संवित्सिद्धि · श्लोक 321-340
न चेच् चेष्टाविशेषेण परो बोद्धानुमीयते ॥
व्यवहारो ऽवलुप्येत सर्वो लौकिकवैदिकः ॥
न चौपाधिकभेदेन मेयमातृविभागधीः ॥
स्वशरीरे ऽपि तत्प्राप्तेः शिरःपाण्यादिभेदतः ॥
यथा तत्र शिरःपाणि पादादौ वेदनोदये ॥
अनुसन्धानम् एकत्वे तथा सर्वत्र ते भवेत् ॥
प्रायणान् नरकक्लेशात् प्रसूतिव्यसनाद् अपि ॥
चिरातिवृत्ताः प्राग्जन्म भोगा न स्मृतिगोचराः ॥
युगपज् जायमानेषु (सुखदुःखादिषु स्फुटः) ॥
आश्रयासङ्करस् तत्र कथम् ऐकार्थ्यविभ्रमः ॥
न च प्रातिस्विकाविद्या कल्पितस्वस्वदृश्यकैः ॥
जीवैर् अनेकैर् अप्य् एषा लोकयात्रोपपद्यते ॥
परवार्तानभिज्ञास् ते स्वस्वस्वप्नैकदर्शिनः ॥
कथं प्रवर्तयेयुस् तां सङ्गाद्येकनिबन्धनाम् ॥
किंच स्वयम्प्रकाशत्व विभुत्वैकत्वनित्यताः ॥
त्वदभ्युपेता बाधेरन् संविदस् ते ऽद्वितीयताम् ॥
संविद् एव न ते धर्माः सिद्धायाम् अपि संविदि ॥
विवाददर्शनात् तेषु तद्रूपाणां च भेदतः ॥
न च ते भ्रान्तिसिद्धास् ते येनाद्वैताविरोधिनः ॥
तत्त्वावेदकवेदान्त वाक्यसिद्धा हि ते गुणाः ॥
मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0