भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यसार · अध्याय 2.7

2.7.1

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे राजयोगप्रकारपरिच्छेदः ॥ * ॥
अथ सप्तमः परिच्छेदः ।
एवमात्मानुभविनो जीवन्मुक्तस्य लक्षणम् ।
स्पष्टं वक्ष्ये भवेद्येन ज्ञानाज्ञानपरीक्षणम्

2.7.2

श्रवणान् मननाद्वा ऽपि अन्यथा ऽ; ऽत्मज्ञताभ्रमात् ।
कुर्याद्गुरुमविद्वांसं स्याच्चाज्ञो ज्ञाभिमान्यपि

2.7.3

नैश्वर्यानागतज्ञत्वादिकं ज्ञानस्य लक्षणम् ।
तदृते ऽपि हि कैवल्यं योगभाष्यकृतेरितम्

2.7.4

श्रौतस्मार्तानि वाक्यानि ज्ञानिनो मोक्षभागिनः ।
लक्षकाण्येव लिख्यन्ते विश्वासातिशयाय वै

2.7.5

यत्र सर्वाणि भूतानि आत्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः

2.7.6

यः सर्वत्रानभिस्नेहस्तत् तत् प्राप्य शुभाशुभम् ।
नाभिनन्दन्ति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता

2.7.7

न विस्मरति सर्वत्र यथा सततगो गतिम् ।
न विस्मरति निश्चेत्यं चिन्मात्रं प्राज्ञधीस्तथा

2.7.8

नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा ।
यथापूर्वस्थितिर्यस्य स जीवन्मुक्त उच्यते

2.7.9

यो जागर्त्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते ।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते

2.7.10

रागद्वेषभयादीनामनुरूपं चरन्नपि ।
यो ऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते

2.7.11

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
कुर्वतो ऽकुर्वतो वा ऽपि स जीवन्मुक्त उच्यते

2.7.12

अपि शीतरुचावर्के अत्युष्णे ऽपीन्दुमण्डले ।
अप्यधःप्रसवत्यग्नौ जीवन्मुतो न चान्यधीः

2.7.13

चिदात्मन इमा नित्यम्प्रस्फुरन्तीह शक्तयः ।
इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम्

2.7.14

परव्यसनिनी नारी व्यग्रा ऽपि गृहकर्मणि ।
तदेवास्वादयत्यन्तर्नरसङ्गरसायनम्

2.7.15

एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः ।
तदेवास्वादयत्यन्तर्बहिर्व्यवहरन्नपि

2.7.16

यो नित्यमध्यात्ममयो नित्यमन्तर्मुखः सुखी ।
गम्भीरश्च प्रसन्नश्च गिराविव महाहृदः

2.7.17

परानन्दरसाक्षुब्धो रमते स्वात्मना ऽ; ऽत्मनि ।
सर्वकर्मपरित्यागी नित्यहृष्टो निरामयः

2.7.18

न पुण्येन न पापेन नेतरेणापि लिप्यते ।
येन केन चिदाच्छन्नो येन केन चिदाशितः

2.7.19

यत्र क्वचन शायी च स सम्राडिव राजते ।
वर्णधर्माश्रमाचारशास्त्रमन्त्रनयेप्सितः

2.7.20

निर्गच्छति जगज्जालात् पञ्जरादिव केसरी ।
वाचामतीतविषमो विषयाशादृशेक्षितः

2.7.21

कामप्युपगतः शोभां शरदीव नभस्तलम् ।
निःस्तोत्रो निर्नमस्कारः पूज्यपूजाविवर्जितः

2.7.22

संयुक्तो वा वियुक्तो वा सदाचारनयक्रमैः ।
एतावदेव खलु लिङ्गमलिङ्गमूर्त्तेः
संशान्तसंसृतिचिरभ्रमनिर्वृत्तस्य ।
तद्यस्य यन्मदनकोपविषादलोभ-
मोहापदामनुदिनं निपुणं तनुत्वम्

2.7.23

तुर्यविश्रान्तियुक्तस्य प्रतितीपस्य भवार्णवात् ।
न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः

2.7.24

तनुं तयजतु वा तीर्थे श्वपचस्य गृहे ऽथवा ।
ज्ञानसम्प्राप्तिसमये मुक्त एवामलाशयः

2.7.25

न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
सर्वाशासङ्क्षये चेतःक्षयो मोक्ष इति श्रुतेः

2.7.26

जीवन्मुक्तपदं त्यक्ता स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तत्वं पवनो ऽस्पन्दतामिव

2.7.27

अनाप्ताखिलशैलादिप्रतिबिम्बे हि यादृशी ।
स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी

2.7.28

अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे ।
स्यात् तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे

2.7.29

चिन्मात्रं चेत्यरहितमनन्तमजरं शिवम् ।
अनादिमध्यनिलयं यदनाधि निरामयम्

2.7.30

न शून्यं नापि चाकारं न दृश्यं न च दर्शनम् ।
अनाख्यमनभिव्यक्तं तत् किञ्चिदवशिष्यते

मूल पाठ: Sāṃkhyasāra · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc