भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यतत्त्वविवेचन · श्लोक 21-25

21

ज्ञानोद्रेकादुपरतेश्च धर्माधर्मक्षयो भवेत् ।
धर्माधर्मक्षयाच्चाथ कैवल्यमिति गीयते ॥
तदुक्तम् ।
आद्यो हि मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् ।
कृत्स्नक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥
त्रिविधं प्रमाणम्

22

दृष्टमनुमानमाप्तवचनं चैतत् प्रमाणकम् ।
पञ्चेन्द्रियाणि प्रत्यक्षं वृष्टिर्मेघोदयेन तु ॥
अनुमानमिन्द्रो देवानां राजाशब्दः प्रमापकः ॥
आगमे ऽपि,
स्वकर्मभिर्विनिर्मुक्तो रागद्वेषविवर्जितः ॥
ज्ञानवान् शीलसम्पन्नः सो ऽपि ज्ञेयश्च तादृशः ॥
त्रिविधं दुःखम्

23

दुःखं तु त्रिविधं प्रोक्तमध्यात्ममधिभूतकम् ।
आधिदैवं च तत्रापि प्रथमं द्विविधं स्मृतम् ॥
शारीरं मानसं चेति वातकामादिदोषजम् ।
भूतेभ्यो मानुषादिभ्यो जातं स्यादाधिभौतिकम् ॥
देवेभ्यः शीतवातादिभवं स्यादाधिदैविकम् ।
एतत् समासतः प्रोक्ता सूत्रव्याख्या यथामति ॥
प्रक्रियां च प्रवक्ष्यामि पौराणिकहिताय वै ॥
एतत् परम्परया याथातथ्यम्

24

एतत् सर्वं ज्ञात्वा कृतकृत्यः स्यात्

25

न पुनस्त्रिविधेन दुःखेनाभिभूयते

मूल पाठ: Sāṃkhyatattvavivecana a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. · Edition: Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ (Chowkhamba Sanskrit Series, 50,1 [fasc. 286], pp. 1-49) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc