भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 101-120

101

अतो निश्चितसद्भावः सदा सन्न् अभ्युपेयताम् ॥

102

असतः सर्वदासत्त्वं जन्ययोगात् खपुष्पवत् ॥

103

असत्त्वे न विशेषो ऽस्ति प्रागत्यन्तासतोर् इह ॥

104

श्वेतकेतुम् उपादाय तत् त्वम् इत्य् अपि यच् छ्रुतम् ॥

105

षष्ठप्रपाठके तस्य कुतो मुख्यार्थसम्भवः ॥

106

कार्पण्यशोकदुःखार्तश् चेतनस् त्वम्पदोदितः ॥

107

सर्वज्ञः सत्यसङ्कल्पो निःसीमसुखसागरः ॥

108

तत्पदार्थस् तयोर् ऐक्यं तेजस्तिमिरवत् कथम् ॥

109

त्वमर्थस्थे तटस्थे वा (तदर्थस्थे विभेदके) ॥

110

गुणे तत्त्वम्पदश्रुत्योर् ऐकार्थ्यं दूरवारितम् ॥

111

अज्ञत्वसर्ववेदित्व दुःखित्वसुखितादिके ॥

112

विशेषणे वा चिद्धातोर् अथवाप्य् उपलक्षणे ॥

113

विरुद्धगुणसङ्क्रान्तेर् भेदः स्यात् त्वंतदर्थयोः ॥

114

वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता ॥

115

सो ऽयं गौर् इतिवत् तत्त्वम् पदयोर् इत्य् अपेशलम् ॥

116

देशकालदशाभेदाद् एकस्मिन्न् अपि धर्मिणि ॥

117

विरुद्धद्वन्द्वसङ्क्रान्तेः सो ऽयं गौर् इति युज्यते ॥

118

स्वप्रकाशस्य चिद्धातोर् विरुद्धद्वन्द्वसङ्गतौ ॥

119

न व्यवस्थापकं किंचिद् देशकालदशादिके ॥

120

निर्धूतनिखिलद्वन्द्व स्वप्रकाशे चिदात्मनि ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc