भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यपरिभाषा · अध्याय 17

17.1

इति सांख्ययोगः ।
अथ देहलक्षणम्-
भोगरोगं तथा मलं निधनं क्षेत्रगामिता ।
प्रारब्धमनुवर्त्तन्ते यथा तद्वै विनिश्चितम्

17.2

पञ्चतन्मात्रभूतानि प्रत्यक्षमखिलं जगत् ।
प्रकृतिर्गुणकर्माणि वर्त्तन्ते चित्प्रकाशतः

17.3

मनोत्थाय यदा देहे तत्कर्म जीवसंज्ञकम् ।
देहेन मनमुत्थाय तत्कर्म देहसंज्ञितम्(?)

17.4

भक्ष्यभक्षकभावं च भूतं भूतेषु युज्यते ।
तदर्थं शृणु मे वत्स पञ्चभूतान्यनुक्रमात्

17.5

आपः पृथिवी भक्ष्यं च वायुरग्निश्च भक्षकः ।
तत्राकाशमावपनं सत्ता चिन्मात्रसंज्ञिता

17.6

क्षुत्पिपासाविसर्गं च देहे कर्माणि केवलम् ।
अन्यत्कार्याणि कर्माणि वेदसंज्ञा विधीयते

17.7

धैर्यं समरसश्चैव सर्वभक्षस्य निस्पृहः ।
अखण्डपञ्चभूतानि लक्षणैर्देह उच्यते

17.8

तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्वम् इन्द्रियाणां भोगसाधनता नाम रसपरीक्षा पञ्चभूतानां भोग्यं नाम स्थूलकृशादिद्रव्यगुणाः । यथा भवन्ति तथा । तत्र प्रमाणं श्रुतिः- ताभ्यः पुरुषमानयत्ता अब्रुवन्पुरुषं स्तुतेति पुरुषो वा वसु कृतं यथायतनं प्रविशामि क्षुत्पिपासे भवतेति श्रुतेः माताबालकन्यायेन तत्र गीतासु
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तम प्राहुः क्षेत्रज्ञ इति तद्विदः

मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc