भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 421-439

421

अभासमाने विज्ञाने न चात्मार्थावभासनम् ॥

422

इति संविद्विवर्तत्वं प्रपञ्चः स्फुटम् अञ्चति ॥

423

(मन्द) मैवं परिभव (?) प्रत्यक्षेण बलीयसा ॥

424

संरक्ष्यमानभेदास् ते नानुमानानुवर्तिनः ॥

425

तथा हीदम् अहं वेद्मीत्य् अन्योन्यानात्मना स्फुटम् ॥

426

त्रयं साक्षाच् चकास्तीति सर्वेषाम् आत्मसाक्षिकम् ॥

427

प्रत्यक्षप्रतिपक्षं च नानुमानं प्रवर्तते ॥

428

न हि वह्नेर् अनुष्णत्वं द्रव्यत्वाद् अनुमीयते ॥

429

किं च हेतुर् विरुद्धो ऽयं सहभावो द्वयोर् यतः ॥

430

तवापि न हि संवित्तिः स्वात्मना सह भासते ॥

431

सहोपलम्भनियमो न खल्व् एकैकसंविदा ॥

432

न चेद् अस्ति ससामान्यं सर्वं संवेदनास्पदम् ॥

433

नीलाद्युपप्लवापेत स्वच्छचिन्मात्रसन्ततिः ॥

434

स्वापादौ भासते नैवम् अर्थः संवेदनात् पृथक् ॥

435

तेन संवेदनं सत्यं संवेद्यो ऽर्थस् त्व् असन्न् इति ॥

436

तद् एतद् अपरामृष्ट स्ववाग्बाधस्य जल्पितम् ॥

437

सहोपलम्भनियमो येनैवं सति हीयते ॥

438

यस्माद् ऋते यदाभाति भाति तस्माद् ऋते ऽपि तत् ॥

439

घटाद् ऋते ऽपि निर्भातः पटाद् इव घटः स्वयम् ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc