भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यसार · अध्याय 2.3

2.3.1

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मानात्मनोः सत्यत्वासत्यत्ववैधर्म्यपरिच्छेदः ॥ * ॥
अथ तृतीयः परिच्छेदः ॥
तदेवात्मनः सत्ता दर्शिता ऽन्यविलक्षणा ।
अथ चिद्रूपतां वक्ष्ये बुद्धिवृत्तिविलक्षणाम्

2.3.2

अनुभूतिश्चितिर्बोधो वेदनं चोच्यते पुमान् ।
वेद्यं जडं तमो ऽज्ञानं प्रधानादिकमुच्यते

2.3.3

वेदनं वेद्यसम्बन्धादेव वेत्त्रभिधीयते ।
यथा प्रकाश्यसम्बन्धात् प्रकाशो ऽपि प्रकाशकः

2.3.4

यथा वा ऽर्थोपरागेण भानमर्थस्य भासकम् ।
एवं वेद्योपरक्तस्यास्वांशस्याधारतां ऽशिनि

2.3.5

असङ्गायां चितौ वेद्योपरागो ऽयं न धीष्विव ।
किन्तु साक्षाद्द्वारतो वा चिति तत्प्रतिबिम्बनम्

2.3.6

बाह्यं वृत्त्याख्यकरणाभावादनुपरागतः ।
चितिर्नैवेक्षते चेत्यं विभुत्वे ऽपि च सर्वतः

2.3.7

तथा चिदपि वृत्त्याख्यकरणाभावतो ऽर्थवत् ।
स्वगोचरां वृत्तिमृते तिष्ठत्यज्ञातसत्तया

2.3.8

तदेवं चिन्निराकारा प्रकाशाकाशरूपिणी ।
तिष्ठत्यव्यक्तरूपा च मोक्षादौ वृत्त्यभावतः

2.3.9

बुद्धिवृत्तिस्तु साकारा परिच्छिन्ना च दीपवत् ।
व्यक्ता च सर्वदा तद्वदसङ्ख्या क्षणभङ्गुरा

2.3.10

जडा च परदृश्यत्वाद्घटदीपादिवन् मता ।
वृत्तेः प्रकाशता त्वर्थाकारत्वादक्षतैव हि

2.3.11

यथा ऽस्याकारतार्हत्वादादर्शस्तत्प्रकाशकः ।
सर्वाकारत्वयोग्यत्वात् सैवं सर्वप्रकाशिका

2.3.12

न पुनर्वृत्तिद्रष्टृत्वं चितस्तद्भिन्नद्रष्टृता ।
वृत्तेर्यतो गौरवं स्याद्द्वयोर्ज्ञातृत्वकल्पने

2.3.13

बुद्ध्यारूढं त्वन्यवस्तु तद्द्वारा प्रतिबिम्बितम् ।
पश्यत्यनुभवो नान्यो द्रष्टा बुद्ध्यादिको ऽखिलः

2.3.14

इत्येवं बुद्धिवृत्तिभ्यो वैलक्षण्यं चितीरितम् ।
चिदचित्त्वाख्यवैधर्म्यं देहादिभ्यः स्फुटन्त्विदम्

2.3.15

अन्योन्यप्रतिबिम्बेन सारूप्याद्वृतिबोधयोः ।
बोधव्यवहृतिर्वृत्तौ लोहे ऽग्निव्यवहारवत्

2.3.16

नैवाल्पबुद्ध्याशक्यो ऽयं विवेको वृत्तिबोधयोः ।
तार्किका यत्र सम्मूढाः साङ्ख्यानां श्रेष्ठता यतः

2.3.17

विज्ञानवादिनो बौद्धा वृत्तिबोधाविवेकतः ।
ज्ञातात्मत्वश्रुतौ मूढा मेनिरे क्षणिकां चितिम्

2.3.18

सत्त्वपुंसो विवेको ऽयं वृत्तितद्बोधरूपयोः ।
नाशक्यः सुधियां यद्वद्धंसानां क्षीरनीरयोः

2.3.19

एतदन्तश्च संसारो मोक्षास्तत्रैव संस्थितः ।
यद्वृत्तिभ्यो विवेकेन तद्बोधस्यावधारणम्

2.3.20

सर्वो ऽप्यनुभवं वेद न कश्चिदपि वेदताम् ।
विवेकमात्रमस्मिन् हि भासमाने ऽप्यपेक्षते

2.3.21

आत्मा विवेक्तुं बाह्यार्थे न शक्यो वृतिमिश्रणात् ।
अतो वृत्तौ विवेक्तव्यो वृत्तिबोधतयैव सः

2.3.22

यथा बुद्ध्या विवेकार्हो नाग्निरङ्गारमिश्रणात् ।
सो ऽङ्गारे तु विवेकार्हो काष्ठदग्धृतया स्फुटम्

2.3.23

अतएव श्रुतौ स्वप्ने दृश्यवृत्तिविवेकतः ।
स्वयंज्योतिःस्वरूपेण तस्या द्रष्टा प्रदर्शितः

2.3.24

साक्षात् प्रकाशो यो यस्य स तद्भिन्नो मतो बुधैः ।
घटादिभ्यो यथा ऽ; ऽलोक आलोकाच्चापि वृत्तयः

2.3.25

वृत्तेः साक्षात् प्रकाशत्वादतो ऽनुभवरूपकः ।
वृत्तिभ्यो भिन्न आत्मेति शीघ्रो मार्गः स्वदर्शने

2.3.26

एवमादिप्रकारेण बुद्धिसत्त्वप्रकाशतः ।
विलक्षणतया सिद्धश्चित्प्रकाशो ऽस्य भासकः

2.3.27

स्वप्नदेहादिदृष्टान्तैस्तस्माच्छ्रुत्यादिदर्शितैः ।
जाग्रद्देहेन्द्रियार्थेभ्यश्चितिर्भिन्नतया मता

2.3.28

स्वप्ने देहादिकं सर्वं चिद्भिन्नं चिति भासते ।
जाग्रत्येवं विशेषस्तु यद्बाह्यमपि भासते

2.3.29

स्वप्ने मनोमयत्वाच्च साक्षाच्चिद्विषयो ऽखिलम् ।
करणद्वारतो बाह्यं चितो जाग्रति गोचरः

2.3.30

सर्वं देहादिकं स्वप्नजाग्रतोरेकरूपतः ।
भाति चिद्व्योम्नि नात्रार्थबाह्यान्तर्भेदतो भिदा

2.3.31

चिद्व्योम्नि वासनातो धीः प्रमाणाद्वा ऽर्थरूपिणी ।
ततश्चितो ऽर्थभानं यत् तत् समं स्वप्नजाग्रतोः

2.3.32

तदिदं स्वानुभूत्यैव प्रोच्यते न परोक्षतः ।
स्वप्नदृष्टान्तसदृशो नोपायो ऽस्त्यात्मदर्शने

2.3.33

सुषुप्तौ हि यथा स्वप्ने स्वात्मन्येवेक्षते ऽखिलम् ।
आत्मानं चैकदेशस्थं मन्यते जागरे तथा

2.3.34

सुषुप्तिरात्मनस्तत्त्वं स्वरूपावस्थितेस्तदा ।
जाग्रत्स्वप्नौ मायिकौ तु मृषासारूप्यतो धिया

2.3.35

बुद्धेः सुषुप्तिस्तमसा ऽ; ऽवरणं तद्विलक्षणा ।
चितेः सुषुप्तिर्वृत्त्याख्यदृश्यावरणशून्यता

2.3.36

पूर्णः कूटस्थनित्यश्च स्वस्वधीमात्रवृत्तिदृक् ।
वृत्त्याख्यदृश्यविरहात् सर्वदा नेक्षते पुमान्

2.3.37

वृत्तिदेशे यथा बोधस्तथा सर्वत्र सर्वदा ।
वृथैव तप्यते मूढैर्व्ययनाशादिना ऽ; ऽत्मनः

2.3.38

दुःखभोगमहारोगनिदानं देहगेहिनी ।
बुद्धिर्न त्यज्यते मूढैर्महानिद्रासुखं यतः

2.3.39

अनादिबुद्धिगार्हस्थ्यं विवेकस्त्यज्यते न चेत् ।
न मोक्षो बाह्यसन्न्यासादिहामुत्रासुखं परम्

2.3.40

समचिन्मात्ररूपेषु स्वपरात्मसु सर्वदा ।
बुद्धिमात्रविवेकेन स्वपरादिभिदा मृषा

2.3.41

चिन्मात्रे निर्गुणे स्वामिन्यारोप्यैवात्मकर्तृताम् ।
स्वाम्यवज्ञापराधेन वध्यते धीः स्वकर्मभिः

2.3.42

साध्वी तु धीः पतिं दृष्ट्वा याथातथ्येन तत्परा ।
इहानन्दमयी चान्ते पतिदेहे लयं व्रजेत्

2.3.43

नाहं कर्ता सुखी दुःखी चिन्मात्राकाशरूपकः ।
एवं नाथं चिन्तयन्ती न पत्युर्दुःखभोगदा

मूल पाठ: Sāṃkhyasāra · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc