भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 301-320

301

अपि च व्यवहारज्ञाः सति पुष्कलकारणे ॥

302

कार्यं न जायते येन तम् आहुः प्रतिबन्धकम् ॥

303

इह किं तद् यद् उत्पत्तुम् उपक्रान्तं स्वहेतुतः ॥

304

अविद्याप्रतिबद्धत्वाद् उत्पत्तिं न प्रपद्यते ॥

305

न मुक्तिर् नित्यसिद्धत्वान् न ब्रह्मास्मीति धीर् अपि ॥

306

न हि ब्रह्माहम् अस्मीति संवित्पुष्कलकारणम् ॥

307

संसारिणस् तदास्तीति कथं सा प्रतिबध्यते ॥

308

यतः सा कारणाभावाद् इदानीं नोपजायते ॥

309

न पुनः प्रतिबद्धत्वाद् अस्थाने तेन तद्वचः ॥

310

किंचैको जीव इत्य् एतद् वस्तुस्थित्या न युज्यते ॥

311

अविद्यातत्समाश्लेष जीवत्वादि मृषा हि ते ॥

312

प्रातिभासिकम् एकत्वं प्रतिभासपराहतम् ॥

313

यतो नः प्रतिभासन्ते संसरन्तः सहस्रशः ॥

314

आसंसारसमुच्छेदं व्यवहाराश् च तत्कृताः ॥

315

अबाधिताः प्रतीयन्ते स्वप्नवृत्तविलक्षणाः ॥

316

तेन यौक्तिकम् एकत्वम् अपि युक्तिपराहतम् ॥

317

प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः ॥

318

तत्तत्स्वात्मवद् अन्ये ऽपि देहिनो ऽशक्यनिह्नवाः ॥

319

यथानुमेयाद् वह्न्यादेर् अनुमाना (?) विलक्षणाः ॥

320

प्रत्यक्षं (?) ते तथान्येभ्यो जीवेभ्यो न पृथक् कथम् ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc