सांख्यपरिभाषा · अध्याय 15
इति कर्मपरः । परन्तु अनर्थकारी देहनाशकारी । तस्माज्ज्ञानाय साधयेत् ।
तत्र चक्रम् आधारं नाम देहम्
स्वाधिष्ठानं सात्त्विकमहङ्कारः
मणिपुरं बुद्धिः
अनाहतं सदाचारः
विशुद्धं गुहभक्तिः
आज्ञाचक्रे ज्ञाने सावधानता
सहस्रदलं तुर्या
त्रिकूटं गुणरहितम्
श्रीहठं मायारहितम्
गोहठमविद्यातिरस्कारः
भ्रुवोर्गुम्फा कामनाशून्यम्
ब्रह्मरन्ध्रं मनोलयः
सूलबन्धमिन्द्रियनिग्रहः
यानं विषयनिरासः
जालन्धरं स्वपररहितम्
टाली पदार्थवार्ताशून्यम्
लोली युक्ताहारः
धोती सर्वजले ऽप्यैक्यम्
लम्बिका स्तुतिनिन्दारहितम्
खेचरी अवकाशे दृष्टिः
भूचरी युग्ममात्रमवलोकनम्
महाकाष्ठा सर्वं ब्रह्मेति निश्चयः
उद्गानमनिकेतम्
लोपनं कार्यातीतम्
गाठनं देहदुःखसहनम्
अवकाशम देहातीतम्
इडापिङ्गलयोर्नाम
मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0