भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यपरिभाषा · अध्याय 16

16.1

28 ॥ प्रपञ्चबुद्धिरहितम् ॥
एवन्तु साधयेत्प्राज्ञो न तु देहविडम्बनम् ।
देहाद्विलक्षणं आत्मा वृथा भ्रमन्ति मानवाः ॥
इति पातञ्जलहठयोगः ॥
अथ साङ्ख्यराजयोगः ।
विना साङ्ख्येन प्रत्यक्षं न भवेदात्मयोगिनाम्(?) ।
देहः कञ्चुकवत्त्याज्यः स्वस्वं खमिव राजते

16.2

यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सर्वे घूर्णिपराः प्रपञ्चविकलाः सांख्यात्परं नान्यथा

16.3

सांख्यं योगं समभ्यस्येत् पुरुषं पञ्चविंशतिः ।
इति श्रुतिर्वेदवाक्यं वेदान्तैः सद्भिरुच्यते

16.4

आकाशपूरकं सांख्यं योगः समीरपूरकः ।
देहाद्विलक्षणं आत्मा तस्मात्सांख्यं समभ्यसेत्

16.5

प्रलयः सर्वतद्वाचामात्मनो व्यतिरेकता(?) ।
स सांख्ययोगसंज्ञा च इतरं भ्रामिकं मतम्

16.6

सर्वाद्विलक्षणो ह्यात्मा एकमनेकरूपिणम् ।
एकमेवाद्वितीयं ब्रह्म अलं ततः परं भवेत् (?)

मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc