सांख्यसार · अध्याय 2.4
इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मानात्मनोश्चिदचित्त्ववैधर्म्यपरिच्छेदः ॥ * ॥
अथ चतुर्थः परिच्छेदः ॥
इत्येवमात्मनः प्रोक्तो बुद्ध्यादिभ्यो विलक्षणः ।
चित्प्रकाशो ऽधुना ऽ; ऽनन्दरूपता वक्ष्यते तथा
दुःखं कामसुखापेक्षा सुखं दुःखसुखात्ययः ।
इति स्मृतेः सुखात्मत्वं नित्यनिर्दुःखता ऽ; ऽत्मनः
परिभाषाबलाद्रूढिबाधः सर्वत्र सम्मतः ।
अन्यथा परिभाषेयं मोक्षशास्त्रे भवेद्वृथा
यद्वा परोक्षवादेन परमप्रियताप्तये ।
रूपिका सुखगीः पुंसि विभुत्वाप्त्यै स्वशब्दवत्
नानन्दं न निरानन्दमित्यादिश्रुतिभिः स्फुटम् ।
आत्मन्यानन्दरूपत्वनिषेधाद्युक्तिसंयुतात्
उपासाद्यर्थशून्यत्वान्नेति नेति श्रुतेस्तथा ।
निषेधवाक्यं बलवद्विधिवाक्यादिति स्थितिः
निर्निरानन्दमिति च स्वोपाध्यानन्दभोक्तृताम् ।
स्वामित्वरूपिणीं वक्ति न निर्धन इतीव हि
प्रेयो ऽन्यस्माच्च सर्वस्मादिति श्रुत्या सुखादपि ।
उक्त आत्मा प्रियस्तस्य सुखत्वोक्तिश्च नोचिता
आनन्दाद्याः प्रधानस्य इति वेदान्तसूत्रतः ।
वेदान्ते ऽपि न सिद्धान्त आत्मनः सुखरूपता
विस्ताराद्ब्रह्ममीमांसाभाष्ये ऽस्माभिः परीक्षितम् ।
चितेरसुखरूपत्वं प्रेमा व्याख्यायते ऽधुना
मा न भूवमहं शश्वद्भूयासमिति रूपकः ।
निर्निमित्तो ऽनुरागो यः स प्रेमा परमश्चिति
अन्याशेषतया बुद्धेः स्नेहो ऽयं न सुखेष्वपि ।
अतः प्रियतमः स्वात्मा नान्यो ऽतो ह्यधिकः प्रियः
आत्मत्वेनात्मनि प्रेमा न सुखत्वाद्यपेक्षते ।
अहं स्यामिति चेद्यस्मात् सुखं स्यामिति नेष्यते
तथा च सुखतादुःखाभावते वा ऽ; ऽत्मता ऽपि च ।
प्रेम्णि प्रयोजिका सिद्धा स्वतःप्रेमात्मतैव तु
तस्माद्वस्तुत आत्मैव प्रियो नैपाधिकत्वतः ।
औपाधिकीतरप्रीतिरस्थिरत्वान्न तात्त्विकी
प्रीतिरन्यत्र चानित्याविवेकाद्यैः सुखादिषु ।
आत्मप्रीतिस्तु नित्या ऽतो नित्यानन्दः पुमान् मतः
आत्मनः प्रियतां बुद्धिर्यदि पश्येत् समाहिता ।
सर्वातिशायिनीं तर्हि सुखाब्धौ किं न मज्जति
प्रियदर्शनतो बुद्धेः सुखं लोकेषु दृश्यते ।
अतो ऽनुमेयं परमप्रियदृष्ट्या परं सुखम्
आत्मार्थत्वेन सर्वत्र प्रीतिरात्मा स्वतः प्रियः ।
इति शश्वच्छ्रुतिः प्राह आत्मदृष्टिविधित्सया
ततो ऽप्यनुपमं ज्ञेयं प्रियात्मेक्षणतः सुखम् ।
भुञ्जते तत् सुखं धीरा जीवन्मुक्ता महाधियः
अन्तरात्मसुखं सत्यमविसंवादि योगिनम् ।
अपश्यन् कृपणो बाह्यसुखार्थी वञ्चितो जनः
सुखाशया बहिः पश्यन् देही हीन्द्रियरन्ध्रकैः ।
वातायनैर्गृहीत्वा ऽन्तः सुखं वेत्ति न बाह्यदृक्
दुखलभ्यान् दुःखमयान् परिणामे ऽतिदुःखदान् ।
विषयोत्थान् सुखाभासान् धिक् स्वात्मसुखरोधकान्
मूल पाठ: Sāṃkhyasāra · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0