भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यपरिभाषा · अध्याय 1

1.1

सांख्यपरिभाषा ।
श्रीगणेशाय नमः ।
श्रीदक्षिणामूर्तिगुरुभ्यो नमः ।
स्वानुभवं यथामति व्याख्यास्यामः ।
ओं नमो नारायणाय प्रकृत्यै पुरुषाय च ।
वेदान्तसारगुह्याय साङ्ख्यतत्त्वस्वरूपिणे

1.2

योगिनां परहंसानां तत्त्वज्ञानार्थदर्शनम् ।
अन्येषां च न दातव्यं मायया मोहितं जगत्

1.3

शब्दश्रोता च व्याजेन निर्वाणार्थं च कथ्यते ।
यदा कश्चिन्महाभागस्तस्य विश्रान्तिकारकम् ॥
विभक्तिमत्र यो पश्येत्तस्य ज्ञानं च दूरतः

1.4

अथ गुरुः ।
गुरुयुक्त्या प्रसादेन ग्रन्थगर्भावलोकनम्

1.5

गुरुश्च द्विविधः प्रोक्तो वार्त्तिकाम्नाय एव च ।
वार्त्तिको भक्तिभावेन आम्नायो मूलकारिका

1.6

किन्तु -
ब्राह्मणस्त्रीशूद्रमुखोपास्या ये ते तु वार्त्तिकाः ।
संन्यासादिपारम्पर्येण स आम्नायः प्रकीर्तितः

1.7

आदौ शिवस्तथा विष्णुर्ब्रह्मा वसिष्ठ एव च ।
शक्तः पाराशरो व्यासः शुको गौडस्तथैव च ॥
गोविन्दपादपूज्येभ्यः शङ्करः शङ्करो परः ।
इयं परम्परा प्रोक्ता गुरोराम्नायसिद्धिदा

1.8

गुरुर्गायत्र्युपदेशो गुरुश्चोदरपोषकः ।
सद्गुरुर्मोक्षदाता च गुरोस्त्रिविधलक्षणम्

1.9

मन्त्राध्ययनं च व्याख्यानं कर्मतन्त्रानि चेटकाः ।
वैदिकी शिल्पविद्या च श्रीगुरोस्तस्य उच्यते

1.10

कार्यकारणतां हित्वा समाधिः पूर्णबोधकः ।
तारको मोक्षदाता च सद्गुरुस्तस्य उच्यते

1.11

अथ शिष्यः ।
रिक्तकामं मनो धृत्वा विश्वासं गुरुभक्तिदम् ।
आशामोक्षं विना नास्ति तच्छिष्यमुद्धरेद्गुरुः

1.12

भो भो स्वामिन् कृपासिन्धो प्रार्थयिष्यामि ते ऽधुना ।
तप्तसंसारदावाग्नौ मुक्तिं कुरु दयानिधे

1.13

विधिवदधीतवेदवेदाङ्गत्वेनापाततो ऽरिवलवेदार्था अस्मिन् । तथा च श्रुतिः -
समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपश्रित्य तमनुसरति ॥
तद्धि संप्रणिपातेन परिप्रश्नेन सेवया ॥
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः

1.14

ऽयज्ज्ञात्वा न पुनर्मोहःऽ; इति गीतासु ।
भुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज ॥
लोलुपः साधुसङ्गस्य अत्यन्तं सुखमश्नुते

मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc