भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 161-180

161

नाप्य् अन्यसंवित् तन्नाशे ऽप्य् अन्येषाम् उपलम्भनात् ॥

162

ननु संविद् अभिन्नैका न तस्याम् अस्ति भेदधीः ॥

163

घटादयो हि भिद्यन्ते न तु सा चित्प्रकाशनात् ॥

164

घटधीः पटसंवित्ति समये नावभाति चेत् ॥

165

नैवं घटो हि नाभाति सा स्फुरत्य् एव तु स्फुटम् ॥

166

घटव्यावृत्तसंवित्तिर् अथ न स्फुरतीति चेत् ॥

167

तद्व्यावृत्तिपदेनापि किं सैवोक्ताथवेतरत् ॥

168

सैव चेद्भासते ऽन्यच् चेन् न ब्रूमस् तस्य भासनम् ॥

169

किंचास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः ॥

170

ऋते विषयनानात्वान् नानात्वावग्रहभ्रमः ॥

171

न वस्तु वस्तुधर्मो वा न प्रत्यक्षो न लैङ्गिकः ॥

172

घटादिवेद्यभेदो ऽपि केवलं भ्रमलक्षणः ॥

173

यदा तदा तदायत्तो धीभेदावग्रहोदयः ॥

174

कुतः कुतस्तरां तस्य परमार्थत्वसम्भवः ॥

175

किंच स्वयम्प्रकाशस्य स्वतो वा परतो ऽपि वा ॥

176

प्रागभावादिसिद्धिः स्यात् स्वतस् तावन् न युज्यते ॥

177

स्वस्मिन् सति विरुद्धत्वाद् अभावस्यानवस्थितेः ॥

178

स्वनिमित्तप्रकाशस्य स्वस्याभावे ऽप्य् असम्भवात् ॥

179

अनन्यगोचरत्वेन चितो न परतो ऽपि च ॥

180

किंच वेद्यस्य भेदादेर् न चिद्धर्मत्वसम्भवः ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc