भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (अन्य संस्करण) · श्लोक 41-60

41

चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।
तद्वद् विनाविशेषैस् तिष्ठति न निराश्रयं लिङ्गम्

42

पुरुषार्थहेतुकम् इदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर् विभुत्वयोगान् नटवद् व्यवतिष्ठते लिङ्गम्

43

सांसिद्धिकाश् च भावाः प्राकृतिका वैकृताश् च धर्माद्याः ।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश् च कललाद्याः

44

धर्मेण गमनम् ऊर्ध्वं गमनम् अधस्ताद् भवत्य् अधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययाद् इष्यते बन्धः

45

वैराग्यात् प्रकृतिलयः संसारो राजसाद् भवति रागात् ।
ऐश्वर्याद् अविघातो विपर्ययात् तद्विपर्यासः

46

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्देन तस्य भेदास् तु पञ्चाशत्

47

पञ्च विपर्ययभेदा भवन्त्य् अशक्तेश् च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिर् नवधाष्टधा सिद्धिः

48

भेदस् तमसो ऽष्टविधो मोहस्य च दशविधो महामोहः ।
तामिस्रो ऽष्टादशधा तथा भवत्य् अन्धतामिस्रः

49

एकादशेन्द्रियवधाः सह बुद्धिवधैर् अशक्तिर् उद्दिष्टा ।
सप्तदश वधा बुद्धेर् विपर्ययात् तुष्टिसिद्धीनाम्

50

आध्यात्मिक्यश् चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात् पञ्च नव च तुष्टयो ऽभिहिताः

51

ऊहः शब्दो ऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः ।
दानं च सिद्धयो ऽष्टौ सिद्धेः पूर्वो ऽङ्कुशस् त्रिविधः

52

न विना भावैर् लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः ।
लिङ्गाख्यो भावाख्यस् तस्माद् भवति द्विधा सर्गः

53

अष्टविकल्पो दैवस् तैर्यग्योनश् च पञ्चधा भवति ।
मानुष्यश् चैकविधः समासतो भौतिकः सर्गः

54

ऊर्ध्वं सत्त्वविशालस् तमोविशालश् च मूलतः सर्गः ।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः

55

अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याविनिवृत्तेस् तस्माद् दुःखं समासेन

56

इत्य् एष प्रकृतिकृतो महदादिविषयभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः

57

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिर् अज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य

58

औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वद् अव्यक्तम्

59

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः

60

नानाविधैर् उपायैर् उपकारिण्य् अनुपकारिणः पुंसः ।
गुणवत्य् अगुणस्य सतस् तस्यार्थम् अपार्थकं चरति

मूल पाठ: Sāṃkhyakārikā · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc