भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यपरिभाषा · अध्याय 11

11.1

इति वेदान्ते कर्मपरम् । ज्ञानादेव तु कैवल्यमित्यादिश्रुतेः ।
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
ज्ञानाग्निदग्धकर्माणि ।
उदराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
इति ज्ञानपरम् ।
अथ वेदोक्तकर्मयोगः ।
वर्णाश्रमं च धर्मं ह वेदादिविधिपूर्वकम् ।
तच्च साध्यमसाध्यं वा जन्मकर्मफलप्रदम्

11.2

ज्योतिष्टोमे भवेत्सर्गः श्रोता स्यादिति कर्मणि ।
निषेधविधिनिघ्नानि न भवन्मोक्षसिद्धिदम्

11.3

जपानुष्ठानयोर्द्वारा देवतानुग्रहो भवेत् ।
तत्सकाशाद्भवेत् सिद्धिश्चैतन्योपाधिवर्जिता

11.4

तत्र भूतपूजा । पार्थिवस्थावरादितीर्थयात्रा अग्निहोत्रज्वालामुखीयागादि । आपः गङ्गायाः नैमिषारण्यादिजलपूजा । तथा च-
संहिता ब्राह्मणारण्यं द्वन्द्वदीक्षा निघण्टकम् ।
ज्योतिषं च निरुक्तं च दशग्रन्थानि सूत्रकम्

11.5

एकया लिङ्गग्रन्थ्या च बद्ध्यते सकलं जगत् ।
दशग्रन्थ्या यदा बद्धो तस्य मुक्तिः कथं भवेत्

11.6

एवं पठति वेदानां हंकारं पिण्डपोषणम्(?) ।
एतेज्ज्ञानपरं ज्ञात्वा स मुक्तो नात्र संशयः

11.7

किन्तु-
संहिता कार्यच्छन्दं च दृश्यब्रह्मेति ब्राह्मणम् ।
नभमारण्यमाश्रित्य छन्दम्ब्रह्मास्मि वाक्यता(?)

11.8

मन आदिरोधनं शिक्षा निघण्टं वृतिधारणम् ।
विवेकं ज्योतिषं चैव ममेदं सूर्यमुच्यते

11.9

निरुक्तं संशयच्छेद्यं सूत्रपाठं च ज्ञानधीः ।
अन्नोपाधिश्च वेदाद्या यस्तं वेद स वेदवित्

मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc