भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यतत्त्वविवेचन · श्लोक 1-20

1

सांख्यतत्त्वविवेचनम्
श्रीषिमानन्दविरचितम् ।
रघुनन्दनसुतेनेदमिष्टिकापुरवासिना ।
कान्यकुब्जद्विजाग्र्येण षिमानन्देन तन्यते ॥ 1 ॥
सांख्योपज्ञ नमस्तुभ्यं कपिलाय महात्मने ।
पञ्चविंशतितत्त्वानां तत्त्वज्ञानप्रवर्तकः ॥ 2 ॥
दुःखत्रयाभिभूतस्य शान्तिर्मे स्यात् कुतस्त्विह ।
तथोपदिश जन्मादि यथा न स्यात् कृपानिधे ॥ 3 ॥
एवं पृष्टो मुनिः प्राह निर्विण्णाय कृपानिधिः ।
पञ्चविंशतिसूत्राणि व्याख्यातानि महात्मभिः ॥ 4 ॥
बबन्धुः कवयः काव्ये व्याचिख्युः कवयः परे ।
सांख्यशास्त्रस्य याथार्थ्यं तदेवेदं विविच्यते ॥
षिमानन्देन मन्देन कुक्षिम्भरिशतादिना ॥ 5 ॥
अष्टौ प्रकृतयः

2

प्रकृतिर्बुद्ध्यहंकारौ तन्मात्रैकादशेन्द्रियम् ।
भूतानि चेति सामान्याच्चतुर्विंशतिरेव ते ॥
एतेष्वेव धर्मधर्म्यभेदेन गुणकर्मसामान्यानामन्तर्भावः ।
प्रकृतित्वं च साक्षात्परम्परयाखिलविकारोपादानत्वम् ।
व्युत्पत्तिस्तु प्रकृष्टा परिणामरूपा आकृतिरस्या इति ।
सा च साम्यावस्थयोपलक्षितसत्त्वादिद्रव्यत्रयरूपा ।
साम्यावस्था च शान्तघोरमूढादिरूपाणामपि असमुदायवद्रूपत्वेपि अतिशयैः समुदायवद्भिरविरोधेन वर्तमानत्वं सामान्यात्मना गुणभावो ऽतिशयात्मना प्राधान्यं विशेषात्मना वैषम्यमित्यतो न्यूनाधिकभावेनासंहतावस्था ऽकार्यावस्थेति यावत् ।
महदादिकं तु कार्यसत्त्वादिकं न कदाप्यकार्यावस्थं भवतीति तद्व्यावृत्तिः ।
वैषम्यावस्थायामपि प्रकृतित्वसिद्धये उपलक्षितमित्युक्तं सत्त्वादिगुणवती प्रकृतिः सत्त्वाद्यनतिरिक्तत्वात् तथा च सूत्रं सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति सत्त्वादीनां प्रकृतिस्वरूपत्वं न तु प्रकृतिधर्मत्वम् ।
गुणेभ्य एव सर्वकार्योपपत्तौ तदन्यप्रकृतिकल्पनावैयर्थ्यात् ।
सूत्रभाष्याभ्यामपि तथोक्तत्वात् ।
यत्तु प्रकृतेर्गुणा इतिवत् वनस्य वृक्षा इतिवत् व्यष्टिसमष्ट्यभिप्रायेणेति सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणा इति च न सत्त्वादीनां प्रकृतिकार्यत्ववचनं गुणनित्यतावाक्यविरोधेन महत्तत्त्वकारणीभूतकार्यसत्त्वादिपरम् ।
महदादिसृष्टिर्गुणवैम्यात् ।
तच्च सजातीयसंवलनेन गुणान्तरव्यावृत्तप्रकाशादिफलोपहितः सत्त्वादिव्यवहारयोग्यः परिणाम इति सत्त्वादिव्यवहारो वैषम्य एवेत्याह श्रुतिः यथा तम एवेदमग्र आसीत् तत्परे स्यात् परेणेरितं विषमत्वं(1) प्रत्ययाद्वै रजसो(2) रूपं तद्रजः खल्वीरितं विषमत्वं प्रत्ययाद्वै सत्त्वस्य(3) रूपमिति सत्त्वादित्रयं च सत्त्वादिस्वरूपमिति सत्त्वादित्रयं च सुखप्रकाशलाघवप्रसादादिगुणकतया संयोगविभागादिमत्तयानाश्रितत्वोपादानत्वादिना द्रव्यत्वे ऽपि पुरुषोपकारत्वात् पुरुषबन्धकत्वाच्च गुणशब्देनोच्यते इन्द्रियादिवत् गुणानां सुखदुःकमोहात्मकप्रवादस्तु धर्मधर्म्यभेदात् मनसः सङ्कल्पात्मकत्ववत् तत्र सत्त्वं सुखप्रसादप्रकाशाद्यनेकधर्मकमपि प्रधानतस्तु सुखात्मकमुच्यते ।
एवं रजो ऽपि दुःखकालुष्यप्रवृत्याद्यनेकधर्मकं प्राधान्यतस्तु दुःखात्मकमुच्यते ।
एवं तमो ऽपि मोहावरणस्तम्भनाद्यनेकधर्मकं प्राधान्यतस्तु मोहात्मकमुच्यते ।
सतो भावः सत्त्वं धर्मप्राधान्येनोत्तमं पुरुषोपकरणं रागयोगाद्रजो मध्यमम् ।
तमोधर्मावरणयोगादधमं सत्त्वादीन्यसंख्यव्यक्तयः प्रतिक्षणपरिणामित्वात् लघुत्वादिधर्मैरन्योन्यं साधर्म्यं वैधर्म्यं च गुणानामसंख्यातमिति सूत्रात् ।
एकदानेकपुरुषादिसृष्टिश्रवणाच्च एकैकव्यक्तित्वे विभुत्वं स्यात् तथा च संयोगवैचित्र्याभावादनन्तवैचित्र्यं कार्याणां न स्यात् ।
द्रव्यान्तरस्यावच्छेदकीभूतस्याभावाच्च ।
तस्मादसंख्यातान्येव सत्त्वादीनि त्रित्वकथनं तु विभाजकोपाधित्रयेणैव वैशेषिकाणां नवद्रव्यवचनवत् सत्त्वादीनि च यथायोग्यमणुविभुपरिमाणकानि इतरथा रजसश्चलस्वभावत्ववचननिरोधः स्यात् ।
आकाशकारणस्य विभुत्वौचित्यात् सर्वकारणद्रव्यविभुत्वे कार्यपरिच्छेदासम्भव इति ॥
शब्दस्पर्शविहीनं तद्रूपादिभिरसंहतम् ।
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ॥
इत्याद्युक्तेर्न परमाण्वादावन्तर्भावः प्रकृतेरिति ।
अथैवमपि प्रकृतेरणुविभुसाधारणसत्त्वाद्यनेकव्यक्तिरूपत्वे अपरिच्छिन्नत्वैकत्वाक्रियत्वसैद्धान्तक्षतिरिति चेन्न कारणद्रव्यत्वस्वरूपप्रकृतित्वेनैवापरिच्छिन्नत्ववचनाद्गन्धत्वेन गन्धानां पृथिवीव्यापकतावत् आकाशादिप्रकृतीनां विभुत्वेनैव प्रकृतिविभुत्वसिद्धान्तोपपत्तेश्च ।
तथा पुरुषभेदेन सर्गभेदेन च भेदाभावस्यैव एकशब्दार्थत्वात् ।
अजामेकामितिश्रुतेस्तथावगमात् ।
तथाध्यवसायो ऽभिमानादिक्रियाराहित्यस्यैवाक्रियशब्दार्थत्वादित्यन्यथा श्रुतिस्मृतित्युक्तस्य प्रकृतिक्षोभस्यानुपपत्तेरिति ।
तत्रायं प्रयोगः सुखदुःखमोहात्मकमहदादिकार्यं सुखदुःखमोहात्मकद्रव्यकार्यं सुखदुःखमोहात्मकत्वात् वस्त्रादिकार्यशय्यावदिति प्रकृतौ प्रमाणम् ।
बाह्यवस्तुषु सुखादिकमुत्तमत्वादिकमेव घटरूपमितिवच्चन्दनसुखं स्त्रीसुखमित्यादिप्रत्ययाच्चेति दिक् ।
अव्यक्तबुद्ध्यहङ्कारास्तन्मात्राणां च पञ्चकम् ।
अष्टौ प्रकृतयस्त्वेताः सप्त च व्यक्ततामियात् ॥
अव्यक्तप्रकृतिजन्यत्वात् अव्यक्तानीति चोच्यते ।
व्यज्यन्ते च यथा लोके घटाद्या न तथा हि तत् ॥
अव्यक्तं प्रकृतिर्माया प्रधानं ब्रह्म कारणम् ।
अव्याकृतं तमःपुष्पं क्षेत्रमक्षरनामकम् ॥
बहुधात्मकादिनामानि तस्यामी ते जगुर्बुधाः ।
व्यज्यते नेन्द्रियैर्यस्मादव्यक्तमत उच्यते ।
अनादिमध्यनिधनान्निरङ्गत्वेन तत् तथा ॥
तदेवाह श्रुतिः ।
अशब्दमस्पर्शमरूपमव्ययं
यथा च नित्यं रसगन्धवर्जितम् ।
अनादिमध्यं महतः परं ध्रुवम्
प्रधानमेतत् प्रवदन्ति सूरयः ॥ इति
तस्मादलिङ्गकं सूक्ष्मं तथा प्रसवधर्मिकम् ।
एकं साधारणं तत्र कार्यं कस्यापि नेतरे ॥
बुद्धिर्महान् मनो ब्रह्मा मतिः ख्यातिरपूर्वकम् ।
प्रज्ञा भूतिर्धृतिर्ज्ञानं सन्ततिः स्मृतिरित्यपि ॥
हैरण्यगर्भ्या बुद्धेस्तु महतो नाम सूचितम् ।
गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो वेदा विजज्ञिरे ॥
एका मूर्त्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । इति
विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः ॥
अत्र सत्त्वाद्यंशत्रयेण महतो देवतात्रयोपाधित्वात्तदविवेकेन तिस्र इति ।
सात्त्विकांशात् प्रधानात् तु महत्तत्त्वमजायत इति महत्त्वस्य प्राधान्येन चाध्यवसायो वृत्तिर्महदहंकारमनस्त्रितयात्मकस्यान्तःकरणवृक्षस्य महत्तत्त्वं बीजावस्था तदुक्तं सांख्यसूत्रे इदमेव महत्तत्त्वमंशतो रजस्तमःसंभेदेन परिणतं सत् व्यष्टिजीवानामुपाधिरधर्मादियुक्तं क्षुद्रमपि भवति महदुपरागाद्विपरीतमिति ।
महतस्त्रिगुणस्वरूपत्वाद्देहस्य देहिना कालरूपविष्णुना क्षोभ्यदशायां गुणरूपोपाधिप्राधान्यादविवेके ब्रह्मविष्णुशिवत्वं तत्र महान् सुषुप्त्यभिमानी शिवस्तदुपाधिस्तमःकार्यरूपी तत्र स्वप्नाभिमानी विष्णुस्तदुपाधिः कार्यसत्त्वं तत्र जाग्रदभिमानी ब्रह्मा तदुपाधिः कार्यरजः तत्र समुदायसमुन्नयनन्यायेन समष्टेर्व्यष्ट्यनन्यत्वान्मशकादिरपि विष्णुरेवेति भावः ।
सृष्टिस्तु महदादिक्रमेणैव न तु भूतादिक्रमेणेति ॥
सा च कौर्मे
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह ।
आकाशसुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥
आकाशं तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।
वायुरुत्पद्यते तस्मात्तस्य स्पर्शो गुणो मतः ॥
इत्यादि
नन्वेवं चेदाकाशादीनां केवलं विकृतित्वं कथं तत्र आकाशादीनां स्पर्शादितन्मात्रेषु अहंकारोपष्टम्भमात्रेण कारणत्वस्य पुराणादिषूक्तत्वात् ।
न पुमान् स्थाणुरेवायं बुद्धिरध्यवसायिनी ।
पुरुषाधिष्ठितात् सर्वगताज्जाता प्रधानता ॥

चिच्छक्तिर्यादृशी तादृग् वृत्तिः सत्त्वविमिश्रिता ।
रजोगुणस्वरूपा यत् त्रिवृत्करणतः श्रुतेः ॥
ज्ञानं धर्मश्च वैराग्यमैश्वर्यं सत्त्वतो ह्यमी ।
अनैश्वर्यमवैराग्यमधर्मो ऽज्ञानमेव तु ॥
तमसश्चापि ते ज्ञेया बुद्धेर्भेदा इतीरिताः ।
ज्ञानं तत्त्वावबोधो ऽयं धर्मः श्रुत्युक्तपालनम् ॥
वैराग्यमर्थानासक्तिरैश्वर्यमणिमादिकम् ।
तत्तद्विपर्ययेणैव तामसं तच्चतुष्टयम् ॥
ज्ञानेन मोक्षो धर्मेण गतिरूर्ध्वा भवेदिति ।
वैराग्येनाक्षरलय ऐश्वर्येणाहता गतिः ॥
एवमेषाष्टधा शक्तिर्व्याख्याता बुद्धिसञ्ज्ञिता ।
प्रधानविकृतिस्त्वेषाहंकारप्रकृतिश्च सा ॥
मूलप्रकृतिरित्यादि कविभिश्च निरूपितम् ।
एको ऽहंकार इत्येतज्जिज्ञासा चेद्विभावय ॥
यो ऽहंशब्दं करोत्येष अभिमान इति स्मृतः ।
स्पृशे ऽहं रसये वाहं स्वामी चाहं मया हृतः ॥
इत्यादि नाम यस्यासीत्तस्य भेदा अमी शृणु ।
वैकारिकस्तैजसोपि भूतादिः सानुमानकः ॥
निरनुमानश्च पञ्चैते भेदास्तस्य प्रकीर्त्तिताः ।
वैकारिकः सात्त्विको ऽयं भूतादिस्तामसः स्मृतः ॥
तैजसो राजसो ज्ञेयस्तस्मात् तन्मात्रपञ्चकम् ।
एकादशेन्द्रियगणः सात्त्विकादभिजायते ॥
देवतास्त्वभिमानिन्यस्तैजसादपि चोच्यते ।
तदेव कथमेवं चेत् त्रिवृत्करणहेतुतः ॥
शब्दतन्मात्रमित्येतत् शब्द एवोपलभ्यते ।
न तूदात्तनिषादादिभेदस्तस्योपलभ्यते ॥
स्पर्शतन्मात्रमेवैतत् स्पर्श एवोपलभ्यते ।
न तु शीतमृदुत्वादिविशेषस्तस्य लभ्यते ॥
रूपतन्मात्रमेवं वै रसतन्मात्रमप्यथ ।
गन्धतन्मात्रमेतेषु विशेषो नोपलभ्यते ॥
तन्मात्राण्यविशेषाणि सूक्ष्मभूतानि चोच्यते ।
भोग्यानि शान्तघोरानि प्रकृत्या ऽणव एव च ॥
कुर्वद्रूपात् प्रकृतयः संख्यया ऽष्टौ प्रकीर्त्तिताः ॥
षोडश विकाराः

3

एकादशैवेन्द्रियाणि महाभूतानि पञ्च च ।
विकाराः षोडशैवैते न तु प्रकृतिताजुषः ॥
श्रोत्रं त्वक् चक्षूषी जिह्वा घ्राणं ज्ञानेन्द्रियं त्विदम् ।
वाक्पाणिपायूपस्थपादाः कर्मेन्द्रियं मतम् ॥
स्वं स्वं कर्म प्रकुर्वन्ति ज्ञानं चेति यथैषितम् ।
उभयात्मकं मनश्चैव संकल्पादिस्वरूपवत् ॥
करणानीन्द्रियाणीति वैकारिकमयं रयः ।
पदानि नियतानीत्यक्षाणीत्यभिधीयते ॥
पृथिवीजलतेजांसि वायुराकाश इत्यपि ।
महाभूतानि पञ्चैव धारणाद्युपकारतः ॥
आपः संग्रहभावेन चतुर्णामुपकारिकाः ।
तेजः पाचकभावेन वायुर्वहनभावतः ॥
शब्दादिपञ्चगुणवत्पृथ्वी पञ्चगुणा मता ।
आपः शब्दादिसहिताः गन्धेन रहितास्तथा ॥
तेजः शब्दस्पर्शवत् रूपवत् श्वसने पुनः ।
शब्दश्च स्पर्श इत्येवमाकाशे शब्द एव तु ॥
न तु विग्रहभूतानि विशेषाकृतयस्तथा ।
विकाराः शान्तघोराख्यमूढाः त्रिविधकीर्त्तिताः ॥
पुरुषः

4

पुरि शयनात् प्रमाणात् पूरणात् पुरुवृत्तितः ।
स चानादिः सर्वगतश्चेतनो निर्गुणो ऽपरः ॥
द्रष्टा भोक्ता क्षेत्रविदमलो ऽप्रसवधर्मकः ।
सूक्ष्मो नित्यो ह्यनादिस्त्वमध्यनिधनो ऽपि सः ॥
सर्वमाप्तमनेनेति तस्मात् सर्वगतस्तु सः ।
सुखोपलब्धिमत्त्वाच्च चेतनो निर्गुणस्तथा ॥
सत्त्वादिगुणराहित्यात् परः परतया स्मृतः ।
दृश्यप्रकृतिसम्बन्धात् द्रष्टा भोक्ता ऽनुभावनात् ॥
क्षेत्रे गुणगतं वेत्ति क्षेत्रज्ञ इति कीर्त्तितः ।
शुभाशुभादिसंसर्गाभावादमल ईष्यते ॥
निर्बीजत्वात् प्रसूते च नेत्यप्रसवधर्मकः ।
निरङ्गत्वातीन्द्रियत्वात् सूक्ष्मो नित्यः सदातनात् ॥
एवं सांख्यः स पुरुषो व्याख्यातः पूर्वसूरिभिः ।
जीवो जन्तुः पुमानात्मा पुरुषः पूजको नरः ॥
क्षेत्रज्ञश्चाक्षरः प्राणः कोय एषः स ज्ञस्तथा ।
अज एतानि नामानि सांख्ये पुरुषसञ्ज्ञिते ॥
एवम्,
पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
मुण्डी जटी शिखी वापि मुच्यते नात्र संशयः ॥
अयं कर्ता ऽथवा ऽकर्त्ता पुरुषः प्रकृतेः परः ।
शुभाशुभानि कर्त्ता चेत् कुर्याद्वृत्तित्रयं विना ॥
लोकदृष्टगुणानां चेत् कर्तृता धर्मिता कथम् ॥
साहित्यं यमनियमनिषेचनप्रसंख्यानात् ।
ज्ञानैश्वर्यविकारप्रकाशने सात्त्विकी वृत्तिः ॥
रागः क्रोधो लोभः परपरिवादो निन्दा तुष्टिः ।
विकृताकृतपारुष्यं प्रख्यातैषा रजोबुद्धिः ॥
उन्मादमदविषादा नास्तिक्यं स्त्रीप्रसङ्गिता ।
निद्रालस्यं नैर्घृण्यं त्वशौचमिति तामसी वृत्तिः ॥
एतद्वृत्तित्रयं दृष्ट्वा गुणानां कर्तृता ऽथवा ।
अकर्ता पुरुषः सिद्ध इति सिद्धान्त इष्यते ॥
प्रवर्त्तमानप्रकृतेरिमान् गुणान्
रजस्तमोभ्यां विपरीतदर्शनात् ।
आत्मानमाच्छाद्य स आत्मने तद्
अहङ्करोमीत्यबुधो ऽवमन्यते ॥
बालाग्रकुक्षीकरणासमर्थः
सर्वं मयेदं कृतमित्यमन्यत ।
उन्मत्तवद्भाव्यत इत्यबोधः
अहो विधे पण्डितमानिनः कः ॥
तदुक्तं गीतासु
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ता ऽहमिति मन्यते ॥
अनादित्वान्निर्गुणत्वात् परमात्मा ऽयमव्ययः ।
शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते ॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति सदा ऽ; ऽत्मानमकर्तारं स पश्यति ॥ इत्यादि ।
स एकः पुरुषः किं वा नानेति च विचारय ।
सुखदुःखमोहसङ्करविशुद्धजन्ममरणानाम् ।
नानात्वात् पुरुषबहुत्वं सिद्धं लोकाश्रमवर्णभेदाच्च ॥
यद्येकः पुरुषः स्याद् बुद्धिहानिः प्रसज्यते ।
एकस्मिन् सुखिते सर्वे सुखिनः स्युरतः परम् ।
एकस्मिन् दुःखिते सर्वे दुःखिताः स्युरिति क्रमात् ॥
अतो बहुत्वं संसिद्धं बहवः पुरुषाः स्मृताः ।
आकृतिगर्भाशयभावसङ्गतिशरीरविभागाल्लिङ्गबहुत्वात् सांख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलिप्रभृतयः पुरुषबहुत्वं वर्णयन्ति ।
वेदवादिन आचार्या हरिहरहिरण्यगर्भव्यासादय एकमात्मानं, तथा च श्रुतिः ।
पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्येनातिरोहति ।
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ॥
तदेव शुक्रं तद्ब्रह्म ता आपः स प्रजापतिः ।
तदेव सत्यममृतं स मोक्षः सा परा गतिः ॥
तदक्षरं तत्सवितुर्वरेण्यं यस्मात् परं नापरमस्ति किञ्चित् ।
यस्मान्नाणीयो न ज्यायो ऽस्ति किञ्चित् ॥
वृक्ष इव स्तम्भो दिवि तिष्ठत्येकः तेनेदं पूर्णं पुरुषेण ।
सर्वतः पाणिपादं तत् सर्वतो ऽक्षिशिरोमुखम् ॥
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥
सर्वस्य पशुमीशानं सर्वस्य शरणं महत् ।
सर्वतः सर्वसत्त्वानि सर्वात्मा सर्वसम्भवः ॥
सर्वं विलीयते यस्मिन् तद्ब्रह्म मुनयो विदुः ।
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ॥
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।
स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥
वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ इत्यादि ।
त्रैगुण्यम्

5

सत्त्वं रजस्तम इति गुणाः भावेण्यस्त्रैगुण्यम् ।
प्रसादो लाघवं सङ्गः प्रसङ्गात् प्रीतिरार्जवम् ॥
तुष्टिस्तितिक्षा सत्त्वस्य रूपं साक्षात् सुखावहम् ।
शोकस्तम्भद्वेषतापखेदभोगाभिमानिता ॥
रजोरूपाण्यनेकानि बहुदुःखप्रदानि वै ।
तमो नामाच्छादनादि बीभत्सावरणादि च ॥
दैन्यगौरवनिद्रादिप्रमादालस्यलक्षणम् ।
मोहात्मकमनन्तं तदेवं त्रैगुण्यमीरितम् ।
सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्त्तकम् ॥
विनाशकं तमो विद्यात् त्रैगुण्यं नाम सञ्ज्ञितम् ।
संचरः

6

साम्यावस्था गुणानां या प्रकृतिः सा स्वभावतः ।
कालक्षोभेण वैषम्यात् क्षेत्रे परयुते पुरा ॥
बुद्धिस्ततश्चाहङ्कारस्त्रिविधो ऽपि व्यजायत ।
तन्मात्राणीन्द्रियाणि महाभूतानि च क्रमात् ॥
एवं क्रमेणैवोत्पत्तिः सञ्चरः परिकीर्त्तितः ।
प्रतिसंचरः

7

व्युत्क्रमेणैव लीयन्ते तन्मात्रे भूतपञ्चकम् ।
तन्मात्राणीन्द्रियाणि अहङ्कारे विलीयते ॥
अहङ्कारो ऽथ बुद्धौ तु बुद्धिरव्यक्तसञ्ज्ञके ।
अव्यक्तं न क्वचिल्लीनं प्रतिसञ्चर इति स्मृतः ॥
अध्यात्मम् अधिभूतम् अधिदैवतं च

8

बुद्ध्याहङ्कारमनसी श्रोत्रं त्वक् चक्षुषी तथा ।
जिह्वा घ्राणं पादपायूपस्थमध्यात्मसञ्ज्ञितम् ॥
यत्तु मोक्षधर्मे
आदौ मन अहङ्कारात् जायते वृत्तयस्चताः ॥
शब्दरागात् श्रोत्रमस्य जायते भावितात्मनः ।
रूपरागात् तथा चक्षुर्घ्राणं गन्धजिधृक्षया ॥
इत्यादिनेन्द्रियाणां मनोवृत्तिरागादिकार्यत्वं तद्वेदान्तरीत्यैवेति मन्तव्यम् ।
अधिभूतम् ।
यथाक्रमेण बोद्धव्यमभिमन्तव्यमेव च ।
सङ्कल्पितव्यं श्रोतव्यं स्प्रष्टव्यं द्रष्टव्यमेव च ॥
रसयितव्यं घ्रातव्यं गन्तव्यमुत्स्रष्टव्यं च ।
आनन्दयितव्यमित्येवमधिभूतं प्रकीर्तितम् ॥
अधिदैवतं च ।
ब्रह्मा रुद्रश्चन्द्रमाश्च आकाशो वायुरेव च ।
सूर्यो वरुण इन्द्रश्च विष्णुमित्रं तथैव च ॥
अनेनैव क्रमेणेदं संप्रोक्तमधिदैवतम् ।
चत्वारि यो वेदयते यथा च-
क्षुषा स्वरूपाण्यधिदैवतं वा ।
विमुक्तयाथागतदोषसङ्गो-
गुणांस्तु भुङ्क्ते न गुणैः स युज्यते ॥
पञ्चाभिबुद्धयः

9

इच्छाभिर्बुद्धिर्विज्ञेया आभिमुख्येन कर्मणः ।
इदं मे कार्यमित्येषो ऽध्यवसायः करोम्यहम् ॥
इच्छा वाञ्छा ऽथ सङ्कल्पो मनसः कर्म चेष्यते ।
एवमेताश्च पञ्चाभिबुद्धयः परिकीर्तिताः ॥
पञ्च कर्मयोनयः

10

धृतिः श्रद्धा सुखेच्छा विविदिषा तदभावकौ ।
सामान्यतः समुद्दिष्टाः पञ्चैते कर्मयोनयः ॥
वाचि कर्मणि संकल्पे प्रतीतिर्याभिरज्यते ।
तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ॥
अनसूया ब्रह्मचर्यं यजनं याजनं तपः ।
प्रतिग्रहश्च होमश्च श्रद्धाया लक्षणं स्मृतम् ॥
सुखं सुखार्थी सेवेत विद्या कर्म तपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्त्तिता ॥
विषधूममूर्छितवद् विविदिषा ध्यानिनां प्रज्ञायोनिः ।
एकत्वं च पृथक्त्वं च नित्यं वेदमचेतनम् ॥
सूक्ष्मसत्कार्यसंक्षोभ्यं ज्ञेया विविदिषा हि सा ।
कार्यकरणक्षमकरी विविदिषा प्राकृती वृत्तिः ॥
धृतिः श्रद्धा विविदिषा सुखा चेति चतुष्टयम् ।
ज्ञेयं बन्धो विविदिषा मोक्षाय परिकल्पिता ।
कर्मयोनिस्वरूपो ऽयं विशिष्य परिकीर्त्तितः ॥
पञ्च वायवः

11

प्राणो ऽपानः समानश्च उदानो व्यान एव च ।
इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् ॥
मुखनासाधिचारी यः प्राणनात् प्राण उच्यते ।
नाभेरधिचरत्येवोपानये ऽपान इष्यते ॥
हृद्यधिष्ठाननयनात् समान इति कीर्तितः ।
कण्ठादूर्ध्वावगमनादुदान इति च स्मृतः ॥
सन्ध्यधिष्ठानतो व्यानो विक्षेपणविजृम्भणात् ।
पञ्च कर्मात्मानः

12

वैकारिकादयः पूर्वं यथाक्रममुदाहृताः ।
शुभं वा ऽशुभमूढौ च शुभमूढा ऽशुभमूढके ॥
यथाक्रमं च कर्त्तारस्तत्तत्कर्म समीरितम् ।
पञ्चपर्वाविद्या

13

तमो मोहो महामोहस्तामिस्रश्चान्धतामिस्रः ॥
अष्टकौ तौ तमौ मोहौ प्रकृत्यष्टकनिष्ठितौ ।
आत्मज्ञानाभिमान्येयं प्राप्त्याद्यैश्वर्यमानिता ॥
निर्वृत्ते विषये दृष्टे पञ्चानुश्रविके तथा ।
मोहो ऽहमभिमानो यो महामोहो दशात्मकः ॥
अष्टैश्वर्ये दशविषये सिद्धतामिस्र उच्यते ।
विषादः सो ऽन्धतामिस्रो मरणे प्रतिपद्यते ॥
अविद्या पञ्चपर्वैषा भिन्ना द्वाषष्टिभेदतः ।
अष्टाविंशतिधाशक्तिः

14

जडत्वकुष्टिकुब्जत्वरूपताघ्राणत्वमूकत्वसुपङ्गुताश्च ।
कुणिर्गुदावर्त्ति च षण्ढता च उन्माद इत्येष निरूपितो ऽयम् ॥
एकादशेन्द्रियवधो बाधिर्यादिस्वरूपतः ।
बुद्धेर्वधः सप्तदश तुष्टिसिद्धिविपर्ययः ॥
नास्ति प्रधानमिति या प्रतिपत्तिरजम्भिका ।
न महानित्यसलिला नायाच्छा चानहंकृतौ ॥
न वा ऽस्त्यदृष्टिस्तन्मात्रपञ्चकं भूतकारणम् ।
सर्वमेवेदं ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति ।
यथा वेदान्तिनां तद्वत् सांख्यानामीदृशी मतिः ॥
असुता विषयार्जने प्रवृत्तिः
सुतरा परिरक्षणे प्रवृत्तिः ।
क्रयदोषमपश्यतो धने प्रवृत्तिः
असुनेत्रा परिकीर्त्त्यते हि सांख्यैः ॥
अकुर्मरीचिकाभोगशक्तिर्हिंसाद्यपश्यतः ।
अनुत्तम्भाम्भसिका दोषभोगादम्भः प्रवर्त्तनम् ॥
नवधा कथिता ह्येते तत्र तुष्टिर्विपर्ययाः ।
कथ्यन्ते सिद्धयो ह्यष्टौ ते ऽमी सिद्धिविपर्ययाः ॥
नानात्वमूहमानस्य सिद्धमेकमतारकम् ।
विपरीतग्रहः शब्दश्रवणादसुतारकम् ॥
नानात्वज्ञो मुक्त इति श्रुत्वैकज्ञो न मुक्तिभाक् ।
अतारयन्तमज्ञानासदच्छास्त्रनिवेशतः ।
दुःखितस्याप्यनुद्वेगादप्रमोदा हि संसृतौ ॥
अप्रमुदं तदज्ञानप्रमुदितमप्रमोदमानं वा ।
असम्यग्वचनादप्युपरोधेन वा गुरौ ॥
अभाग्यस्य न सिद्धिः स्यात् ज्ञाने तत् समुदीरितम् ।
स्निग्धसंसर्गतो ज्ञानोत्तराज्ञानमरम्यकम् ॥
व्याख्याताः पूर्वरीत्याष्टावेते सिद्धिविपर्ययाः ।
अष्टाविंशतिधा ऽशक्तिर्व्याख्यातोभययोगतः ॥
नवधा तुष्टिः

15

प्रकृतौ परमात्मत्वं प्रतिपद्यैव तुष्टिभाक् ॥
माध्यस्थ्यमवलम्बेत अम्भः सा तुष्टिरुच्यते ।
बुद्धौ च परमात्मत्वे तुष्टिः सा सलिला स्मृता ॥
अहंकारे यदा सा स्यादायाच्छा इति शब्धिता ।
तन्मात्रेषु यदा सा स्यात् तुष्टिर्दृष्टिर्निगद्यते ॥
आध्यात्मिकाश्चतस्रस्तु तुष्टयः प्रभवन्ति हि ।
मोक्षस्तास्वपि नास्त्येव तत्त्वज्ञानाद्यथोदिता ॥
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
त्यागे दुःखं क्षये दुःखं धिगर्थं दुःखभाजनम् ॥ इति
दोषदर्शनसन्तुष्टः परब्रह्मैव मोक्षभाक् ।
सुतेयं पञ्चमी तुष्टिस्तत्त्वज्ञानाद्यभावतः ॥
रक्षणे सुतरा षष्ठी सप्तमी क्षयदर्शनात् ।
सुनेत्रा सङ्गदोषा चाष्टमी कुर्मरीचिका ॥
अर्थे हिंसादिदोषेण निवृत्तिश्च समस्करी ।
तुष्टिस्तु नवमी प्रोक्ता ह्युत्तमाम्भसिका तव ॥
अष्टधा सिद्धिः

16

ज्ञानं यद्दूरमुत्पन्नं ताराख्या प्रथमा हि सा ।
शब्दमात्रेण भूतेषु सुतारा ज्ञानमिष्यते ॥
ज्ञानमध्ययनेनैव तारयन्ती तृतीयका ।
अध्यात्मदुःखापनयात् प्रमोदेत्यभिधीयते ॥
भौतिकक्लेशहरणात् प्रमुदा सिद्धिरुच्यते ।
आधिदैवक्लेशहरणात् ज्ञानमुत्पद्यते नृणाम् ॥
प्रमोदमानेत्याख्याता षष्ठी सिद्धिः स्वयं सताम् ।
स्निग्धसंसर्गनाशात्तु रम्यका सप्तमी स्मृता ॥
प्रमुदा चाष्टमी सिद्धिः परिचर्यादिना गुरोः ।
इत्येताः सिद्धयो ह्यष्टौ व्याख्याताः ज्ञानसाधिकाः ॥
दश मूलिकार्थाः

17

अस्तित्वमेकत्वयथार्थवत्त्वे
पारार्थ्यमन्यत्वमकर्तृकत्वम् ।
योगो वियोगो बहवः पुमांसः
स्थितिः शरीरस्य च शेषवृत्तिः ॥
एषा सा दशमूलिका ऽर्थगणना सङ्घातपारार्थ्यतः
सिद्धा सा पुरुषास्तिता परिणतेर्भेदस्य तत्कारणम् ।
अस्त्यव्यक्तमनन्तमेकमिति च प्रेमाविषादात्मकं
नानापायपरार्थता त्रिगुणतो ऽन्यत्वस्य सिद्धिस्तथा ॥
विपर्यासादकर्तृत्वं योगः पुरुषदर्शनात् ।
प्राप्ते शरीरभेदे तु चरितार्थत्वदर्शनात् ॥
जन्मादिकरणान्तानां भेदान्नाना हि ते स्मृताः ।
चक्रभ्रमिवत् शेषवृत्तिः सिद्धार्थाः दश मूलिकाः ॥
सप्तत्या प्रागुपदिष्टाः पञ्चाशत् प्रत्यया इमे ।
दशषष्टिपदार्थैस्तु षष्टितन्त्र इतीर्यते ॥
अनुग्रहसर्गः

18

ब्रह्मानुग्रहमसृजद्रूपतन्मात्रतः पृथक् ।
उत्पाद्यानुग्रहध्यानात् प्राक्तनाधारवर्जनात् ॥
चतुर्दशविधो भूतसर्गः

19

अष्टविकल्पं दैवं पैशाचं राक्षसं तद्वत् ।
गान्धर्वमैन्द्रं ब्राह्मं च सौम्यं ब्राह्म्यमथाष्टकम् ॥
देवयोनय एवैते तिर्यग्योनिस्तु पञ्चधा ।
मृगपशुपक्षिसरीसृपस्थावरमिति भेदसम्भिना ॥
मानुष्यकं चैकविधं ब्राह्मणादिचाण्डालान्तम् ।
पशवो गवादिमूषान्ताः पक्षिणो गरूडादिकाः ॥
मशकान्ता मृगाश्चापि सिंहादि च शिवान्तिकाः ।
शेषादि अलगर्दान्ताः सर्पाः पर्वतभूतृणाः ॥
स्थावरा भौतिकः सर्ग एतत्संसारमण्डलम् ॥
त्रिविधो बन्धः

20

प्रकृतिबन्धः प्रकृतिलयः परत्वेनाभिमन्यतः ।
संन्यासिनामिन्द्रियेषु लयो वैकारिको ऽपरः ॥
गृहीणां दक्षिणाबन्धो वदान्यत्वाभिमानिनाम् ।
इत्येषस्त्रिविधो बन्धस्त्रिविधो मोक्ष उच्यते ॥
त्रिविधो मोक्षः

मूल पाठ: Sāṃkhyatattvavivecana a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. · Edition: Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ (Chowkhamba Sanskrit Series, 50,1 [fasc. 286], pp. 1-49) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc