सांख्यसूत्रविवरण · श्लोक 21-23
]
चतुर्दशविधो भूतसर्गः ।
तत्राष्टाविकल्पो दैवस्तैर्यग्योनः पञ्चधा मानुष्य एकविधः ब्राह्मः प्राजापत्यः पैत्रे गान्धर्वो याक्षो राक्षसः पैशाचाश्च दैवसर्गः पशुमृगसरीसृपस्थावराः तिरश्चां सर्गः ।
ब्राह्मणादिजातिभेदे ऽपि संस्थाने विशेषाभावात् एकविधो मानुष्य इति चतुर्दशविधाः स्थूलदेहाः ।
[त्रिविधो बन्धः
]
कः पुनर्बन्धः कतिधा च ।
त्रिविधो बन्धः ।
काः पुनस्ता विधा उच्यन्ते ।
प्राकृतिको वैकृतिको दाक्षणिकश्च बन्धः ।
प्रकृतिमात्मानं ज्ञात्वा तच्चिन्तनात् प्राकृतिकः अत्रोच्यते पूर्णवर्षसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तका इति ।
महदादीनात्मत्वेन ज्ञात्वा तच्चिन्तनाद्वैकारिकः ।
अत्रोच्यते ।
दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णं सहस्रं चाभिमानिकाः ॥
बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः ।
अमी विदेहाः ।
इष्टापूर्त्ती दक्षिणा तन्निमित्तो दाक्षणिकः अत्रोच्यते ।
स्वर्गस्था नरकं यान्ति नारकाश्च त्रिविष्टपमिति ।
गतागतं कामकामा लभन्त इति च ।
अत एव हि त्रिष्वपि बन्धेषु एकैकापाये ततस्ततो मोक्ष इति ।
[त्रिविधो मोक्षः
]
त्रिविधो मोक्षः ।
कर्मणो विकारात् प्राकृतश्च मोक्षः ।
यदुक्तम् ।
प्राकृतेन च बन्धेन तथा वैकारिकेण च ।
दक्षिणाभिस्तृतीयेन वृद्धो नान्येन मुच्यते ॥
इति ।
अथ कुतस्त्यानां तत्त्वानां सिद्धिः ।
प्रमाणादिति ब्रूमः ।
[त्रिविधं प्रमाणम्
मूल पाठ: Sāṃkhyasūtravivaraṇa a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. · Edition: Vindhyesvari Prasada Dvivedin in: Samkhyasangrahah (Chowkhamba Sanskrit Series, 50,2 [fasc. 286], pp. 105-116) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0