भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 81-100

81

सदा सत्त्वं प्रपञ्चस्य साङ्ख्यास् तु प्रतिपेदिरे ॥

82

सदसत्प्रत्ययप्राप्त विरुद्धद्वन्द्वसङ्कटे ॥

83

विरोधपरिहारार्थं सत्त्वासत्त्वांशभङ्गतः ॥

84

सदसद्भ्याम् अनिर्वाच्यं प्रपञ्चं केचिद् ऊचिरे ॥

85

सत्त्वासत्त्वे विभागेन देशकालादिभेदतः ॥

86

घटादेर् इति मन्वाना व्यवस्थाम् अपरे जगुः ॥

87

तद् एवं वादिसंमर्दात् संशये समुपस्थिते ॥

88

निर्णयः क्रियते तत्र मीमांसकमतेन तु ॥

89

घटस्वरूपे नास्तित्वम् अस्तित्वं यद्य् अबूबुधत् ॥

90

स्याद् एव युगपत् सत्त्वम् असत्त्वं च घटादिषु ॥

91

इदानीम् इदम् अत्रास्ति नास्तीत्य् एवंविधा यतः ॥

92

देशकालदशाभेदाद् अस्तिनास्तीति नो धियः ॥

93

अतो देशादिभेदेन सदसत्त्वं घटादिषु ॥

94

व्यवस्थितं निरस्तत्वाद् वादस्येह न सम्भवः ॥

95

ननु देशादिसम्बन्धः सत एवोपपद्यते ॥

96

न देशकालसम्बन्धाद् असतः सत्त्वम् इष्यते ॥

97

सम्बन्धो द्व्याश्रयस् तस्मात् सतः सत्त्वं सदा भवेत् ॥

98

असतः कारकैः सत्त्वं जन्मनेत्य् अतिदुर्घटम् ॥

99

आद्यन्तवान् प्रपञ्चो ऽतः सत्कक्ष्यान्तर्निवेश्यते ॥

100

आदाव् अन्ते च यन् नास्ति नास्ति मध्ये ऽपि तत् तथा ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc