भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 141-160

141

भेदः परस्परानात्म्यं भावानाम् एवम् एतयोः ॥

142

स्वरूपम् अभ्युपेत्यैव भेदाभेदविकल्पयोः ॥

143

(बाधनम्) तेन वाग्बाधाद् विरोधेन निगृह्यसे ॥

144

भिन्नाभिन्नत्वसम्बन्ध सदसत्त्वविकल्पनम् ॥

145

प्रत्यक्षानुभवापास्तं केवलं कण्ठशोषणम् ॥

146

नीले नीलमतिर् यादृग् उत्पले नीलधीर् हि सा ॥

147

नीलम् उत्पलम् एवेदम् इति साक्षाच् चकास्ति नः ॥

148

यथा विदितसंयोग सम्बन्धे ऽप्यक्षगोचरे ॥

149

भेदाभेदादिदुस्तर्क विकल्पाधानविभ्रमः ॥

150

तद्वत् तादात्म्यसम्बन्धे श्रुतिप्रत्यक्षमूलके ॥

151

श्रुतिदण्डेन दुस्तर्क विकल्पभ्रमवारणम् ॥

152

निर्दोषापौरुषेयी च श्रुतिर् अत्यर्थम् आदरात् ॥

153

असकृत् तत् त्वम् इत्य् आह तादात्म्यं ब्रह्मजीवयोः ॥

154

ब्रह्मानन्दह्रदान्तस्थो मुक्तात्मा सुखम् एधते ॥

155

फले च फलिनो ऽभावान् मोक्षस्यापुरुषार्थता ॥

156

एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ॥

157

किंच प्रपञ्चरूपेण का नु संविद् विवर्तते ॥

158

न तावद् घटधीस् तस्याम् असत्याम् अपि दर्शनात् ॥

159

न हि तस्याम् अजातायां नष्टायां वाखिलं जगत् ॥

160

नास्तीति शक्यते वक्तुम् उक्तौ प्रत्यक्षबाधनात् ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc