संवित्सिद्धि · श्लोक 341-360
आनन्दस्वप्रकाशत्व नित्यत्वमहिमाद्य् अथ ॥
ब्रह्मस्वरूपम् एवेष्टं तत्रापिदं विविच्यताम् ॥
ब्रह्मेति यावन् निर्दिष्टं तन्मात्रं किं सुखादयः ॥
अथवा तस्य ते यद् वा त एव ब्रह्मसंज्ञिनः ॥
आद्ये तत्तत्पदाम्नान वैयर्थ्यं वेदलोकयोः ॥
पूर्वोक्तनीत्या भेदश् च जगज्जन्मादिकारणम् ॥
अभ्युपेत्यैव हि ब्रह्म विवादास् तेषु वादिनाम् ॥
द्वितीये सैव तैर् एव ब्रह्मणः सद्वितीयता ॥
तृतीये ब्रह्म भिद्येत तन्मात्रत्वात् पदे पदे ॥
तत्समूहो ऽथवा ब्रह्म तरुवृन्दवनादिवत् ॥
प्रकर्षश् चप्रकाशश्च भिन्नाव् एवार्कवर्तिनौ ॥
तेन न क्वापि वाक्यार्थो ऽविभागो ऽस्ति निदर्शनम् ॥
जाड्यदुःखाद्यपोहेन यद्य् एकत्रैव वर्तिता ॥
ज्ञानानन्दादिशब्दानां न सतः सद्वितीयता ॥
अपोहाः किं न सन्त्य् एव सन्तो वा नोभये ऽपि वा ॥
सत्त्वे सत् सद्वितीयं स्याज् जडाद्यात्मकतेतरे ॥
सदसद्व्यतिरेकोक्तिः पूर्वम् एव पराकृता ॥
तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ॥
किं चापोह्यजडत्वादि विरुद्धार्थासमर्पणे ॥
नैव तत् तद् अपोह्येत तदेकार्थैः पदैर् इव ॥
मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0