भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यपरिभाषा · अध्याय 14

14.1

तत्र निषेधार्थश्रुतिः-
न कर्मणा न प्रजया धनेन
त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां
विभ्राजते यद्यतयो विशन्ति ॥
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः इति श्रुतेः । आब्रह्मभुवनाल्लोकात् इति गीतासु ।
इष्टादर्शनदृश्यानां विरामो यत्र वा भवेत् ।
तस्माद्विलक्षणं ह्यात्मा ह्यपरोक्षे भवेत्स्वयम्

14.2

यावन्न ज्ञायते आत्मा कर्तृलाभलवं मुनिः ।
तावत्सर्वं भवेद्व्यर्थं यथा वन्ध्या विभूषिता

मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc