संवित्सिद्धि · श्लोक 381-400
एवं व्यवस्थितानेक प्रकाराकारवत्तया ॥
प्रत्यक्षस्य प्रपञ्चस्य तद्भावो ऽशक्यनिह्नवः ॥
आगमः कार्यनिष्ठत्वाद् ईदृशे ऽर्थे न तु प्रमा ॥
प्रामाण्ये ऽप्य् अन्वयायोग्य पदार्थत्वान् नन् बोधकः ॥
नासत् प्रतीतेर् बाधाच् च न सद् इत्य् अपि यन् न तत् ॥
प्रतीतेर् एव सत् किं न बाधान् नासत् कुतो जगत् ॥
तस्माद् अविद्ययैवेयम् अविद्या भवताश्रिता ॥
किंच भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः ॥
मिथ्या वा परमार्थो वा नाद्यः कल्पो ऽयम् अञ्जसा ॥
तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दूरपह्नवम् ॥
पारमार्थ्ये ऽपि तेनैव तवाद्वैतं विहन्यते ॥
सर्वान्य् एव प्रमाणानि स्वं स्वम् अर्थं यथोदितम् ॥
असतो ऽर्थान्तरेभ्यश् च व्यवच्छिन्दन्ति भान्ति नः ॥
तथा हीह घटो ऽस्तीति येयं धीर् उपजायते ॥
सा तदा तस्य नाभावं पटत्वं वानुमन्यते ॥
नन्व् अस्तीति यद् उक्तं किं तन्मात्रं घट इत्य् अपि ॥
अर्थान्तरं वा तन्मात्रे सदद्वैतं प्रसज्यते ॥
अर्थान्तरत्वे सिद्धं तत् सदसद्भ्यां विलक्षणम् ॥
यद्य् एवम् अस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम् ॥
घटवत्सदसत्त्वाभ्याम् अनिर्वाच्यं तवापतेत् ॥
मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0