भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यपरिभाषा · अध्याय 7

7.1

इति ज्ञाननिर्णयः ।
अथ श्रोता उवाच ।
इदं किं दृश्यते केन कथं जातम् ?
तं होवाच-
प्रथम अनादिवस्तु चैतन्य आत्मा । तस्य स्फुरणं जातं स इममेवात्मानं द्विधा पातयेत्ततः ।
पतिश्च पत्नी चाभवतामिति बृहदारण्ये ।
तत्त्वमसीति यस्मिन् त्रिपदानि भवन्ति । तत् त्वं असि । ब्रह्माहमस्मीति सकलब्रह्मान्तं निश्वसितम् । अथ तत्सर्वं त्वमेव । इदमाश्चर्यम् । तर्हि चित्त एकाग्रम् अतिसूक्ष्मतरं कुरु । परमर्थमित्युक्तम् । आत्मा ऽयं गुरुरचलधर्मव्यापकत्वादिति । अथ-
अन्धः पङ्गुरसङ्गे च सङ्गात्कर्म प्रतिष्ठितम् ।
यत्र पङ्गुस्वतन्त्रत्वं तत्रान्धो निःफलो भवेत्

7.2

अन्धातीतं भवेत्पङ्गुरचलं च सनातनम् ।
सबाह्याभ्यन्तरं भूतं यथाकाशं च दृश्यते

7.3

किन्तु माया अन्धा अविवेकित्वात् । उभयोरेकीभूत्वा मिथ्या जीवेश्वरौ व्याजेनापि ब्रह्माण्डयोः । सृष्टिनिर्मिताः ।
तस्मान्मायापरित्यागेन स्वयमेव चिदाकाशे च वर्तते ।
तत्र प्रमाणं श्रुतिः । आकाश आत्मा खं ब्रह्म ।
अथ जीवेश्वरयोर्लक्षणम् । तत्र प्रमाणं श्रुतिः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । अथ वेदेति । कार्योपादिचैतन्यं जीवशब्दवाच्यम् । कारणोपाधिचैतन्यम् ईश्वरशब्दवाच्यम् ।
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।
कार्यकारणतां हित्वा पूर्णबोभो विधीयते

7.4

तत्र कार्यं नाम अहङ्कारादिसृष्टिव्यापारः कारणं नाम साक्षी ह्यन्तःस्फुरणम् । इति वेदान्ते ।
उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहे ऽस्मिन्पुरुषः परः

मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc