संवित्सिद्धि · श्लोक 361-380
प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः ॥
सैवाभाव इतीहापि सद्भिस् ते सद्वितीयता ॥
भूतभौतिकभेदानां सदसद्व्यतिरेकिता ॥
कुतो ऽवसीयते किं नु प्रत्यक्षादेर् उतागमात् ॥
प्रत्यक्षादीनि मानानि स्वं स्वम् अर्थं यथायथम् ॥
व्यवच्छिन्दन्ति जायन्त इति यावत् स्वसाक्षिकम् ॥
यथाग्रतः स्थिते नीले नीलिमान्यकथा न धीः ॥
एकाकारा न हि तथा स्फटिके धवले मतिः ॥
क्षीरे मधुरधीर् यादृङ् नैव निम्बकषायधीः ॥
व्यवहाराश् च नियताः सर्वे लौकिकवैदिकाः ॥
सत्यं प्रतीतिर् अस्त्य् अस्या मूलं नास्तीति चेन् न तत् ॥
सा चेद् अस्ति तया मूलं कल्प्यतां कार्यभूतया ॥
कॢप्तं चेन्द्रियलिङ्गादि तद्भावानुविधानतः ॥
यौगपद्यक्रमायोगाद् व्यवच्छेदविधानयोः ॥
ऐक्यायोगाच् च भेदो न प्रत्यक्ष इति यो भ्रमः ॥
भेदेतरेतराभाव विवेकाग्रहणेन सः ॥
स्वरूपम् एव भावानां प्रत्यक्षेण परिस्फुरत् ॥
भेदव्याहारहेतुः स्यात् प्रतियोगिव्यपेक्षया ॥
यथा तन्मात्रधीर् नाना नास्तिव्याहारसाधनी ॥
ह्रस्वदीर्घत्वभेदा वा यथैकत्र षडङ्गुले ॥
मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0