सांख्यपरिभाषा · अध्याय 13
तत्र हंसोपनिषदि- गुदमवष्टभ्याधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिःप्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहतमतिक्रम्य विशुद्धे प्राणान्निरुद्ध्य आज्ञामनु ब्रह्मरन्ध्रं ध्यायेत् । तत्र नादमनुभवति चिणिति प्रथमः 1 चिणिचिणि 2 घण्टा 3 शङ्ख 4 तन्त्री 5 ताल 6 वेणु 7 भेरि 8 मृदङ्ग 9 मेघ 10 नवमं त्याज्यं दशममभ्यसेत् । तस्मान्मनो विलीनं भवति । यस्य मनसि विष्टना मनसो ऽन्तरायं मनो न वेद यस्य मनः शरीरं यो मनोन्तरो यमयति ।
चक्रं सप्त त्रिकूटं च श्रीहठं गोहठं तथा ।
भ्रूवोर्गुम्फा ब्रह्मरन्ध्रं सूलो यानं जलन्धरम्
टाली लोली तथा धोती लम्बिकाशोधनं क्रमात् ।
खेचरी भूचरी चैव महाकाष्ठा तथैव च
उद्गानं लोपनं चैव गाठनं चावकाशकम् ।
इडापिङ्गलयोर्नामान्यष्टाविंशत्यनुक्रमात्
प्रणवं व्याहरन् जाप्यं सो ऽहं यामं मतान्तरे ।
अस्य कर्ता भवेज्जीवो देहभाजनसम्मतम् ।
साधनेन भवेत्सिद्धिरहं वृद्धो ऽभिजायते
अणिमादि भवेत्तेषां भूतं भविष्यं वर्तमानम् ।
वाचां सिद्धिर्मृतं मोक्षं देहसङ्गेन मानिता
यथा प्रेते क्षमा लिङ्गं तत्सकाशाच्च सौख्यता ।
तथा देहसमीरेण अहं ममेति मानिता
ब्रह्मरन्ध्रे गते प्राणे ह्यहं मोक्षो ऽपि जायते ।
यथा दध्नगृहस्वामी पलायन् सौख्यमानिता
पुनरहङ्कृतो वासो वासना जन्मदायिनी ।
तथा देहगतो मोक्षो बुद्धिरर्भकसंमता
तत्र गीता-
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरो पराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही
द्रष्टा दृश्यं यदा वर्त्ते देहे सङ्गेन मोक्षकः (?) ।
आत्मा देही कथं कृत्वा सर्वव्यापिविलक्षणः । 10 ॥
तस्मादुन्मीलद्योगी च विकलः कौलशिक्षया ।
समाभ्युत्थानमन्यानि देहसङ्गेन व्यर्थता
आत्मा प्रज्ञानमानन्दनित्यशुद्धनिरामयः ।
विचरेज्ज्ञाप्तिमात्रेण देहातीतं च सर्वदा
यावद्देहाभिमानं च यावत्सिद्धिः प्रवर्त्तते ।
तावज्जन्यानदानं च भवेत्कर्मानुसारतः
मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0