सांख्यसूत्रविवरण · श्लोक 1-20
सांख्यसूत्रविवरणम् ।
श्रीकपिलाय नमः ।
प्रकृतिं पुरुषं नत्वा सांख्यसूत्रे विधीयते ।
संक्षेपतो विवरणमविवेकापनुत्तये ॥
इह खलु भगवान् कपिलो मुनिरासुरये ऽनुकम्पया पञ्चविंशतितत्त्वान्युपदिश्य सूत्रयामास ।
[अष्टौ प्रकृतयः
]
अष्टौ प्रकृतय इत्यादि । काः पुनस्ता इत्युच्यन्ते । प्रधानं महानहंकारस्तन्मात्राणि च । प्रधानं प्रकृतिरव्यक्तमव्याकृतं चेत्यनर्थान्तरम् । महान् महत्तत्वं बुद्धिरध्यवसायलक्षणम् । अहंकारो ऽभिमानलक्षणो वैकृतिकस्तैजसो भूतादिश्चेति त्रिविधः । तन्मात्राणि तु पञ्च शब्दतन्मात्रमाकाशहेतुः । स्पर्शतन्मात्रं वायुयोनिः । रूपतन्मात्रं तेजोयोनिः । रसतन्मात्रमप्प्रकृतिः । गन्धतन्मात्रं पृथिवीहेतुः । इति पञ्चतन्मात्राणि इत्यष्टौ प्रकृतयः ।
[षोडश विकाराः
]
के पुनर्विकाराः कति ।
षोडशविकाराः ।
एकादशेन्द्रियाणि पञ्च महाभूतानि च ।
तत्र श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि बुद्धीन्द्रियाणि शब्दस्पर्शरूपरसगन्धालोचनवृत्तीनि ।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि वचनादानविहरणोत्सर्गानन्दवृत्तीनि ।
ज्ञानक्रियाशक्तिद्वयात्मकं सङ्कल्पविकल्पलक्षणं मन इत्येकादशेन्द्रियाणि ।
भूतानि चाकाशवायुतेजःसलिलपृथिवीलक्षणानि पञ्चेति षोडशविकाराः ॥
[पुरुषः
]
अथ कः पुरुषः इत्युच्यते ।
पुरुषो ऽनेकस्त्रिगुणरहितो विवेकी अविषयो ऽसाधारणो ऽप्रसवधर्मा चेतनः साक्षी केवलो मध्यस्थो द्रष्टा ऽकर्ता च ॥
अथ के पुनस्त्रयो गुणा इत्युच्यन्ते ।
[त्रैगुण्यम्
]
त्रैगुण्यं सत्त्वं रजस्तम इति ।
त्रय एव गुणास्त्रैगुण्यम् ।
सत्त्वं नाम पाटवमार्दवलाघवप्रसन्नताभिसङ्गप्रीतितुष्ट्यनीहासन्तोषादिलक्षणमनन्तभेदं समासतः सुखावहम् ।
रजो नाम शोकतापखेदस्तम्भोद्गमोद्वेगरोषमानादिलक्षणमनन्तभेदं समासतो दुःखावहम् ।
तमो नामाच्छादनावरणबीभत्सदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहात्मकं एतत् त्रैगुण्यं व्याख्यातम् ॥
सत्त्वं प्रकाशकं विन्द्याद्रजो विन्द्यात् प्रवर्तकम् ।
विनाशकं तमो विन्द्यात् त्रैगुण्यं नाम सञ्ज्ञितम् ॥
[संचरः
]
[प्रतिसंचरः
]
अत्राह कः सञ्चरः प्रतिसञ्चरश्चेति ।
उच्यते ।
उत्पत्तिः सञ्चरः ।
प्रलयः प्रतिसञ्चरः ।
तत्रोत्पत्तिर्नामाव्यक्तात् समुपदिष्टात् सर्वजगतः परेण रूपेणाधिष्ठानात्मकात् महान् महतो ऽहंकारः ।
स च त्रिविधः ।
वैकृतिको भूतादिस्तैजसश्चेति ।
तत्र वैकृतादिन्द्रियाण्युत्पद्यन्ते भूतादेस्तन्मात्राणि तैजसादुभयम् इन्द्रियाणि तन्मात्राणि चेति ।
तन्मात्रेभ्यो भूतानि ।
अयं सञ्चरः ।
प्रतिसञ्चरो नाम भूतानि तन्मात्रेषु लीयन्ते ।
तन्मात्राणीन्द्रियाणि चाहंकारे ।
अहंकारो बुद्धौ ।
बुद्धिरव्यक्ते ।
ततो ऽव्यक्तं तु क्वचिन्न लीयते कस्मात् अनुत्पन्नत्वात् ।
इत्येवं प्रतिसञ्चरः ।
एवमेतौ सञ्चरप्रतिसञ्चरौ व्याख्यातौ ॥
[अध्यात्मम्
]
[अधिभूतम्
]
[अधिदैवम्
]
अत्राह किंविधमध्यात्ममधिभूतमधिदैवतं च ।
अत्रोच्यते ।
बुद्धिरध्यात्मम् ।
बोधयितव्यमधिभूतम् ।
ब्रह्मा तत्रादिदैवतम् ।
अहंकारो ऽध्यात्मम् ।
अभिमन्तव्यमधिभूतम् ।
रुद्रस्तत्राधिदैवतम् ।
मनोध्यात्मं संकल्पमधिभूतम् ।
चन्द्रस्तत्रादिदैवतम् ।
श्रोत्रमध्यात्मम् ।
स्पर्शयितव्यमधिभूतम् ।
वायुस्तत्राधिदैवतम् ।
चक्षुरध्यात्मम् ।
दर्शयितव्यमधिभूतम् ।
सूर्यस्तत्रादिदैवतम् ।
जिह्वाध्यात्मम् ।
रसयितव्यमधिभूतम् ।
वरुणस्तत्राधिदैवतम् ।
नासाध्यात्मम् ।
घ्रातव्यमधिभूतम् ।
पृथिवी तत्राधिदैवतम् ।
वागध्यात्मम् ।
वक्तव्यमधिभूतम् ।
अग्निस्तत्राधिदैवतम् ।
पाणिरध्यात्मम् ।
आदातव्यमधिभूतम् ।
इन्द्रस्तत्राधिदैवतम् ।
पादावध्यात्मम् ।
गन्तव्यमधिभूतम् ।
विष्णुस्तत्राधिदैवतम् ।
पायुरध्यात्मम् ।
उत्स्रष्टाव्यमधिभूतम् ।
मित्रस्तत्राधिदैवतम् ।
उपस्थमध्यात्मम् ।
आनन्दयितव्यमधिभूतम् ।
प्रजापतिस्तत्राधिदैवतम् ।
एवमेव त्रयोदशकरणस्याध्यात्ममधिभूतमधिदैवं च व्याख्यातम् ।
कानि चत्वारीत्यत आह चेति ।
त्रीणि गुणरूपाणि चतुर्थमधिदैवतमित्यर्थः ॥
चत्वारि यो वेदयते यथावद् गुणस्वरूपाण्यधिदैवतं च ।
विमुक्तपाप्मा गतदोषसङ्गो गुणांस्तु भुङ्क्ते न गुणैः स भुज्यते ॥
[पञ्चाभिबुद्धयः
]
अथ कास्ता अभिबुद्धय इत्युच्यन्ते ।
पञ्चाभिबुद्धयः ।
बुद्धिरभिमान इच्छा कर्तव्यं तत्क्रिया चेति ।
अभिमुखी बुद्धिरभिबुद्धिः ।
इदं करणीयमेत्येतदध्यवसायो बुद्धिः क्रियात्मपरामर्शस्वरूपप्रत्ययः ।
अभिमुखो मानो ऽहं करोमीत्यहंकारो ऽभिमानः ।
बुद्धिक्रिया इच्छा वाञ्छा ।
कर्तव्यं संकल्पो मनसो वृत्तिः ।
क्रिया एतद्वस्तुस्वरूपमिति कर्तव्यालोचनं यद्बुद्धीन्द्रियाणां सा क्रिया ।
इत्थमेतत् कर्तव्यमिति यत्प्रवृत्तिः कर्मेन्द्रियाणां सा क्रियेति ।
एवमेताह पञ्चाभिबुद्धयो व्याख्याताः ॥
[पञ्च कर्मयोनयः
]
अथ काः पञ्चकर्मयोनयः उच्यन्ते ।
धृतिः श्रद्धा सुखा अविविदिषा विविदिषा चेति पञ्च कर्मयोनयः ।
वाचि कर्मणि काये च प्रतीतिर्याभिरज्यते ।
तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ॥
अनसूया ब्रह्मचर्यं यजनं याजनं तपः ।
प्रतिग्रहो ऽत्रहोमश्च श्रद्धाया लक्षणं स्मृतम् ॥
सुखार्थी यस्तु सेवेत विद्याकर्मतपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्तिता ॥
विषधूममूर्छितवदविविदिषा ।
विविदिषा ध्यायिनां प्रज्ञायोनिः ।
एकत्वं च पृथक्त्वं च नित्यं चेदमचेतनम् ।
सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा हि सा ॥
कार्यकारणक्षमकरा विविदिषा प्राकृतिका वृत्तिः ।
धृतिः श्रद्धा सुखा अविविदिषा चतस्रो बन्धाय विविदिषैका मोक्षाय इति पञ्च कर्मयोनयो व्याख्याताः ॥
[पञ्च वायवः
]
अत्राह के ते पञ्चवायवः ।
उच्यन्ते ।
प्राणो ऽपानः समानश्च उदानो व्यान एव च ।
इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् ॥
तत्र प्राणो नाम वायुर्यो ऽयं मुखनासिकाधिष्ठानप्राणनात् क्रमेणाननात् प्राण इत्यभिधीयते ।
अपानो नाम वायुर्नाभेरधिष्ठाता अपनयनादधोगमनाच्चापान इत्यभिधीयते ।
समानो नाम वायुर्हृदधिष्ठाता समनात् समगमनाच्च समान इत्यभिधीयते ।
उदानो नाम वायुः कण्ठाधिष्ठाता ऊर्ध्वं गमनाच्च उदान इत्यभिधीयते ।
व्यानो नाम वायुः सन्ध्यधिष्ठाता प्राणादिजृम्भणाच्च व्यान इत्यभिधीयते ।
इति पञ्चवायवो व्याख्याताः ॥
[पञ्च कर्मात्मानः
]
आह के ते पञ्चकर्मात्मानः उच्यन्ते ।
वैकारिकस्तैजसो भूतादिश्च सानुमानो निरनुमानश्चेति ।
तत्र वैकारिकः शुभकर्मकर्ता ।
तैजसो ऽशुभकर्मकर्ता ।
भूतादिर्मूढकर्मकर्ता ।
सानुमानः शुभमूढकर्मकर्ता ।
निरनुमानो ऽशुभमूढकर्मकर्ता ।
इत्येते पञ्चकर्मकर्तारो व्याख्याताः ॥
[पञ्चपर्वाविद्या
]
आह का सा पञ्चपर्वाविद्येति ।
उच्यते ।
तमो मोहो महामोहस्तामिस्रो ऽन्धतामिस्रश्चेति ।
तत्र तमोमोहावुभावेतावष्टात्माकौ ।
महामोहो दशात्मकः ।
तामिस्रान्धतामिस्रौ चाष्टादशात्माकौ ।
तत्र तमो नामाष्टासु प्रकृतिष्वव्यक्तबुद्ध्यहंकारपञ्चतन्मात्रसञ्ज्ञितासु अनात्मस्वात्मज्ञानाभिमानस्तम इत्यभिधीयते ।
मोहो नामाणिमाद्यष्टागुणैश्वर्यप्राप्तये योभिमान उत्पद्यते स मोह इत्यभिधीयते ।
महामोहो नाम दृष्टानुश्रविकेषु विषयेषु दशसु निवृत्तेषु मुक्तो ऽहमिति मन्यते स महामोह इत्यभिधीयते ।
तामिस्रो नाम अष्टगुणैश्वर्ये ऽणिमाद्ये दशविधे च विषये प्रतिहतस्य दुःखमुत्पद्यते ऽसौ तामिस्र इत्यभिधीयते ।
अन्धतामिस्रो नाम अणिमाद्यष्टगुणैश्वर्ये दशविधे च विषये सिद्धे मरणकाले च यो विषादः प्रत्यपद्यते सो ऽन्धतामिस्र इत्यभिधीयते ।
एवमेषा पञ्चपर्वा ऽविद्या द्विषष्टिभेदा व्याख्याता ॥
[अष्टविंशतिधाशक्तिः
]
अत्राह काष्टाविंशतिधाशक्तिः ।
अत्रोच्यते ।
एकादशेन्द्रियवधाः सप्तदशबुद्धिवधाः ।
एषाष्टाविंशतिधाशक्तिः ।
तत्रेन्द्रियवधास्तावत् ।
बधिरस्त्वक्बधिरः अन्धः जडजिह्वः अजिघ्रः मूकः कुणिः पङ्गुः नपुंसकः ऊर्ध्ववायुयुक्तः अमनाः ।
तदुक्तम् ।
बाधिर्यं कुष्ठितान्धस्त्वं जडता ऽजिघ्रता तथा ।
मूकता कौण्यपङ्गुत्वं क्लैब्योदावर्तमत्तताः ॥
एतेदिन्द्रियद्वारा बुद्धेरेव वधाः ।
साक्षाद्बुद्धिवधा यथा ।
[नवधा तुष्टिः
]
[अष्टधा सिद्धिः
]
नवविधतुष्टिवैकल्यात् अष्टविधासिद्धवैकल्याच्च सप्तदशबुद्धिवधा इत्यष्टाविंशतिधाशक्तिः ॥
का पुनर्नवधा तुष्टिः उच्यते ।
चतस्र आद्यात्मिक्यस्तुष्टयः बाह्याः पञ्च ।
आद्याः प्रकृत्युपादानकालभाग्याख्याः ।
प्रकृत्यैव मुक्तिः किं पुनः साधनैरिति तुष्टिः प्रकृत्याख्या अम्भो नाम ।
साधनैः संन्यासादिभिरुपात्तैस्तुष्टिः साधानाख्या सलिलं नाम ।
कालेनैव मुक्त्यादिकं सेत्स्यति किं दुःखैः संन्यासादिसाधनैरिति तुष्टिः कालाख्या ऽघो नाम ।
या तु भाग्यादेव सर्वं सेत्स्यति किं साधनादिध्यानादिक्लेशैरिति सा भाग्याख्या तुष्टिर्नाम ।
बाह्याः शब्दादिविषयवैराग्यास्तुष्टयः अर्जनरक्षणक्षयभोगहिंसादोषदर्शनं वैराग्यहेतुः पञ्चविधस्तद्भेदेन पञ्चतुष्टयः ॥
अथ काः सिद्धयः उच्यन्ते ।
अष्टौ सिद्धयः ।
उच्यन्ते ।
अध्ययनं तारं नाम सिद्धिः ।
ततो ऽर्थज्ञानं सुतारं नाम ।
ततस्तर्केणार्थपरीक्षणं तारतारं नाम सिद्धिः ।
ततः परीक्षकसंवादनं रम्यकं नाम ।
ततो विवेकख्यातिः सदामुदितं नाम ।
एताः पञ्च गौण्यः सिद्धयः ।
दुःखत्रयविघातास्तास्त्रयो मुख्याः सिद्धयः ।
प्रमोदमुदितमोदनामाख्याः फलमित्यष्टौ सिद्धयः ।
तुष्टिसिद्धीनां विपर्ययात् सप्तदशधा वुद्धिवधाः ॥
[दश मूलिकार्थाः
]
के पुनर्मौलिकार्थाः कतिधा उच्यन्ते ।
दशधा मौलिकार्थाह ।
एकत्वमर्थवत्त्वं पारार्थ्यं प्रधानस्य ।
अन्यत्वमकर्तृत्वं बहुत्वं पुरुषस्य ।
अस्तित्वं योगो वियोगश्चेत्युभययोः ।
शेषवृत्तिः परिशिष्टत्वं प्रलये तदुभययोः ।
तदुक्तम्
प्रधानास्तित्वमेकत्वमर्थवत्त्वं यथार्थता ।
पारार्थ्यं च तथा नैक्यं वियोगो योग एव च ॥
शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश ॥
इति ।
[अनुग्रहसर्गः
]
अत्राह को ऽनुग्रहसर्गः ।
अनुगृह्णाति प्रत्ययभूतादिसर्गं यः सर्गः सो ऽनुग्रहसर्गः ।
तन्मात्रसर्ग एवासौ विशेषापरनामा ।
के विशेषाः कियन्तश्च ।
उच्यन्ते ।
लिङ्गदेहाह स्थूलदेहाः स्थूलभूतानि च ।
तत्र लिङ्गं स्थूलदेहात् पूर्वमुत्पन्नमव्याहतं स्थूलनाशे ऽप्यनश्वरम् ।
महदहंकारेन्द्रियतन्मात्रात्मकम् ।
धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याख्यभाववासितं संसरति ।
स्थूलभूतानि तु भूगोलसमुद्रवह्निशिशुमारब्रह्माण्डविराटादीनि ।
स्थूलदेहाः के कतिविधाश्चेति उच्यते ॥
[चतुर्दशविधो भूतसर्गः
मूल पाठ: Sāṃkhyasūtravivaraṇa a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. · Edition: Vindhyesvari Prasada Dvivedin in: Samkhyasangrahah (Chowkhamba Sanskrit Series, 50,2 [fasc. 286], pp. 105-116) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0