भाषा

ENहिગુ
ग्रंथ पाठ

सांख्यसूत्र · अध्याय 5

5.1

(अष्टैश्वर्याणामपि मुक्तिसाम्याभावः)
परमतनिर्जयः
मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति

5.2

(मङ्गलाचरणप्रयोजनं)
नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः

5.3

(ईश्वरस्य फलदातृत्वाभवः)
स्वोपकारादधिष्ठानं लोकवत्

5.4

(ईश्वरस्य फलदातृत्वाभवः)
लौकिकेश्वरवदितरथा

5.5

(ईश्वरस्य फलदातृत्वाभवः)
पारिभाषिको वा

5.6

(ईश्वरस्य फलदातृत्वाभवः)
न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात्

5.7

(ईश्वरस्य फलदातृत्वाभवः)
तद्योगे ऽपि न नित्यमुक्तः

5.8

(ईश्वरस्य फलदातृत्वाभवः)
प्रधानशक्तियोगाच्चेत् सङ्गापत्तिः

5.9

(ईश्वरस्य फलदातृवाभवः)
सत्तामात्राच्चेत्सर्वैश्वर्यं

5.10

(ईश्वरस्य फलदातृत्वाभवः)
प्रमाणाभावान्न तत्सिद्धिः

5.11

(ईश्वरे प्रमाणाभावः)
सम्बन्धाभावान्नानुमानं

5.12

(ईश्वरे प्रमाणाभावः)
श्रुतिरपि प्रधानकार्यत्वस्य

5.13

(ईश्वरे प्रमाणाभावः)
नाविद्याशक्तियोगो निस्सङ्गस्य

5.14

(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
तद्योगे तत्सिद्धावन्योन्याश्रयत्वं

5.15

(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
न बीजाङ्कुरवत् सादिसंसारश्रुतेः

5.16

(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
विद्यातो ऽन्यत्वे ब्रह्मबाधप्रसङ्गः

5.17

(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
अबाधे नैष्फल्यं

5.18

(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
विद्याबाध्यत्वे जगतो ऽप्येवं

5.19

(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
तद्रूपत्वे सादित्वं

5.20

(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
न धर्मापलापः प्रकृतिकार्यवैचित्र्यात्

5.21

(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
श्रुतिलिङ्गादिभिः तत्सिद्धिः

5.22

(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
न नियमः प्रमाणान्तरावकाशात्

5.23

(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
उभयत्राप्येवं

5.24

(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
अर्थात् सिद्धिश्चेत्समानमुभयोः

5.25

(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
अन्तः करणधर्मत्वं धर्मादीनां

5.26

(धर्माधर्मयोः अन्तः करणधर्मत्वं)
गुणादीनां च नात्यन्तबाधः

5.27

(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता)
पञ्चावयवयोगात् सुखसंवित्तिः

5.28

(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता)
न सकृद्ग्रहणात्सम्बन्ध सिद्धिः

5.29

(व्याप्तिस्वरूपं तत्साधनं च), पू
नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः

5.30

(व्याप्तिस्वरूपं तत्साधनं च), सि
न तत्वान्तरं वस्तुकल्पनाप्रसक्तेः

5.31

(परोक्तव्याप्तिस्वरूपादिखण्डनं)
निजशक्त्युद्भवमित्याचार्याः

5.32

(परोक्तव्याप्तिस्वरूपादिखण्डनं)
आधेयशक्तियोग इति पञ्चशिखः

5.33

(परोक्तव्याप्तिस्वरूपादिखण्डनं)
न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः

5.34

(परोक्तव्याप्तिस्वरूपादिखण्डनं)
विशेषेणानर्थक्य प्रसक्तेः

5.35

(परोक्तव्याप्तिस्वरूपादिखण्डनं)
पल्लवादिष्वनुपपत्तेश्च

5.36

(परोक्तव्याप्तिस्वरूपादिखण्डनं)
आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात्

5.37

(परोक्तव्याप्तिस्वरूपादिखण्डनं)
वाच्यवाचक भावः सम्बन्धः शब्दार्थयोः

5.38

(शब्दप्रामाण्यसाधनं)
त्रिभिस्साम्बन्धसिद्धिः

5.39

(लोकवेदयोः शक्तिग्रहणोपायाः)
न कार्ये नियमः उभयथा दर्शनात्

5.40

(लोकवेदयोः शक्तिग्रहणोपायाः)
लोके व्युत्पन्नस्य वेदार्थप्रतीतिः

5.41

(लोकवेदयोः शक्तिग्रहणोपायाः)
न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याप्यतीन्द्रियत्वात्

5.42

(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), पू
न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात्

5.43

(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), सि
निजशक्तिः व्युत्पत्त्या व्यवच्छिद्यते

5.44

(वैदिकशब्दशक्तिग्रहव्यवस्था)
योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः

5.45

(वैदिकशब्दशक्तिग्रहव्यवस्था)
न नित्यत्वं वेदानां कार्यत्वश्रुतेः

5.46

(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात्

5.47

(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
मुक्तामुक्तयोरयोग्यत्वात्

5.48

(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत्

5.49

(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः

5.50

(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
यस्मिन् अदृष्टे ऽपि कृतबुद्धिरुपजायते तत्पौरुषेयं

5.51

(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यं

5.52

(वेदानां स्वतः प्रामाण्यं)
नासतः ख्यानं नृशृङ्गवत्

5.53

(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
न सतो बाधदर्नात्

5.54

(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
नानिर्वचनीयस्य तदभावात्

5.55

(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
नान्यथाख्यातिः स्ववचोव्याघातात्

5.56

(अन्यथाख्यातिनिरासः)
सदसत्ख्यातिः बाधाबाधात्

5.57

(सदसत्ख्याति निरासः)
प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः

5.58

(स्फोटनिरासः)
न शब्दनित्यत्वं कार्यताप्रतीतेः

5.59

(वर्णनित्यत्वनिरासः)
पूर्वसिद्ध सत्त्वस्याभिव्यक्तिः दीपेनेव घटस्य

5.60

(वर्णनित्यत्वनिरासः), पू
सत्कार्यसिद्धान्तश्चेत् सिद्धसाधनं

5.61

(वर्णनित्यत्वनिरासः), सि
नाद्वैतमात्मनो लिङ्गात् तद्भेदप्रतीतेः

5.62

(आत्माद्वैत निरासः)
नानात्मापि प्रत्यक्षबाधात्

5.63

(आत्माद्वैत निरासः)
नोभाभ्यां तेनैव

5.64

(आत्माद्वैत निरासः)
अन्यपरत्वमविवेकानां तत्र

5.65

(आत्माद्वैतनिरासः)
नात्माविद्या नोभयं जगदुपादानकारणं निस्सङ्गत्वात्

5.66

(आत्माद्वैतनिरासः)
नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात्

5.67

(आत्माद्वैतनिरासः)
दुःखनिवृत्तेर्गौणः

5.68

(आत्माद्वैतनिरासः)
विमुक्तिप्रशंसा मन्दानां

5.69

(आत्माद्वैतनिरासः)
न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा वास्यादिवच्चक्षुरादिवच्च

5.70

(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
सक्रियत्वात् गतिश्रुतेः

5.71

(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
न निर्भागत्वं तद्योगात् घटवत्

5.72

(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
प्रकृतिपुरुषयोरन्यत्सर्वमनित्यं

5.73

(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)
न भागलाभो भागिनो निर्भागत्वश्रुतेः

5.74

(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)
नानन्दाभिव्यक्तिर्मुक्तिः निर्धर्मत्वात्

5.75

(मुक्तेः आनन्दाभिव्यक्तिरूपत्वाभावः)
न विशेषगुणोच्छित्तिस्तद्वत्

5.76

(मुक्तेः विशेषगुणोच्छेदस्वरूपत्वाभावः)
न विशेषगतिः निष्क्रियस्य

5.77

(मुक्तेः लोकान्तरगतिरूपत्वाभावः)
नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात्

5.78

(मुक्तेः उपरागनाश, सर्वोच्छित्तिरूपत्वाभावः)
न सर्वोच्छित्तिरपुरुषार्थत्वादिदेषात्

5.79

(मुक्तेः शून्यादिरूपत्वानुपपत्तिः)
एवं शून्यमपि

5.80

(मुक्तेः शून्यादिरूपत्वानुपपत्तिः)
संयोगाश्च विभागान्ता इति न देशादिलाभो ऽपि

5.81

(मुक्तेः स्वाम्यविशेषादिरूपत्वाभावः)
न भागियोगो भागस्य

5.82

(मुक्तेः लयरूपत्वाभावः)
नाणिमादियोगो ऽप्यवश्यंभावित्वात् तदुच्छित्तेरितरयोगवत्

5.83

(मुक्तेः ऐश्वर्य पदवीविशेषादिरूपत्वाभावः)
नेन्द्रादिपदयोगो ऽपि तद्वत्

5.84

(मुक्तेः ऐशेवर्य पदवीविशेषादिरूपत्वाभावः)
न भूतप्रकृतिकत्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः

5.85

(इन्द्रियाणां भूतप्रकृतिकत्वनिरासः)
न षट् पदार्थनियमस्तद्बोधान्मुक्तिः

5.86

(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)
षोडशादिष्वप्येवं

5.87

(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)
नाणुनित्यता तत्कार्यत्वश्रुतेः

5.88

(अणूनां नित्यत्वनिरासः)
न निर्भागत्वं कार्यत्वात्

5.89

(अणूनां नित्यत्वनिरासः)
न रूपनिबन्धनात् प्रत्यक्षनियमः

5.90

(परिमाणस्वरूपादि निर्णयः)
न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात्

5.91

(सामान्यसाधनं, तत्स्वरूपं च)
अनित्यत्वे ऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य

5.92

(सामान्यसाधनं, तत्स्वरूपं च)
न तदपलापस्तस्मात्

5.93

(सामान्यसाधनं, तत्स्वरूपं च)
नान्यनिवृत्तिरूपत्वं भावप्रतीतेः

5.94

(साहश्यस्य तत्त्वान्तरता निराकरणं)
न तत्त्वान्तरं सादृश्य प्रत्यक्षोपलब्धेः

5.95

(सादृश्यस्य तत्त्वान्तरता निराकरणं)
निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः

5.96

(सादृश्यस्य तत्त्वान्तरता निराकरणं)
न संज्ञासंज्ञि सम्बन्धो ऽपि

5.97

(सादृश्यस्य तत्त्वान्तरता निराकरणं)
न सम्बन्धनित्यतोभयानित्यत्वात्

5.98

(सादृश्यस्य तत्त्वान्तरता निराकरणं)
नाजः सम्बन्धः धर्मिग्राहकप्रमाणबाधात्

5.99

(सादृश्यस्य तत्त्वान्तरता निराकरणं)
न समवायो ऽस्ति प्रमाणाभावात्

5.100

(समवाय निरासः)
उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा

5.101

(समवायनिरासः)
नानुमेयत्वमेव क्रियायाः नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः

5.102

(क्रियायाः अनुमेयतानैयत्यनिरासः)
न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात्

5.103

(शरीरस्य पाञ्चभौतिकत्वनिरासः)
न स्थूलमिति नियमः आतिवाहिकस्यापि विद्यामानत्वात्

5.104

(शरीरसामान्यस्य स्थूलत्वनिरासः)
नाप्राप्तप्रकाशकत्वमिन्द्रियाणां अप्राप्तेः सर्वप्राप्तेर्वा

5.105

(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
न तेजो ऽपसर्पणात् तैजस चक्षुः वृत्तितस्तत्सिद्धेः

5.106

(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
प्राप्तर्थप्रकाशलिङ्गात् वृत्तिसिद्धिः

5.107

(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
भागगुणाभ्यां तत्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति

5.108

(वृत्तेः स्वरूपं)
न द्रव्यनियमस्तद्योगात्

5.109

(वृत्तेः स्वरूपं)
न देशभेदे ऽप्यन्योपादानतास्मदादिवन्नियमः

5.110

(इन्द्रियाणां अभौतिकत्वं)
निमित्तव्यपदेशात् तदव्यपदेशः

5.111

(इन्द्रियाणां अभौतिकत्वं)
ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्काल्पिक सांसिद्धिकं चेति न नियमः

5.112

(स्थूलशरीरविशेषाः)
सर्वेषु पृथिव्युपादानं असाधारण्यात् तद्व्यपदेशः पूर्ववत्

5.113

(स्थूलशरीरविशेषाः)
न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः

5.114

(प्रणस्य देहारम्भकत्वाभावः)
भोक्तुराधिष्ठानात् भोगायतननिर्माणं अन्यथा पूतिभावप्रसङ्गात्

5.115

(देहाधिष्ठातृ निर्णयः)
भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्त्यात्

5.116

(देहाधिष्ठातृ निर्णयः)
समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता

5.117

(आत्मनो नित्यमुक्तत्वोपपादनं)
द्वयोः सबीजमन्यत्र तद्धतिः

5.118

(सुषुप्तिसमाधिभ्यां मोक्षे विशेषः)
द्वयोरिव त्रयस्यापि दृष्टत्वात् न तु द्वौ

5.119

(मोक्षे प्रमाणं)
वासनया न स्वार्थख्यापनं दोषयोगे ऽपि न निमित्तस्य प्रधानबाधकत्वं

5.120

(सुषुप्तौ आत्मनः ब्रह्मरूपत्व साधनं)
एकः संस्कारः क्रियानिर्वर्तकः न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः

5.121

(जीवन्मुक्ते ऽपि संस्कारानुवृत्तिः)
न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरूधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत्

5.122

(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
स्मृतेश्च

5.123

(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः

5.124

(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
त्रिधात्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः

5.125

(देहेषु चातुर्विध्यं)
न किञ्चिदप्यनुशयिनः

5.126

(देहेषु चातुर्विध्यं)
न बुद्ध्यादिनित्यत्वं आश्रयाविशेषे ऽपि वह्निवत्

5.127

(बुद्धीच्छादीनां नित्यतानिरासः)
आश्रयासिद्धेश्च

5.128

(बुद्धीच्छादीनां नित्यतानिरासः)
योगसिद्धयो ऽप्यौषधादिसिद्विवन्नापलापनीयाः

5.129

(सिद्धीनां सत्यता)
न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्ये ऽपि च सांहत्ये ऽपि च

मूल पाठ: Sāṃkhyasūtra including the Tattvasamāsa, an abstract of Sāṃkhya philosophy (appended at the end) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc