सांख्यपरिभाषा · अध्याय 6
इति अद्वैतभक्तिः ।
अथ विवेकज्ञाननिर्णयः ।
अक्रोधवैराग्यजितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वम् ।
निर्लोभदाता भवमुक्तिहेतुर्ज्ञानस्य चिह्नं दशलक्षणानि
कर्म अध्यात्मतत्त्वं च ब्रह्मज्ञानमतः परम् ।
इन्द्रं चत्वारि वाच्यार्थमात्मलक्षं सुखावहम्
कर्मज्ञानी भवेज्जीवः पुरुषो ऽध्यात्मसंज्ञकः ।
ईश्वरस्तत्त्ववेत्ता च सर्वं ब्रह्मेति ब्रह्मता
वर्णाश्रमं च धर्मं च होत्रादिकर्मतत्पराः ।
भजनं सर्वभूतेषु ज्ञानं च कर्मसज्ञितम्
वैराग्याध्यात्मशास्त्रं च यस्य माया विनिर्गता ।
जिज्ञासा मननाध्यासं ज्ञानमध्यात्मसंज्ञितम्
आलोक्य धर्मसांख्यादिधर्मकर्मक्रियाविधीः ।
तदर्थव्यतिरेकेण तत्त्वज्ञानं तदोच्यते
समाधिशब्दवाक्यार्थं ब्रह्माकारतया वृतिः ।
एकाकी निस्पृहः शान्तो ब्रह्मज्ञानं तदोच्यते
वाचो यस्मिन्निवर्तन्ते लिङ्गं गलितसर्वधीः ।
स्वयमेव स्वरूपस्थं स्वमिव स्वं विराजते
उक्ताचारविहीनस्य स्वबुद्धिर्वर्तते ऽखिलम् ।
द्रव्यादिविषयस्वार्थान्स जीवो नीचशब्दितः
सदाचाररतो नित्यं द्वन्द्वातीतश्च निस्पृहः ।
शुष्कञ्चाप्यशनं चैव पुरुषस्तस्य उच्यते
दण्डकाशायमात्रं च कामक्रोधविवर्जितः ।
भ्रमरीभुक्तसन्तोषमीश्वरस्तस्य उच्यते
दिग्वासं च स्वसंवेद्यमानन्दं स्वपरं न हि ।
पाणिपात्रे च यद्भुंक्ते स ब्रह्म राजते महीम्
देहान्तितं सदाकालं वर्णाश्रमविवर्जितम् ।
यत्कृतं तत्सदाचारमात्मारामो विराजते
इति
अथ धर्मशास्त्रे-
अनिष्टमिष्टमिश्रं च त्रिविधं कर्मणः फलम् ॥
पशुमिश्रस्तथा ज्ञानी सिद्धज्ञेयं च पञ्चकम् ।
एतैर्लक्षणसंयुक्तं वृत्तिभेदेन कथ्यते
उक्त्वा उक्त्वा च कार्येण द्रव्यं च साधयेत्ततः ।
शिश्नोदररताः स्वार्थं सत्पशोर्लक्षणं स्मृतम्
युगाचारेण वर्तन्ते संमतं वर्णमाश्रमम् ।
आत्मस्वार्थं न जानाति स मिश्रं लक्षणं स्मृतम्
वेदशास्त्रार्थसर्वज्ञो उक्ताचारश्च तत्परः ।
यथोक्त्वा च वदेद्वाक्यं स ज्ञानी लक्षणोच्यते
कार्यं च अन्यथाकर्तुं यद्वक्तुं तत्तु साधयेत् ।
सञ्चितार्थान्वदेत्प्राज्ञः स सिद्धिर्लक्षणोच्यते
कार्यकारणकर्तृत्वं विहाय विचरेन्महीम् ।
स्तुनादपी निकामी च आनन्दं ज्ञेयलक्षणम्
इति निर्वेदज्ञाननिर्णयः ।
देहवर्णाश्रया धर्मा कल्पनावेदनिर्मिताः ।
ता हि निर्मोकवत्त्याज्याः सो ऽहमेको निरञ्जनः
तस्माज्ज्ञानात्तु कैवल्यमित्यादिश्रुतेः ज्ञानाग्निदग्धकर्माणीति गीता ।
परोक्षं शास्त्रियज्ञानमपरोक्षं च शाश्वतम् ।
प्रथमं जन्मकर्माणि द्वितीयं सच्चिदात्मकम्
उत्पत्तिस्थितिसंहारभूतं भूतेषु युज्यते ।
आत्मा च तत्र साक्षी च जगद्द्रष्टा च सूर्यवत्
भूतादिव्यक्तिरूपं च अचरं चरमेव च ।
तदिन्द्रजालवत्पश्येद्यथा नु वीचिवज्जगत्
कल्पनाबद्धजन्तुश्च सदा जल्पति दोषवत् ।
वपुर्नृत्यति रथ्यायां यावत्पतति भूतले
जनो बालपिशाचत्वं किं लज्जायोगिवृन्दिनाम् ।
जल्पन्ति विविधा वाचो किमर्थं सुखदुःखयोः
अस्ति भाति प्रियं स्थिरमस्थिरं नाम रूपकम् ।
चत्वार ईषणा त्याज्याः सोहमेको निरञ्जनः
मातृकाध्वनिरूपा च वर्तते विश्वमायया ।
जानीहि तत्र तन्नादं व्यर्थो ऽर्थः प्रतिपद्यते
अमनस्तु सदा देहो यथा ग्रामो विना जनात् ।
ब्रह्माद्योपि न कर्त्तव्यः स पशुश्चात्मघातकः
उत्तमा च लये लीना ध्यानधारणमध्यमाः ।
अधमा प्रतिमापूजा गीतनृत्यं धमोधमः
स्नानं मनो मलत्यागः शौचमिन्द्रियनिग्रहः ।
अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः
स्थूलपेशिवत् प्रत्यक्षं लिङ्गं वन्ध्यं यथा स्त्रियः ।
मनसात्मैकरूपेण स्वयं ब्रह्म सनातनम्
श्रुतिस्मृत्यर्थपूर्णं च समाधेश्चित्तसौरभम् ।
यावद्देहाभिमानं च तावत्यो निष्फला क्रियाः
संसारकर्म आसक्तो ब्रह्माहमिति मन्यते ।
कर्मब्रह्मोभयभ्रष्टस्तं त्यजेदन्त्यजं यथा
समाधेर्विक्षेपो यस्य नानायुक्तिप्रकारकः ।
यावद्देहलयं नैतावन्तो मोहकारकाः
एकोसौ योगवासी च द्वयं ग्रामस्तथैव च ।
तृतीयं नगरं चैव मन्ये यद्वनवासिनाम्
वेदशास्त्रपुराणानि नानायुक्तिं च वल्गुना ।
व्यवसयात्मिका बुद्धिर्न तु साधनरूपका
आलोड्य चतुरो वेदान् सर्वशास्त्राणि सर्वदा ।
यो वै तत्त्वं न जानाति दर्वीपाकरसं यथा
शब्दब्रह्मणि निष्णातो स्नायात्स परमे यदि ।
श्रमस्तस्य श्रमफलं ह्यधेनुरिव रक्षकः
आकाशदर्पणे यस्मिन्यज्जगद्भासते ऽखिलम् ।
तत्सर्वं ब्रह्मरूपं च मायामयविचेष्टितम्
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः
नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ।
न मनो हन्त बुद्धिश्च नैव चित्तमहङ्कृतिः
नाहं मनुष्यो न च देव यक्षो न ब्राह्मणः क्षत्रियवैश्यशूद्रः ।
न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः
कार्यकारणचेष्टा च त्रिविधं कल्पनाकृतम् ।
मनोहङ्कारसंयुक्तं व्यर्थं च शब्दमालिका
शब्दे शब्दस्य ज्ञानार्थं योगी वदति निस्पृहः ।
यथा वाद्येषु नादश्च पारतन्त्र्येण वर्तते
योगी च सर्वकार्याणि वर्तते देहकर्मणि ।
कौमारं क्रीडनं चैव सर्वं मिथ्यैव कारणम्
यद्यावत्क्रियते जन्तुः स्वगृहे राजते पुमान् ।
यो यो यस्य यथा भावस्तत्ततेषां च सौख्यता
तत्कामोपचेष्टितम् सर्वं वृथा भवति आयतौ ।
न चास्य क्रिया काचिन्नेह नानास्ति कर्हिचित्
अहं चेष्ट इतो देहे सर्वकर्मसु चेष्टते ।
इति ज्ञानं विजानीयाद्यज्ज्ञानं स्मरणेन हि
तडागः पूर्णतो येन यद्दातुं बलं राजते ।
किंचिच्छिद्रेण आद्यं च मनसात्मोदकक्रियाः
बन्धं विहाय पूर्णानि कुर्वन्तु स्वस्थमानसम् ।
ये हि युक्तिं सदाभ्यासात्स वै ज्ञानोत्तमोत्तमः
देहादिसर्वकर्माणि ज्ञानाज्ञानेषु ज्ञायसे ।
सो ऽहं चिन्मात्ररूपेण जानीहि ब्रह्मलक्षणम्
अहं मूर्खमहं ज्ञाता यो धर्मः प्रतिपाद्यते ।
सो ऽहं चिन्मात्ररूपेण जानीहि ब्रह्मलक्षणम्
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि यस्मिन् दृष्टे परावरे
जगद्विलक्षणं ब्रह्म ब्रह्मणो ऽन्यन्न किञ्चन ।
ब्रह्मण्याभाति चिन्मिथ्या यथा मरुमरीचिका
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स सत्त्ववित्
न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः ।
असङ्गो ऽसि निराकारो विश्वसाक्षी सुखी भव
देहाभिमानगलिते विदिते च चिदात्मनि ।
यत्र यत्र मनो याति तत्र तत्र समाधयः
आत्मैकभावनिष्ठस्य या या चेष्टास्तदर्चनम् ।
यो यो जल्पः स संमन्त्रस्तद्ध्यानं च निरीक्षणम्
न संकल्पविकल्पस्य न लीनोपाधिवासनाः ।
निजस्वरूपे निर्मग्नः स योगी परतत्त्ववित्
देहादिसर्वेन्द्रियाणि सत्तामात्रेण चेष्टते ।
यथा दीपे प्रपंचस्य चुंबकं लोहमेव च
देहद्वयं तथा नाम वर्णाश्रमा च व्यर्थता ।
महीआकाशब्रह्माहमलमेतत्समाधिना
अव्यक्तस्य कथं ध्यानं व्यापकस्य विसर्जनम् ।
अमूर्तस्य कथं पूजा स्वयं ब्रह्म सनातनम्
फलस्य कारणं पुष्पं फले पुष्पं विनश्यति ।
ज्ञानस्य कारणं कर्म ज्ञाने कर्म विनश्यति
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
आत्मना पूरितं सर्व महाकल्पांबुना यथा
भूतादिव्यक्तिरूपं च अचरं चरमेव च ।
तदिन्द्रजालवत्पश्येद्यथाम्बुवीचिवज्जगत्
शब्दभागद्वयं कृत्वा व्यर्थो ज्ञानार्थयोगिनम् ।
कदाचिद्वक्तुं ज्ञानार्थं व्यर्थो वक्तुं न शक्यते
गर्वं नो वहते न निन्दन्ति परान्नो भाषते निष्ठुरं
प्रोक्तं केनचिदप्रियं च हसते क्रोधं च नालम्बते ।
श्रुत्वा काव्यमलक्षणं परकृतं सन्तिष्ठते मूकव-
द्दोषान्नाददते स्वयं न कुरुते चैतत्सतां लक्षणम्
बीजमध्ये यथा वृक्षं वृक्षमध्ये च बीजता ।
व्याप्यव्यापकसर्वात्मा स पृथक् नैव दृश्यते
एकात्मा सर्वभूतेषु बन्धमोक्षः कथं द्विधा ।
जन्मसंस्कारयोगेन भिन्नत्वं वर्त्तते सदा
प्रतिबिम्बयथोपाधिं दीर्घन्तिर्यक् च वर्त्तुलम् ।
तस्माद्विलक्षणो जीवः कथमेकं भविष्यति
यथा योनिस्तथाचारपूर्वकर्म्मानुसारतः ।
तत्तज्ज्ञानाधिकारेण द्विविधा बन्धमोक्षयोः
यथायमलमुत्पत्तिं प्रारब्धं विविधाकृतम् ।
तथैव सुखदुःखानि कथं भवति एकता
द्रव्यं न भक्षयेत्प्राज्ञः स्वद्रव्यं नैव पोषयेत् ।
सन्तुष्टः सर्वदा नित्यं स नरो ज्ञानवान्भवेत्
शरीरं नश्वरं सर्वं सम्बन्धः किन्तु शाश्वतः ।
वयसा सूत्रमार्गेण यथा स्थानेषु गच्छति
यथा परगृहे वासो मार्गस्थं कुरुते सदा ।
तथैव सुखदुःखेन न स्पृशेत् ज्ञानिनो नरः
नटी च नटनाट्यं च नानाक्रीडा च रञ्जनम् ।
अहं प्रत्ययजानाति तथैव ज्ञो सदा नरः
मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0