सांख्यकारिका (अन्य संस्करण) · श्लोक 1-20
दुःखत्रयाभिघाताज् जिज्ञासा तदभिघातके हेतौ ।
दृष्टे सापार्था चेन् नैकान्तात्यन्ततो ऽभावात्
दृष्टवद् आनुश्रविकः स ह्य् अविशुद्धः क्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात्
मूलप्रकृतिर् अविकृतिर् महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस् तु विकारो न प्रकृतिर् न विकृतिः पुरुषः
दृष्टम् अनुमानम् आप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणम् इष्टं प्रमेयसिद्धिः प्रमाणाद् धि
प्रतिविषयाध्यवसायो दृष्टं त्रिविधम् अनुमानम् आख्यातम् ।
तल् लिङ्गलिङ्गिपूर्वकम् आप्तश्रुतिर् आप्तवचनं तु
सामान्यतस् तु दृष्टाद् अतीन्द्रियाणां प्रतीतिर् अनुमानात् ।
तस्माद् अपि चासिद्धं परोक्षम् आप्तागमात् साध्यम्
अतिदूरात् सामीप्याद् इन्द्रियघातान् मनोऽनवस्थानात् ।
सौक्ष्म्याद् व्यवधानाद् अभिभवात् समानाभिहाराच् च
सौक्ष्म्यात् तदनुपलब्धिर् नाभावात् कार्यतस् तदुपलब्धिः ।
महदादि तच् च कार्यं प्रकृतिविरूपं सरूपं च
असदकरणाद् उपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच् च सत् कार्यम्
हेतुमद् अनित्यम् अव्यापि सक्रियम् अनेकम् आश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतम् अव्यक्तम्
त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतन प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस् तथा च पुमान्
प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्यो ऽन्याभिभवाश्रयजननमिथुनवृत्तयश् च गुणाः
सत्त्वं लघु प्रकाशकम् इष्टम् उपष्टम्भकं चलं च रजः ।
गुरु वरणकम् एव तमः प्रदीपवच् चार्थतो वृत्तिः
अविवेक्यादिः सिद्धस् त्रैगुण्यात् तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात् कार्यस्याव्यक्तम् अपि सिद्धम्
भेदानां परिमाणात् समन्वयाच् छक्तितः प्रवृत्तेश् च ।
कारणकार्यविभागाद् अविभागाद् वैश्वरूप्यस्य
कारणम् अस्त्य् अव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच् च ।
परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात्
सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययाद् अधिष्ठानात् ।
पुरुषो ऽस्ति भोक्तृभावात् कैवल्यार्थप्रवृत्तेश् च
जन्ममरणकरणानां प्रतिनियमाद् अयुगपत्प्रवृत्तेश् च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच् चैव
तस्माच् च विपर्यासात् सिद्धं साक्षित्वम् अस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वम् अकर्तृभावश् च
तस्मात् तत्संयोगाद् अचेतनं चेतनावद् इव लिङ्गम् ।
गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्य् उदासीनः
मूल पाठ: Sāṃkhyakārikā · Edition: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) · Data entry members of the Young Buddhist Association, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0