सांख्यपरिभाषा · अध्याय 10
इति हस्तामले । सलिल एको इष्टाद्वैतो भवति । इति बृहदारण्ये । तथा बिम्बप्रतिबिम्बन्यायेन जीवेश्वरौ कल्पितौ । तज्जीवस्य मोक्षसाधनमाह कर्मपरं अहरहः सन्ध्यामुपासिता यावज्जीवमग्निहोत्रं जुहुयात् । ज्योतिष्टोमौ स्वर्गकामो यजेत् । ओंमिति ब्रह्म । ओमितीदओं सर्वम् । ओमित्यग्निहोत्रमनुजानाति ।
इति कर्म ।
अथ ज्ञानपरम् । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
प्रथममायाशबलसृष्ट्यादिपुत्रकलत्रद्रव्याद्विलक्षणः । द्वितीयं स्थूलसूक्ष्मादिशरीरस्य विलक्षणम् । तृतीयं केवलमोक्षसङ्कल्पः । यथा शुकनालकान्यायेन मिथ्यारज्जुसर्प्पे भ्रममाणे सति तस्य मोक्षसाधनमाह । तत्र जीवस्वरूपं लक्षणं दृष्टिसम्बन्धेन सूर्यप्रभया प्रतिभाति तद्वासना महद् हृदि ग्रन्थिः ।
इति जीवलक्षणम् ।
जीवस्य मोक्षकामाय त्रिवर्गं च पुरा कृतम् ।
कर्म पातञ्जलिं साङ्ख्यं तत्समासेन कथ्यते
पञ्चभूतात्मिका पूजा विधिरेष समाशृणु ।
त्रयं कर्म पूजायोग्यं वा यो पातञ्जले स्मृतः
द्वयं देहाभिमानेन एकं नाहं च सांख्यता ।
अहं नाहं द्वयं शब्दबन्धमोक्षं च कारकम्
तथा च श्रुतिः । अथातो धर्मजिज्ञासा । अथातो ब्रह्मजिज्ञासा । पूर्वपूर्वश्रुतियुक्त्यानुभवाभासानामुत्तरोत्तरश्रुतियुक्तानुभवाभासबोधदर्शनात् ।
सामान्यशास्त्रं स्यान्न्यूनं विशेषो बलवान्भवेत् ।
परेण पूर्वबाधो वा प्रायशो दृश्यतामिह
मूल पाठ: Sāṃkhyaparibhāṣā · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50, pp. 197-224) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0