भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यपरिभाषा · अध्याय 12

12.1

अस्यार्थः । संहिता नाम स्वहितम् । कार्यकारणातीतं न तु कर्मचोदना । ब्राह्मणं नाम सर्वस्वं ब्रह्मैव न तु यागादि । आरण्यं नाम नभलक्ष्यं न तु आरण्यरोदनम् । छन्दो नाम ब्रह्मास्मीति स्मरणं न तु पिशाचवच्छलनम् । शिक्षा नाम शासनं मन आदिधारणा न तु पाठः निघण्टं नाम काठिन्यं वृत्तिसावधनता न तु देशान्तरम् । ज्योतिषं नाम विवेकत न तु गणकादिव्यापारः । सूत्रं नाम अभेदानुसन्धानं न तु कर्मप्रेरणा । निरुक्तं नाम संशयच्छेद्यं न तु वेदार्थप्रौढिः । सूत्रपाठं नाम ज्ञानदृष्टिः । न तु व्याकरणबलम् ।
एतज्ज्ञानं परं ज्ञानमन्यत्संसारपोषणम् ।
इति वेदोक्तकर्मयोगः । प्रमाणं वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुत इति श्रुतेः ॥
अथ पातञ्जलहठयोगः ।
अथ पातञ्जलयोगं कथयत्यङ्गानि वै क्रमात् ।
देहसाध्यं भवेन्मोक्षं तज्ज्ञानं साधनं शृणु

मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc