संवित्सिद्धि · श्लोक 1-20
एकम् एवाद्वितीयं तद् ब्रह्मेत्य् उपनिषद्वचः ॥
ब्रह्मणो ऽन्यस्य सद्भावं ननु तत् प्रतिषेधति ॥
अत्र ब्रूमो ऽद्वितीयोक्तौ समासः को विवक्षितः ॥
किंस्वित् तत्पुरुषः किं वा बहुव्रीहिर् अथोच्यताम् ॥
पूर्वस्मिन्न् उत्तरस् तावत् प्राधान्येन विवक्ष्यते ॥
पदार्थस् तत्र तद् ब्रह्म ततो ऽन्यत् सदृशं तु वा ॥
तद्विरुद्धम् अथो वा स्यात् त्रिष्व् अप्य् अन्यन् न बाधते ॥
अन्यत्वे सदृशत्वे वा द्वितीयं सिद्ध्यति ध्रुवम् ॥
विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा ॥
ब्रह्म प्राप्नोति यस्मात् तद् द्वितीयेन विरुध्यते ॥
अतः सप्रथमाः सर्वे तृतीयाद्यर्थराशयः ॥
द्वितीयेन तथा स्पृष्ट्वा स्वस्थास् तिष्ठन्त्य् अबाधिताः ॥
ननु नञ् ब्रह्मणो ऽन्यस्य सर्वस्यैव निषेधकम् ॥
द्वितीयग्रहणं यस्मात् सर्वस्यैवोपलक्षणम् ॥
नैवं निषेधो न ह्य् अस्माद् द्वितीयस्यावगम्यते ॥
ततो ऽन्यत् तद्विरुद्धं वा सदृशं वात्र वक्ति सः ॥
द्वितीयं यस्य नैवास्ति तद् ब्रह्मेति विवक्षिते ॥
सत्यादिलक्षणोक्तीनाम् अपलक्षणता भवेत् ॥
अद्वितीये द्वितीयार्थ नास्तितामात्रगोचरे ॥
स्वनिष्ठत्वान् नञर्थस्य न स्याद् ब्रह्मपदान्वयः ॥
मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0