भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यसार · अध्याय 2.5

2.5.1

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मानात्मनोः प्रियाप्रियत्ववैधर्म्यपरिच्छेदः ॥ * ॥
अथ पञ्चमः परिच्छेदः ।
परिच्छेदत्रयेणोक्तं सच्चिदानन्दरूपकम् ।
गीयमानं श्रुतिस्मृत्योरात्मनो लक्षणत्रयम्

2.5.2

तद्वैपरीत्यमन्येषां लक्षणं चेरितं स्फुटम् ।
आभ्यां तु गुणदोषाभ्यां विवेको दोषहृत् परः

2.5.3

नैर्गुण्यसगुणत्वादिवैधर्म्याण्यपराण्यपि ।
बहूनि वक्ष्ये सङ्क्षेपात् पुम्प्रकृत्योरतः परम्

2.5.4

धियो ऽर्थाकारया वृत्त्या जनितत्वात् सुखादयः ।
सामानाधिकरण्येन कल्प्यन्ते लाघवाद् धियाम्

2.5.5

महदादेर्जडत्वेन तद्धेतुश्च जडो मतः ।
कार्यकारणसाजात्यं दृष्टं लोके हि सर्वतः

2.5.6

अत आत्मा बोधमात्रतया सिध्यति लाघवात् ।
गुणाः सर्वे प्रकृत्यादेर्विकाराश्चेतरे ऽखिलाः

2.5.7

आत्मा तु निर्गुणस्तद्वत् कूटस्थश्च मतो बुधैः ।
चितेः कूटस्थसञ्ज्ञा तु स्थिरत्वाद् गिरिकूटवत्

2.5.8

लेपश्चेतरसम्बन्धे तद्रूपैरुपरक्तता ।
यथा विषयसम्बन्धाद्बुद्धौ भवति वासना

2.5.9

भाण्डादौ द्रव्ययोगाच्च तत्तद्द्रव्यस्य वासना ।
लेपहेतुश्च सम्बन्धः सङ्गः सम्बन्धि चाञ्जनम्

2.5.10

अतो निरञ्जनो ऽसङ्गो निर्लेपश्चोच्यते पुमान् ।
नभःपुष्करपत्रादिदृष्टान्तैः परमर्षिभिः

2.5.11

चिन्मात्रानन्तशक्त्यब्धौ पुमर्थपवनेरिताः ।
सत्त्वादिशक्तयो यान्ति विश्वबुद्बुदरूपताम्

2.5.12

अत ईशश्चिदात्मैव जगतः सन्निधानतः ।
मणिवत् प्रेरकत्वेन जडानामयसामिव

2.5.13

पुमानेव जगत्कर्ता जगद्भर्ता ऽखिलेश्वरः ।
स्वाम्यर्थे मृत्यवद्यस्माज्जडवर्गः प्रवर्तते

2.5.14

करणानि च देहेषु राजार्थमधिकारिवत् ।
भोग्यजातं मनोमन्त्रिण्यर्पयन्ति स्वभावतः

2.5.15

तैर्भोग्यैर्युक्तमात्मानमावेदयति धीश्चिति ।
ईक्षामात्रेण तद्भुङ्क्ते राजेवात्मा ऽखिलेश्वरः

2.5.16

धनादेरीश्वरो देहो देहस्येन्द्रियमीश्वरम् ।
इन्द्रियस्येश्वरी बुद्धिर्बुद्धेरात्मेश्वरः परः

2.5.17

कूटस्थस्येश्वरस्यान्यो नास्ति प्रेरक इत्यतः ।
ईश्वरस्यावधित्वेन द्रष्टा वै परमेश्वरः

2.5.18

अन्यस्यागन्तुकैश्वर्यं बहुव्यापारसङ्कुलम् ।
निर्व्यापारस्य निर्दोषमनाद्यैश्वर्यमात्मनः

2.5.19

सर्वशक्तिमयो ह्यात्मा शक्तिमण्डलताण्डवः ।
संसारं तन्निवृत्तिं च मायया ऽ; ऽप्नोति हेलया

2.5.20

सर्वातिशायि निर्दोषमैश्वर्यमिदमात्मनः ।
पश्यतो योगिनो ब्राह्ममप्यैश्वर्यं तृणायते

2.5.21

बाह्यस्यात्मोच्यते देहो देहस्यात्मेन्द्रियाणि च ।
बुद्धिरात्मेन्द्रियान्तस्य बुद्धेरात्मा तु चिन्नभः

2.5.22

अत आत्मावधित्वेन परमात्मोच्यते चितिः ।
तथा ऽन्तःकरणैर्योगाज्जीव इत्युच्यते चितिः

2.5.23

अविद्याकार्यरहितः परमात्मनि च स्मृतिः ।
यस्य यद्व्यापकं तस्य तद्ब्रह्मा ऽतो धरादिकम्

2.5.24

प्रकृत्यन्तं भवेद्ब्रह्म स्वस्वकार्याद्यपेक्षया ।
सेश्वरे साङ्ख्यवादे ऽपि चितेरेवानुमन्यते

2.5.25

परे वा परमात्मत्वादिकं तु न जडे क्वचित् ।
अध्यक्षव्यापकत्वाभ्यां परं ब्रह्म तु चेतनः

2.5.26

तस्याध्यक्षं व्यापकं च न हेतुविधया ऽस्ति हि ।
असङ्ख्यात्मा नभोराशिरविभक्तैकरूपकः

2.5.27

सो ऽतश्चिद्घनविज्ञानघनात्मघनसंज्ञकः ।
प्रकाशस्यानपेक्षत्वात् स्वस्य द्रष्टृतया ऽपि च

2.5.28

स्वप्रकाशः पुमानुक्त इतरे तद्विलक्षणाः ।
भोगो ऽभ्यवहृतिः सा च कूटस्थे नास्ति धीष्विव

2.5.29

धीवृत्तिप्रतिबिम्बाख्यगौणभोगा तु भोक्तृता ।
साक्षाद्धीवृतिद्रष्टृत्वाद् बुद्धिसाक्ष्युच्यते पुमान्

2.5.30

विना विकारं द्रष्टृत्वात् साक्षी तूक्तो ऽखिलस्य सः ।
चैत्योपरागरूपत्वात् साक्षिता ऽप्यध्रुवा चितः

2.5.31

उपलक्षणमेवेदमपि व्यावृत्तये जडात् ।
अतः पुमाननिर्देश्यो ऽणुश्च सूक्ष्मश्च कथ्यते

2.5.32

विना दृश्यमदृश्यत्वादव्यक्तश्चोच्यते सतः ।
अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना

2.5.33

अदृश्यं चास्यमादर्शे चित् तथा स्वस्वबुद्धिषु ।
चिति विश्वस्य सङ्गश्चेद् विश्वं भासेत सर्वदा

2.5.34

विश्वाधारो ऽप्यतः शून्यमिति चिद्गीयते खवत् ।
दृश्यदोषान् मृषाबुद्धिर्दृष्ट्यारोप्य निर्मले

2.5.35

आदर्शे मलवद्व्योम्नि दोषदृष्ट्या तु तप्यते ।
वस्तुतश्चिति नास्त्येव मलो दृश्याश्रितः सदा

2.5.36

अतश्च निर्मलः स्वस्थो निर्दोषश्चोच्यते पुमान् ।
सजातीयेषु वैधर्म्यलक्षणा नास्ति यद्भिदा

2.5.37

अत आत्मा समः प्रोक्त ऐकरूप्याच्च सर्वदा ।
देहाध्यक्षतया देही पुर्यभिव्यक्तितः पुमान्

2.5.38

एकाकिएवादद्वितीयः केवलश्चोच्यते तु सः ।
चिच्छक्त्यप्रतिबन्धेन प्रोच्यते ऽनावृतः पुमान्

2.5.39

सर्वस्वामितया चात्मा क्षेत्रज्ञः क्षेत्रवेदनात् ।
हृत्सरोवरधीपद्मदलवृत्तिषु लीलया

2.5.40

चरन्निवानन्दमीनान् भुञ्जानो हंस उच्यते ।
हकारेण बहिर्याति सकारेण विशन् पुनः

2.5.41

प्रानवृत्त्या ऽनय चापि प्राण्यात्मा हंस उच्यते ।
शरीरागरिहृद्द्यामगुहायां बुद्धिभार्यया

2.5.42

व्यज्यमानस्तया सार्धं स्वपन्निव गुहाशयः ।
त्रिगुणात्मकमायां स्वां सान्निध्यात् परिणामयन्

2.5.43

मायीति कथ्यते चात्मा तत्कृतानृतवेषधृक् ।
स्वान्येकादश भूतानि पञ्चैतानि तु षोडश

2.5.44

पुंसः कलास्तत्त्वतस्तु निरंशत्वात् स निष्कलः ।
अहंशब्दः स्वामिवाची स्वामी साक्षी तु चेतसः

2.5.45

अतो ऽहमिति शब्देन चिन्मात्रं प्रोच्यते बुधैः ।
सर्वेश्वरः सर्ववेत्ता सर्वकर्ता ऽद्वयः पुमान्

2.5.46

सामान्यादुच्यते यद्वद् राजा सर्वनराधिपः ।
आत्माद्वैतस्य सूत्रेण जातिमात्रेण वर्णनात्

2.5.47

प्रलये हि विजातीयद्वैतशून्यत्वमात्मनाम् ।
असङ्गत्वान्नित्यशुद्धो नित्यबुद्धश्च चित्त्वतः

2.5.48

नित्यमुक्तस्तथा नित्यनिर्दुःखत्वात् पुमान् मतः ।
इत्यादुगुरुशास्त्रोक्तदिशा स्वानुभवेन च

2.5.49

वैधर्म्यादात्मनो ऽनात्मविवेकः क्रियतां बुधैः ।
परिच्छेदचतुष्केण पुम्प्रकृत्योः सुविस्तरात् ।
वैधर्म्यगण उक्तो ऽयं ध्यायिनामाशु मुक्तिदः

मूल पाठ: Sāṃkhyasāra · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc