भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यकारिका (अन्य संस्करण) · श्लोक 61-73

61

प्रकृतेः सुकुमारतरं न किञ्चिद् अस्तीति मे मतिर् भवति ।
या दृष्टास्मीति पुनर् न दर्शनम् उपैति पुरुषस्य

62

तस्मान् न बध्यते नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः

63

रूपैः सप्तभिर् एवं बध्नात्य् आत्मानम् आत्मना प्रकृतिः ।
सैव च पुरुषस्यार्थं प्रति विमोचयत्य् एकरूपेण

64

एवं तत्त्वाभ्यासान् नास्मि न मे नाहम् इत्य् अपरिशेषम् ।
अविपर्ययाद् विशुद्धं केवलम् उत्पद्यते ज्ञानम्

65

तेन निवृत्तप्रसवाम् अर्थवशात् सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवद् अवस्थितः स्वस्थः

67

सम्यग्ज्ञानाधिगमाद् धर्मादीनाम् अकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच् चक्रभ्रमवद् धृतशरीरः

68

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
ऐकान्तिकम् आत्यन्तिकम् उभयं कैवल्यम् आप्नोति

69

पुरुषार्थज्ञानम् इदं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश् चिन्त्यन्ते यत्र भूतानाम्

70

एतत् पवित्र्यम् अग्र्यं मुनिर् आसुरये ऽनुकम्पया प्रददौ ।
आसुरिर् अपि पञ्चशिखाय तेन च बहुलीकृतं तन्त्रम्

71

शिष्यपरम्परयागतम् ईश्वरकृष्णेन चैतद् आर्याभिः ।
सङ्क्षिप्तम् आर्यमतिना सम्यग् विज्ञाय सिद्धान्तम्

72

सप्तत्यां किल यो ऽर्थास् ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश् चेति

73

तस्मात् समासदृष्टं शास्त्रम् इदं नार्थतश् च परिहीनम् ।
तन्त्रस्य च बृहन्मूर्तेर् दर्पणसङ्क्रान्तम् इव बिम्बम्

मूल पाठ: Sāṃkhyakārikā · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc