सांख्यसार · अध्याय 2.6
इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मवैधर्म्यगणपरिच्छेदः ॥ * ॥
अथ षष्ठः परिच्छेदः ।
विवेकमेव सद्युक्त्या मत्वा तदनुभूयते ।
राजयोगं यथा कुर्यात् समासेन तदुच्यते
अशक्तो राजयोगस्य हठयोगे ऽधिकारवान् ।
वासिष्ठे च वसिष्ठाय भुसुण्डेनैवमीरितम्
ज्ञानावृत्ती राजयोगे प्राणायमासने हठे ।
मुख्ये ते ऽङ्गतया ऽन्योन्यं सेव्ये शक्त्यनुसारतः
विषये ऽनन्तदोषा ये श्रुतिस्मृतिसमीरिताः ।
त आदौ परिद्रष्टव्याश्चित्तस्थैर्याय योगिभिः
कामबीजान्यनन्तानि सम्प्ररोहन्ति यद्धृदि ।
तत्राटवीनिभे ज्ञानपुण्यसस्यं न वर्धते
दोषदृष्ट्यग्निसन्दग्धे कामबीजे तु चेतसि ।
गुरुशास्त्रहलैः कृष्टे सुक्षेत्रे तद्विवर्धते
सत्येष्वसत्तां प्रचुरां तथा रम्येष्वरम्यताम् ।
सुखेषु प्रचुरं दुःखं पश्यन् धीरो विरज्यते
ब्रह्मलोको ऽपि नरको विनाशामेध्यपूरितः ।
युक्तश्च स्वाधिकैरन्यैस्त्रैगुण्यादपि दुःखयुक्
तत्रत्यैरपि मुक्त्यर्थं यत्यते जन्मभीरुभिः ।
अतो ज्ञेयः समासेन लोकः सर्वो ऽपि दुःखयुक्त्
इदं मे स्यादिदं मा स्यादितीच्छाव्यथितं मनः ।
स्वभावात् तेन विज्ञेयं दुःखं चित्तेन सङ्गतिः
सुखं सुषुप्तिः परमा दुःखं विषयवेदनम् ।
सुखदुःखसमासो ऽयं किमन्यैर्बहुभाषितैः
तस्मादनर्थानर्थाभान् परीक्ष्य विषयान् सुधीः ।
उत्सृजेत् परमार्थार्थी बालरम्यानहीनिव
इत्यादिकानन्तदोषदृष्ट्या रागस्य तानवे ।
मायाविवेकतः शुद्धमात्मानं चिन्तयेत् सदा
इदं तदिति निर्देष्टुं गुरुणा ऽपि न शक्यते ।
उदासीनस्यात्मतत्त्वं स्वयमेव प्रकाशते
बुद्धिबोधात्मको बुद्धिसाक्षी बुद्धेः परो विभुः ।
कूटस्थो ऽहं चिदादित्य इत्येकाग्रो ऽनुचिन्तयेत्
वृत्तिबोधो घटच्छिद्रमिव नाश्यल्प ईक्ष्यते ।
वस्तुतो वृत्तिबोधो ऽहं पूर्णो व्योमवदक्षयः
अन्तर्यद् दृश्यते सर्वं तद्बुद्धेर्वृत्तिरुच्यते ।
तेभ्यो दुःखात्मकेभ्यो ऽहं साक्षात् तद्वीक्षिता पृथक्
कर्मकर्तृविरोधो हि वृत्त्या वृत्तिप्रकाशने ।
वृत्तिधाराकल्पने च गौरवादिति निश्चितम्
हर्षशोकभयक्रोधलोभमोहमदैस्तथा ।
द्वेषाभिमानकार्पण्यनिद्रालस्यस्मरादिभिः
धर्माधर्मैश्च सम्पूर्णा बुद्धिर्दुःखमयी तु मे ।
आत्मानं दर्शयत्येव भास्करायेव रोगिणः
अहं सर्वगतं शान्तं परमात्मघनं शुचि ।
अचिन्त्यचिन्मात्रनभो विश्वदर्पणमक्षयम्
निरञ्जनं निराधारं निर्गुणं निरुपद्रवम् ।
निर्विशेषं सजातीयात् समस्तार्थावभासकम्
ब्रह्मविष्णुमहेशाद्याः स्थावरान्ताश्च चेतनाः ।
अवैधर्म्यात्मकाभेदादहमित्यनुचिन्तयेत्
अहमन्ये च पुरुषाः समचिद्व्योमरूपिणः ।
अत आत्मैक एवा ऽहमिति श्रुतिषु गीयते
इति पश्यन् स्वभोगैश्च योगी विश्वं प्रपूजयेत् ।
आत्मयोगो ऽप्ययं प्रोक्तः श्रुत्युक्तः साङ्ख्ययोगिनाम्
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति
इत्येवं मनुना ऽप्यात्मयागो ज्ञानाङ्गमीरितः ।
तस्मादभयदानेन स्वभोगाद्यर्चनेन च
सम्मानयन् भूतजातमात्मानमनुचिन्तयेत् ।
ब्रह्मविष्णुशिवादीनां भोगे रागश्च हीयते
तेषां स्वसाम्यदृष्ट्या ऽतः साम्यं योगी विचिन्तयेत् ।
उत्पत्तौ प्रलये चैव सर्वावस्थासु सर्वदा
सर्वेषामेकरूपत्वं द्रष्टू रागादिकं कुतः ।
विष्ण्वादयो महैश्वर्यं भुञ्ज ना अपि नाधिका
मत्तो ऽतो ऽलं तदैश्वर्यैरविवेकिजनप्रियैः ।
गुणकर्मादिभिः किञ्चिन्निरीक्ष्याधिकमात्मनः
तदर्थं यतते लोको नाहं पश्यामि मे ऽधिकम् ।
तथा न्यूनं न पश्यामि यदतिक्रमशङ्कया
देवा दैत्यजयायेव यतिष्ये तज्जयाशया ।
अहं यथा तथैवान्ये आब्रह्मा नारका जनाः
दृश्यन्ते स्वात्मवत् प्रेम्णा पितृभ्रातृसुतादिवत् ।
क ईश ईशितव्यो वा कः श्रेष्ठः को ऽधमो ऽपि वा
अभिन्ने भेददृष्ट्या स्यान्मृत्योर्भयमिति श्रुतिः ।
चिद्व्योमस्वेकरूपेषु ईशानीशादिरूपकः
रूपभेदो ह्यसन् सर्वः स्फटिके रूपभेदवत् ।
धियां रूपैः पुमानेको बहुरूप इवेयते
वृकचर्मादिरूपाद्यैर्मायीव बहुरूपधृक् ।
मामालिङ्ग्य निराकारं विविधाकारधारिणी
मायैवैका हि नृत्यन्ती मोहयत्यखिला धियः ।
पुंसां भेदो बुद्धिभेदादम्बुभेदाद्यथा रवेः
व्योम्नश्च छिद्ररूपेण भेदः कुम्भादिभेदतः ।
अतः शुद्धो बुद्धमुक्तः सर्वदा सर्वगो ऽव्ययः
अहमन्ये च तत्रा ऽहो शत्रुमित्रादिधीर्मृषा ।
ब्रह्मणीशे हराविन्द्रे सर्वभूतगणे तथा
उत्तमाधममध्यत्वविभागो मायया मृषा ।
त्रिगुणात्मकमायायास्त्रैविध्यादात्मनो ऽपि हि
उत्तमाधममध्यत्वत्रैविध्यं नैव हि स्वतः ।
यथा देहे तथा ऽन्यत्र चित्प्रकाशो ऽयमव्ययः
व्यक्तताव्यक्ततामात्रभेदो ह्यन्तरबाह्ययोः ।
एवमन्ये ऽपि पुरुषा बद्धमुक्ताविशेषतः
ईशानीशाविशेषाच्च पुरुषार्थो न मे ऽस्त्यतः ।
महानिद्रैव मे साध्वी दुःखभोगहरा प्रिया
अप्रिया मूढचित्तानामसाध्वी धीहतात्मनाम् ।
चिदादर्शे मयि धियो यद्यपि प्रतिबिम्बनम्
तत्त्वतो नैव दोषाय तथा ऽपि त्याज्यमेव तत् ।
स्वभावादस्य हेयत्वं स्वानुभूत्या हि सिध्यति
यथा को ऽपि परस्यापि वैरूप्यं न दिदृक्षति ।
स्वामिन्यारोप्यात्मदोषान् साध्वीयमनुतप्यते
निर्दोषं स्वामिनं दृष्ट्वा निर्दोषा स्यात् पतिव्रता ।
एवमस्या रूपभेदे ऽप्येकरूपो ऽस्मि सर्वदा
भुञ्जानो वा ऽप्यभुञ्जानस्तां मदर्थामनन्यगाम् ।
यथैकरूपतोपाधियोगायोगदशास्वहो
आदर्शस्यामलस्यैव चिन्नभोदर्पणस्य मे ।
दृश्यबुद्धिगता दोषाः साक्षात्तद्द्रष्टरि प्रभौ
न सन्ति मयि मोहाद्या भास्करे भास्यदोषवत् ।
दुःखैर्बद्धा स्वमात्मानं त्यक्त्वा मद्भावमागता
मुच्यते दुःखबन्धाद्धीर्न मे मोक्षो न बन्धनम् ।
कूटस्थासङ्गचिद्व्योम्नि धीदुःखप्रतिबिम्बनम्
यो ऽन्यो बन्धो भोगरूपः सो ऽपि चिद्दर्पणे मृषा ।
जाग्रदादित्रयावस्थासाक्षी ताभिर्विवर्जितः
अहं पूर्णश्चिदादित्य उदयास्तविवर्जितः ।
दर्पणे मुखवद्विश्वं मयि बोधे न तात्त्विकम्
विभुत्वे च बाह्यान्तः सुषुप्त्यादावदर्शनात् ।
मयि वा ऽन्यत्र वा पुंसि केवलानुभवे विभौ
भाति यत्तद्विवर्त्तो धीप्रतिबिम्बात्मकत्वतः ।
शुक्तौ रजतवद् विश्वमतो मयि न दोषकृत्
मरीचौ तोयवत् तद्वद्व्योमादौ नगरादिवत् ।
कालत्रये ऽपि नास्त्येव मयि विश्वं सनातने
अन्यत्रास्त्वथवा मा ऽस्तु बुद्ध्यादौ मम तेन किम् ।
मयि सर्वं यथा व्योम्नि सर्वत्राहं यथा नभः
न सर्वं मयि सर्वत्र नाहं चालेपतः खवत् ।
अत एवाविभागाख्याभेदेन क्षीरनीरवत्
ज्ञानात्मकमिदं विश्वं गायन्ति परमर्षयः ।
जगन्मम मदर्थत्वान्मच्छरीरसुखादिवत्
यथ मम तथा ऽन्येषां ममैवेति धियो भ्रमः ।
वस्तुतस्तु न कस्यापि किमपि व्यभिचारतः
स्वामित्वस्याध्रुवत्वेन पान्थस्यावासगेहवत् ।
एकं चिन्मात्रमस्तीह शुद्धं शून्यं निरञ्जनम्
सूक्ष्मात् सूक्ष्मतरं तत्र न जगन्न जगत्क्रिया ।
दृश्यते सर्वदृश्याढ्या स्वस्वबुद्धिपरम्परा
चिन्मण्डलमहादर्शे प्रतिबिम्बमुपागता ।
क्वचिद्व्यक्तं क्वचित् सूक्ष्मं नभः सर्वत्र तिष्ठति
यथा तथा चिदाकाशं धीदेशे ऽन्यत्र च स्थितम् ।
चिदाकाशमयं विश्वं यतो ऽतो धीरितस्ततः
भ्रमन्ती तत्र तत्रैव भासते ऽर्के घटादिवत् ।
धर्माधर्मौ जन्ममृत्यू सुखदुःखादि चाखिलम्
जाग्रत्यपि मृषा स्वप्न इव जन्मादिकं मम ।
दृश्ययोगवियोगाभ्यां चितो जन्मविनाशधीः
अभिव्यक्त्यनभिव्यक्तिदोषाभ्यां शशिनो यथा ।
महासुषुप्तौ भवजन्ममृत्यु-
दुःस्वप्नधाराः क्षणभङ्गुरा धियः ।
पश्याम्यहं ताभिरलिप्तरूपो
घनैरूर्तैर्विगतै रवेः किम्
इत्येवं सततं ध्यायन्नेकाग्रमनसा सुधीः ।
साक्षात्करोत्यात्मतत्त्वं वागगोचररूपतः
स्वरूपं निर्मलं शान्तं मनस्त्यजति चेत् क्षणम् ।
तदैव दृश्यसंस्कारशेषात् सङ्क्षुभ्यतीन्द्रियम्
उत्थितनुत्थितांस्तत्र इन्द्रियारीन् पुनः पुनः ।
विवेकेनैव वज्रेण हन्यादिन्द्रो गिरीनिव
मूल पाठ: Sāṃkhyasāra · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0