भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 401-420

401

आनन्दसत्यज्ञानादि निर्देशैर् एव वैदिकैः ॥

402

ब्रह्मणो ऽप्य् अतथाभावस् त्वयैवैवं समर्थितः ॥

403

सदसद्व्यतिरेकोक्तिः प्रपञ्चस्य च हीयते ॥

404

यद् यथा किं चिद् उच्येत तत् सर्वस्य तथा भवेत् ॥

405

तस्माद् अस्तीति संवित्तिर् जायमाना घटादिषु ॥

406

तत्तत्पदार्थसंस्थान पारमार्थ्यावबोधिनी ॥

407

सजातियविजातीय व्यवच्छेदनिबन्धनैः ॥

408

स्वैः स्वैर् व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः ॥

409

सा सत्ता न स्वतन्त्रान्या तत्राद्वैतकथा कथम् ॥

410

न च नानाविधाकार प्रतीतिः शक्यनिह्नवा ॥

411

न वेद्यं वित्तिधर्मः स्याद् इति यत् प्रागुदीरितम् ॥

412

तेनापि साधितं किंचित् संविदो ऽस्ति न वा त्वया ॥

413

अस्ति चेत् पक्षबाधः स्यान् न चेत् ते विफलः श्रमः ॥

414

अतः स्वरसविस्पष्ट दृष्टभेदास् तु संविदः ॥

415

यथावत् स्थायिभिर् बाह्यैर् नैक्यं याति घटादिभिः ॥

416

सहोपलम्भनियमान् नान्यो ऽर्थः संविदो भवेत् ॥

417

यद् एतद् अपराधीन स्वप्रकाशं तद् एव हि ॥

418

स्वयम्प्रकाशताशब्दम् इति वृद्धाः प्रचक्षते ॥

419

यस्मिन्न् अभासमाने हि यो नामार्थो न भासते ॥

420

नासाव् अर्थान्तरस् तस्मान् मिथ्येन्दुर् इव चन्द्रतः ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc