भाषा

ENहिગુ
ग्रंथ पाठ

संवित्सिद्धि · श्लोक 121-140

121

द्वैतानर्थभ्रमाभावाच् छास्त्रं निर्विषयं भवेत् ॥

122

एतेन सत्यकामत्व जगत्कारणतादयः ॥

123

मा(योपाधौ) परे ऽध्यस्ताः शोकमोहादयः पुनः ॥

124

अविद्योपाधिके जीवे विभागेनेति यन् मतम् ॥

125

क्षुद्रब्रह्मविदाम् एतन् मतं प्राग् एव दूषितम् ॥

126

चित्स्वरूपे विशिष्टे वा मायाविद्याद्युपाधयः ॥

127

पूर्वस्मिन् सर्वसङ्कर्यं परजीवाविभागतः ॥

128

उत्तरस्मिन्न् अपि तथा विशिष्टम् अपि चिद् यदि ॥

129

चित्स्वरूपं हि निर्भेदं मायाविद्याद्युपाधिभिः ॥

130

विभिन्नम् इव विभ्रान्तं विशिस्टं च (इति मन्यते) ॥

131

तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् ॥

132

न हि दण्डिशिरस्छेदाद् देवदत्तो न हिंसितः ॥

133

अचिदंशव्यपोहेन चिदेकपरिशेषता ॥

134

अतस् तत् त्वम् असीत्यादेर् अर्थ इत्य् अप्य् असुन्दरम् ॥

135

अब्रह्मानात्मताभावे प्रत्यक्चित् परिशिष्यते ॥

136

तत्त्वम्पदद्वयं जीव परतादात्म्यगोचरम् ॥

137

तन् मुख्यवृत्ति तादात्म्यम् अपि वस्तुद्वयाश्रयम् ॥

138

भेदाभेदविकल्पस् तु यस् त्वया परिचोदितः ॥

139

अभेदाभेदिनो ऽसत्ये बन्धे सति निरर्थकः ॥

140

अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः ॥

मूल पाठ: Saṃvitsiddhi · Edition: Roque Mesquita Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc