश् च कामेषु कामसुखालयानुयोगो हीनो ग्राम्यः प्राकृतः पार्थग्जनिकः; यश् चात्मक्लमथानुयोगो दुःखो ऽनार्यो ऽनर्थोपसंहितः; इत्य् एताव् उभाव् अन्ताव् अनुपगम्य अस्ति मध्यमा प्रतिपच् चक्षुष्करणी ज्ञानकरणी उपशमसंवर्तनी अभिज्ञायैव संभोधये निर्वाणाय संवर्तते; मध्यमा प्रतिपत् कतमा? आर्याष्टाङ्गो मार्गः; तस्य सम्यग्दृष्टिः, सम्यक्सङ्कल्पः, सम्यग्वाक्, सम्यक्कर्मान्तः, सम्यगाजीवः; सम्यग्व्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिः; अशकद् भगवान् पञ्चकान् भिक्षून् अनया संजप्त्या संज्ञपयितुम्; द्वौ च भगवान् पञ्चकानां भिक्षूणां पूर्वभक्ते अववदति; त्रयो ग्रामं पिण्डाय प्रविशन्ति; यत् त्रिवर्गो ऽभिनिर्हरति तेन षड्वर्गो यापयति; त्रींश् च भगवान् पञ्चकानां भिक्षूणां पश्चाद्भक्ते अववदति; द्वौ ग्रामं पिण्डाय प्रविशतः; यद् द्विवर्गो ऽभिनिर्हरति तेन पञ्चवर्गो यापयति; तथागतः प्रतियत्य् एव कालभोजी ( स्ब्व् इ 135 )
थे fओउर् नोब्ले त्रुथ्स्
तत्र भगवान् पञ्चकान् भिक्षून् आमन्त्रयते स्म: 1) इदं दुःखम् आर्यसत्यम् इति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि; ज्ञानं विद्या बुद्धिर् उदपादि; अयं दुःखसमुदयः, अयं दुःखनिरोधः; इयं दुःखनिरोधगामिनी प्रतिपत् आर्यसत्यम् इति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखम् आर्यसत्यम् अभिज्ञया परिज्ञेयं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखसमुदयम् आर्यसत्यम् अभिज्ञया प्रहातव्यं मयेति भिक्षवः पूर्वम् ( अ 391ब् ) अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखनिरोधम् आर्यसत्यम् अभिज्ञया साक्षात्कर्तव्यं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावयितव्यं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि
तत् खलु दुःखम् आर्यसत्यम् अभिज्ञाया परिज्ञातं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखसमुदयम् आर्यसत्यम् अभिज्ञया प्रहीणं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखनिरोधम् आर्यसत्यम् अभिज्ञया साक्षात्कृतं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावितं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; यावच् च ( स्ब्व् इ 136 ) मम भिक्षव एषु चतुर्ष्व् आर्यसत्येष्व् एवं त्रिपरिवर्तं द्वादशाकारं न चक्षुर् उदपादि, न ज्ञानं <न> विद्या न बुद्धिर् उदपादि, न तावद् अहम् अस्माद् भिक्षवः सदेवकाल् लोकात्, समारकात्, सब्रह्मकात्, सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निसृतो विसंयुक्तो विप्रमुक्तो विपर्यासापगतेन चेतसा बहुलं व्याहार्षम्; न तावद् अहं भिक्षवः अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीत्य् अध्यज्ञासिषम्; यतश् च मम भिक्षव एषु चतुर्ष्व् आर्यसत्येष्व् एवं त्रिपरिवर्तं द्वादशाकारं चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि, ततो ऽहम् अस्मात् सदेवकाल् लोकात् समारकात् सब्रह्मकात्, सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निसृतो विसंयुक्तो विप्रमुक्तो विपर्यासापगतेन चेतसा बहुलं व्याहार्षम्; भिक्षवः अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीत्य् अध्यज्ञासिषं
थे नमे ओf आज्ञातकौण्डिन्य
अस्मिन् खलु धर्मपर्याये भाष्यमाणे आयुष्मत आज्ञाताकौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्, अशीतेश् च देवतासहस्राणाम्; तत्र भगवान् आयुष्मन्तं कौण्डिन्यम् आमन्त्रयते स्म: आज्ञातस् ते कौण्डिन्य धर्मः? आज्ञातः भगवन्न् आज्ञातः; आज्ञातस् ते कौण्डिन्य धर्मः? आज्ञातः सुगत आज्ञात; <आज्ञातो> आयुष्मता कौण्डिन्येन धर्म इति तस्माद् आयुष्मतः कौण्डिन्यस्य आज्ञातकौण्डिन्य इत्य् अधिवचनम्; आज्ञात आयुष्मता कौण्डिन्येन धर्म इति
प्रोच्लमतिओन् ओf धर्मचक्र
भौमा यक्षाः शब्दम् उदीरयन्ति, घोषम् अनुश्रावयन्ति: एतन् मार्षा भगवता वाराणस्याम् ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रं प्रवर्तितम्, अप्रवर्त्यं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा ( स्ब्व् इ 137 ) लोके <सहधर्मतः> बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै अर्थाय सुखाय देवमनुष्याणाम् इति दिव्याः काया अभिवर्धिष्यन्ते, आसूराः कायाः परिहास्यन्ते इति; भौमानां यक्षाणां शब्दं श्रुत्वा अन्तरिक्षावचरा यक्षास् <तम् अनुश्रावयन्ति> चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवाः; तेन क्षणेन, तेण लवेन, तेन मुहूर्तेन, तेन क्षणलवमुहूर्तेन ( अ 392अ ) यावद् ब्रह्मलोकं शब्दो ऽगमत्; ब्रह्मकायिका देवाः शब्दम् उदीरयन्ति; घोषम् अनुश्रावयन्ति: एतन् मार्षा भगवता वाराणस्यं ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रं प्रवर्तितम् अप्रवर्त्यं श्रमणेन ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मतः बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणाम् इति दिव्याः काया अभिवर्धिष्यन्ते; आसुराः कायाः परिहास्यन्त इति; प्रवर्तितं भगवता वाराणस्याम् ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रम् इति; तस्माद् अस्य धर्मपर्यायस्य धर्मचक्रप्रवर्तनम् इत्य् अधिवचनं
थे बुद्द एxप्लैन्स् थे fओउर् नोब्ले त्रुथ्स्
तत्र भगवान् द्विर् अपि पञ्चकान् भिक्षून् आमन्त्रयते स्म: चत्वारीमानि भिक्षव आर्यसत्यानि; कतमानि चत्वारि? दुःखम् आर्यसत्यं, दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम्; 1) दुःखम् आर्यसत्यं कतमत्? जातिर् दुःखं, जरा दुःखं, व्याधिर् दुःखं, मरणं दुःखम्, प्रियविप्रयोगो दुःखम्, अप्रियसंप्रयोगो दुःखम्, यद् अपीच्छन् पर्येषमाणो न लभते तद् अपि दुःखम्; सङ्क्षेपतः पञ्च इमे उपादानस्कन्धा दुःखम्; तस्य परिज्ञायै आर्याष्टङ्गो मार्गो भावयितव्यः; 2) दुःखसमुदयम् आर्यसत्यं कतमत्? तृष्णा पौनर्भविकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी; तस्याः प्रहाणाय आर्याष्टाङ्गो मार्गो भावयितव्यः; 3) दुःखनिरोधम् आर्यासत्यं कतमत्? यद् अस्या एव तृष्णायाः पौनर्भविक्याः नन्दीरागसहगतायास् तत्र तत्राभिनन्दिन्या अशेषप्रहाणं प्रतिनिसर्गो वान्तीभावः क्षयो विरागो निरोधो ( स्ब्व् इ 138 ) व्युपशमः अस्तङ्गमः; तस्य साक्षात्क्रियायै आर्याष्टाङ्गो मार्गो भावयितव्यः; 4) दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यं कतमत्? आर्याष्टाङ्गो मार्गः; तद्यथा, सम्यग्दृष्टिः, सम्यक्सङ्कल्पः; सम्यग्वाक्, सम्यक्कर्मान्तः; सम्यगाजीवः; सम्यग्व्यायामः; सम्यक्स्मृतिः; सम्यक्समाधिः; सो ऽपि भावयितव्यः
अस्मिन् खलु धर्मपर्याये भाष्यमाणे आयुष्मत आज्ञातकौण्डिन्यस्यानुपादायाश्रवेभ्यश् चित्तं विमुक्तम्; अवशिष्टानां तु पञ्चकानां भिक्षूणां विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्; तेन खलु समयेन एको <लोके> अर्हन् भगवांश् च द्वितीयः; तत्र भगवान् अवशिष्टान् पञ्चकान् भिक्षून् आमन्त्रयते स्म: रूपं भिक्षवो नात्मा; रूपं चेद् भिक्षव आत्मा स्यान् न रूपम् आबाधाय दुःखाय संवर्तेत; लभ्येत च रूपस्यैवं मे रूपं भवतु, एवं मा भूद् इति; यस्मात् तर्हि भिक्षवो रूपम् अनात्मा तस्माद् रूपम् आबाधाय दुःखाय संवर्तते; न च लभ्यते रूपस्यैवं मे भवतु, एवं मा भूद् इति; वेदना संज्ञा संस्कारा विज्ञनं भिक्षवो नात्मा; विज्ञानं चेत् भिक्षवः आत्मा स्यान् न विज्ञानम् आबाधाय <दुःखाय> संवर्तेत; लभ्येत च विज्ञानस्यैवं मे विज्ञानं भवतु, एवं मा भूद् इति; यस्मात् तर्हि भिक्षवः विज्ञानम् अनात्मा, तस्माद् विज्ञानम् आबाधाय ( अ 392ब् ) दुःखाय संवर्तते; न च लभ्यते विज्ञानस्यैवं मे विज्ञनं भवतु, एवं मा भूद् इति
किं मन्यध्वे भिक्षवो, रूपं, नित्यं वा <अनित्यं वा>? अनित्यम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं वा तन् न वा दुःखम्? दुःखम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं विपरिणामधर्मि; अपि नु तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् मम, एसो ऽहम् अस्म्य्, एष मे आत्मेति? नो भदन्त; किं मन्यध्वे भिक्षवो वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा? अनित्यम् इदं भदन्त; यत् पुनर् अनित्यं <दुःखं> वा तन्, न वा दुःखम्? दुःखम् इदं भदन्त; यत् पुनर् अनित्यं <दुःखम्> विपरिणामधर्मि; अपि नु तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् मम, एषो ऽहम् अस्म्य्, एष मे आत्मेति? नो भदन्त; ( स्ब्व् इ 139 ) तस्मात् तर्हि भिक्षवो यत् किञ्चिद् रूपम् अतीतानागतप्रत्युत्पन्नम् अध्यात्मं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद् वा दूरे यद् वा अन्तिके तत् सर्वं नैतन् मम, नैषो ऽहम् अस्मि, नैष मे आत्मेति; एवम् एतत् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्; <एवं या काचिद् वेदना या काचित् संज्ञा ये केचित् संस्कारा यत् किंचिद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद् वा दूरे यद् वान्तिके तत् सर्वं नैतन् मम, नैसो ऽहम् अस्मि, नैष मे आत्मेति; एवम् एतत् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्;> यतश् च भिक्षवः श्रुतवान् आर्यश्रावक इमां पञ्च उपादानस्कन्धान् नैवात्मतो नात्मीयतः समनुपश्यति; स एवं समनुपश्यन् न किञ्चिल् लोक उपादत्ते; अनुपाददानो न परितस्यति अपरितस्य आत्मैव परिनिर्वाति; क्षीणा मे जातिः; उषितं ब्रह्मचर्यम्; कृतं करणीयम्; नापरम् अस्माद् भवं प्रजानामीति; अस्मिन् खलु धर्मपर्याये भाष्यंआणे अवशिष्टनां पञ्चकानां भिक्षूणाम् अनुपादायाश्रवेभ्यश् चित्तानि विमुक्तानि; तेन खलु समयेन पञ्च लोके ऽर्हन्तो, भगवांश् च षष्ठ इति
थे चोन्वेर्सिन् ओf यशस्, सोन् ओf अग्रकुलिक
तत्र भगवान् वाराणस्यां विहरति नद्या वारकायष् तीरे; तेन खलु समयेन वाराणस्यां यशा अग्रकुलिकपुत्रः प्रतिवसति; दिवादिवसे स्त्रीमयेन तूर्येण क्रीडित्वा रमित्वा परिचार्य श्रान्तकायः क्लान्तकायः प्राभारकायः प्रतियत्य् एव मिद्धम् अवक्रान्तः; ता अपि स्त्रियः श्रान्तकायाः क्लान्तकायाः प्राग्भारकायाः प्रतियत्य् एव मिद्धम् अवक्रान्ताः; अद्राक्षीद् यशा अग्रकुलिकस्य पुत्रः सरात्रम् एव सुप्तप्रतिबुद्धः सर्वास् ता स्त्रियो विलालिका विनग्निका विकेशिका विक्षिप्तभुजाः कान्य् अपि कान्य् अपि विप्रलपन्त्यः; दृष्ट्वा च पुनर् अस्य स्वे ऽन्तःपुरे श्मशानसंज्ञा अवक्रान्ता; अथ यशा अग्रकुलिकपुत्रो महाशयनाद् अवतीर्य शतसहस्रं मणिपादुकायुगं प्रावृत्य ( स्ब्व् इ 140 ) येनान्तःपुरद्वारं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अपस्वरम् अकार्षीत्: उपद्रुतो ऽस्मि मार्षा उपसृष्टो ऽस्मि मार्षा इति; तस्यामनुष्या द्वारं विवृण्वन्ति; शब्दं चान्तर्धापयन्ति; अथ यशा अग्रकुलिकपुत्रो येन निवेशनद्वारं तेनोपसङ्क्रान्तः; उपसङ्क्रम्यापस्वरम् अकार्षीत्: उपद्रुतो ऽस्मि मार्षा उपसृष्टो ऽस्मि मार्षा इति: तस्यामनुष्या द्वारं विवृण्वन्ति; शब्दं चान्तर्धापयन्ति; अथ यशा अग्रकुलिकपुत्रो येन नगरद्वारं तेनोपसङ्क्रान्तः; ( अ 393अ ) उपसङ्क्रम्यापस्वरम् अकार्षीत्: उपद्रुतो ऽस्मि मार्षा उपसृष्टो ऽस्मि मार्षा <इति>; तस्यामनुष्या द्वारं विवृण्वन्ति; शब्दं चान्तर्धापयन्ति; अथ यशा अग्रकुलिकपुत्रो येन नदी वारका तेनोपसङ्क्रान्तः; तेन खलु समयेन भगवान् नद्या वारकायास् तीरे बहिर् विहारस्याभ्यवकाशे चङ्क्रमे चङ्क्रम्यते यद्भूयसा यशसम् एवाग्रकुलिकपुत्रम् आगमयमानः; अद्राक्षीत् यशा अग्रकुलिकपुत्रो भगवन्तं नद्या वारकायास् तीरे चङ्क्रमे चङ्क्रम्यमाणम् दूरत एव; दृष्ट्वा च पुनर् अपस्वरम् अकार्षीत्: उपद्रुतो ऽस्मि श्रमण उपसृष्टो ऽस्मि श्रमण <इति>; अथ भगवान् यशसम् अग्रकुलिकपुत्रम् इदम् अवोचत्: एहि कुमार; इदं ते स्थानम् अनुपद्रुतम्; इदम् अनुपसृष्टम् इति; अथ यशा अग्रकुलिकपुत्रः शतसहस्रं मणिपादुकायुगं नद्या वारकायास् तीरे उज्झित्वा, नदीं वारकां प्रत्युत्तीर्य येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्; अथ भगवान् यशसम् अग्रकुलिकपुत्रम् आदाय येन स्वो विहारस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य प्रज्ञप्त एवासने न्यषीदत्; निषद्य भगवान् यशसम् अग्रकुलिकपुत्रं धर्मयया कथया सन्दर्शयति <समादापयति> समुत्तेजयति संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा तद्यथा दानकथा, शीलकथा, स्वर्गकथा, कामानाम् आस्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैनं भगवान् अद्राक्षीद् धृष्टचित्तं कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुं, तदा ( स्ब्व् इ 141 ) यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना, तद्यथा दुःखं समुदयो निरोधो मार्गश् चत्वार्य् आर्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रम् अपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति; एवम् एव यशा अग्रकुलिकपुत्रस् तस्मिन्न् एवासने निषण्णश् चत्वार्य् आर्यसत्यान्य् अभिसमेति; तद्यथा दुःखं समुदयं निरोधं मार्गं
अथ यशा अग्रकुलिकपुत्रो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुश् शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: अभिक्रान्तो ऽहं भदन्त, अभिक्रान्तः; एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसङ्घं च; उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतम् अभिप्रसन्नं
यशस्ऽस् fअथेर् बेचोमेस् अ लय्-दिस्चिप्ले अन्द् यशस् अन् अर्हत्
अद्राक्षीद् अन्यतमावरुद्धिका सरात्रम् एव सुप्तप्रतिबुद्धा यशाः कुमारो महाशयने न दृश्यते इति; दृष्ट्वा च पुनर् येनाग्रकुलिको गृहपतिस् तेनोपसंक्रान्ता; उपसङ्क्रम्याग्रकुलिकं गृहपतिम् इदम् अवोचत्: यत् खल्व् आर्य जानीया यशाः कुमारः स्वे महाशयने न दृश्यते ( अ 393ब् ) इति; अथ अग्रकुलिकस्य गृहपतेर् एतद् अभवत्: माहैव कुमारश् चोरैर् वा धूर्तैर् वा स्वापतेयकारणात् बहिर् निष्कासितो भविष्यति; इति विदित्वा चतुर्दिशम् अश्वदूतान् प्रेषयति; स्वयम् एव प्रदीपिकाहस्तैः पुरुषैः सार्धं येन नदी वारका तेनोपसङ्क्रान्तः; अद्राक्षीद् अग्रकुलिको गृहपतिर् नद्या वारकायास् तीरे शतसहस्रं मणिपादुकायुगम् उज्झितम्; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: माहैव ( स्ब्व् इ 142 ) कुमारश् चोरैर् वा धूर्तैर् वा निष्कासितः; तथा हि नद्या वारकायास् तीरे शतसहस्रं मणिपादुकायुगम् उज्झितम्; माहैव कुमारो ऽनेन तीर्थेन नदीं वारकाम् उत्तीर्णो भविष्यति; तथा <हि> शतसाहस्रं मणिपादुकायुगं नद्या वारकायास् तीरे उज्झितः; इति विदित्वा तेनैव तीर्थेन नदीं वारकाम् उत्तीर्य येन भगवांस् तेनोपसङ्क्रान्तः; अद्राक्षीद् भगवान् अग्रकुलिकं गृहपतिम् दूराद् एव; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: यन्व् अहं तद्रूपान् ऋद्ध्यभिसंस्कारान् अभिसंस्कुर्यां यथाग्रकुलिको गृहपतिर् अस्मिन्न् एवासने निषण्णो यशसं कुमारं न पश्येद् इति; अथ भगवान् तद्रूपान् ऋद्ध्यभिसंस्कारान् अभिसंस्करोति यथाय्रकुलिको गृहपतिस् तस्मिन्न् एवासने निषण्णो यशसं कुमारं न पश्यति; अथाग्रकुलिको गृहपतिर् येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तम् इदम् अवोचत्: कच्चित् भगवान् यशसं कुमारम् <अद्राक्षीत्>? तेन हि गृहपते निषीद स्थानम् एतद् विद्यते यद् अस्मिन्न् एवासने निषण्णो यशसं कुमारं द्रक्ष्यसीति; अथाग्रकुलिकस्य गृहपतेर् एतद् अभवत्: नूनं च भगवता यशाः कुमारो दृष्टो भविष्यति; तथाहि भगवान् एवम् आह, तेन हि गृहपते निषीद स्थानम् एतद् विद्यते यद् अस्मिन्न् एवासने निषण्णो यशसं कुमारं द्रक्ष्यसि; इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत्; एकान्ते निषण्णम् अग्रकुलिकं गृहपतिं भगवान् धर्मयया कथया सन्दर्शयति, समादापयति, समुत्तेजयति संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा, तद्यथा दानकथा शीलकथा स्वर्गकथा कामानाम् आस्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुसंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैनं भगवान् अद्राक्षीद् धृष्टचित्तं कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुं, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयं निरोधं मार्गं चत्वार्य् आर्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रम् अपगतकालकम् रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं ( स्ब्व् इ 143 ) प्रतिगृह्णाति, एवम् एवाग्रकुलिको गृहपतिस् तस्मिन्न् एवासने निषण्णश् चत्वार्य् आर्यसत्यान्य् ( अ 394अ ) अभिसमेति; दुःखं समुदयं निरोधं मार्गम्; तस्मिन् खलु धर्मपर्याये भाष्यमाणे अग्रकुलिकस्य गृहपतेर् विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्; आयुष्मतश् च यशसः सर्वालङ्कारविभूषितस्यानुपादायाश्रवेभ्याश् चित्तं विमुक्तम्; अथ भगवांष् तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य तस्यां वेलायां गाथां भाषते:
अलङ्कृतश् चापि चरेत धर्मं
दान्तश् शान्तः संयतो ब्रह्मचारी ।
सर्वेषु भूतेषु निधाय दण्डं
स ब्राह्मणः स श्रमणः स भिक्षुः ॥
तेन खलु समयेन षट् लोके अर्हन्तः, भगवांश् च सप्तमः; अद्राक्षीद् अग्रकुलिको गृहपतिर् यशसं कुमारं तस्मिन्न् एवासने निषण्णम्; दृष्ट्वा च पुनर् यशसं कुमारम् इदम् अवोचत्: एहि कुमार निवेशनं गमिष्यावो माता ते श्रान्तकाया क्लान्तकाया परिदेवितवतीति; अथ भगवान् अग्रकुलिकं गृहपतिम् इदम् अवोचत्: किं मन्यसे गृहपते येनाशैक्षेण ज्ञानेन अशैक्षेण दर्शनेन चत्वार्य् आर्यसत्यान्य् अभिसमितानि, तद्यथा दुःखं, समुदयो, निरोधो, मार्गः, अपि नु स पुनर् अपि गृही अगारम् अध्यावसेत? सन्निधीकारपरिभोगेन वा कामान् परिभुञ्जीत इति? नो भदन्त: यथा खलु त्वया गृहपते शैक्षेण ज्ञानेन शैक्षेण दर्शनेन चत्वार्य् आर्यसत्यान्य् अभिसमितानि, दुःखं, समुदयो, निरोधो, मार्गः; एवम् एव कुमारेण अशैक्षेण ज्ञानेन अशैक्षेण दर्शनेन चत्वार्य् आर्यसत्यान्य् अभिसमितानि, तद्यथा दुःखं, समुदयो, निरोधो, मार्गः इति; लाभा भदन्त यशसा कुमारेण सुलब्धा येन अशैक्षेना ज्ञानेन अशैक्षेण दर्शनेन चत्वार्य् आर्यसत्यान्य् अभिसमितानि, तद्यथा दुःखं, समुदयो, निरोधो, मार्गः; साधु भगवान् यशसा कुमारेण पश्चाच्छ्रमणेन येनाग्रकुलिकस् तेनोपसङ्क्रामेद् अनुकम्पाम् उपादाय; अधिवासयति भगवान् अग्रकुलिकस्य गृहपतेस् तूष्णींभावेन; अथाग्रकुलिको गृहपतिर् भगवतस् तूष्णींभावेनाधिवासनां ( स्ब्व् इ 144 ) विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः
यशऽस् मोथेर् अन्द् wइfए बेचोमे लय्-दिस्चिप्लेस्
अथ भगवांस् तस्या एव रात्रेर् अत्ययात् निवास्य पात्रचीवरम् आदाय आयुष्मता यशसा पश्चाच्छ्रमेणेन येनाग्रकुलिकस्य गृहपतेर् निवेशनं तेनोपसङ्क्रान्तः; तेन खलु समयेन आयुष्मतो यशसो महल्लिका पुराणद्वितीया च मध्यमायां द्वारशालायाम् आस्थातां यद्भूयसा भगवन्तम् आगमयमाने; अद्राष्टाम् आयुष्मतो यशसो महल्लिका पुराणद्वितीया च भगवन्तम् दूरत एव दृष्ट्वा च पुनर् भगवतो ऽर्थे आसनं प्रज्ञापयतः; एवं चाहतुः; एतु भगवान्; स्वागतं भगवते; निषीदतु भगवान् प्रज्ञप्त एव आसने; निषण्णो भगवान् प्रज्ञप्त एवासने; अथायुष्मतो यशसो महल्लिका पुराणद्वितीया च भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णे; एकान्ते निषण्णाम् आयुष्मतो यशसो महल्लिकां पुराणद्वितीयां च भगवान् धर्म्यया कथया सन्दर्शयति, ( अ 394ब् ) समादापयति, समुत्तेजयति, संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा, तद्यथा दानकथा शीलकथा स्वर्गकथा कामानाम् आस्वादादीनवसङ्क्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैते भगवान् अद्राक्षीद् धृष्टचित्ते कल्यचित्ते मुदितचित्ते विनिवरणचित्ते भव्ये प्रतिबले सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुम्, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना, तद्यथा दुःखं समुदयो निरोधो मार्गश् चत्वार्य् आर्यसत्यानि, <विस्तरेण> संप्रकाशयति; तद्यथा शुद्धं वस्त्रम् अपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति, एवम् एव आयुष्मतो यशसो महल्लिका पुराणद्वितीया च तस्मिन्न् एवासने निषण्णे चत्वार्य् आर्यस्त्यान्य् अभिसमितवत्यौ; तद्यथा दुःखं समुदय निरोध मार्गः; अथ आयुष्मतो यशसो महल्लिका पुराणद्वितीया च दृष्टधर्मे प्राप्तधर्मे विदितधर्मे पर्यवगाढहर्मे ( स्ब्व् इ 145 ) तीर्णकाङ्क्षे तीर्णविचिकित्से अपरप्रत्यये अनयनेये शास्तुश् शासने धर्मेषु वैशारद्यप्राप्ते उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचताम्: अभिक्रान्ते आवां, भदन्त, अभिक्रान्ते; एते आवां भगवन्तं शरणं गच्छावो, धर्मं च भिक्षुसङ्घं च; उपासिके च आवां धारयाद्याग्रेण यावज्जीवं प्राणोपेते शरणागते अभिप्रसन्ने; तेन हि भदन्त इहैव भक्तकृत्यं क्रियताम्; अधिवासयति भगवान् आयुष्मतो यशसो महल्लिकायाः पुराणद्वितीयायाश् च तूष्णींभावेन; अथ आयुष्मतो यशसो महल्लिका पुराणद्वितीया च भगवतस् तूष्णींभावेन अधिवासनां विदित्वा भगवन्तं सुखोपनिषण्णं शुचिप्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयतः, संप्रवारयतः; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णे धर्मश्रवणाय; अथ भगवान् आयुष्मतो यशसो महल्लिकां पुराणद्वितीयां च धर्म्यया कथया सन्दर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य उत्थायासनात् प्रक्रान्तः; येन स्वो विहारस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य प्रज्ञप्त एवासने निषण्णः
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति: किं भदन्त आयुष्मता यशसा कर्म कृतं यस्य कर्मणो विपाकेन अन्तःपुरमध्यगतस्य स्वस्मिन्न् अन्तःपुरे श्मशानसंज्ञा उत्पन्ना; सर्वालङ्कारविभूषितेन च भगवतो ऽन्तिके अर्हत्वं च साक्षात्कृतम्; यशसा एवं भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि; ( अ 395अ ) यशसा कर्मान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते, शुभान्य् अशुभानि च
न प्रनश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीं प्राप्य कालम् च फलन्ति खलु देहिनाम् ॥ ( स्ब्व् इ 146 )
प्रेविओउस् बिर्थ् ओf यशस्
भूतपूर्वं भिक्षवः वाराणस्यां नगर्यां नातिदूरे रिषिः प्रतिवसति स्म मैत्र्यात्मकः कारुणिकः सर्वसत्वहितवत्सलः; तेन पिण्डपातं प्रविशता मृतकुणपं दृष्टम्; असत्प्रतिबद्धेनेव चित्तेन पिण्डपातं प्रविष्टः; पिण्दपातं चरित्वाभ्यागतः; यावत् पश्यति तं मृतकुणपं विलीनीभूतं व्याध्मातकं च; तस्यैवाग्रतः स्फुटितम्; तेन तत्रैव वैराग्यम् उत्पादितम्; तत इहान्तःपुरे प्रत्ययो दत्तः
किं मन्यध्वे भिक्षवः? यो ऽसौ रिषिर् एष एवासौ यशाः कुमारः तेन कालेन तेन समयेन; यद् अनेन तत्र वैराग्यम् उत्पादितम् तेनैतर्हि अन्तःपुरमध्यगतस्य प्रत्ययो दत्तः; इति हि भिक्षवस्ः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः; एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माणि अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्
यशस्ऽस् fओउर् ब्रोथेर्स् अरे चोन्वेर्तेद् अन्द् बेचोमे अर्हत्स्
अश्रौषुर् वाराणस्यां द्वितीय अग्रकुलोकपुत्रस् तृतीयश् चतुर्थः पञ्चम अग्रकुलिकपुत्रः, पूर्णो, विमलो, गवांपतिः सुबाहुश् च: यशा अग्रकुलिकपुत्रः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजित इति; श्रुत्वा च पुनर् एषाम् एतद् अभवत्: न बतावरो बुद्धो भविष्यति, नावरं धर्माख्यानम्; यत्रेदानीं यशा अग्रकुलिकपुत्रस् तावत् तरुणः तावत् सुखैषी केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; यन्नु ( स्ब्व् इ 147 ) वयम् अपि केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेमेति; अथ द्वितीयो ऽग्रकुलिकपुत्रस् तृतीयश् चतुर्थः पञ्चमो ऽग्रकुलिकपुत्रः पूर्णो, विमलो, गवांपतिस्, सुबाहुर्, वाराणस्यां निष्क्रम्य येन भगवांस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते तस्थुः; एकान्तस्थिता द्वितीयो ऽग्रकुलिकपुत्रस् तृतीयश् चतुर्थः पञ्चमः अग्रकुलिकपुत्रः पूर्णो, विमलो, गवांपतिस्, सुबाहुर्, भगवन्तम् इदम् अवोचन्: लभेमहि वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेम वयं भगवतो ऽन्तिके ब्रह्मचर्यम्; लब्धवन्तस् त आयुष्मन्तः स्वाख्याते धर्मविनये प्रव्रज्यां उपसंपदं भिक्षुभावम्; एवं प्रव्रजिता एकाकिनो व्यपकृष्टा अप्रमत्ता आतापिनः प्रहितात्मानो व्यहार्षुः; एकाकिनो व्यपकृष्टा अप्रमत्ता आतापिनः प्रहितात्मानो विहरन्तो यदर्थं कुलपुत्राः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव ( अ 395ब् ) श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानम् दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयन्ते: क्षीना नो जातिर्, उषितं ब्रह्मचर्यं, कृतं करणीयं, नापरम् अस्माद् भवं प्रजानीम इति आज्ञातवन्त आयुष्मन्तो ऽर्हन्तो बभूवुः सुविमुक्तचित्ताः; तेन खलु समयेन दश लोके ऽर्हन्तो, भगवान् एकादशमः
थे चोन्वेर्सिओन् ओf fइfत्य् योउन्ग् मेन्
अश्रौषुर् वाराणस्यां पञ्चाशद् उत्सदोत्सदा ग्रामिकदारकाः, प्रथमो ऽग्रकुलिकपुत्रो, द्वितीयस्, तृतीयश् चतुर्थः, पञ्चमो ऽग्रकुलिकपुत्रो, यशाः, पूर्णो, विमलो, गवांपतिः, सुबाहुः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिता इति; श्रुत्वा च पुनर् एषाम् एतद् अभवत्: न बतावरो बुद्धो भस्विष्यति; नावरं धर्माख्यानम्; यत्रेदानीं प्रथमो ऽग्रकुलिकपुत्रो, द्वितीयो यावत् पुर्णो विमलो गवांपतिः सुबाहुर् तावत् तरुणास् तावत् सुखैषिणः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां ( स्ब्व् इ 148 ) प्रव्रजिताः; यन्नु वयम् अपि केशश्मश्र्व् अवतार्य काषयाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेमेति; अथ पञ्चाशद् उत्सदोत्सदा ग्रामिकदारका वाराणस्यां निष्क्रम्य येन भगवांस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते तस्थुः; एकान्तस्थिताः पञ्चाशद् उत्सदोत्सदा ग्रामिकदारका भगवन्तम् इदम् अवोचन्: लभेमहि वयं स्वाख्याते धर्मविनये प्रव्रज्यां उपसंपदं भिक्षुभावम्; चरेम वयं भगवतो ऽन्तिके ब्रह्मचर्यम्; लब्धवन्तस् त आयुष्मन्तस् स्वाख्याते धर्मविनये प्रव्रज्यां उपसंपदं भिक्षुभावम्; एवंप्रव्रजितास् ते आयुष्मन्त एककिनो व्यपकृष्टाः अप्रमत्ता आतापिनः प्रहितात्मानो व्यहार्षुः; एकाकिनो व्यपकृष्टा अप्रमत्ता आतापिनः प्रहितात्मनो विहरन्तो यदर्थं कुलपुत्राः केशश्मश्र्व् अवतार्य काषयाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयन्ते; क्षीणा नो जातिर्, उषितं ब्रह्मचर्यं, कृतं करणीयं, नापरम् अस्माद् भवं प्रजानीम इति आज्ञातवन्त आयुष्मन्तो ऽर्हन्तो बभूवुः सुविमुक्तचित्ताः; तेन खलु समयेन षष्टिर् लोके अर्हन्तो भगवान् एकषष्टितमः इति
थे बुद्ध गोएस् तो थे विल्लगे उरुबिल्वा
तत्र भगवान् वाराणस्यां विहरति ऋषिवदने मृगदावे; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: मुक्तो ऽहं, भिक्षवः, सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; यूयम् अपि भिक्षवो मुक्ताः सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; ततो भिक्षवश् चारिकां प्रक्रमिश्यामो बहुजनसुखाय लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणाम्; मा च वो द्वाव् एकेन गमिष्यथ; अहम् अपि येनोरुबिल्वासेनायनीग्रामकस् तेन चारिकां प्रक्रमिष्यामि; अथ मारस्य ( अ 396अ ) पापीयस एतद् अभवत्; अयं श्रमणो गौतमो वाराणस्यां विहरति ऋषिवदने मृगदावे; एवं श्रावकान् धर्मं देशयति: मुक्तो ऽहं भिक्षवः सर्वपाशेभ्यो ये च दिव्या ये च मानुषाः; यूयम् अपि भिक्षवो मुक्तास् सर्वपाशेभ्यो ये च दिव्या ये च मानुषाः; यावद् अहम् अपि येनोरुबिल्वासेनायनीग्रामकस् तेन चारिकां प्रक्रमिष्यामीति; यन्व् अहम् अस्योपसङ्क्रमेयं यदुत व्याक्षेपकर्मणि; अथ मारः ( स्ब्व् इ 149 ) पापीयान् माणवकवर्णम् आत्मानम् अभिनिर्माय येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतो ऽन्तिके तिष्ठन् गाथां भाषते:
अमुक्तो मुक्तसंज्ञी सन् किं मुक्तो ऽस्मीति मन्यसे ।
महाबन्धनबद्धो ऽसि न मे श्रमण मोक्ष्यसे ॥
अथ भगवत एतद् अभवत्: मारो बतायं पापीयान् उपसङ्क्रान्तो यदुत व्याक्षेपकर्मणि; इति विदित्वा गाथां भाषते:
मुक्तो ऽहम् सर्वपाशेभ्यो ये दिव्या ये च मानुषाः ।
एवं जानीहि पापीयन् निहतस् त्वम् इहान्तक ॥
अथ मारस्य पापीयस एतद् अभवत्: जानाति मे श्रमणो गौतमश् चेतसा चित्तम्; इति विदित्वा दुःखी दुर्मना विप्रतीसारी तत्रैव अन्तर्हितः; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: मुक्तो ऽहं भिक्षवः सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; यूयम् अपि भिक्षवो मुक्ताः सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; चरत भिक्षवश् चारिकां बहुजनहिताय पूर्ववद् यावद् अहम् अपि येनोरुबिल्वासेनायनीग्रामकस् तेन चारिकां प्रक्रमिष्यामि; एवं भदन्त इति भिक्षवो भगवतः प्रतिश्रुत्य जनपदचारिकां प्रक्रान्ताः
अथ भगवाव् यथाभिरम्यं विहृत्य येनोरुबिल्वासेनायनीग्रामकस् तेन चारिकां प्रक्रान्तो ऽनुपूर्वेण चारिकां चरन् सेनायनीग्रामकम् अनुप्राप्तः; अथ भगवान् येन कार्पासवनषण्डः तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अन्यतरद् वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय
सिxत्य् गेन्त्लेमेन् बेचोमे लय्-दिस्चिप्लेस्
तेन खलु समयेन षष्टिर् भद्रवर्गीयाः पूगाः बहिः सेनायनीग्रामकस्य दिवादिवसे स्त्रीमयेन तूर्येण क्रीडन्ति रमन्ते परिचारयन्ति; तेषां क्रीडतां रममाणानां परिचारयताम् अन्यतरा स्त्री समयं विराग्य निष्पलायिता; अथ षष्टिर् भद्रवर्गीयाः पूगाः तां स्त्रियं समन्वेषमाणा येन कार्पासवनषण्डस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य अद्राक्षुः षष्टिर् भद्रवर्गीयाः पूगा भगवन्तम् अन्यतरद् वृक्षमूलं निश्रित्या निषण्णं प्रासादिकं प्रसादनीयम् शान्तेन्द्रियं शान्तमानसं परमेण चित्तदमव्युपशमेन समन्वागतं ( स्ब्व् इ 150 ) सुवर्णयूपम् इव श्रिया ज्वलन्तम्; दृष्ट्वा च पुनर् येन भगवांस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवन्तम् इदम् अवोचन्: कच्चिद् भगवान् स्त्रियम् अद्राक्षीत्; <किं पुनर् वः कुमारकास् तया स्त्रिया?> इह वयं भदन्त षष्टिर् भद्रवर्गीयाः पूगाः बहिः सेनायनीग्रामस्य दिवादिवसे स्त्रीमयेन तूर्येण क्रीडामो रमामो परिचारयामः; तेषाम् अस्माकं क्रीडतां रममाणानां परिचारयताम् अन्यतमा <स्त्री समयं विराग्य निष्पलायिता; ते> वयम् तां स्त्रियं समन्वेषामहे; किं मन्यध्वे कुमारकाः? किं वरं यो वा स्त्रियं समन्वेषाते, यो वा आत्मानम्? किम् अस्माकं भदन्त स्त्री ( अ 396ब् ) करिष्यति; इदम् एवास्माकं वरं यद् वयम् आत्मानं समन्वेषेमहि; तेन हि कुमारका निषीदन्तु; धर्मं वो देशयिष्यामि; अथ षष्टिर् भद्रवर्गीयाः पूगाः भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णान् षष्टिं भद्रवर्गीयान् पूगान् भगवान् धर्म्यया कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; यासौ <बुद्धानां भगवतां धर्म्या कथा; तद्यथा> दानकथा शीलकथा स्वर्गकथा कामानाम् आस्वादादीनवसङ्क्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैतान् भगवान् अद्राक्षीद् धृष्टचित्तान् मुदितचित्तान् कल्यचित्तान् विनिवरणचित्तान् भव्यान् प्रतिबलान् सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुं, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखः समुदयो निरोधो मार्गश् चत्वार्य् आर्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रम् अपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति; एवम् एव षष्टिर् भद्रवर्गीयाः पुगाः एष्व् एवासनेषु निषण्णाश् चत्वार्य् आर्यसत्यान्य् अभिसमयन्ति; तद्यथा दुःखं समुदयं निरोधं मार्गम्; अथ षष्टिर् भद्रवर्गीगाः पूगाः दृष्टधर्माणः प्राप्तधर्माणो विदितधर्माणः पर्यवगाढधर्माणस् तीर्णकाङ्क्षा तीर्णविचिकित्सा अपरप्रत्यया ( स्ब्व् इ 151 ) अनन्यनेया शास्तुश् शासने धर्मेषु वैशारद्यप्राप्ता उत्थायासनेभ्य एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेन अञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचन्: अभिक्रान्ता वयं भदन्ताभिक्रान्ताः; एते वयं भगवन्तं शरणं गच्छामो धर्मं च भिक्षुसङ्घं च; उपासकांश् च अस्मान् धारयाद्याग्रेण यावज्जीवं प्राणोपेतान् शरणागतान् अभिप्रसन्नान्; अथ षष्टिर् भद्रवर्गीयाः पूगा भगवतो भाषितम् अभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ताह्
चोन्वेर्सिओन् ओf थे ब्रह्मिन् देव
तेन खलु समयेन कपिलवस्तुनि देवो नाम ब्राह्मणः प्रतिवसत्य् आढ्यो महाधनो महाभोगो भगवतः पुराणो गृहपतिस् सखा: असौ परेण समयेन ज्ञातिक्षयं <धनक्षयम् ऋद्धिक्षयं गतः; यदा भगवता> षट्त्रिंशद्भूतकोटिपरिवारं मारं विद्राव्य अनुत्तरं ज्ञानम् अधिगतं, तदा देवो ब्राह्मणः पत्न्या सार्धं सेनायनीग्रामकम् अनुप्राप्तः; देवेन ब्राह्मणेन श्रुतं भगवता अनुत्तरं ज्ञानम् अधिगतम्; श्रुत्वा च तस्यैतद् अभवत्: कथं पुनर् अहं भगवन्तं पिण्डकेन प्रतिपादयेयम् इति; स पत्नीम् आमन्त्रयते: भद्रे भगवता अनुत्तरम् ज्ञानम् अधिगतम्; स च भगवांश् चक्रवर्तिकुले जातः; स इदानीं सेनायनीग्रामकं पिण्डपातं <चरति> ............................................................ सा कथयति: ( अ 397अ ) आर्यपुत्र तथा भवतु; देवेन ब्राह्मणसकाशे पत्नीबन्धकं स्थापयित्वा पञ्चकार्षापण ..................................................... देवेन ब्राह्मणेन गृहपतिसकाशाद् अलङ्कारं याचित्वा पत्न्या अनुप्रदत्तः; अथ देवो ब्राह्मणः सपत्नीकः सुचिं प्रणीतं खादनीयभोजनीयं समुदानीय येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवन्तम् इदम् अवोचत्; अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन; अधिवासयति भगवान् देवस्य ब्राह्मणस्य तूष्णींभावेन; अथ भगवान् येन देवस्य ब्राह्मणस्य निवेषनं ( स्ब्व् इ 152 ) तेनोपसंक्रान्तः; उपसंक्रम्य प्रज्ञप्त एवासने न्यषीदत्; अथ देवो ब्राह्मणः सुखोपनिषण्णं भगवन्तं विदित्वा सपत्नी कः शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं तर्पयतः संप्रवारयतः; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तं अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णौ धर्मश्रवणाय; अथ भगवान् देवस्य ब्राह्मनस्य दक्सिणादेशनां कृत्वा प्रक्रान्तः इति; देवो ब्राह्मणस् तच् छ्रुत्वा दुःखी दुर्मनाः संवृत्तः; अटवीं संप्रस्थितः कुतो ऽहम् अलङ्कारं दास्यामीति; नान्यत्रात्मानम् ..................................................... तदा पश्यति तम् अलङ्कारम्; स तं गृहीत्वा गृहम् आगतः; देव पश्यामीति <पत्नी> दुःखदौर्मनस्याहता गृहं विशोधयति सुवर्णकलशं दीप्तिमन्तं पश्यति यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; देवस् तां पृच्छति: भद्रे किम् एतद्? इति; सा कथयति: आर्यपुत्र मया सुवर्णकलशो दृष्टः; सो ऽपि कथयति: भद्रे, मयापि सो ऽलंकारो दृष्टः; ताव् अत्यर्थं भगवति प्रसादजातौ तथा चाभिप्रसन्नौ; ततो भगवता तादृशी चतुरायसत्यसंप्रतिवेधिकी धर्मेदेशना कृता; यथा देवेन ब्राह्मणेन सपत्नीकेन विंशतिशिखरसमुद्गतं दृष्टिशैलं ज्ञानवज्रेण भित्वा श्रोत्रआपत्तिफलं साक्षात्कृतम्
चोन्वेर्सिओन् ओf नन्दा अन्द् नन्दबला
अथ भगवांस् तस्या एव रात्र्या अत्ययात् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय सेनायनीग्रामकं पिण्डाय प्राविक्षत्; अथ भगवत एतद् अभवत्: कस्य न्व् अहं सेनायनीग्रामके तत्प्रथमतो धर्मं देशयेयम्; अथ भगवत एतद् अभवत्: यन्व् अहं नन्दायाश् च नन्दबलायाश् च ( अ 397ब् ) ग्रामिकदुहित्रोः तत्प्रथमतो धर्मं देशयेयं, ये मां दुःखप्रहाणयोगम् अनुयुक्तं विहरन्तं सत्कृत्योपस्थतुः प्रेम्ना च गौरवेण च; अथ भगवान् येन नन्दायाश् च नन्दबलायाश् च ग्रामिकदुहित्रोर् निवेशनं तेनोपसंक्रन्तः; अद्राष्टां च नन्दा च नन्दबला च ग्रामिकदुहितरौ ( स्ब्व् इ 153 ) भगवन्तं दूरत एव; दृष्ट्वा च पुनर् भगवतो ऽर्थायासनं प्रज्ञपयतः एवं चाहतुः: निषीदतु भगवान् प्रज्नाप्त एवासने; न्यषीदद् भगवान् प्रज्ञाप्त एवासने; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ भगवत्पादौ शिरसा वन्दित्वैकान्ते निषण्णे; एकान्तनिषण्णे नन्दां च नन्दबलां च ग्रामिकदुहितरौ भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्मी कथा तद्यथा दानकथा शीलकथा स्वर्गकथा कामानाम् आस्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेके अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदैते भगवान् अद्राक्षीद् धृष्टचित्ते कल्यचित्ते मुदितचित्ते विनिवरणचित्ते भव्ये प्रतिबले सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुं तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयो निरोधो मार्गश् चत्वार्य् आर्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रम् अपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति, एवम् एव नन्दा च नन्दबला च तस्मिन्न् एवासने निषण्णे चत्वर्य् आर्यसत्यानि अभिसमयतस् तद्यथा दुःखं समुदयं निरोधं मार्गम्; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ दृष्टधर्मे प्राप्तधर्मे पर्यवगाधधर्मे तीर्णकांक्षे तीर्णविचिकित्से ऽपरप्रत्यये ऽनन्यनेये शास्तुः शासने धर्मेषु वैशारद्यप्राप्ते; उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचताम्: अभिक्रान्ते आवां भदन्ताभिक्रान्ते; एते आवां भगवन्तं शरणं गच्छावो धर्मं च भिक्षुसङ्घं च; उपासिके चावां धारयाद्याग्रेण यावज्जीवं प्राणोपेते शरणगते ऽभिप्रसन्ने; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ भगवन्तम् इदम् अवोचताम्; तेन हि भदन्त इहैव भक्तकृत्यं क्रियताम्; अधिवासयति भगवान् नन्दायाश् च नन्दबलायाश् च ग्रामिकदुहित्रोः तूष्नींभावेन; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ भगवतस् तूष्णीम्भावेनाधिवासनां विदित्वा सुखोपनिषण्णं भगवन्तं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयतः संप्रवारयतः; शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तं अपनीतपात्रं नीचतरकम् आसनं गृहीत्वा भगवतः पूरतो निषण्णे धर्मश्रवणाय ( स्ब्व् इ 154 )
[थे ff. ओf थे मनुस्च्रिप्त् बेत्wएएन् 398 अन्द् 405 अरे मिस्सिन्ग्. सोमे fरग्मेन्त्स् इन् सन्स्क्रित् चोन्चेर्निन्ग् थिस् पोर्तिओन् ओf थे सङ्घभेदवस्तु हवे बेएन् एदितेद् अन्द् रेस्तोरेद् wइथ् थे ऐद् ओf थे तिबेतन् त्रन्स्लतिओन् ब्य् प्रोf. एर्न्स्त् wअल्द्स्छ्मिद्त्, चतुष्परिषत्सूत्र, एद्. चित्, वोल्. ल्ल्ल्, वोर्गन्ग् 23, 18-27 च् 3 (प्प्. 235-337)]. थे पोर्तिओन् रेस्तोरेद् ब्य् प्रोf. एर्न्स्त् wअल्द्स्छ्मिद्त् हस् बेएन् रेप्रोदुचेद् बेलोw अस् थे अप्पेन्दिx ल्ल्]
बिंबिसारऽस् विसित् तो थे बुद्ध
<ता देवता पुनर् अवोचन्: महाराज न ते पापं कर्म कृतम्; अपि तु> ( अ 406अ ) यैः सार्धं त्वया सामवायिकानि कर्माणि कृतानि तेषां ये केचित् सन्निपतिताः केचिद् अद्यत्वेपि जनपदैर् अमुष्मिन् कर्मान्तान् कारयन्तस् तिष्ठन्तो तान् शब्दयेति; राज्ञा तद्देशनिवासिनो जनकायास् सर्वे आहूताः; ततो राजा बिंबिसारो द्वादशभी रथसहस्रैर् अष्टादशभिश् च पेटकाश्वसहस्रैर् अनेकैश् च मागधकैर् ब्राह्मणगृहपतिशतसहस्रैः सार्धं राजगृहान् निर्याति भगवतो ऽन्तिकं भगवन्तं दर्शनायोपसङ्क्रमितुं पर्युपासनायै; तस्य यावती यानस्य भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एवारामं प्राविक्षत्; यद् अन्तरा राजा मागधः श्रेण्यो बिम्बिसारो भगवन्तम् अद्राक्षीत् तदन्तरात् पञ्चककुदान्य् अपनीय उष्णीषं, छत्रं, खड्गं, मणिबालव्यजनं चित्रे चोपानहौ येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेन अञ्जलिं प्रणमय्य त्रिर् आत्मनो नामधेयम् अनुश्रावयति: राजाहम् अस्मि भदन्त मागधः श्रेण्यो बिम्बिसारः; राजाहम् अस्मि भदन्त मागधः श्रेण्यो बिम्बिसारः; एवम् एतन् महाराज, एवम् एतत्; राजा त्वं महाराज मागधः श्रेण्यो बिम्बिसारः; राजा त्वं महाराज मागधः श्रेण्यो बिम्बिसारः; निषीद त्वं महाराज यथास्वके आसने; अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एके मागधका ब्राह्मणगृहपतयो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एके भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां ( स्ब्व् इ 155 ) व्यतिसार्य एकान्ते निषण्णाः; एके येन भगवांस् तेनाञ्जलिं प्रणमय्य एकान्ते निषण्णाः; एके भगवन्तं दूराद् एव दृष्ट्वा तुष्णीम् एकान्ते निषण्णाः
उरुबिल्वाकाश्यप अन्द् थे बुद्ध चोन्fरोन्त्
तेन खलु समयेन आयुष्मान् उरुबिल्वाकाश्यपस् तस्याम् एव पर्षदि सन्निषण्णः सन्निपतितः; अथ मागधकानां ब्राह्मणगृहपतीनाम् एतद् अभवत्: किं नु महाश्रमण उरुबिल्वाकाश्यपस्य जटिलस्यान्तिके ब्रह्मचर्यं चरत्य् आहोस्विद् उरुबिल्वाकाश्यप एव जटिलो महाश्रमणस्यान्तिके ब्रह्मचर्यं चरति? अथ भगवान् मागधकानां ब्राह्मणगृहपतीनां चेतसा चित्तम् आज्ञाय आयुष्मन्तम् उरुबिल्वाकाश्यपं गाथाभिर् गीतेन प्रश्नं पृच्छति स्म:
दृष्ट्वेह किं त्वम् उरुबिल्ववासिन्
अग्नीन् अहासीर् व्रतम् एव चार्षम् ।
आचक्ष्व मे काश्यप एतम् अर्थं
कथं प्रहीणं हि तवाग्निहोत्रम् ॥
अन्नानि पानानि तथा रसांश् च
कामान् स्त्रियश् चैव वचन्ति हैके ।
तावन् मलान् उपधौ संप्रपश्यन्
तस्मान् न इष्टे न हुते रतो ऽहम् ॥
न ते ऽत्र कामेषु मनो रतं चेद्
अन्नेषु पानेषु तथा रसेषु ।
कथं नु ते देवमनुष्यलोके
रतं मनः काश्यप ब्रूहि पृष्टः ॥
दृष्ट्वा पदं निरुपधि शान्तम् अग्र्यं
आकिञ्चन्यं सर्वभावेष्व् असक्तम् ।
अनन्यथीभावम् अनन्यनेयं
तस्मान् न इष्टे न हुते रतो ऽहम् ॥
यज्ञैर् व्रतैर् अग्निभिश् चापि मोक्षः
इत्य् अप्य् अभून् मे मनसो वितर्कः ।
अन्धो ऽस्मि जातिमरणानुसारी ( स्ब्व् इ 156 )
अनीक्ष्मानो ऽच्युतम् उत्तमं पदम् ॥( अ 406ब् )
पश्यामीदानीं तद् असंस्कृतं पदं
सुदेशितं नागवरेण तायिना ।
महाजनार्थाय मुनिर् विनायकस्
त्वम् उद्गतो गौतम सत्यविक्रमः ॥
भगवान् आह
स्वागतं ते व्यवसितं नैतद् दुश्चिन्तितं त्वया ।
प्रविभक्तेषु धर्मेषु यच् छ्रेष्ठं तद् उपागम ॥
मूल पाठ: Saṅghabhedavastu · Edition: R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49). · Data entry Klaus Wille Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0